संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १६२ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १६२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १६२ Translation - भाषांतर ॥ सूत उवाच ॥एवं नाम्नि कृते तस्य भास्करस्यांशुमालिनः ॥द्विजानां पुरतः पुष्पः कथयामास चेष्टितम् ॥१॥आत्मीयं कुत्सितं तेषां मणिभद्रवधो यथा ॥विहितो विहिता पत्नी तस्य व्याजेन कृत्स्नशः ॥२॥ततस्ते ब्राह्मणाः प्रोचुस्तच्छ्रुत्वा कोपसंयुताः ॥सीत्कारान्प्रचुरान्कृत्वा धिक्त्वां पाप प्रगम्यताम् ॥३॥आत्मीयं हेम चादाय न ते शुद्धिर्भविष्यति ॥४॥ब्रह्मघ्नस्त्वं यतः प्रोक्तास्त्रयो वर्णा द्विजोत्तमाः ॥ब्राह्मणः क्षत्रियो वैश्यः स्मृतिशास्त्रप्रपाठकैः ॥५॥ ॥ सूत उवाच ॥ततस्तु दुःखितः पुष्पो बाष्पसंपूरितेक्षणः ॥ब्रह्मस्थानाद्विनिर्गत्य प्ररुरोद सुदुःखितः ॥६॥रोरूयमाणमालोक्य ततस्ते नागरा द्विजाः ॥दयां च महतीं कृत्वा ततः प्रोचुः परस्परम् ॥७॥नानाविधानि शास्त्राणि स्मृतयश्च पृथग्विधाः ॥पुराणानि समस्तानि वीक्षध्वं सुसमाहिताः ॥८॥कुत्रचित्क्वचिदेवास्य कथंचिच्छुद्धिरस्ति चेत् ॥न तच्च विद्यते शास्त्रमस्मिन्स्थाने न चास्ति यत् ॥९॥ न स्मृतिर्न पुराणं च वेदांतं वा द्विजोत्तमाः ॥न चास्ति ब्राह्मणः सोऽत्र सर्वज्ञप्रतिमो न यः ॥१०॥ तस्माच्चिन्तयत क्षिप्रमस्य शुद्धिप्रदं हि यत् ॥तच्च प्रमाणतां नीत्वा शुद्धिरस्य प्रदीयते ॥११॥अथैको ब्राह्मणः प्राह चंडशर्मेति विश्रुतः ॥मया स्कांदपुराणेऽस्मिन्पुरश्चरणसंश्रिता ॥१२॥पठिता सप्तमी या च पुरश्चरणसंज्ञिता ॥पुरश्चरणतः पापं विहितं तु यथा व्रजेत् ॥१३॥सम्यक्तथापि विप्रेंद्रास्ततो याति न संशयः ॥तस्मात्करोतु तामेष पुरश्चरणसप्तमीम् ॥१४॥अपरं भूभुजादेशान्मणिभद्रो निपातितः ॥वधकैस्तस्य तत्पापं यदि पापं प्रजायते ॥१५॥राजा भूत्वा न यः सम्यग्विचारयति वादिनम् ॥तस्य तत्पातकं घोरं राज्ञश्चैव प्रजायते ॥१६॥तथास्य पत्न्यास्तत्पापं जानंत्या यत्तयोदितम् ॥मत्पित्रा ब्राह्मणैर्दत्तोऽयं पुरा वह्निसंनिधौ ॥१७॥विडंबितेन चानेन कृतप्रतिकृतं कृतम् ॥तस्मान्न चास्य दोषः स्याद्यतः प्रोक्तं मुनीश्वरैः ॥१८॥कृते प्रतिकृतं कुर्याद्धिंसने प्रतिहिंसनम् ॥न तत्र जायते दोषो यो दुष्टे दुष्टमाचरेत् ॥१९॥ ॥ ब्राह्मणा ऊचुः ॥यद्येवं वद विप्रास्य पुरश्चरणसंज्ञिताम् ॥सप्तमीमद्य विप्रेंद्र वराकस्य विशुद्धये ॥२०॥ ॥ सूत उवाच ॥अथास्य कथयामास सप्तमीं तां द्विजोत्तमाः ॥चंडशर्माभिधानस्तु कृत्वा तस्योपरि कृपाम् ॥२१॥तेनापि विहिता सम्यग्यथा तस्य मुखाच्छ्रुता ॥ततः संवत्सरस्यांते विपाप्मा समपद्यत ॥२२॥ ॥ ऋषय ऊचुः ॥पुरश्चरणसंज्ञां तु सप्तमीं वद सूतज ॥विधिना केन कर्तव्या कस्मिन्काल उपस्थिते ॥२३॥ ॥ सूत उवाच ॥अहं वः कीर्तयिष्यामि रोहिताश्वस्य भूपतेः ॥मार्कंडेन पुरा प्रोक्ता पृच्छयमानेन भक्तितः ॥२४॥सप्तकल्पस्मरो विप्रा मार्कंडाख्यो महामुनिः ॥रोहिताश्वेन पृष्टः स हरिश्चंद्रात्मजेन च ॥२५॥ ॥ रोहिताश्व उवाच ॥अज्ञानाज्ज्ञानतो वापि यत्पापं कुरुते नरः ॥उपायं तस्य नाशाय किंचिन्मे वद सन्मुने ॥२६॥ ॥ मार्कंडेय उवाच ॥मानसं वाचिकं चैव कायिकं च तृतीयकम् ॥त्रिविधं पातकं लोके नराणामिह जायते ॥२७॥तत्रोपाया विनाशाय तस्य संपरिकीर्तिताः ॥तानहं ते प्रवक्ष्यामि शृणुष्व नृपसत्तम ॥२८॥मानसं चैव यत्पापं नराणामिह जायते ॥पश्चात्तापे कृते तस्य तत्क्षणादेव नश्यति ॥२९॥वाचिकं चैव यत्पापं नाभुक्त्वा तत्प्रणश्यति ॥पुरश्चरणबाह्यं तु सत्यमेतन्मयोदितम् ॥३०॥निवेद्य ब्राह्मणेंद्राणां तदुक्तं च समाचरेत् ॥प्रायश्चित्तं यथोक्तं तु ततः शुद्धिमवाप्नुयात् ॥३१॥अथवा पार्थिवो ज्ञात्वा कुरुते तस्य निग्र हम् ॥तेन शुद्धिमवाप्रोति यद्यपि स्यात्स किल्विषी ॥३२॥लज्जया ब्राह्मणेंद्राणां यो न ब्रूते कथंचन ॥न च राजा विजानाति शरीरस्थेन यो म्रियेत् ॥तस्य निग्रहकर्ता च स्वयं वैवस्वतो यमः ॥३३॥तस्मात्सर्वप्रयत्नेन कृत्वा पापं विजानता ॥प्रायश्चित्तं तु कर्तव्यं यथोक्तं ब्राह्मणो दितम् ॥३४॥ ॥ रोहिताश्व उवाच ॥सर्वेषामेव पापानां विहितानां मुनीश्वर ॥किंचिद्व्रतं समाचक्ष्व दानं वा होममेव वा ॥विपाप्मा जायते येन पुरश्चरणवर्जितम् ॥३५॥नित्यं पापानि कुरुते नरः सूक्ष्माणि सर्वतः ॥प्रायश्चित्तानि सर्वेषां कर्तुं शक्तिः कथं भवेत् ॥३६॥ ॥ मार्कंडेय उवाच ॥अस्ति राजन्व्रतं पुण्यं पुरश्चरणसंज्ञितम् ॥पुरश्चरणसंज्ञा तु सप्तमी सूर्यवल्लभा ॥३७॥यया संचीर्णया राज न्कायस्थो यमसंभवः ॥विचित्रो मार्जयेत्पापं कृतं जन्मनि संचितम् ॥३८॥तस्मात्कुरु महाराज तथाशु वचनं मम ॥येन वा मुच्यते पापा त्सर्वस्मात्कायसंभवात् ॥३९॥ ॥ रोहिताश्व उवाच ॥पुरश्चरणसंज्ञा तु सप्तमी मुनिसत्तम ॥विधिना केन कर्तव्या कस्मिन्काले वद स्व मे ॥४०॥ ॥ मार्कंडेय उवाच ॥माघमासे सिते पक्षे मकरस्थे दिवाकरे ॥सूर्यवारेण सप्तम्यां व्रतमेतत्समाचरेत् ॥४१॥पाखंडैः पतितैः सार्धं तस्मिन्नहनि नालपेत् ॥भक्षयित्वा नृपश्रेष्ठ प्रभाते दन्तधावनम् ॥मंत्रेणानेन पश्चाच्च कर्तव्यो नियमो नृप ॥४२॥पुरश्चरणकृत्यायां सप्तम्यां दिवसाधिप ॥उपवासं करिष्यामि अद्य त्वं शरणं मम ॥४३॥ततोऽपराह्णसमये स्नात्वा धौतांबरः शुचिः ॥प्रतिमां पूजयेद्भक्त्या दिनाधिपसमुद्भवाम् ॥४४॥रक्तैः पुष्पैर्महावीर पादाद्यं पूजयेत्ततः ॥पतंगाय नमः पादौ मार्तंडायेति जानुनी ॥४५॥गुह्यं दिवसनाथाय नाभिं द्वादश मूर्तये ॥बाहू च पद्महस्ताय हृदयं तीक्ष्णदीधिते ॥४६॥कंठं पद्मदलाभाय शिरस्तेजोमयाय च ॥एवं संपूज्य विधिवद्धूपं कर्पूरमाददेत् ॥४७॥गुडौदनं च नैवेद्यं रक्तवस्त्राभिवेष्टितम् ॥रक्तसूत्रेण दीपं च तथैवारार्तिकं नृप ॥४८॥शंखे तोयं समादाय रक्तचन्दनमिश्रितम् ॥सफलं च ततः कृत्वा अर्घ्यं दद्यात्ततः परम् ॥४९॥कुकृतं यत्कृतं किंचिदज्ञानाज्ज्ञानतोऽपि वा ॥प्रायश्चित्तं कृतं देव ममार्घ्यश्च प्रगृह्यताम् ॥५०॥ततः संपूजयद्विप्रं गन्धपुष्पानुलेपनैः ॥दत्त्वा तु भोजनं तस्मै दक्षिणां च स्वशक्तितः ॥प्राशनं कायशुद्ध्यर्थं पञ्चगव्यस्य चाचरेत् ॥५१॥कृतांजलिपुटो भूत्वा समुद्वीक्ष्य दिवाकरम् ॥दिवाकरं गतश्चैव मन्त्रमेतं समुच्चरेत् ॥५२॥इदं व्रतं मया देव गृहीतं पुरतस्तव ॥अविघ्नं सिद्धिमायातु प्रसादात्तव भास्कर ॥५३॥ततश्च फाल्गुने मासि संप्राप्ते मुनिसत्तम ॥कुन्देन पूजयेद्देवं तेनैव विधिना ततः ॥५४॥धूपं च गुग्गुलुं दद्यान्नैवेद्यं भक्तमेव च ॥प्राशनं गोमयं प्रोक्तं सर्वपापविशुद्धये ॥५५॥चैत्रे मासि तु संप्राप्ते सुरभ्या पूज्येद्धरिम् ॥नैवेद्यं गुणिकाः प्रोक्ता धूपं सर्जरसोद्भवम् ॥५६॥कुशोदकं च संप्राश्य कायशुद्धिमवाप्नुयात् ॥वैशाखे किंशुकैः पूजां यथावच्च घृताशनैः ॥५७॥नैवेद्यं च सुरामांसं धूपं च विनिवेदयेत् ॥दधिप्राशनमेवात्र कर्तव्यं कायशुद्धये ॥५८॥पुष्पपाटलया पूजा विधातव्या रवेर्नृप ॥नैवेद्ये सक्तवः प्रोक्ताः प्राशनं च घृतं स्मृतम् ॥५९॥कपिलाया महावीर सर्वपापविशुद्धये ॥आषाढे मुनिपुष्पैश्च पूजयेद्भास्करं नृप ॥६०॥नैवेद्ये घारिका प्रोक्ता प्राशनं मधुसर्पिषोः ॥धूपं चैवागरुं दद्यात्परया श्रद्धया युतः ॥६१॥श्रावणे तु कदंबेन पूजनं तीक्ष्णदीधितेः ॥नैवेद्ये मोदकाश्चैव तगरं धूप माददेत् ॥६२॥गोशृंगोदकमादाय सद्यः पापात्प्रमुच्यते ॥जात्या भाद्रपदे पूजा क्षीरनैवेद्यमाददेत् ॥६३॥धूपं नखसमुद्भूतं प्राशनं क्षीरमेव च ॥आश्विने कमलैः पूजा नैवेद्ये घृतपूरिका ॥६४॥धूपं कुंकुमजं प्रोक्तं कर्पूरप्राशनं स्मृतम् ॥६५॥तुलस्या कार्तिके पूजा भास्करस्य प्रकीर्तिता ॥नैवेद्ये चैव खंडाख्यं धूपं कौसुंभिकं नृप ॥६६॥प्राशनं च लवंगाख्यं सर्वपापविशोधनम् ॥भृंगराजेन पूजा च सौम्ये मासि समाचरेत् ॥६७॥नैवेद्ये फेणिका देया धूपं गुडसमुद्भवम् ॥कंकोलप्राशनं चैव भास्करस्य प्रतुष्टये ॥६८॥शतपत्रिकया पूजा पौषे मासि रवेः स्मृता ॥सहजं धूपमादिष्टं नैवेद्ये शुष्कली तथा ॥६९॥प्राशने पूर्वमुक्तानि सर्वाण्येव समाचरेत् ॥समाप्तौ च ततो दद्यात्षड्भागं गृहसंभवम् ॥७०॥ब्राह्मणाय नृपश्रेष्ठ सर्वपापविशुद्धये ॥इष्टभोज्यं ततः कार्यं स्वशक्त्या पार्थिवोत्तम ॥७१॥एवं तु कुरुते योऽत्र सप्तमीं भास्करोद्भवाम् ॥सर्वपापविनिर्मुक्तो निर्मलत्वं स गच्छति ॥७२॥ ॥ ब्राह्मणा ऊचुः ॥एवं पुरा वै कथिता रोहिताश्वाय धीमते ॥मार्कंडेन महाभाग तस्मात्त्वमपि तां कुरु ॥७३॥येन संजायते सम्यक्पुरश्चरणमेव ते ॥७४॥ ॥ सूत उवाच ॥तस्य तद्वचनं श्रुत्वा पुष्पोऽपि द्विजसत्तमाः ॥तां चक्रे सप्तमीं हृष्टो यथा तेन निवेदिता ॥७५॥षड्भागं प्रददौ तस्मै ब्राह्मणाय महात्मने ॥स्ववित्तस्य गृहस्थस्य कुप्याकुप्यस्य कृत्स्नशः ॥७६॥सोऽपि जग्राह तद्वित्तं प्रहृष्टेनांतरात्मना ॥सुवर्णमणि रत्नानि संख्यया परिवर्जितम् ॥७७॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुरश्चरणसप्तमीव्रतविधानवर्णनंनाम द्विषष्ट्युत्तरशततमोऽध्यायः ॥१६२॥ N/A References : N/A Last Updated : December 31, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP