संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १०४ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १०४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १०४ Translation - भाषांतर ॥ ऋषय ऊचुः ॥राक्षसैस्तत्र लिंगानि यानि भक्त्या समन्वितैः ॥स्थापितानि च माहात्म्यं तेषां सूत प्रकीर्तय ॥१॥ ॥ सूत उवाच ॥तेषां पूजाकृते रौद्रा राक्षसा बलवत्तराः ॥लंकापुर्याः समायांति सदैव शतशः पुरा ॥२॥आगच्छन्तो व्रजन्तस्ते मार्गे क्षेत्रे च तत्र च ॥भक्षयन्ति जनौघांश्च बालवृद्धाञ्जनानपि ॥३॥ततस्ते मानवाः सर्वे प्रद्रवंतः समंततः ॥इतश्चेतश्च धावन्ति प्राणरक्षणतत्पराः ॥४॥तथान्ये बहवो गत्वा ह्ययोध्याख्यां महापुरीम् ॥रामपुत्रं नृपश्रेष्ठं कुशं प्रोचुः सुदुःखिताः ॥५॥तव पित्रा समं प्राप्ताः पूर्वं ये राक्षसा नृप ॥हाटकेश्वरजे क्षेत्रे विभीषणपुरःसराः ॥६॥संस्थापितानि लिंगानि चतुर्वक्त्राणि तत्र वै ॥राक्षसेंद्रैः स्वमन्त्रैस्तैस्तस्य क्षेत्रस्य पश्चिमे ॥७॥तेनैव चानुषंगेण समागच्छंति नित्यशः ॥तस्मिन्क्षेत्रे प्रकुर्वंति तथा लोकस्य भक्षणम् ॥८॥यदि वा तानि लिंगानि कश्चित्संपूजयेन्नरः ॥सद्यो विनाशमायाति सोऽप्यनर्थो महानभूत् ॥९॥तस्माद्यदि न रक्षा नः करिष्यसि महीपते ॥तच्छनैर्यास्यते लोकः सर्वोऽयं संक्षयं ध्रुवम् ॥१०॥तच्च क्षेत्रं विशेषेण यत्रागच्छंति ते सदा ॥राक्षसाः क्रूरकर्माणो महामांसस्य लोलुपाः ॥११॥तच्छ्रुत्वा स नृपस्तूर्णं स्वामात्यानां न्यवेदयत् ॥राज्यभारं ततस्तत्र बलेन सहितो ययौ ॥१२॥अथ प्राप्तं कुशं दृष्ट्वा हतशेषा द्विजोत्तमाः ॥प्रोचुस्तं भर्त्सयित्वा तु वचनैः परुषाक्षरैः ॥१३॥किमेवं क्रियते राज्यं यथा त्वं क्षत्रियाधमः ॥करोषि यत्र विध्वंसं राक्षसै र्नीयते जनः ॥१४॥नूनं जातो न रामेण भवान्रावणसंभवः ॥येनोपेक्षसि सर्वान्नो राक्षसैः परिपीडितान् ॥१५॥सत्यमेतत्पुरा प्रोक्तं नीतिशास्त्रविचक्षणैः ॥यस्य वर्णस्य यो राजा स वर्णः सुखमेधते ॥१६॥तस्मात्त्वं राक्षसोद्भूतो राक्षसैर्द्विजसत्तमान् ॥उपेक्षसे ततः सर्वान्भक्ष्यमाणांस्तथापरान् ॥१७॥आर्तानां यत्र लोकानां दोषैः पार्थिवसंभवैः ॥पतंत्यश्रूणि भूपृष्ठे तत्र राजा स दोषभाक् ॥१८॥ ॥ कुश उवाच ॥प्रसादः क्रियतां विप्रा न मया ज्ञातमीदृशम् ॥राक्षसेभ्यः समुत्पन्नो ब्राह्मणानां पराभवः ॥१९॥अद्यप्रभृति यः कश्चिद्विनाशं नीयते क्वचित् ॥ब्राह्मणो वाऽथवाऽन्योऽपि तद्भवेन्मम पातकम् ॥२०॥एवमुक्त्वा ततस्तूर्णं प्रेषयामास राघवः ॥विभीषणाय संक्रुद्धो दूतं भयविवर्जितम् ॥२१॥गच्छ दूत द्रुतं गत्वा त्वया वाच्यो विभीषणः ॥रामोचितस्त्वया स्नेहो मया सह कृतो महान् ॥२२॥यद्राक्षसगणैः सार्धं मम भूमिं समंततः ॥त्वं क्लेशयसि दुर्बुद्धे मां विश्वास्य सुभाषितैः ॥२३॥मम पित्रा कृतेयं ते प्रतिष्ठा राक्षसाधम ॥तेन नो हन्मि ते भ्राता यथा तातेन शातितः ॥२४॥विषवृक्षोऽपि यो वृद्धिं स्वयमेव प्रणीयते ॥कथं संछिद्यते सोऽत्र स्वयमेव मनीषिभिः ॥२५॥तस्मादद्य दिनादूर्ध्वं यदि कश्चिन्निशाचरः ॥समुद्रस्योत्तरं पारं कथंचिदागमिष्यति ॥२६॥तदहं सत्वरं प्राप्य लंकां तव पुरीमिमाम् ॥ससैन्यो ध्वंसयिष्यामि तथा सर्वान्निशाचरान् ॥२७॥त्वां च बद्ध्वा दृढैः पाशैर्निगडैश्च सुसंयतम् ॥कारासंस्थं करिष्यामि सद्य एव न संशयः ॥२८॥एवमुक्तस्ततो दूतो गत्वा सेतुं द्रुतं ततः ॥दृष्ट्वा रामेश्वरं देवं यावदग्रे व्यव स्थितः ॥२९॥तावत्पृष्टो जनैः कैश्चित्कस्त्वं वत्स इहागतः ॥केन कार्येण नो ब्रूहि नात्र गच्छंति मानवाः ॥३०॥ ॥ दूत उवाच ॥अहं कुशेन भूपेन विभीषणगृहं प्रति ॥प्रेषितः कार्यमुद्दिश्य तत्र यास्याम्यहं कथम् ॥३१॥ ॥ जना ऊचुः ॥नातः परं नरः कश्चिद्गन्तुं शक्तः कथंचन ॥भग्नः सेतुर्यतो मध्ये रामेणाक्लिष्टकर्मणा ॥३२॥तस्मादत्रैव ते कार्यं सिद्धिं दूत प्रयास्यति ॥विभीषणकृतं सर्वं दर्शनात्तस्य रक्षसः ॥३३॥सर्वदा राक्षसेन्द्रोऽसौ शुभं रामेश्वरत्रयम् ॥त्रिकालं पूजयत्येव नियमं समुपाश्रितः ॥३४॥लंकाद्वारे स्थितो यो वै सेतुखण्डे महेश्वरः ॥प्रभाते कुरुते तस्य स्वयं पूजां विभीषणः ॥३५॥जलमध्यगतं यच्च सेतुखंडं द्वितीयकम् ॥तत्र रामेश्वरो यश्च मध्याह्ने तं प्रपूजयेत् ॥३६॥एनं देव निशीथे च सर्वदागत्य भक्तितः ॥संपूजयेन्न सन्देहः सत्यमेतत्प्रकीर्तितम् ॥३७॥तस्मात्तिष्ठ त्वमव्यग्रः स्थानेऽत्रैव समाहितः ॥यावदागमनं तस्य राक्षसस्य महात्मनः ॥३८॥तेनैव सहितः पश्चात्स्वेच्छया तस्य मन्दिरम् ॥प्रयास्यसि गृहं वापि स्वकीयं तद्विसर्जितः ॥३९॥अथ तेषां तदाकर्ण्य स दूतो हर्षसंयुतः ॥बाढमित्येव चोक्त्वाथ तत्र चैव व्यवस्थितः ॥४०॥अथ प्राप्ते निशार्धे स राक्षसैः परिवारितः ॥विभीषणः समायातस्तस्मिन्नायतने शुभे ॥४१॥विमानवरमारूढः स्तूयमानः समन्ततः ॥राक्षसैर्बंदिरूपैस्तैर्गीयमानस्तथा परैः ॥४२॥उत्तीर्य च विमानाग्र्यात्कृत्वाऽथ त्रिः प्रदक्षिणाम् ॥रामेश्वरं प्रणम्योच्चैः स्तोत्रमेतच्चकार सः ॥४३॥नमस्ते देवदेवेश भक्तानामभयप्रद ॥सर्वतः पाणिपादं ते सर्वतोक्षिशिरोमुखम् ॥४४॥त्वं यज्ञस्त्वं वषट्कारस्त्वं चंद्रस्त्वं प्रभाकरः ॥त्वं विष्णुस्त्वं चतुर्वक्त्रः शक्रस्त्वं परमेश्वरः ॥४५॥यथा तिलगतं तैलं गूढं तिष्ठति सर्वदा ॥तथा त्वं सर्व लोकेषु गूढस्तिष्ठसि शंकर ॥४६॥यथा काष्ठगतो वह्निः संस्थितोऽपि न लक्ष्यते ॥मूढैः सर्वत्रसंस्थोपि तथा त्वं नैव लक्ष्यसे ॥४७॥यथा दधिगतं सर्पिर्निगूढत्वेन संस्थितम् ॥चराचरेषु भूतेषु तथा त्वं देव संस्थितः ॥४८॥यथा जलं धरापृष्ठात्खनन्नाप्नोति मानवः ॥तथा त्वां पूजयन्नित्यं मोक्षमाप्नोत्यसंशयम् ॥४९॥तावच्च दुर्लभः स्वर्गस्तावच्छूराश्च शत्रवः ॥यावदेव न सन्तोषं त्वं करोषि शरीरिणाम् ॥५०॥तावल्लक्ष्मीश्चला नॄणां तावद्रोगाः पृथग्विधाः ॥न यावद्देवदेव त्वं सन्तोषं संप्रयास्यसि ॥५१॥तावत्पुत्रोद्भवं दुःखं तथा प्रियसमु द्भवम् ॥यावत्त्वं देव नायासि सन्तोषं देहिनामिह ॥५२॥एवं स्तुत्वा ततो लिंगं स्नापयित्वा यथाविधि ॥गन्धानुलेपनैदिव्यैर्मर्दयामास वै ततः ॥५३॥पारिजातकपुष्पैश्च तथा सन्तानसम्भवैः ॥कल्पपादपसंभूतैस्तथा मन्दारजैरपि ॥५४॥पूजां चक्रे सुविस्तीर्णा श्रद्धया परया युतः ॥दिव्यैराभरणैर्भूष्य दिव्यवस्त्रैस्ततः परम् ॥५५॥स च गीतं स्वयं चक्रे तालमादाय पाणिना ॥मूर्छातालकृतं रम्यं सप्तस्वरविराजितम् ॥५६॥तानयुक्त्या समोपेतं ग्रामै रागैः स्वलंकृतम् ॥एवं कृत्वा स शुश्रूषा तस्य देवस्य भक्तितः ॥५७॥यावत्संप्रस्थितो भूयो लंकां प्रति विभीषणः ॥तावद्दूतोऽग्रतः स्थित्वा कुशवाक्यमुवाच ह ॥५८॥विशेषतस्तु तेनोक्तं यत्तस्य पुरतः पुरा ॥अतिकोपाभिभूतेन प्ररक्तनयनेन च ॥५९॥तच्छ्रुत्वाथ प्रणम्योच्चैर्दूतं प्राह विभीषणः ॥कृतांजलिपुटो भूत्वा विनयावनतः स्थितः ६०॥यद्येवं विहितं राज्ये रामपुत्रस्य राक्षसैः ॥तन्नूनं तन्मया सर्वं विहितं दूतसत्तम ॥६१॥तस्मान्महाप्रसादो मे कृतस्तेन महात्मना ॥कुशेन प्रेषितो यस्त्वं मम मूर्खस्य संनिधौ ॥६२॥एवमुक्त्वा स तान्सर्वाञ्छोधयामास राक्षसान् ॥ये गत्वा भूतले मर्त्यान्ध्वंसयंति सदैव हि ॥६३॥ततस्तत्रैव चानीय तस्य दूतस्य संनिधौ ॥प्रत्येकं तानुवाचेदं कोपादश्रूणि चोत्सृजन् ॥६४॥यैः कृतो जनविध्वंसो राक्षसैः सुदुरात्मभिः ॥राज्ये कुशस्य संप्राप्तैः प्रभोर्मम महात्मनः ॥६५॥ते सर्वे व्यंतरा रौद्राः प्रभवंतु सुदुःखिताः ॥लंकाद्वारगता नित्यं क्षुत्पिपासानिपीडिताः ॥६६॥सर्वभोगपरित्यक्ताः शीतातपसहि ष्णवः ॥श्लेष्ममूत्रकृताहारा निन्द्याः सर्वजनस्य च ॥६७॥एवं दत्त्वाथ तेषां स शापं राक्षससत्तमः ॥ततः प्राह च तं दूतं पुनरेव कृतां जलिः ॥६८॥अद्यप्रभृति नो कश्चिद्राक्षसः संप्रयास्यति ॥तस्माद्वाच्यो रघुश्रेष्ठो मद्वाक्यात्स कुशस्त्वया ॥क्षम्यतामपराधो मे यदज्ञाना दयंकृतः ॥६९॥राक्षसैर्दुष्टजातीयैर्महामांसस्यलोलुपैः ॥कृतश्च निग्रहस्तेषां प्रत्यक्षं तव दूत यः ॥७०॥यदन्यदपि कृत्यं स्याद्दैवं वा मानुषं च वा ॥मम भृत्यस्य तत्सर्वं कथनीयमशंकितम् ॥७१॥ ॥ दूत उवाच ॥यानि तत्र च लिंगानि राक्षसैर्निर्मितानि च ॥तानि गत्वा स्वयं शीघ्रं त्वमुत्पाटय राक्षस ॥७२॥एतदेव परं कृत्यं सर्वलोकसुखावहम् ॥स्थापितानि च यान्येव मंत्रै राक्षससंभवैः ॥७३॥संपूजितानि रक्षोभिश्चतुर्वक्त्राणि राक्षस ॥अजानन्मानवः कश्चिद्यदि पूजां समाचरेत् ॥७४॥तत्क्षणान्नाशमायाति एतद्दृष्टं मया स्वयम् ॥एतस्मात्कारणाद्वच्मि त्वामहं राक्षसाधिप ॥तैः स्थितैर्भूतले लिंगैः स्थिताः सर्वे निशाचराः ॥७५॥ ॥ विभीषण उवाच ॥मया पूर्वं प्रतिज्ञातं रामस्य पुरतः किल ॥रामेश्वरमतिक्रम्य न गतव्यं धरातले ॥७६॥अन्यच्च कारणं दूत प्रोक्तमत्र मनीषिभिः ॥दुःस्थितं सुस्थितं वापि शिवलिंगं न चालयेत् ॥७७॥तत्कथं तत्र गत्वाऽथ लिंगभेदं करोम्यहम् ॥स्वयं माहेश्वरो भूत्वा प्रतिज्ञाय च वै स्वयम् ॥७८॥तस्मात्प्रसादनीयस्ते मद्वाक्यात्स नराधिपः ॥यद्युक्तं मया प्रोक्तं तत्त्वं कुरु विनिग्रहम् ॥७९॥एवमुक्त्वाथ तं दूतं रत्नैः सागरसंभवैः ॥प्रभूतैर्भूषयित्वाऽथ विससर्ज नृपं प्रति ॥८०॥अथ ते राक्षसास्तेन शप्ताः प्रोचुः सुदुःखिताः ॥कुरु शापस्य मोक्षं नः सर्वेषां राक्षसेश्वर ॥८१॥ ॥ विभीषण उवाच ॥नाहं करोमि भूयोऽपि युष्माकं राक्षसाधमाः ॥अनुग्रहं प्रशप्तानां वंचकानां विशेषतः ॥८२॥तस्मात्सोऽपि रघुश्रेष्ठः प्रसादं वः करिष्यति ॥मम वाक्याद संदिग्धं कालः कश्चित्प्रतीक्ष्यताम् ॥८३॥एवमुक्त्वाऽथ रक्षेन्द्रः प्रेषयामास सत्वरम् ॥दूतं कुशमहीपस्य मानुषं देवपूजकम् ॥८४॥गत्वा ब्रूहि कुशं भूपं सत्वरं वचनान्मम ॥एतेषां मत्प्रशप्तानां राक्षसानां दुरात्मनाम् ॥अनुग्रहं कुरु विभो दीनानां भोजनाय वै ॥८५॥एवमुक्तस्ततस्तेन इतो दूतेन संयुतः ॥कुशस्तेन विनिर्यातः सत्वरं द्विजसत्तमाः ॥८६॥ततो गत्वा द्रुतं दूतः कुशं प्रोवाच सादरम् ॥प्रणिपत्य यथा न्यायं विनयावनतः स्थितः ॥८७॥विभीषणो मया दृष्टो देवे रामेश्वरे विभो ॥पूजार्थं तत्र चायातो राक्षसैर्बहुभिर्वृतः ॥८८॥प्रोक्तो मया भवद्वाक्यमशेषं रघुनन्दन ॥श्रुतं तेनापि तत्सर्वं विनयावनतेन च ॥८९॥अजानतः प्रभो तस्य राक्षसैः सुदुरात्मभिः ॥प्रजैवं पीडिता भूमौ महामांसस्य लोलुपैः ॥९०॥तच्छ्रुत्वा मन्मुखात्तेन सर्वेषां निग्रहः कृतः ॥यैः कृतं कदनं भूमौ तव पार्थिव सत्तम ॥कृतास्ते व्यन्तरा सर्वे पापाहारविहारिणः ॥९१॥भविष्यथ तथा यूयं क्षुत्पिपासानिपीडिताः ॥तैः सर्वैः प्रार्थितः सोऽपि भूयोभूयः प्रणम्य तम् ॥९२॥शप्ताः सर्वे वयं तावत्प्रसादं कुरु तद्विभो ॥ते तेनाथ ततः प्रोक्ता नाहं वो राक्षसाधमाः ॥९३॥अनुग्रहं करिष्यामि न दास्यामि च भोजनम् ॥कुशादेशान्मया सर्वे यूयं पापसमन्विताः ॥९४॥निगृहीताः स युष्माकं प्रसादं प्रकरिष्यति ॥तदर्थं प्रेषितो दूतस्त्वत्सकाशं महीपते ॥९५॥रक्षसा तेन यद्युक्तमखिलं तत्त्वमाचर ॥किं वा ते बहुनोक्तेन नास्ति भक्तस्तथा विधः ॥भक्तिशक्तिसमोपेतो यथा ते स विभीषणः ॥९६॥अद्यप्रभृति नो भूमौ विचरिष्यंति राक्षसाः ॥तस्य वाक्यादसंदेहं त्वं राजन्सुख भाग्भव ॥९७॥लिंगानां च कृते राजन्विज्ञप्तं तेन रक्षसा ॥न मया चात्र राजेंद्र आगन्तव्यं कथंचन ॥रामदेवस्य वाक्येन जंबुद्वीपे न मे गतिः ॥९८॥अत्र स्थितस्य यत्कृत्यं दैवं वा मानुषं च वा ॥तवादेशं करिष्यामि यद्यपि स्यात्सुदुष्करम् ॥९९॥तस्मात्तेन महाराज रामेश्वरप्रपूजकः ॥मनुष्यः प्रेषितो दूतो यस्तं पश्य महीपते ॥१००॥अथ तस्य समादेशाड्ढौकनीयैः पृथग्विधैः ॥सहितः स समायातो दूतो रक्षेंद्रनोदितः ॥१०१॥धात्रीफलप्रमाणानां तेन प्रस्थास्त्रयोदश ॥मौक्तिकानां समानीताः कृते तस्य महीपतेः ॥१०२॥वैडूर्याणां मरकतानां मणीनां च द्विजोत्तमाः ॥जात्यानां षोडश द्रोणाः समानीताः सुनिर्मलाः ॥१०३॥अग्निशौचानि वस्त्राणि तथा देवमयानि च ॥असंख्यातानि वै हेम जात्यं संख्याविवर्जितम् ॥१०४॥तत्सर्वं दर्शयित्वाथ कुशाय सुमहात्मने ॥कृत्वा प्रदक्षिणं पश्चात्प्रणाममकरोद्द्विजाः ॥१०५॥एष पार्थिवशार्दूल राक्षसेन्द्रो विभीषणः ॥प्रणामं कुरुते भक्त्या मन्मुखेनेदमब्रवीत् ॥१०६॥प्रसादात्ते पितुः क्षेमं मम राज्ये मही पते ॥एष तिष्ठाम्यहं नित्यं पूजयंस्ते पितुर्हरम् ॥१०७॥मम राजन्नविज्ञातैर्यदि तैः सुदुरात्मभिः ॥महीतले कृतं किंचिद्विरुद्धं क्षम्यतां मम ॥१०८॥एते ये राक्षसाः शप्तास्तवार्थाय मया प्रभो ॥एतेषां प्रेतरूपाणां त्वमाहारं प्रकीर्तय ॥१०९॥ ॥ कुश उवाच ॥ममादेशात्समागत्य तेऽत्र लिंगानि कृत्स्नशः ॥पूरयंतु प्रयत्नेन पांसुभिः सर्वतोदिशम् ॥११०॥ततस्तु भोजनं तेषां यद्भविष्यति भूतले ॥तद्वक्ष्यामि स्थिरो भूत्वा शृणु देवप्रपूजक ॥१११॥तुलागते सदादित्ये तैरागत्य धरातले ॥विहर्तव्यं प्रयत्नेन यावद्वृश्चिकदर्शनम् ॥११२॥तत्र यैर्न कृतं श्राद्धं प्रेतपक्षे नराधमैः ॥कन्यास्थे वा रवौ यावन्न तुलांतगतिर्भवेत् ॥११३॥ज्वररूपैस्तदंगस्थैर्भक्ष्यमन्नं पृथग्विधम् ॥ममादेशादसंदिग्धं मासमेकं निशाचरैः ॥११४॥विधिहीनं च यैर्दत्तं भुक्तं च विधिवर्जितम् ॥श्राद्धं वा मानुषैः सेव्या ज्वररूपैश्च ते सदा ॥११५॥एवं वाच्यास्त्वया सर्वे प्रेतास्ते मद्वचोऽखिलम् ॥तस्मादागत्य कुर्वंतु कार्तिके मासि मद्वचः ॥११६॥तथा दूत त्वया वाच्यो मम वाक्याद्विभीषणः ॥प्रमादाद्यन्मया प्रोक्तं परुषं वचनं तव ॥११७॥जानाम्यहं महाभाग न तेऽस्ति विकृतिः क्वचित् ॥परिक्लिष्टं जनं दृष्ट्वा मयैतद्व्याहृतं वचः ॥११८॥राक्षसेन्द्रे स्थिते भूमौ त्वयि जानाम्यहं सदा ॥तिष्ठते जनको मह्यं रामः शस्त्रभृतां वरः ॥११९॥एवमुक्त्वा ततो दूतं पूजया मास राघवः ॥वस्त्रैर्बहुविधै रत्नैर्नद्युत्थैश्च पृथग्विधैः ॥१२०॥विभीषणकृते पश्चात्प्रेषयामास राघवः ॥ढौकनीयान्यनेकानि यानि संति च तत्र वै ॥१२१॥ ॥ सूत उवाच ॥एवं स सुखसंयुक्तान्कृत्वा सर्वान्द्विजोत्तमान् ॥एतत्सर्वं ददौ पश्चात्तेभ्यो मुक्तादिकं नृपः ॥१२२॥ढौकनीयं तथाऽऽयातं तल्लंकायाः पृथग्विधम् ॥शासनानि तथान्यानि गजाश्वसहितानि च ॥१२३॥पत्तनानि विचित्राणि ग्रामाणि नगराणि च ॥यच्चान्यद्वांछितं येन तद्दत्तं तेन तस्य वै ॥१२४॥ततः कुशेश्वरं देवं विधाय च लवेश्वरम् ॥स्वां तनुं च महाभागौ भ्रातरौ तौ रघूत्तमौ ॥१२५॥निवेद्य ब्राह्मणेन्द्राणां कृत्वा वृत्तिं यथोचिताम् ॥अयोध्यां नगरीं तूर्णं कृतकृत्यौ विनिर्गतौ ॥१२६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कुशेश्वरलवेश्वरप्रतिष्ठावर्णनंनाम चतुरुत्तरशततमोऽध्यायः ॥१०४॥ छ ॥ N/A References : N/A Last Updated : December 29, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP