संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १२९ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १२९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १२९ Translation - भाषांतर ॥ सूत उवाच ॥तथान्योऽपि च तत्रास्ति याज्ञवल्क्यसमुद्रवः ॥आश्रमो लोक विख्यातो मूर्खाणामपि सिद्धिदः ॥१॥यत्र तप्त्वा तपस्तीव्रं याज्ञवल्क्येन धीमता ॥संप्राप्ता निखिला वेदा गुरुणाऽपहृताश्च ये ॥२॥ ॥ ऋषय ऊचुः ॥कोऽसौ गुरुरभूत्तस्य याज्ञवल्क्यस्य धीमतः ॥पाठयित्वा पुनर्येन हृता वेदा महात्मना ॥३॥किमर्थं च समाचक्ष्व सूतपुत्रात्र विस्तरात् ॥कौतुकं परमं जातं सर्वेषां नो द्विजन्मनाम् ॥४॥ ॥ सूत उवाच ॥आसीद्ब्राह्मणशार्दूलः शाकल्य इति विश्रुतः ॥भार्गवान्वयसंभूतो वेद वेदांगपारगः ॥५॥बृहत्कल्पे पुरा विप्रा वर्धमाने पुरोत्तमे ॥बहुशिष्यसमायुक्तो वेदाध्ययनतत्परः ॥६॥स सदा प्रातरुत्थाय विद्यादानं प्रयच्छति ॥शिष्येभ्यश्चानुरूपेभ्यः प्रसादाद्विजसत्तमाः ॥७॥चकार स तदा विप्राः पौरोहित्यं महीपतेः ॥सूर्यवंशप्रसूतस्य सुप्रियस्य महात्मनः ॥८॥स तस्य धर्मकृत्यानि सर्वाण्येव दिनेदिने ॥कृत्वा स्वगृहमभ्येति पूजितस्तेन भूभुजा ॥९॥एकं शिष्यं समारोप्य शांत्यर्थं तस्य भूपतेः ॥कथयित्वा प्रमाणं च विधानं होमसंभवम् ॥१०॥शिष्योऽपि सकलं कृत्वा तत्कर्म सुसमाहितः ॥आशीर्वादं प्रदत्त्वा च भूपतेर्गृहमेति च ॥११॥एवं प्रकुर्वतस्तस्य शाकल्यस्य महात्मनः ॥पौरोहित्यं गतः कालः कियन्मात्रो द्विजोत्तमाः ॥१२॥तदा वैवाहिके काले शप्तो यः शंभुना स्वयम् ॥सुनिंद्यां विकृतिं दृष्ट्वा तस्य वेद्यां गतस्य च ॥१३॥अथ तं योजयामास शांत्यर्थं नृपमंदिरे ॥याज्ञवल्क्यं स शाकल्यः प्रतिपद्यागतं तदा ॥१४॥सोऽपि तारुण्यगर्वेण वेश्याकरजविक्षतः ॥सर्वांगेषु सुनिर्लज्जः प्रकटांगो जगाम वै ॥१५॥ततश्च शांतिकं कृत्वा जपांते भूपतिं च तम् ॥शांतोदकप्रदानाय हस्यमानो जनैर्ययौ ॥१६॥पार्थिवोऽपि च तं दृष्ट्वा तादृग्रूपं विटं द्विजम् ॥नाशीर्जग्राह तेनोक्तां वाक्यमेतदुवाच ह ॥१७॥उच्छिष्टोऽहं द्विजश्रेष्ठ शय्यारूढो व्यवस्थितः ॥अत्र शालोद्भवे स्तंभे तस्मादेतज्जलं क्षिप ॥१८॥सोऽपि सावज्ञमाज्ञाय तं भूपं कुपिताननः ॥तं च स्तंभं समुद्दिश्य ध्यात्वा तद्ब्रह्म शाश्वतम् ॥१९॥द्यां त्वमालिख्य इत्येव प्रोक्त्वा मंत्रं च याजुषम् ॥प्राक्षिपच्छांतिकं तोयं तस्य मूर्धनि सत्वरम् ॥२०॥ततः स पतिते तोये स्तंभः पल्लवशोभितः ॥तत्क्षणादेव संजज्ञे फल पुष्पैर्विराजितः ॥२१॥तं दृष्ट्वा पार्थिवः सोऽथ विस्मयोत्फुल्ललोचनः ॥पश्चात्तापं विधायाथ वाक्यमेतदुवाच ह ॥२२॥अभिषेकं द्विजश्रेष्ठ ममापि त्वं प्रयच्छ भोः ॥अनेनैव तु मन्त्रेण शुचित्वं मे व्यवस्थितम् ॥२३॥ ॥ याज्ञवल्क्य उवाच ॥ममाभिषेकदानस्य त्वमनर्होऽसि पार्थिव ॥तस्माद्यास्याम्यहं सद्यो यत्रस्थः स गुरुर्मम ॥२४॥ ॥ राजोवाच ॥तव दास्यामि वस्त्राणि वाहनानि वसूनि च ॥तस्माद्यच्छाभिषेकं मे मन्त्रेणाऽनेन सांप्रतम् ॥२५॥ ॥ याज्ञवल्क्य उवाच ॥न होमांतं विना मन्त्रः स्फुरते पार्थिवोत्तम ॥अभिषेकविधौ प्रोक्तो यः पूर्वं पद्मयोनिना ॥तस्मान्नाहं करिष्यामि तव यद्वै हृदि स्थितम् ॥२६॥इत्युक्त्वा वचनं भूपं याज्ञवल्क्यः स वै द्विजः ॥जगाम स्वगृहं तूर्णं निस्पृहत्वं समाश्रितः ॥२७॥अपरेऽह्नि समायातं शाकल्यमथ भूपतिः ॥प्रोवाच प्रांजलिर्भूत्वा विनयावनतः स्थितः ॥२८॥यस्त्वया प्रेषितः कल्य शिष्यो ब्राह्मणसत्तमः ॥शांत्यर्थं प्रेषणीयश्च भूयोऽप्येवं गृहे मम ॥२९॥बाढमित्येव स प्रोक्त्वा ततो गत्वा निजालयम् ॥याज्ञवल्क्यं समाहूय ततः प्रोवाच सादरम् ॥३०॥अद्यापि त्वं नरेंद्रस्य शांत्यर्थं भवने व्रज ॥विशेषात्पार्थिवेंद्रेण समाहूतोऽसि पुत्रक ॥३१॥ ॥ याज्ञवल्क्य उवाच ॥नाहं तात गमिष्यामि शांत्यर्थं तस्य मंदिरे ॥अवलेपेन युक्तस्य शुद्ध्या विरहितस्य च ॥३२॥मया तस्याभिषेकार्थं सलिलं चोद्यतं च यत् ॥सलिलं तेन तत्काष्ठे समादिष्टं कुबुद्धिना ॥३३॥ततो मयापि तत्रैव तत्क्षणात्सलिलं च यत् ॥तस्मिन्काष्ठे परिक्षिप्तं नीतं वृद्धिं च तत्क्षणात् ॥३४॥ ॥ शाकल्य उवाच ॥अत एव विशेषेण समाहूतोऽसि पुत्रक ॥तस्मात्तत्र द्रुतं गच्छ नावज्ञेया महीभुजः ॥३५॥अपमानाद्भवेन्मानं पार्थिवानामसंशयम् ॥यः करोति पुनस्तत्र मानं न स भवेत्प्रियः ॥३६॥कोपप्रसाद वस्तूनि विचिन्वंतीह ये सदा ॥आरोहंति शनैर्भृत्या धुन्वंतमपि पार्थिवम् ॥३७॥समौ मानापमानौ च चित्तज्ञः कालवित्तथा ॥सर्वंसहः क्षमी विज्ञः स भवेद्राजवल्लभः ॥३८॥अपमानमनादृत्य तस्माद्गच्छ नृपालयम् ॥ममाज्ञापि न लंघ्या त एष धर्मः सनातनः ॥३९॥ ॥ याज्ञवल्क्य उवाच ॥आज्ञाभंगो ध्रुवं भावी परिपाटीव्यतिक्रमात् ॥करोषि यदि शिष्याणां ये त्वया तत्र योजिताः ॥४०॥तस्माद्यदि बलान्मां त्वं योजयिष्यसि तं प्रति ॥त्वां त्यक्त्वाऽन्यत्र यास्यामि यतः प्रोक्तं महर्षिभिः ॥४१॥गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ॥उत्पथे वर्तमानस्य परित्यागो विधीयते ॥४२॥ ॥ सूत उवाच ॥तस्य तद्वचनं श्रुत्वा शाकल्यः क्रोधमूर्छितः ॥ततः प्रोवाच तं भूयो भर्त्समानो मुहुर्मुहुः ॥४३॥एकमप्यक्षरं यत्र गुरुः शिष्ये निवेदयेत् ॥पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा ह्यनृणी भवेत् ॥४४॥तस्माद्गच्छ द्रुतं दत्त्वा मदध्ययनमालयम् ॥त्यक्त्वा विद्यां मया दत्तां नो चेच्छप्स्याम्यहं तव ॥४५॥एवमुक्त्वाभिमंत्र्याथ नादबिंदुसमुद्भवैः ॥मंत्रैराथर्वणैस्तोयं पानार्थं चार्पयत्ततः ॥४६॥सोऽपिबत्तत्क्षणात्तोयं तत्पीत्वा व्याकुलेंद्रियः ॥उद्गिरद्वांतिधर्मेण तत्त्वविद्याविमिश्रितम् ॥४७॥ततः प्रोवाच तं भूयः शाकल्यं कुपिताननः ॥एकमप्यक्षरं नास्ति तावकीयं ममोदरे ॥४८॥तस्माच्छिष्योऽस्मि ते नाहं न च मे त्वं गुरुः स्थितः ॥सांप्रतं स्वेच्छयाऽन्यत्र प्रयास्यामि करोषि किम् ॥४९॥एवमुक्त्वाऽथ निर्गत्य तस्मात्स्थानाच्चिरंतनात् ॥पप्रच्छ मानवान्भूयः सिद्धिक्षेत्राणि चासकृत् ॥५०॥ततस्तस्य समादिष्टं क्षेत्रमेतन्मनीषिभिः ॥सिद्धिदं सर्वजंतूनां न वृथा स्यात्कथंचन ॥५१॥आस्तां तावत्तपस्तप्त्वा व्रतं नियममेव वा ॥हाटकेश्वरजे क्षेत्रे सिद्धिः संवसतोऽपि च ॥५२॥येनयेन च भावेन तत्र क्षेत्रे वसेज्जनः ॥तस्यानुरूपिणी सिद्धिः शुभा स्याद्यदि वाऽशुभा ॥५३॥तच्छ्रुत्वा च द्रुतं प्राप्य क्षेत्रमेतद्द्विजोत्तमाः ॥भानुमाराधयामास स्थापयित्वा ततः परम् ॥५४॥नियतो नियताहारो ब्रह्मचर्यपरायणः ॥गायत्रं न्यासमासाद्य निर्विकल्पेन चेतसा ॥५५॥ततश्च भगवांस्तुष्टो वर्षांते तमुवाच सः ॥दर्शने तस्य संस्थित्वा तेजः संयम्य दारुणम् ॥५६॥याज्ञवल्क्य वरं ब्रूहि यत्ते मनसि रोचते ॥सर्वमेव प्रदास्यामि नादेयं विद्यते त्वयि ॥५७॥ ॥ याज्ञवल्क्य उवाच ॥यदि तुष्टः सुरश्रेष्ठ वेदाध्ययनसंभवे ॥गुरुर्भव ममाद्यैव ममैतद्वांछितं हृदि ॥५८॥ ॥ भास्कर उवाच ॥अहं तव कृपाविष्टस्तेजः संहृत्य तत्परम् ॥ततश्चात्र समायातस्तेन नो दह्यसे द्विज ॥५९॥तस्मादत्रैव कुंडे च मंत्रान्सारस्वताञ्छुभान् ॥वेदोक्तान्क्षेपयिष्यामि स्वयमेव द्विजोत्तम ॥६०॥तत्र स्नात्वा शुचिर्भूत्वा यत्किंचिद्वेदसंभवम् ॥पठिष्यसि सकृत्तत्ते कंठस्थं संभविष्यति ॥६१॥तत्त्वार्थं प्रकटं कृत्स्नं विदितं ते भविष्यति ॥मत्प्रसादान्न संदेहः सत्यमेतन्मयोदितम् ॥६२॥अद्यादि मानवः प्रातः स्नात्वा त्वत्र ह्रदे च यः ॥सावित्रेण च सूक्तेन मां दृष्ट्वा प्रपठिष्यति ॥तस्मै तत्स्यादसंदिग्धं यत्तवोक्तं मया द्विज ॥६३॥ ॥ याज्ञवल्क्य उवाच ॥एवं भवतु देवेश यत्त्वयोक्तं वचोऽखिलम् ॥परं मम वचोऽन्यच्च तच्छृणुष्व ब्रवीमि ते ॥६४॥नाहं मनुष्यधर्माणमुपाध्यायं कथंचन ॥करिष्यामि जगन्नाथ कृपां कुरु ममोपरि ॥६५॥ततस्तस्या ददौ सूर्यो लघिमा नाम शोभनाम् ॥विद्यां हि तत्प्रभावाय सुतुष्टेनांतरात्मना ॥६६॥ततस्तं प्राह कर्णांते ममाश्वानां प्रविश्य वै ॥अभ्यासं कुरु विद्यानां वेदाध्ययनमाचर ॥६७॥मन्मुखाद्ब्राह्मणश्रेष्ठ यद्येतत्तव वांछितम् ॥न ते स्याद्येन दोषोऽयं मम रश्मिसमुद्भवः ॥६८॥एवमुक्तः स तेनाथ वाजिकर्णं समाश्रितः ॥लघुर्भूत्वाऽपठद्वेदान्भास्करस्य मुखात्ततः ॥६९॥एवं सिद्धिं समापन्नो याज्ञवल्क्यो द्विजोत्तमाः ॥कृत्वोपनिषदं चारु वेदार्थैः सकलैर्युतम् ॥७०॥जनकाय नरेंद्राय व्याख्याय च ततः परम् ॥कात्यायनं सुतं प्राप्य वेदसूत्रस्य कारकम् ॥७१॥त्यक्त्वा कलेवरं तत्र ब्रह्मद्वारि विनिर्मिते ॥तत्तेजो ब्रह्मणो गात्रे योजयामास शक्तितः ॥७२॥तस्य तीर्थे नरः स्नात्वा दृष्ट्वा तं च दिवाकरम् ॥नादबिंदुं पठित्वा च तदग्रे मुक्तिमाप्नुयात् ॥७३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये याज्ञवल्क्याश्रममाहात्म्यवर्णनंनामैकोनत्रिंशदुत्तरशततमोऽध्यायः ॥१२९॥ N/A References : N/A Last Updated : December 29, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP