संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय ८ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय ८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ८ Translation - भाषांतर ॥ सूत उवाच ॥एवं स्वर्गमनुप्राप्ते त्रिशंकौ नृपसत्तमे ॥सशरीरे द्विजश्रेष्ठा विश्वामित्रसमुद्यमात् ॥१॥तत्तीर्थं ख्यातिमायातं समस्ते भुवनत्रये ॥ततःप्रसूति लोकानां धर्मकामार्थमोक्षदम् ॥२॥अस्पृष्टं कलिदोषेण तथान्यैरुपपातकैः ॥ब्रह्महत्यादिकैश्चैवत्रिपुरारेः प्रभावतः ॥३॥यस्तत्र त्यजति प्राणाञ्छ्रद्धा युक्तेन चेतसा ॥स मोक्षमाप्नुयान्मर्त्यो यद्यपि स्यात्सुपापकृत् ॥४॥कृमिपक्षिपतंगा ये पशवः पक्षिणो मृगाः ॥तेऽपि तत्र मृता यांति शिवलोकमसंशयम् ॥५॥स्नानं ये तत्र कुर्वंति श्रद्धापूतेन चेतसा ॥त्रिशंकुरिव ते स्वर्गे प्रयांत्यपि विधर्मिणः ॥६॥घर्मार्त्ता वा तृषार्ता वा येऽवगाहंति तज्जलम् ॥तेऽपि यांति परं स्थानं यत्र देवो महेश्वरः ॥७॥विश्वामित्रोऽपि तद्दृष्ट्वा तीर्थमाहात्म्यमुत्तमम् ॥कुरुक्षेत्रं परित्यज्य तत्र वासमथाकरोत् ॥८॥तथान्ये मुनयः शांतास्त्यक्त्वा तीर्थानि दूरतः ॥तत्राश्रमपदं कृत्वा प्रयाताः परमं पदम् ॥९॥तथैव मनुजाः सर्वे दूरादागत्य सत्वराः ॥तत्र स्नात्वा दिवं यांति कृत्वा पापशतान्यपि ॥१०॥एवं तस्य प्रभावेण तीर्थस्य द्विजसत्तमाः ॥गच्छमानेषु लोकेषु सुखेन त्रिदिवालयम् ॥११॥अग्निष्टोमादिका सर्वाः समुच्छेदं गताः क्रियाः ॥न कश्चिद्यजते मर्त्यो न व्रतं कुरुते नरः ॥१२॥न यच्छति तथा दानं न च तीर्थं निषेवते ॥केवलं कुरुते स्नानं लिंगभेदे समाहितः ॥१३॥ततः प्रगच्छति स्वर्गं विमानवरमाश्रितः ॥१४॥ततः प्रपूरिताः सर्वे स्वर्गलोका नरैर्द्विजाः ॥ब्रह्मविष्णुशिवेन्द्रादीन्स्पर्धमानैः सुरोत्तमान् ॥१५॥ततो देवगणाः सर्वे यज्ञभागविवर्जिताः ॥कृच्छ्रं परमनुप्राप्ता मन्त्रं चक्रुः परस्परम् ॥१६॥हाटकेश्वरमाहात्म्यात्स्वर्गलोकः प्रपूरितः ॥ऊर्ध्वबाहुभिराकीर्णः स्पर्धमानैः समंततः ॥१७॥तस्मात्तत्क्रियतां कर्म येनोच्छेदं प्रगच्छति ॥तीर्थमेद्धरापृष्ठे हाटकेश्वरसंज्ञितम् ॥१८॥ततः संवर्तको वायुः शक्रादेशात्समंततः ॥तत्क्षेत्रं पूरयामास पांसुभिर्द्विजसत्तमाः ॥१९॥एवं नाशमनुप्राप्ते तस्मिंस्तीर्थे स्थलोच्चये ॥जाते जाताः क्रियाः सर्वा भूयोऽपि क्रतुसंभवाः ॥२०॥ततः कालेन महता वल्मीकः समपद्यत ॥तस्मिन्क्षेत्रे स पाताले संप्रयातः शनैःशनैः ॥२१॥अथ पातालतो नागास्तेन मार्गेण कौतुकात् ॥मर्त्यलोकं समायांति भ्रमंति च धरातले ॥२२॥तत्र ते मानवान्भोगान्भुक्त्वा चैव यथेच्छया ॥पुनर्निर्यांति तेनैव मार्गेण निजमंदिरम् ॥२३॥ततो नागबिलः ख्यातः स सर्वस्मिन्धरातले ॥गतागतेन नागानां स वल्मीको द्विजोत्तमाः ॥२४॥कस्यचित्त्वथ कालस्य भगवान्पाकशासनः ॥ब्रह्महत्यासमोपेतो निस्तेजाः समपद्यत ॥२५॥ततः पितामहादेशं लब्ध्वा मार्गेण तेन सः ॥प्रविश्य चेक्षयामास पाताले हाट केश्वरम् ॥२६॥अथाऽभूत्पापनिर्मुक्तस्तत्क्षणात्तस्य दर्शनात् ॥तेजसा च समायुक्तः पुनः प्राप त्रिविष्टपम् ॥स दृष्ट्वा तत्प्रभावं तल्लिंगं देवस्य शूलिनः ॥हाटकेश्वरसंज्ञस्य भयं चक्रे नरोद्भवम् ॥२८॥यदि कश्चित्पुमानत्र त्रिशंकुरिव भूपतिः ॥पूजयिष्यति तल्लिंगं विपाप्मा श्रद्धया सह ॥२९॥यापयिष्यति तन्नूनं मामस्मात्त्रिदशालयात् ॥तस्मात्संपूरयाम्येनं मार्गं पाता लसंभवम् ॥३०॥ततश्च त्वरया युक्तो रक्तशृंगं नगोत्तमम् ॥प्रचिक्षेप बिले तस्मिन्स्वयमेव शतक्रतुः ॥३१॥ ॥ऋषय ऊचुः ॥ब्रह्महत्या कथं जाता देवेन्द्रस्य महात्मनः ॥कस्मिन्काले च सर्वं नो विस्तरात्सूत कीर्तय ॥३२॥रक्तशृंगो गिरिः कोऽयं संक्षिप्तस्तत्र तेन यः ॥मानुषाणां भयं तस्य कतमस्य शचीपतेः ॥३३॥ ॥सूत उवाच ॥पुरा त्वष्ट्रा द्विजश्रेष्ठा हिरण्यकशिपोः सुता ॥विवाहिता रमानाम श्रेष्ठरूपगुणान्विता ॥३४॥अथ तस्या ययौ कालः सुप्रभूतः सुतं विना ॥ततो वैराग्यसंपन्ना सुतार्थं तपसि स्थिता ॥३५॥ध्यायमाना सुराधीशं देवदेवं महेश्वरम् ॥बलिपूजोपहारेण सम्यक्छ्रद्धासमन्विता ॥३६॥नियता नियताहारा स्नानजप्यपरायणा ॥यच्छमाना द्विजाग्र्येभ्यो दानानि विविधानि च ॥३७॥ततो वर्षसहस्रांते तस्यास्तुष्टो महेश्वरः ॥उवाच वरदोऽस्मीति वृणुष्व यदभीप्सितम् ॥३८॥सा वव्रे मम पुत्रोऽस्तु भगवंस्त्वत्प्रसादतः ॥शूरः शस्त्रैरवध्यश्च विप्रदानवरूपधृक् ॥३९॥वेदाध्ययन संपन्नो यज्ञकर्मसमुद्यतः ॥तेजसा यशसा ख्यातः सर्वेषामपि देहिनाम् ॥४०॥ ॥भगवानुवाच ॥भविष्यति न संदेहः पुत्रस्ते बलवान्सुधीः ॥अवध्यः सर्वशस्त्राणां महातेजोभिरन्वितः ॥४१॥यज्वा दानपतिः शूरो वेदवेदांगपारगः ॥ब्राह्मणोक्ताः क्रियाः सर्वाः करिष्यति स कृत्स्नशः ॥अजेयः संगरे चैव कृत्स्नैरपि सुरासुरैः ॥४२॥एवमुक्त्वा स देवेशस्ततश्चादर्शनं गतः ॥ऋतौ सापि दधे गर्भं सकाशाद्विश्वकर्मणः ॥४३॥ततश्च सुषुवे पुत्रं दशमे मासि शोभनम् ॥द्वादशार्कप्रतीकाशं सर्वलक्षणलक्षितम् ॥४४॥तस्य चक्रे पिता नाम प्राप्ते द्वादशमे दिने ॥प्रसिद्धं वृत्र इत्येव पूजयित्वा द्विजोत्तमान् ॥४५॥अथासौ ववृधे बालः शुक्लपक्षे यथोडुराट् ॥पितृमातृकृतानंदो बन्धुवर्गेण लालितः ॥४६॥ततोऽस्य प्रददौ काले व्रतं विप्रजनोचितम् ॥समभ्येत्य स्वयं शुक्रो दानवस्यापि संद्विजः ॥४७॥स चापि चतुरो वेदान्ब्रह्मचारिव्रते स्थितः ॥वेदांगैः सहितान्वृत्रः पपाठ गुरुवत्सलः ॥४८॥ततो यौवनमासाद्य भूमिपालानशेषतः ॥जित्वा धरां वशे चक्रे पातालं तदनंत रम् ॥४९॥ततश्चेंद्रजयाकांक्षी समासाय सुरालयम् ॥सहस्राक्षमुखान्देवान्युद्धे चक्रे पराङ्मुखान् ॥५०॥अथ तेन समं वज्री चक्रेऽष्टादश संयुगान् ॥एकस्मिन्नपि नो लेभे विजयं द्विजसत्तमाः ॥५१॥हतशेषैः सुरैः सार्धं सर्वांगक्षतविक्षतैः ॥ततो जगाम वित्रस्तो ब्रह्मलोकं दिवा लयात् ॥५२॥वृत्रोऽपि बुभुजे कृत्स्नं त्रैलोक्यं सचराचरम् ॥शाक्रं पदं समास्थाय निहताशेषकंटकम् ॥५३॥यज्ञभागभुजश्चक्रे दानवान्बल गर्वितान् ॥देवस्थानेषु सर्वेषु यथोक्तेषु महाबलः ॥५४॥एवं त्रैलोक्यराज्येऽपि लब्धे तस्य द्विजोत्तमाः ॥न संतोषश्च संजज्ञे ब्रह्मलोकाभि कांक्षया ॥५५॥ततः शुक्रं समाहूय प्रोवाच मधुरं वचः ॥विनयावनतो भूत्वा चतुर्भिः सचिवैः सह ॥५६॥ ॥वृत्र उवाच ॥ब्रह्मलोकं गतः शक्रो भयाद्गुरुकुलोद्वह ॥कथं गतिर्भवेत्तत्र मम ब्रूहि यथातथम् ॥५७॥येन शक्रं विरंचिं च सूदयिष्ये तथाखिलम् ॥तुभ्यं दत्त्वा ब्रह्म लोकं भोक्ष्यामि त्रिदिवं स्वयम् ॥५८॥ ॥शुक्र उवाच ॥न गतिर्विद्यते तत्र तव दानवसत्तम ॥तस्मात्त्रैलोक्यराज्येन संतोषं कर्तुम र्हसि ॥५९॥ ॥वृत्र उवाच ॥यावत्तिष्ठति सुत्रामा तावन्नास्ति सुखं मम ॥तस्मान्निष्कंटकार्थाय यतिष्येऽहं द्विजोत्तम ॥६०॥कथं शक्रस्य संजाता गतिस्तत्र भृगूद्वह ॥न भविष्यति मे ब्रूहि कथं साऽद्य महामते ॥६१॥ ॥शुक्र उवाच ॥तेन पूर्वं तपस्तप्तं नैमिषे दानवोत्तम ॥यावद्वर्षसहस्रांतं ध्यायमानेन शंकरम् ॥६२॥तत्प्रभावाद्गतिस्तस्य तत्र जाता सदैव हि ॥सभृत्यपरिवारस्य नान्यदस्तीह कारणम् ॥६३॥योऽन्योऽपि नैमिषारण्ये तद्रूपं कुरुते तपः ॥ब्रह्मलोके गतिस्तस्य जायते नात्र संशयः ॥६४॥ ॥सूत उवाच ॥तच्छ्रुत्वा सत्वरं गत्वा नैमिषं तीर्थमुत्तमम् ॥तपश्चक्रे ततस्तीव्रं ध्यायमानो महेश्वरम् ॥६५॥त्रैलोक्यरक्षणार्थाय संनिरूप्य दनूत्त मान् ॥महाबलसमोपेताञ्छक्राधिकपराक्रमान् ॥६६॥वर्षास्वाकाशस्थायी स हेमन्ते सलिलाश्रयः ॥पंचाग्निसाधको ग्रीष्मे स वभूवा निलाशनः ॥६७॥एवं तस्य व्रतस्थस्य जग्मुर्वर्षशतानि च ॥तत्र भीतास्ततो देवा ब्रह्मविष्णुपुरःसराः ॥६८॥चक्रुश्च सततं मंत्रं तद्विनाशाय केवलम् ॥वीक्षयंति च च्छिद्राणि न च पश्यंति दुःखिताः ॥६९॥अथाब्रवीत्स्वयं विष्णुश्चिरं निश्चित्य चेतसा ॥वधोपायं समालोक्य वृत्रस्य प्रमुदान्वितः ॥७०॥ ॥विष्णुरुवाच ॥तस्य शक्र वधोपायो मया ज्ञातोऽधुना ध्रुवम् ॥तच्छ्रुत्वा कुरु शीघ्रं त्वमुपायो नास्ति कश्चन ॥७१॥अवध्यः सर्वशस्त्राणां स कृतः शूलपाणिना ॥तस्मादस्थिमयं वज्रं तद्वधार्थं निरूपय ॥७२॥ ॥इन्द्र उवाच ॥अस्थिभिः कस्य जीवस्य वज्रं देव भविष्यति ॥गजस्य शरभस्याथ किं वान्यस्य वदस्व मे ॥७३॥ ॥विष्णुरुवाच ॥शतहस्तप्रमाणं तत्षडस्रि च सुराधिप ॥मध्ये क्षामं तु पार्श्वाभ्यां स्थूलं रौद्रसमाकृति ॥७४॥ ॥इंद्र उवाच ॥न तादृग्दृश्यते सत्त्वं त्रैलोक्येपि सुरेश्वर ॥यस्यास्थिभिर्विधीयेत वजमेवंविधाकृति ॥७५॥ ॥विष्णुरुवाच ॥दधीचिर्नाम विप्रोऽस्ति तपः परममा स्थितः ॥द्विगुणं च तथा दीर्घः सरस्वत्यां कृताश्रमः ॥७६॥तं गत्वा प्रार्थयाशु त्वं स्वान्यस्थीनि प्रदास्यति ॥नादेयं विद्यते किंचित्तस्य संप्रार्थितस्य हि ॥७७॥ततः शक्रः सुरैः सार्धं गत्वा तस्य तदाश्रमम् ॥प्राचीसरस्वतीतीरे पुष्करे द्विजसत्तमाः ॥७९॥अथ देवान्समा लोक्य संप्राप्तान्निजमंदिरे ॥दधीचिः संप्रहृष्टात्मा सत्वरः संमुखं ययौ ॥७९॥स प्रणम्य सहस्राक्षं तथान्यानपि सन्मुनिः ॥अर्घ्यादिभिस्ततः पूजां चक्रे तेषां ततः परम् ॥८०॥ततः प्रोवाच हृष्टात्मा विनयावनतः स्थितः ॥स्वयमेव सहस्राक्षं प्रणिपत्य मुहुर्मुहुः ॥८१॥ ॥दधीचिरुवाच ॥किमर्थमागता देवाः कृत्यं चाशु निवेद्यताम् ॥धन्योऽहमागतो यस्य गृहे त्वं बलसूदन ॥८२॥ ॥शक्र उवाच ॥वृत्रेण निर्जिताः सर्वे वयं ब्राह्मणसत्तम ॥स वध्यो नहि शस्त्राणां सर्वेषां वरपुष्टितः ॥८३॥सोऽस्थिसंभववज्रस्य वध्यः स्यादब्रवीद्धरिः ॥शतहस्तप्रमाणस्य न च जीवोस्ति तादृशः ॥८४॥त्वां मुक्त्वा ब्राह्मणश्रेष्ठ तस्मादस्थीनि यच्छ नः ॥स्वकीयानि भवेद्येन वज्रं तस्य विनाशकम् ॥८५॥कुरु कृत्यं द्विजश्रेष्ठ देवानामार्तिनाशनम् ॥अन्यथा विबुधाः सर्वे नाशं यास्यंति कृत्स्नशः ॥८६॥ ॥सूत उवाच ॥तच्छ्रुत्वा संप्रहृष्टात्मा दधीचिर्भगवान्मुनिः ॥अत्यजज्जीवितं तेषां हितार्थाय दिवौकसाम् ॥८७॥ततो देवाः प्रहृष्टास्ते गृहीत्वास्थीनि कृत्स्नशः ॥ततश्चक्रुर्महावज्रं यादृशं विष्णुनोदितम् ॥८८॥अथ शक्रस्तदादाय नैमिषाभिमुखो ययौ ॥भयेन महता युक्तो वेपमानो निशागमे ॥८९॥तत्र ध्यानस्थितं वृत्रं दूरस्थस्त्रिदशाधिपः ॥वज्रेण ताडयामास पलायनपरायणः ॥९०॥सोऽपि वजप्रहारेण भस्मसात्सम पद्यत ॥वृत्रो दानवशार्दूलो वह्निं प्राप्य पतंगवत् ॥९१॥शक्रोऽपि भयसंत्रस्तो गत्वा सागरमध्यगम् ॥पर्वतं सुदुरारोहं तुंगशृंगं समाश्रितः ॥९२॥न जानाति हतं वृत्रं वज्रघातेन तेन तम् ॥केवलं वीक्षते मार्गं वृत्रागमनसंभवम् ॥९३॥एतस्मिन्नंतरे देवाः संप्रहृष्टतनूरुहाः ॥सूत्रं विनिहतं दृष्ट्वा तुष्टुवुस्त्रिदशाधिपम् ॥९४॥न जानंति भयान्नष्टं तस्मिन्सागरपर्वते ॥अन्विष्य चिरकालेन कृच्छ्रात्संप्राप्य तं ततः ॥९५॥वीक्षांचक्रुः समासीनं विषमे गिरिगह्वरे ॥तेजोहीनं तथा दीनं ब्रह्महत्यापरिप्लुतम् ॥९६॥गात्रदुर्गंधितासंगैः पूरयन्तं दिशो दश ॥९७॥अथोवाच चतुर्वक्त्रो दृष्ट्वा शक्रं तथाविधम् ॥समस्तान्देवसंघातान्दूरस्थः पापशंकया ॥९८॥शक्रोऽयं विबुधश्रेष्ठा ब्रह्महत्यापरिप्लुतः ॥तस्मातत्त्याज्यः सुदूरेण नो चेत्पापमवाप्स्यथ ॥९९॥पश्यध्वं सर्वलिंगानि ब्रह्महत्यान्वितानि च ॥अस्य गात्रेषु दृश्यंते तस्माद्गच्छामहे दिवि ॥१००॥पितामहमुखान्दृष्ट्वा देवान्प्राप्तान्सुराधिपः ॥पराङ्मुखानकस्माच्च संजातान्विस्मयान्वितः ॥१०१॥ततः प्रोवाच संभ्रांतः किमिदं गम्यते सुराः ॥दृष्ट्वापि मामनाभाष्य कच्चित्क्षेमं गृहे मम ॥१०२॥कच्चित्स निहतस्तेन मम वज्रेण दानवः ॥कच्चिन्न मां स युद्धार्थमन्वेष यति दुर्मतिः ॥१०३॥ ॥ब्रह्मोवाच ॥निहतः स त्वया शक्र तेन वज्रेण दानवः ॥गतो मृत्युवशं पापो न भयं कर्तुमर्हसि ॥१०४॥परं तस्य वधाज्जाता ब्रह्महत्या सुगर्हिता ॥तव शक्र न तेनाद्य स्पृशामोऽस्पृश्यतां गतम् ॥ ॥इन्द्र उवाच ॥मया विनिहताः पूर्वं बहवः किल दानवाः ॥ब्रह्महत्या न संजाता मम हत्याधुना कथम् ॥१०६॥ ॥ब्रह्मोवाच ॥ते त्वया निहता युद्धे क्षात्रधर्मेण वासव ॥विशुद्धा दानवाः सर्वे तेन जातं न पातकम् ॥१०७॥एष यज्ञोपवीताढ्यो विशेषात्तपसि स्थितः ॥छलेन निहतः शक्र तेन त्वं पापसंयुतः ॥१०८॥ ॥इन्द्र उवाच ॥जानाम्यहं चतुर्वक्त्र स्वं कायं पापसंयुतम् ॥चिह्नैर्ब्रह्मवधोद्भूतैस्तस्माच्छुद्धिं वदस्व मे ॥१०९॥यया याति द्रुतं पापं ब्रह्महत्यासमुद्भवम् ॥स्पृश्यो भवामि सर्वेषां देवानां प्रपितामह ॥११०॥ ॥ब्रह्मोवाच ॥तीर्थयात्रां सुरश्रेष्ठ तदर्थं कर्तुमर्हसि ॥तया विना न ते पापं नाशमायाति कृत्स्नशः ॥१११॥ ॥सूत उवाच ॥ततस्तद्वचनाच्छक्रस्तीर्थयात्रापरायणः ॥बभ्राम सकलां पृथ्वीं स्नानं कुर्वन्पृथक्पृथक् ॥११२॥तीर्थेषु सुप्रसिद्धेषु नदीनदयुतेषु च ॥वाराणस्यां प्रयागे च प्रभासे कुरुजांगले ॥११३॥तथान्येषु सहस्राक्षो विपाप्मा न व्यजायत ॥ततो वैराग्यमापन्नश्चिन्तयामास चेतसि ॥११४॥अहं स्नातः समस्तेषु तीर्थेषु धरणीतले ॥न च पापेन निर्मुक्तः किं करोमि च सांप्रतम् ॥११५॥किं पतामि गिरेः शृंगाद्विषं वा भक्षयामि किम् ॥त्रैलोक्यराज्यविभ्रष्टो नाहं जीवितुमुत्सहे ॥११६॥एवं वैराग्यमापन्नो गिरिमारुह्य वासवः ॥यावत्क्षिपति चात्मानं मरणे कृतनिश्चयः ॥११७॥तावद्देवोत्थिता वाणी गगनाद्द्विजसत्तमाः ॥मा शक्र साहसं कार्षीर्वैराग्यं प्राप्य चेतसि ॥११८॥त्वया राज्यं प्रकर्तव्यं स्वर्गेऽद्यापि युगाष्टकम् ॥तस्मात्पापविशुद्ध्यर्थं शृणु शक्र समा हितः ॥११९॥कुरुष्व वचनं शीघ्रं भावनीयं न चान्यथा ॥यत्त्वया पांसुभिः पूर्वं विवरं परिपूरितः ॥१२०॥हाटकेश्वरजे क्षेत्रे यत्र देवः स्वयं हरः ॥तत्र नागबिलो जातो वल्मीकात्त्रिदशाधिप ॥१२१॥येन नागा धरापृष्ठे निर्गच्छंति व्रजंति च ॥तेन मार्गेण गत्वा त्वं पाताले हाटकेश्वरम् ॥स्नात्वा पातालगंगायां पूजयस्व महेश्वरम् ॥१२२॥ततः पापविनिर्मुक्तो भविष्यसि न संशयः ॥संप्राप्स्यसि च भूयोऽपि देवराज्यमकण्टकम् ॥१२३॥ ॥सूत उवाच ॥अथ शक्रः समाकर्ण्य तां गिरं गगनोत्थिताम् ॥जगाम सत्वरं तत्र यत्र नागबिलः स च ॥१२४॥ततः प्रविश्य पातालं गंगातोयपरिप्लुतः ॥पूजयामास तल्लिंगं हाटकेश्वरसंज्ञितम् ॥१२५॥अथ तस्य क्षणाज्जातं शरीरं मलवर्जितम् ॥दुर्गन्धश्च गतो नाशं तेजोवृद्धिर्बभूव ह ॥१२६॥एतस्मिन्नंतरे प्राप्ता ब्रह्मविष्णुमुखाः सुराः ॥प्रोचुश्च देवराजं तं मुक्तपापं प्रहर्षिताः ॥१२७॥प्राप्तस्तु मेध्यतां शक्र विमुक्तो ब्रह्महत्यया ॥तस्मादागच्छ गच्छामः सहितास्त्रिदशालयम् ॥१२८॥एतन्नाग बिलं शक्र पुनः पूरय पांसुभिः ॥नो चेदागत्य चानेन मानुषाः सिद्धिहेतवः ॥१२९॥एतल्लिंगं समभ्यर्च्य स्नात्वा भागीरथीजले ॥अपि पापसमायुक्ता यास्यंति परमां गतिम् ॥१३०॥ततस्ते त्रिदशाः सर्वे स च देवं शतक्रतुः ॥प्रणिपत्य पुनः प्रोच्चैः प्रजग्मुस्त्रिदशालयम् ॥१३॥ततो जज्ञे महांस्तत्र स्वर्गे वृत्रवधोत्सवः ॥देवेन्द्रत्वमनुप्राप्ते पुनः शक्रे द्विजोत्तमाः ॥१३२॥ ॥सूत उवाच ॥एतद्वः सर्वमाख्यातं हाटकेश्वरसंभवम् ॥माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥१३३॥यश्चैतत्कीर्तयेद्भक्त्या शृणोति च समाहितः ॥स याति परमं स्थानं जरा मरणवर्जितम् ॥१३४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वृत्रवधवर्णनंनामाष्टमो ऽध्यायः ॥८॥ N/A References : N/A Last Updated : December 18, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP