संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २०६ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २०६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २०६ Translation - भाषांतर ॥ विश्वामित्र उवाच ॥इंद्रोऽपि विष्णुवाक्येन हिमवंतं समागतः ॥ऐरावतं समारुह्य नागेद्रं पर्वतोपमम् ॥१॥तत्रापश्यदृषींस्तान्स चमत्कार समुद्भवान् ॥नियमैः संयमैर्युक्तान्सदाचारपरायणान् ॥वानप्रस्थाश्रमोपेतान्कामक्रोधविवर्जितान् ॥२॥एके विप्राः स्थितास्तेषामेकांतरितभोजनाः ॥षष्ठकालाशिनश्चान्ये चांद्रायणपरायणाः ॥३॥अश्मकुट्टाः स्थिताः केचिद्दंतोलूखलिनः परे ॥शीर्णपर्णाशनाः केचिज्जलाहारास्तथा परे ॥वायुभक्षास्तथैवान्ये तपस्तेपुः सुदारुणम् ॥४॥अथ शक्रं समालोक्य तत्राऽऽयांतं द्विजोत्तमाः ॥पूजितं चारणैः सिद्धैस्तैरदृष्टं कदाचन ॥५॥ते सर्वे ब्राह्मणाः प्रोक्तास्तदाश्रमसमीपगैः ॥६॥अयं शक्रः समायातो भवतामाश्रमे द्विजाः ॥क्रियतामर्हणं चास्मै यच्चोक्तं शास्त्रचिंतकैः ॥७॥ततस्ते ब्राह्मणाः सर्वे विस्मयोत्फुल्ललोचनाः ॥संमुखाः प्रययुस्तूर्णं कृतांजलिपुटाः स्थिताः ॥८॥गृह्योक्तविधिना तस्मै संप्रहृष्टतनूरुहा. ॥प्रोचुश्च विनयात्सर्वे किमागमनकारणम् ॥९॥निरीहस्यापि देवेंद्र कौतुकं नो व्यवस्थितम् ॥१०॥ ॥ इन्द्र उवाच ॥कुशलं वो द्विजश्रेष्ठा अनिहोत्रेषु कृत्स्नशः ॥तपश्चर्यासु सर्वासु वेदाभ्यासे तथा श्रुते ॥११॥हाटकेश्वरजं क्षेत्रं त्यक्त्वा तीर्थमयं शुभम् ॥कस्मादत्र समायाता हिमार्तिजनके गिरौ ॥१२॥तस्मात्सर्वे मया सार्धं समागच्छंतु सद्द्विजाः ॥चमत्कारपुरे पुण्ये बहुविप्रसमाकुले ॥१३॥वासुदेवसमादेशात्तत्र गत्वाथ सांप्रतम् ॥गयाकूपे करिष्यामि श्राद्धं भक्त्या द्विजोत्तमाः ॥१४॥युष्मदग्रे चतुर्दश्यां प्रेतपक्ष उपस्थिते ॥खेचरत्वं समायातं सर्वेषां भवतां स्फुटम् ॥१५॥सबालवृद्धपत्नीकाः साग्निहोत्रा मया सह ॥तस्माद्गच्छत भद्रं वस्तत्र स्थानं भविष्यति ॥१६॥ ॥ ब्राह्मणा ऊचुः ॥न वयं तत्र यास्यामश्चमत्कारपुरं पुनः ॥अन्येऽपि ब्राह्मणास्तत्र वेदवेदांगपारगाः ॥१७॥नागरा याज्ञिकाः संति स्मार्ताः श्रुतिपरायणाः ॥तेषामग्रे कुरु श्राद्धं श्रद्धा चेच्छ्राद्धजा तव ॥१८॥ ॥ इन्द्र उवाच ॥तत्र ये ब्राह्मणाः केचिद्भवद्भिः संप्रकीर्तिताः ॥तथाविधाश्च ते सर्वे वेदवेदांगपारगाः ॥१९॥श्रुताध्ययनसंपन्ना याज्ञिकाश्च विशेषतः ॥परं द्वेषपराः सर्वे तथा परुषवादिनः ॥२०॥अहंकारेण संयुक्ताः परस्परजिगीषवः ॥तपसा विप्रयुक्ताश्च भोगसक्ता दिवानिशम् ॥२१॥यूयं सर्वगुणोपेता विष्णुना मे प्रकीर्तिताः ॥तस्मादागमनं कार्यं मया सार्धं समस्तकैः ॥२२॥ ॥ ब्राह्मणा ऊचुः ॥अस्माभिस्तेन दोषेण त्यक्तं स्थानं निजं हि तत् ॥बहुतीर्थसमोपेतं स्वर्गमार्गप्रदर्शकम् ॥२३॥यदि यास्यामहे तत्र त्वया सार्धं पुरंदर ॥अस्माकं स्वजनाः सर्वे रागद्वेषपरायणाः ॥२४॥अपराधान्करिष्यंति नित्यमेव पदेपदे ॥ईर्ष्याधर्मसमोपेताः परुषाक्षरजल्पकाः ॥२५॥ततः संपत्स्यते क्रोधः क्रोधाच्च तपसः क्षयः ॥ततो न प्राप्यते मुक्तिस्तद्गच्छामः कथं विभो ॥२६॥अपरं तत्र भूपोऽस्ति देशे दानपरः सदा ॥आनर्ताधिपतिः ख्यातः सर्वभूमौ सदैव सः ॥२७॥ददाति विविधं दानं हस्त्यश्वकनकादिकम् ॥यदि तत्र न गृह्णीमस्तदा कोपं स गच्छति ॥२८॥भूपाले कोपमापन्ने स्वजनेषु विरोधिषु ॥सिद्धिर्नो तपसोऽस्माकं तेन त्यक्तं निजं पुरम् ॥२९॥यदि गृह्णीमहे दानं तस्य भूपस्य देवप ॥तपसः संप्रणाशः स्याद्यद्धि प्रोक्तं स्वयंभुवा ॥३०॥दशसूनासमश्चक्री दशचक्रिसमो ध्वजी ॥दशध्वजि समा वेश्या दशवेश्यासमो नृपः ॥३१॥तत्कथं तस्य गृह्णीमो दानं पापरतस्य च ॥यथाऽन्ये नागराः सर्वे लोभेन महतान्विताः ॥३२॥ ॥ इन्द्र उवाच ॥प्रभावोऽयं द्विजश्रेष्ठास्तस्य क्षेत्रस्य संस्थितः ॥हाटकेश्वरसंज्ञस्य सर्वदैव व्यवस्थितः ॥३३॥पितॄणां च सुतानां च बंधूनां च विशेषतः ॥श्वश्रूणां च स्नुषाणां च भगिनीभ्रातृभार्ययोः ॥३४॥तस्याधस्तात्स्वयं देवो हाटकेश्वरसंज्ञितः ॥पुरस्य विद्यते तस्य प्रतापेनाखिला जनाः ॥३५॥सन्तप्यंते ततो द्वेषं प्रकुर्वंति परस्परम् ॥किं न श्रुतं भवद्भिस्तु यथा रामः सलक्ष्मणः ॥सीतया सह संप्राप्तो विरोधं परमं गतः ॥३६॥सीतया लक्ष्मणेनैव सार्धं कोपेन संयुतः ॥अवाच्यं प्रोक्तवान्विप्रास्तौ च तेन समं तदा ॥३७॥अपि मासं वसेत्तत्र यदि कोपविवर्जितः ॥तदा मुक्तिमवाप्नोति स्वर्गभाक्पञ्चरात्रतः ॥३८॥तस्मात्तत्र प्रगंतव्यं युष्माभिस्तु मया सह ॥ईर्ष्याधर्मं न युष्माभिस्ते करिष्यंति नागराः ॥३९॥न चैव भवतां कोपस्तत्रस्थानां भविष्यति ॥प्रसादान्मम विप्रेंद्राः सत्यमेतन्मयोदितम् ॥४०॥आनर्तः पार्थिवो दाने योजयिष्यति न क्वचित् ॥युष्माकं पुत्रपौत्रेभ्यो ये दास्यंति च कन्यकाः ॥४१॥सहस्रगुणितं तेषां तत्फलं संभविष्यति ॥अमावास्यादिने श्राद्धं कन्यासंस्थे दिवाकरे ॥४२॥युष्मदग्रे द्विजश्रेष्ठा गया कूप्यां करिष्यति ॥यस्तस्य तत्फलं भावि सहस्रशतसंमितम् ॥४३॥गयाश्राद्धान्न सन्देहः सत्यमेतन्मयोदितम् ॥यदि श्राद्धकृते तत्र नायास्यथ द्विजोत्तमाः ॥४४॥ततः शापं प्रदास्यामि तपोविघ्नकरं हि वः ॥एवं ज्ञात्वा मया सार्धं तत्राऽऽगच्छत सत्वरम् ॥४५॥इत्युक्तास्तेन ते सर्वे शक्रेण सह तत्क्षणात् ॥कश्यपश्चैव कौंडिन्य उक्ष्णाशः शार्कवो द्विषः ॥४६॥बैजवापश्चैव षष्ठः कापिष्ठलो द्विकस्तथा ॥एतत्कुलाष्टकं प्राप्तमिंद्रेण सह पार्थिव ॥४७॥अग्निष्वात्तादिकान्सर्वान्पितॄनाहूय कृत्स्नशः ॥विश्वेदेवांस्तथा चैव प्रस्थितः पाकशासनः ॥४८॥सम्यक्छ्रद्धासमाविष्टश्चमत्कारपुरं प्रति ॥एतस्मिन्नेव काले तु ब्रह्मा लोकपितामहः ॥४९॥गयायां प्रस्थितः सोऽपि श्राद्धार्थं तत्र वासरे ॥विश्वेदेवाः प्रतिज्ञाय गयायां प्रस्थिता विधिम् ॥५०॥शक्र श्राद्धं परित्यज्य गता यत्र पितामहः ॥शक्रोऽपि तत्पुरं प्राप्य गयाकूप्यामुपागतः ॥५१॥ततः स्नात्वाह्वयामास श्राद्धार्थं श्रद्धयान्वितः ॥विश्वेदेवान्पितॄंश्चैव काले कुतपसंज्ञिते ॥५२॥एतस्मिन्नंतरे प्राप्ताः समाहूताश्च तेन ये ॥पितरो देवरूपा ये प्रेतरूपास्तथैव च ॥५३॥प्रत्यक्षरूपिणः सर्वे द्विजोपांते समाश्रिताः ॥विश्वेदेवा न संप्राप्ता ये गयायां गतास्तदा ॥५४॥ततो विलंबमकरोत्तदर्थं पाक शासनः ॥विश्वेदेवा यतः श्राद्धे पूज्याः प्रथममेव च ॥५५॥एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तमः ॥शक्रं प्राह समागत्य विश्वेदेवाऽभिकांक्षिणम् ॥५६॥ ॥ नारद उवाच ॥विश्वेदेवा गताः शक्र श्राद्धे पैतामहेऽधुना ॥गयायां ते मया दृष्टा गच्छमानाः प्रहर्षिताः ॥५७॥तच्छ्रुत्वा तत्र कुपितस्तेषामुपरि तत्क्षणात् ॥अब्रवीत्परुषं वाक्यं विप्राणां पुरतः स्थितः ॥५८॥विश्वेदेवान्विना श्राद्धं करिष्याम्यहमद्य भोः ॥तथान्ये मानवाः सर्वे करिष्यंति धरातले ॥५९॥विश्वेदेवान्पुरः स्थाप्य योऽत्र श्राद्धं करिष्यति ॥व्यर्थतां यास्यते तस्य ऊषरे वर्षितं यथा ॥६०॥एवमुक्त्वा सहस्राक्ष एकोद्दिष्टानि कृत्स्नशः ॥चकार सर्वदेवानां ये हता रणमूर्धनि ॥६१॥एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥येषामुद्दिश्य तच्छ्राद्धं कृतं तेषां नृपोत्तम ॥६२॥शक्रशक्र महाबाहो येषां श्राद्धं कृतं त्वया ॥प्रेतत्वे संस्थितानां च प्रेतत्वेन विवर्जिताः ॥६३॥गताः स्वर्गप्रसादात्ते दिव्यरूपवपुर्धराः ॥ये पुनः स्वर्गताः पूर्वं युध्यमाना महाहवे ॥६४॥ते च मोक्षं गताः सर्वे प्रसादात्तव वासव ॥तच्छ्रुत्वा वासवो वाक्यं तोषेण महतान्वितः ॥६५॥अहो तीर्थमहो तीर्थं शंसमानः पुनःपुनः ॥एतस्मिन्नन्तरे प्राप्ता विश्वे देवाः समुत्सुकाः ॥६६॥निर्वृत्य ब्रह्मणः श्राद्धं गयायां तत्र पार्थिव ॥प्रोचुश्च वृत्रहंतारं कुरु श्राद्धं शतक्रतो ॥६७॥भूयोऽपि न विनाऽस्माभिर्लभ्यते श्राद्धजं फलम् ॥वयं दूरात्समायातास्तव श्राद्धस्य कारणात् ॥निर्वर्त्य ब्रह्मणः श्राद्धं येन पूर्वं निमंत्रिताः ॥६८॥तच्छ्रुत्वा वचनं तेषां कुपितः पाकशासनः ॥अब्रवीत्परुषं वाक्यं मेघगम्भीरया गिरा ॥६९॥अद्यप्रभृति यः श्राद्धं मर्त्यलोके करिष्यति ॥अन्योऽपि यो भवत्पूर्वं वृथा तस्य भविष्यति ॥७०॥एकोद्दिष्टानि श्राद्धानि करिष्यंत्यखिला जनाः ॥सांप्रतं मर्त्यलोकेऽत्र मर्यादेयं कृता मया ॥७१॥भूताः प्रेताः पिशाचाश्च ये चान्ये श्राद्धहारकाः ॥विश्वेदेवैः प्ररक्ष्यंते रक्षयिष्यामि तानहम् ॥७२॥यजमानस्य काये च श्राद्धं संयोज्य यत्नतः ॥मया हताः प्रयास्यंति सर्वे ते दूरतो द्रुतम् ॥७३॥एवमुक्त्वा सहस्राक्षो विश्वेदेवांस्ततः परम् ॥प्रोवाच ब्राह्मणान्सर्वान्विश्वेदेवैर्विना कृतम् ॥श्राद्धकर्म भवद्भिस्तु कार्यमन्यैश्च मानवैः ॥७४॥तथेत्युक्ते द्विजेंद्रैश्च विश्वेदेवाः सुदुःखिताः ॥रुरुदुर्बाष्पपूरेण प्लावयन्तो वसुन्धराम् ॥७९॥तेषामुष्णाश्रुणा तेन यत्पृथ्वी प्लाविता नृप ॥भूतान्यंडान्यनेकानि संख्यया रहितानि च ॥७६॥ततोंऽडेभ्यो विनिष्क्रांताः प्राणिनो रौद्ररूपिणः ॥कृष्णदंताः शंकुकर्णा ऊर्ध्वकेशा भयावहाः ॥रक्ताक्षाश्च ततः प्रोचुर्विश्वेदेवांश्च ते नृप ॥७७॥वयं बुभुक्षिताः सर्वे भोजनं दीयतां ध्रुवम् ॥भवद्भिर्विहिता यस्माद्याचयामो न चापरम् ॥७८॥ ॥ विश्वेदेवा ऊचुः ॥अस्माभी रहितं श्राद्धं किञ्चित्संजायते क्षितौ ॥श्रद्धया परया यच्च युष्माकं भावि भोजनम् ॥७९॥एवमुक्त्वा तु ते श्राद्धं विश्वेदेवा नृपोत्तम ॥ब्रह्मलोकं गताः सर्वे दुःखेन महताऽन्विताः ॥प्रोचुश्च दीनया वाचा प्रणिपत्य पितामहम् ॥८०॥वयं बाह्याः कृता देव श्राद्धानां बलविद्विषा ॥तव श्राद्धे गता यस्माद्गयायां प्राङ्निमंत्रिताः ॥८१॥तेन रुष्टः सहस्राक्षस्तव चांते समागताः ॥तस्मात्कुरु प्रसादं नः श्राद्धार्हाः स्याम वै यथा ॥८२॥तच्छ्रुत्वा सत्वरं ब्रह्मा कृपया परयान्वितः ॥विश्वेदेवान्समादाय कूप्माण्डैस्तैः समन्वितान् ॥८३॥शक्रोऽपि श्राद्धकर्माणि कृत्वा तेषां दिवौकसाम् ॥तीर्थयात्रापरो भूत्वा तथैव च व्यवस्थितः ॥८४॥एतस्मिन्नेव काले तु ब्रह्मा तत्र समागतः ॥विश्वेदेवसमायुक्तो हंसयानसमाश्रितः ॥८५॥शक्रोऽपि सहसा दृष्ट्वा संप्राप्तं कमलासनम् ॥अर्घ्यमादाय पाद्यं च सत्वरं सम्मुखो ययौ ॥८६॥ततः प्रणम्य शिरसा साष्टांगं विनयान्वितः ॥प्रोवाच प्रांजलिर्भूत्वा स्वागतं ते पितामह ॥८७॥तव संदर्शनादेव ज्ञातं जन्मत्रयं मया ॥द्रुतं पूर्वं शुभं कर्म करोमि च यथाऽधुना ॥८८॥करिष्यामि परे लोके व्यक्तमेतदसंशयम् ॥८९॥निःस्पृहस्यापि ते देव यदागमनकारणम् ॥तन्मे द्रुततरं ब्रूहि येन सर्वं करोम्यहम् ॥९०॥ ॥ ब्रह्मोवाच ॥यैर्विना न भवेच्छ्राद्धं ममापि सुरसत्तम ॥विश्वेदेवास्त्वया तेऽद्य श्राद्धबाह्या विनिर्मिताः ॥९१॥तत्त्वया न कृतं भद्रं तेन कर्म वितन्वता ॥अप्रमाणं कृता वेदा यतश्च स्मृतयस्तथा ॥९२॥एते पूर्वं मया शक्र श्राद्धार्थं विनिमंत्रिताः ॥पश्चात्त्वया न दोषोऽस्ति तस्माच्चैषां महात्मनाम् ॥९३॥तस्माच्छापप्रमोक्षार्थं त्वं यतस्व सुरेश्वर ॥येन स्युः श्राद्धयोग्याश्च सर्वेऽमी दुःखिता भृशम् ॥९४॥पुरा ह्येतन्मया प्रोक्तं सर्वेषां च द्विजन्मनाम् ॥एतत्पूर्वं च यच्छ्राद्धं सफलं तद्भविष्यति ॥९५॥तत्कथं मम वाक्यं त्वमसत्यं प्रकरोषि च ॥९६॥इंद्र उवाच ॥मयाऽपि कोपयुक्तेन शप्ता एते पितामह ॥तद्यथा सत्यवाक्योऽहं प्रभवामि तथा कुरु ॥९७॥ ॥ ब्रह्मोवाच ॥तव वाक्यं यथा सत्यं प्रभविष्यति वासव ॥तथाऽहं संविधास्यामि विश्वेदेवार्थमेव ह ॥९८॥विश्वेदेवैर्विना श्राद्धं यत्त्वया समुदाहृतम् ॥एकोद्दिष्टं नराः सर्वे करिष्यंति धरातले ॥९९॥तस्मिन्नहनि देवेंद्र त्वया यत्र विनिर्मितम् ॥प्रेतपक्षे चतुर्दश्यां शस्त्रेण निहतस्य च ॥१००॥क्षयाहे चाऽपि संजाते विश्वेदेवैर्विना कृतम् ॥नागरस्य शुभं श्राद्धं वचनान्मे भविष्यति ॥१०१॥शेषकाले तु यः श्राद्धं प्रकरिष्यति तैर्विना ॥व्यर्थं संपत्स्यते तस्य मम वाक्यादसंशयम् ॥१०२॥मुक्त्वा शस्त्रहतं चैकं तस्मिन्नहनि यो नरः ॥करिष्यति तथा श्राद्धं भूतभोज्यं भविष्यति ॥ ॥ विश्वामित्र उवाच ॥तथेत्युक्ते तु शक्रेण ब्रह्मा लोकपितामहः ॥विश्वेदेवैस्ततः प्रोक्तो विनयावनतैः स्थितैः ॥१०४॥एते पुत्राः समुत्पन्ना अस्मदश्रुभ्य एव च ॥तेषां तु भोजनं दत्तं क्षुधार्तानां मया विभो ॥अस्मद्विवर्जितं श्राद्धं कुपितैर्वासवोपरि ॥तद्यथा जायते सत्यं वाक्यमस्मदुदीरितम् ॥१०६॥अस्माकं वासवस्यापि तथा कुरु पितामह ॥निरूपय शुभाहारं येन स्यात्तृप्तिरुत्तमा ॥१०७॥एतेषामेव सर्वेषां प्रसादात्तव पद्मज ॥१०८॥ ॥पद्मज उवाच ॥श्राद्धकाले तु विप्राणां भोज्यपात्रेषु कृत्स्नशः ॥भस्मरेखां प्रदास्यंति ह्येतैस्तत्त्याज्यमेव हि ॥१०९॥भस्मरक्षां विना यत्र किंचिच्छ्राद्धं भविप्यति ॥एकोद्दिष्टं पार्वणं च वृद्धिश्राद्धमथापि वा ॥११०॥एतेभ्यश्चैव तद्दत्तं मया तुष्टेन सांप्रतम् ॥एवमुक्त्वा ततो नाम तेषां चक्रे पितामहः ॥१११॥कुशब्देन स्मृता भूमिः संसिक्ता चाश्रुणा यतः ॥ततोंऽडानि च जातानि तेभ्यो जाता अमी घनाः ॥कूष्मांडा इति विख्याता भविष्यंति जगत्त्रये ॥११२॥ततस्तांश्च त्रिधा कृत्वा क्रमेणैवार्पयत्तदा ॥अग्नेर्वायोस्तथार्कस्य वाक्यमेतदुवाच ह ॥११३॥यजुर्वेदे प्रविख्यातं यद्देवति ऋचां त्रयम् ॥तेन भागः प्रदातव्य एतेषां भक्तिहोमतः ॥११४॥कोटिहोमोद्भवे चैव निजभागस्य मध्यतः ॥तेन तृप्तिं प्रयास्यंति मम वाक्यादसंशयम् ॥११५॥एवमुक्त्वा चतुर्वक्त्रस्ततश्चादर्शनं गतः ॥विश्वेदेवास्तथा हृष्टाः कूष्माण्डाश्च विशेषतः ॥११६॥एतस्मात्कारणाद्रक्षा क्रियते भस्मसम्भवा ॥विप्राणां भोज्यपात्रेषु श्राद्धे कूष्मांडजाद्भयात् ॥नागराणां न वांछंति श्राद्धे छिद्रं यतः शृणु ॥११७॥तेषां स्थाने यतो जाता दाक्षिण्येन समन्विताः ॥निषिद्धा भस्मजा रक्षा भर्तृयज्ञेन तेजसा ॥११८॥तदर्थं नागराः सर्वे न कुर्वन्ति हि कर्हिचित् ॥इन्द्रोऽपि च गते तस्मिंश्चतुर्वक्त्रे निजालयम् ॥११९॥अब्रवीद्ब्राह्मणान्सर्वांश्चमत्कारपुरोद्भवान् ॥कृतांजलिपुटो भूत्वा विनयावनतः स्थितः ॥१२०॥श्रूयतां मद्वचो विप्राः करिष्यथ ततः परम् ॥स्थापयिष्याम्यहं लिंगं देवदेवस्य शूलिनः ॥१२१॥ततस्तैर्ब्राह्मणैस्तस्य दर्शितं स्थानमुत्तमम् ॥सोऽपि लिंगं च संस्थाप्य प्रहृष्टस्त्रिदिवं ययौ ॥१२२॥ ॥ विश्वामित्र उवाच ॥एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप ॥गयाकूप्याश्च माहात्म्यं सर्वकामप्रदायकम् ॥१२३॥ ॥ आनर्त उवाच ॥गयाकूप्याश्च माहात्म्यं भवता मे प्रकीर्तितम् ॥बालमंडनजं वापि सांप्रतं वक्तुमर्हसि ॥१२४॥कस्मिन्स्थाने च शक्रेण तच्च लिंगं प्रतिष्ठितम ॥वदास्माकं महाभाग तस्मिन्दृष्टे तु किं फलम् ॥२१५॥ ॥ विश्वामित्र उवाच ॥सहस्राक्षेण ते विप्रा लिंगार्थं याचिता यदा ॥स्थानं शुभं पवित्रं च सर्वक्षेत्रस्य मध्यगम् ॥१२६॥ततस्तैर्दर्शितं लिंगं सुपुण्यं बालमंडनम् ॥यत्र बालाः पुरा जाता मरुदाख्या दितेः सुताः ॥१॥तेनैव च पुरा ध्वस्ता न च मृत्युमुपागताः ॥तच्च मेध्यतमं ज्ञात्वा स्थानं दृष्टं पुरा च यत् ॥१२८॥यत्र दित्या तपस्तप्तं सुसुतं कांक्षमाणया ॥तद्दृष्ट्वा परमं स्थानं जीवं प्रोवाच देवपः ॥१२९॥गुरो ब्रूहि ममाशु त्वं सुमुहूर्तं च सांप्रतम् ॥दिवसं यत्र सल्लिंगं स्थापयामि हरोद्भवम् ॥प्रलयेऽपि समुत्पन्ने न नाशो यत्र जायते ॥१३०॥ततः सोऽपि चिरं ध्यात्वा तं प्रोवाच शचीपतिम् ॥माघमासे सिते पक्षे पुष्यर्क्षे रविवासरे ॥१३१॥त्रयोदश्यामभीष्टे तु संजातेऽ भ्युदये शुभे ॥संस्थापय विभो लिंगं मम वाक्येन सांप्रतम् ॥१३२॥आकल्पांतसमं दिव्यं स्थिरं ते तद्भविष्यति ॥तच्छ्रुत्वा देवराजस्तु हर्षेण महताऽन्वितः ॥१३३॥बालमंडनसांनिध्ये स्थापयामास तत्तदा ॥विप्रपुण्याहघोषेण गीतवादित्रनिस्वनैः ॥१३४॥ततो होमावसाने तु तर्पयित्वा द्विजोत्तमान् ॥दक्षिणायां ददौ तेषामाघाटं स्थानमुत्तमम् ॥१३५॥मांकूले संस्थितं यच्च दिव्यप्राकारभूषितम् ॥सर्वेषामेव विप्राणां सामान्येन नृपोत्तम ॥१३६॥ततोऽष्टकुलिकान्विप्रान्समाहूयाब्रवीदिदम् ॥युष्माभिस्तु सदा कार्या चिंता लिंगसमुद्भवा ॥१३७॥अस्य यस्मान्मया दत्ता वृत्तिश्चन्द्रार्ककालिका ॥सा च ग्राह्या तदर्थे च द्वादशग्रामसंभवा ॥१३८॥ ॥ ब्राह्मणा ऊचुः ॥न वयं विबुधश्रेष्ठ करिष्यामो वचस्तव ॥लिंगचिंतासमुद्भूतं श्रूयतामत्र कारणम् ॥१३९॥ब्रह्मस्वं विबुधस्वं च तडागोत्थं विशेषतः ॥भक्षितं स्वल्पमप्यत्र नाश येत्सर्वपूर्वजान् ॥१४०॥यदि कश्चित्कुलेऽस्माकं जातस्तद्भक्षयिष्यति ॥पातयिष्यति नः सर्वांस्तदस्माकं महद्भयम् ॥१४१॥अथ तं मध्यगः प्राह कृतांजलिर्द्विजोत्तमः ॥दृष्ट्वाऽन्यमनसं शक्रं कृतपूर्वोपकारिणम् ॥१४२॥देवशर्माभिधानस्तु विख्यातः प्रवरैस्त्रिभिः ॥अहं चिंतां करिष्यामि तव लिंगसमुद्भवाम् ॥१४३॥अपुत्रस्य तु मे पुत्रं यदि यच्छसि वासव ॥यस्मात्संजायते वंशो यावदाभूतसंप्लवम् ॥१४४॥धर्मज्ञस्तु कृतज्ञस्तु देवस्वपरिवर्जकः ॥तच्छ्रुत्वा वासवो हृष्टस्तमुवाच द्विजोत्तमम् ॥ ॥ इन्द्र उवाच ॥भविष्यति शुभस्तुभ्यं पुत्रो वंशधरः परः ॥धर्मात्मा सत्यवादी च देवस्वपरिवर्जकः ॥१४६॥तस्यान्वये तु ये पुत्रा भविष्यंति महात्मनः ॥ते सर्वेऽत्र भविष्यंति तद्रूपा वेदपारगाः ॥१४७॥अपरं शृणु मे वाक्यं यत्ते वक्ष्यामि सद्द्विज ॥तथा शृण्वंतु विप्रेंद्राः सर्वे येऽत्र समागताः ॥१४८॥बालमण्डनके तीर्थे मयैतल्लिंगमुत्तमम् ॥चतुर्वक्त्र समादेशाच्चतुर्वक्त्रं प्रतिष्ठितम् ॥१४९॥योऽत्र स्नानविधिं कृत्वा तीर्थेऽत्र पितृतर्पणम् ॥आजन्म पितरस्तेन प्रभविष्यंति तर्पिताः ॥१५०॥ग्रामा द्वादश ये दत्ता मया देवस्य चास्य भोः ॥वसिष्यंति च ये विप्रा वृद्धिश्राद्ध उपस्थिते ॥ते श्राद्धं प्रथमं चास्य कृत्वा श्राद्धं ततः परम् ॥१५१॥तत्कृत्यानि करिष्यन्ति ते विघ्नेन विवर्जिताः ॥वृद्धिः संपत्स्यते तेषां नो चेद्विघ्नं भविष्यति ॥१५२॥माघमासे सिते पक्षे त्रयो दश्यां दिने स्थिते ॥तद्ग्रामसंस्थिता लोका येऽत्रागत्य समाहिताः ॥१५३॥बालमण्डनके स्नात्वा लिंगमेतत्समाहिताः ॥पूजयिष्यंति सद्भक्त्या ते यास्यंति परां गतिम् ॥१५४॥ग्रामाणां मम लिंगस्य ये करिष्यंति पीडनम् ॥कालांतरेऽपि संप्राप्तास्ते यास्यंति च संक्षयम् ॥१५५॥पृथिव्यां यानि तीर्थानि ह्यासमुद्रसरांसि च ॥बालमण्डनके तीर्थ आगमिष्यंति तद्दिने ॥१५६॥ ॥ विश्वामित्र उवाच ॥एतदुक्त्वा सहस्राक्षस्ततश्चाष्टकुलान्द्विजान् ॥अग्रतः कोपसंयुक्तस्ततोवचनमब्रवीत् ॥१५७॥एतैः सप्तकुलैर्विप्रैर्यत्कृतं वचनं न मे ॥कृतघ्नैस्ता ञ्छपिष्यामि कृतघ्नत्वान्न संशयः ॥१५८॥यस्मादिदंपुरा प्रोक्तं मनुना सत्यवादिना ॥स्वायंभुवेन प्रोद्दिश्य कृतघ्नं सकलं जनम् ॥१५९॥ब्रह्मघ्ने च सुरापे च चौरे भग्नवते शठे ॥निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥१६०॥अवध्या ब्राह्मणा गावः स्त्रियो बालास्तपस्विनः ॥तेनाऽहं न वधाम्येताञ्छिद्रेऽपि महति स्थिते ॥१६१॥ततस्तोयं समादाय सदर्भं निजपाणिना ॥शशाप तान्द्विजश्रेष्ठान्कृतघ्नान्पाकशासनः ॥१६२॥मम वाक्यादपि प्राप्य एते लक्ष्मीं द्विजोत्तमाः ॥निर्धनाः संभविष्यंति नीत्वा यद्द्वारतो ऽखिलम् ॥१६३॥भक्तानां च पीरत्यागमेतेषां वंशजा द्विजाः ॥करिष्यंति न सन्देहो यथा मम सुनिष्ठुराः ॥दाक्षिण्यरहिताः सर्वे तथा बह्वाशिनः सदा ॥१६४॥एवमुक्त्वाऽथ तान्विप्रान्सप्तवंशसमुद्भवान् ॥पुनः प्रोवाच तान्विप्राञ्छेषान्नगरसंभवान् ॥१६५॥ममात्र दीयतां स्थानं स्थानेऽत्रैव द्विजोत्तमाः ॥येन संवत्सरस्यांते पंचरात्रं वसाम्यहम् ॥१६६॥देवस्यास्य प्रपूजार्थं मर्त्यलोकसु खाय च ॥ब्राह्मणानां प्रपूजार्थं सर्वेषां भवतामिह ॥१६७॥ ॥ विश्वामित्र उवाच ॥ततस्ते ब्राह्मणाः सर्वे तदर्थं स्थानमुत्तमम् ॥दर्शयामासुः संहृष्टाः प्रोचुश्च तदनंतरम् ॥१६८॥ब्रह्मस्थाने त्वया शक्र पंचरात्रमुपेत्य च ॥स्थातव्यं मर्त्यलोकस्य सुखमासेव्यतां प्रभो ॥१६९॥अत्र स्थाने तवाऽग्रे तु करिष्यामो महोत्सवम् ॥गीतवादित्रनिर्घोषैर्गंधमाल्यानुलेपनैः ॥द्विजानां तर्पणैश्चैव सर्वकामसमृद्धिदम् ॥१७०॥ ॥ विश्वामित्र उवाच ॥तच्छ्रुत्वा वचनं तेषां प्रहृष्टः पाकशासनः ॥पूजयित्वा द्विजान्सर्वान्गतोऽथ त्रिदिवालयम् ॥१७१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्ड हाटकेश्वरक्षेत्रमाहात्म्ये बालमण्डनतीर्थमाहात्म्यवर्णनंनाम षडुत्तर द्विशततमोऽध्यायः ॥२०६॥ N/A References : N/A Last Updated : January 06, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP