संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २१० नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २१० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २१० Translation - भाषांतर ॥ विश्वामित्र उवाच ॥तच्छ्रुत्वा वचनं तस्य देवर्षेर्नारदस्य च ॥सिद्धसेनो महीपालः प्राप्य तं योगमुत्तमम् ॥१॥माधवे मासि संप्राप्ते अष्टम्यां सूर्यवासरे ॥सूर्योदये तु संप्राप्ते यावत्स्नात्वाऽर्चयेद्रविम् ॥२॥तावत्कुष्ठविनिर्मुक्तः सहसा समपद्यत ॥ततो दिव्यवपुर्भूत्वा सन्तोषं परमं गतः ॥३॥प्रायश्चित्तं ततश्चक्रे तांबूलस्य च भक्षणम् ॥अज्ञानेन कृतं यच्च चूर्णपत्रसमन्वितम् ॥४॥ततश्च परमां लक्ष्मीं संप्राप्तः स महीपतिः ॥पितृपैतामहं राज्यं स प्रचक्रे यथा पुरा ॥५॥एतत्ते सर्वमाख्यातं शंखतीर्थसमुद्भवम् ॥माहात्म्यं पार्थिवश्रेष्ठ किं भूयः श्रोतुमि च्छसि ॥६॥ ॥ आनर्त उवाच ॥अत्याश्चर्यमिदं ब्रह्मन्यत्त्वया परिकीर्तितम् ॥यल्लक्ष्मीस्तस्य सन्नष्टा चूर्णपत्रस्य भक्षणात् ॥७॥कीदृक्तेन कृतं तस्य प्रायश्चित्तं विशुद्धय्रे ॥कीदृक्तेन कृतं तच्च निजराज्यं यथा पुरा ॥८॥ ॥ विश्वामित्र उवाच ॥एषा पुण्यतमा मेध्या नागवल्ली नराधिप ॥अयथावत्कृता वक्त्रे बहून्दोषान्प्रयच्छति ॥तस्माद्यत्नेन संभक्ष्या दत्त्वा चैव स्वशक्तितः ॥९॥ ॥ आनर्त उवाच ॥नागवल्ली कथं जाता कस्माद्दोषो महान्स्मृतः ॥अयथावद्भक्षणाच्च तन्मे वक्तुमिहार्हसि ॥१०॥ ॥ विश्वामित्र उवाच ॥प्रश्नभारो महानेष त्वया मे परिकीर्तितः ॥तथापि च वदिष्यामि यदि ते कौतुकं नृप ॥यस्मात्सञ्जायते दोषश्चूर्णपत्रस्य भक्षणात् ॥११॥अमृतार्थं पुरा देवैर्मथितः कलशोदधिः ॥मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥१२॥मुखदेशे बलिर्लग्नः पुच्छदेशेऽखिलाः सुराः ॥वासुदेवमतेनैव सन्दधाराथ कच्छपः ॥१३॥मन्दरे भ्रममाणे तु प्रागेव नृपसत्तम ॥आनर्त सहसा जातं रत्नत्रितयमेव च ॥१४॥नीलांबरधरः कृष्णः पुरुषो वक्रनासिकः ॥कृष्णदन्तः स्थूलशिरा दीर्घग्रीवो महोदरः ॥शूर्पाकारांघ्रिरेवाऽसौ चिपिटाक्षो भयावहः ॥१५॥तथा तद्रूपिणी तस्य कुभार्या राक्षसी यथा ॥शिशुनांगुलिलग्नेन गर्भश्रमपरायणा ॥१६॥ततो देवगणाः सर्वे दानवाश्च विशेषतः ॥मन्थानं तत्परित्यज्य तान्ग्रहीतुं प्रधाविताः ॥१७॥अथ तान्विकृतान्दृष्ट्वा सर्वे शंकासमन्विताः ॥जगृहुर्नैव राजेंद्र जहसुश्च परस्परम् ॥१८॥अथोवाच बलिर्दैत्यः कृतांजलिपुटः स्थितः ॥ब्रह्माऽऽदि यल्लभेत्सर्वं यत्पुरस्तात्प्रजायते ॥१९॥रत्नत्रितयमेतद्धि तस्माद्गृह्णातु पद्मजः ॥येन सिद्धिर्भवेदस्मिन्मन्थने कस्य चाऽर्पणात् ॥२०॥तद्वाक्यं विष्णुना तस्य शंसितं शंकरेण तु ॥इंद्राद्यैश्च सुरैः सर्वैर्दानवैश्च विशेषतः २१॥एतस्मिन्नंतरे ब्रह्मा जग्राह त्रितयं च तत् ॥दाक्षिण्यात्सर्वदेवानामनिच्छन्नपि पार्थिव ॥ममन्थुः सागरं राजन्पुनस्ते यत्नमाश्रिताः ॥२२॥ततश्च वारुणी जाता दिव्यगन्धसमन्विता ॥बलिना संगृहीता सा प्रत्यक्षं बलविद्विषः ॥२३॥आवर्ते चापरे जाते निष्क्रांतः कौस्तुभो मणिः ॥स गृहीतो महाराज विष्णुना प्रभविष्णुना ॥२४॥अथापरे स्थिते तत्र महावर्ते निशापतिः ॥सञ्जातः स वृषांकेन संगृहीतश्च तत्क्षणात् ॥२५॥पारिजातस्ततो जातो दिव्यगन्धसमन्वितः ॥स गृहीत्वा सुरैः सर्वैः स्थापितो नंदने वने ॥२६॥तस्यानंतरमेवाथ सुरभी वत्ससंयुता ॥निष्क्रांता व्योममार्गेण गोलोकं समवस्थिता ॥२७॥ततो धन्वंतरिर्जातो बिभ्रद्धस्ते कमंडलुम् ॥संपूर्णममृतेनैव स देवैर्दानवैनृप ॥२८॥गृहीतो युगपत्क्रुद्धैः परस्परजिगीषया ॥देवानां हस्तगो वैद्यो दैत्यानां च कमण्डलुः ॥२९॥ततस्तं लोभसंयुक्ता ममंथुः सागरं नृप ॥पद्महस्तात्र संजाता ततो लक्ष्मीः सितांबरा ॥३०॥स्वयमेव वृतो विष्णुस्तया पार्थिवसत्तम ॥मथ्यमाने ततोतीव समुद्रे देवदानवैः ॥३१॥कालकूटं समुत्पन्नं येन सर्वे सुरासुराः ॥संप्राप्ताः परमं कष्टं प्रभग्नाश्च दिशो दश ॥३२॥तं दृष्ट्वा भगवाञ्छंभुस्तीव्रं तीवपराक्रमः ॥भक्षयामास राजेंद्र नीलकण्ठस्ततोऽभवत् ॥३३॥अथ संत्यज्य मंथानं मंदरं वासुकिं तथा ॥अमृतार्थेऽभवद्युद्धं दैत्यानां विबुधैः सह ॥३४॥अथ स्त्रीरूपमाधाय विष्णुर्दैत्यानुवाच तान् ॥ततो हृष्टो बलिस्तस्यै दत्त्वा पीयूषमेव तत् ॥३५॥ विश्वासं परमं गत्वा युद्धं चक्रे सुरैः सह ॥ततो विष्णुः परित्यज्य स्त्रीरूपं पुरुषाकृतिः ॥३६॥तदेवामृतमादाय ययौ यत्र दिवौकसः ॥अब्रवीत्तान्सुहृष्टात्मा पिवध्वममृतं सुराः ॥३७॥येनामरत्वमासाद्य व्यापादयत दानवान् ॥ते तथेति प्रतिज्ञाय पपुः पीयूषमुत्तमम् ॥३८॥अमराश्च ततो जाता जघ्नुः संख्ये महासुरान् ॥३९॥तेषां पानविधौ तत्र वर्तमाने महीपते ॥राहुर्विबुधरूपेण पपौ पीयूषमुत्सुकः ॥४०॥स लक्षितो महादैत्यश्चंद्रार्काभ्यां च तत्क्षणात् ॥निवेदितो हरे राजन्नायं देवो महासुरः ॥४१॥तच्छ्रुत्वा वासुदेवेन तस्य चक्रं सुदर्शनम् ॥वधाय पार्थिवश्रेष्ठ मुक्तं वज्रसमप्रभम् ॥४२॥यावन्मात्रं शरीरं तत्तस्य व्याप्तं महीपते ॥अमृतेन ततः कृत्तममोघेनापि तच्छिरः ॥४३॥ततोऽमरत्वमापन्नः स यावत्सिंहिकासुतः ॥तावत्प्रोक्तोऽच्युतेनाथ साम्ना परमवल्गुना ॥४४॥त्यज दैत्यान्महाभाग देवानां संमतो भव ॥संप्राप्स्यसि परां पूजां सदा त्वं ग्रहमंडले ॥४५॥स तथेति प्रतिज्ञाय त्यक्त्वा तान्दैत्यसत्तमान् ॥पूजां प्राप्नोति मर्त्यानां संस्थितो ग्रहमण्डले ॥४६॥एतस्मिन्नंतरे दैत्या निर्जिताः सुरसत्तमैः ॥दिशो जग्मुः परित्रस्ताः केचिन्मृत्युमुपागताः ॥४७॥पीतशेषं च पीयूषं स्थापितं नन्दने वने ॥नागराजस्य यत्रैव स्थितमालानमेव च ॥४८॥अहर्निशं मदस्रावी करींद्रः सोऽपि संस्थितः ॥तत्प्रभावैः प्रभिन्नः स पीयूषस्य कमंडलुः ॥४९॥ततो वल्ली समुत्पन्ना तस्माच्चैव कमण्डलोः ॥तत्रालानसमारूढा वृद्धिं च परमां गता ॥५०॥तदुद्भवानि पत्राणि गृहीत्वा सुरसत्तमाः ॥अपूर्वाणि सुगंधीनि मत्वा ते भक्षयंति च ॥५१॥वक्त्रशुद्धिकृते राजन्विशेषेण प्रहर्षिताः ॥५२॥अथ धन्वतरिर्वैद्यः स्वबुद्ध्या पृथिवीपते ॥नागालाने यतो जाता नागवल्ली भविष्यति ॥५३॥सदा स्मरस्य संस्थानं मम वाक्याद्भविष्यति ॥नागवल्लीति वै नाम तस्याश्चक्रे ततः परम् ॥५४॥संयोगं च चकाराथ तांबूलं जायते यथा ॥पूगीफलेन चूर्णेन खदिरेणापि पार्थिव ॥५५॥कस्यचित्त्वथ कालस्य वाणीवत्सरको नृपः ॥प्रतोषं नीतवाञ्छक्रं तपसा निर्मलेन च ॥५६॥ततस्तत्तपसा तुष्ट इन्द्रो वचनमब्रवीत् ॥५७॥ ॥ इन्द्र उवाच ॥भोभोः पार्थिव तुष्टोऽस्मि तपसाऽनेन सांप्रतम् ॥ब्रूहि यत्ते वरं दद्मि मनसा वांछितं सदा ॥५८॥सोऽब्रवीद्यदि मे तुष्टो यदि देयो वरो मम ॥विमानं खेचरं देहि येनागच्छामि ते गृहे ॥नित्यमेव धरापृष्ठाद्वंदनार्थं तव प्रभो ॥५९॥स तथेति प्रतिज्ञाय हंसबर्हिणनादितम् ॥विमानं प्रददौ तस्मै मनोमारुतवेगधृक् ॥६०॥स तत्र नित्यमारुह्य प्रयाति त्रिदशालयम् ॥भक्त्या परमया युक्तः सहस्राक्षं प्रवंदितुम् ॥६१॥तस्य शक्रः स्वहस्तेन तांबूलं च प्रयच्छति ॥स च तद्भक्षयामास प्रहृष्टेनांतरात्मना ॥६२॥वृद्धभावेऽपि संप्राप्ते तस्य कामोऽत्यवर्द्धत ॥तांबूलस्य प्रभावेन सुमहान्पृथिवीपते ॥६३॥अथ शक्रमुवाचेदं स राजा विनयान्वितः ॥नागवल्लीप्रदानेन प्रसादो मे विधीयताम् ॥६४॥मर्त्यलोके समानेतुं प्रचारं येन गच्छति ॥स तथेति प्रतिज्ञाय तस्मै तां प्रददौ तदा ॥६५॥गत्वा निजपुरं सोपि स्वोद्यानेऽस्थापयत्तदा ॥ततः कालेन महता प्रचारं सा गता क्षितौ ॥६६॥यस्याः स्वादनतो लोकः कामात्मा समपद्यत ॥न कश्चिद्यजनं चक्रे याजनं च विशेषतः ॥अन्या धर्मक्रियाः सर्वाः प्रणष्टा धर्मसंभवाः ॥६७॥ततो देवगणाः सर्वे यज्ञभागविवर्जिताः ॥पीड्यमानाः क्रुधा विष्टा गत्वा प्रोचुः पितामहम् ॥६८॥मर्त्यलोके सुरश्रेष्ठ नष्टा धर्मक्रिया भृशम् ॥कामासक्तो यतो लोकस्तांबूलस्य च भक्षणात् ॥तस्मात्कुरु प्रसादं नो येनास्माकं क्रिया भवेत् ॥६९॥एतस्मिन्नेव काले तु पुष्करस्थं पितामहम् ॥यजनार्थे समायातं दरिद्रो वीक्ष्य पार्थिव ॥७०॥प्रणिपत्य ततः प्राह विनयावनतः स्थितः ॥निर्विण्णोऽहं सुरश्रेष्ठ ब्राह्मणानां गृहे स्थितः ॥७१॥तस्मात्कीर्तय मे स्थानं श्रेष्ठं वित्तवतां हि यत् ॥तत्र सञ्जायते तृप्तिः शाश्वती प्रचुरा प्रभो ॥७२॥तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा पितामहः ॥अब्रवीच्च दरिद्रं तं छिद्रार्थं धनिना मिह ॥७३॥चूर्णपत्रे त्वया वासः सदा कार्यो दरिद्र भोः ॥तांबूलस्य तु पर्णाग्रे भार्यया मम वाक्यतः ॥७४॥पर्णानां चैव वृंतेषु सर्वेषु त्वत्सुतेन च ॥रात्रौ खदिरसारे च त्वं ताभ्यां सर्वदा वस ॥७५॥धनिनां छिद्रकृत्प्रोक्तमेतत्स्थानचतुष्टयम् ॥पार्थिवानां विशेषेण मम वाक्या द्व्रज द्रुतम् ॥७६॥ ॥ नारद उवाच ॥एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप ॥७७॥तांबूलोत्थानि छिद्राणि यथा स्युर्धनिनामिह ॥तानि सर्वाणि चीर्णानि त्वया राजन्नजानता ॥तेन वै विभवोच्छित्तिः संजाता सहसा नृप ॥७८॥ ॥ राजोवाच ॥तदर्थमपि मे ब्रूहि प्रायश्चित्तं मुनीश्वर ॥कदाचिद्भक्षणं मे स्यात्तांबूलस्य तथाविधम् ॥७९॥येन सञ्जायते शुद्धिः कुतांबूलसमुद्भवा ॥८०॥ ॥ विश्वा मित्र उवाच ॥शृणु राजन्प्रवक्ष्यामि प्रायश्चित्तं तु यच्चरेत् ॥आश्वासनेन शुद्ध्यर्थं कुतांबूलस्य भक्षणात् ॥८१॥पर्वकालं समुद्दिश्य सम्यक्छ्रद्धासमन्वितः ॥आनयेद्ब्राह्मणं राजन्वेदवेदांगपारगम् ॥८२॥प्रक्षाल्य चरणौ तस्य वाससी परिधापयेत् ॥संपूज्य गंधपुष्पाद्यैस्ततः पत्रं हिरण्मयम् ॥८२॥स्वशक्त्या कारयित्वाऽथ चूर्णे मुक्ताफलं न्यसेत् ॥८३॥पूगीफलं च वैडूर्यं खदिरं रूप्यमेव च ॥मन्त्रेणानेन विप्राय तथैव च समर्पयेत् ॥८४॥यन्मया भक्षितं पूर्वं वृन्तं पत्रसमुद्भवम् ॥चूर्णपत्रं तथैवान्यद्रात्रौ खदिरमेव च ॥८५॥तस्य पापस्य शुद्ध्यर्थं तांबूलं प्रतिगृह्यताम् ॥ततस्तु ब्राह्मणो मंत्रमेवं राजन्नुदाहरेत् ॥८६॥यजमानहितार्थाय सर्वपापविशुद्धये ॥अज्ञानाज्ज्ञानतो वापि कुतांबूलं प्रभक्षितम् ॥८७॥भक्षयिष्यसि यच्चान्यत्कदाचिन्मे प्रसादनात् ॥तस्य दोषो न ते भावी मम वाक्यादसंशयम् ॥८८॥अनेन विधिना दत्त्वा तांबूलं शुद्धिमाप्नुयात् ॥कुतांबूलस्य दोषेण गृह्यते न नरो नृप ॥८९॥तस्मात्त्वं हि महाराज व्रतमेतत्समाचर ॥बहु पुण्यतमं ह्येतन्महाभोगविवर्द्धनम् ॥९०॥यः प्रयच्छति राजेन्द्र विधिनानेन भक्तितः ॥जन्मजन्मान्तरे वापि न तांबूलेन मुच्यते ॥९१॥तांबूलं भक्षयित्वा यो नैतद्दानं प्रयच्छति ॥तांबूलवर्जितः सोऽत्र भवेज्जन्मनिजन्मनि ॥९२॥तांबूलवर्जितं यस्य मुखं स्यात्पृथिवीपते ॥कृपणस्य दरिद्रस्य तद्बिलं न हि तन्मुखम् ॥९३॥तांबूलं ब्राह्मणेन्द्राय यो दत्त्वा प्राक्प्रभक्षयेत् ॥सुरूपो भाग्यवान्दक्षो भवेज्जन्मनिजन्मनि ॥९४॥एतत्ते सर्वमाख्यातं कुतांबूलस्य भक्षणात् ॥यत्फलं जायते पुंसां यद्दानेन महीपते ॥९५॥शंखादित्यानुषंगेण तांबूलस्य च भक्षणे ॥ये दोषा ये गुणा राजन्दानं चैव प्रभक्षणे ॥९६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये तांबूलोत्पत्ति तांबूलमाहात्म्यवर्णनंनाम दशोत्तरद्विशततमोऽध्यायः ॥२१०॥ ॥ N/A References : N/A Last Updated : January 06, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP