संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २१६ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २१६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २१६ Translation - भाषांतर ॥ आनर्त उवाच ॥अन्येऽपि विविधाः कालाः सन्ति पुण्यतमा द्विज ॥कस्माच्चेंदुक्षये श्राद्धं विशेषा त्समुदाहृतम् ॥१॥एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने ॥२॥ ॥ भर्तृयज्ञ उवाच ॥सत्यमेतन्महाराज श्राद्धार्हाः संति भूरिशः ॥कालाः पितृगणानां च तृप्तिदास्तुष्टिदाश्च ये ॥३॥मन्वाद्या वा युगाद्याश्च तेषां संक्रांतयोऽपराः ॥व्यतीपातो गजच्छाया ग्रहणं सोम सूर्ययोः ॥४॥एतेषु युज्यते श्राद्धं प्रकर्तुं पितृतृप्तये ॥तथा तीर्थे विशेषेण पुण्य आयतने शुभे ॥५॥श्राद्धार्हैर्ब्राह्मणैः प्राप्तैर्द्रव्यैर्वा पितृवल्लभैः ॥अपर्वण्यपि कर्तव्यं सदा श्राद्धं विचक्षणैः ॥६॥सोमक्षये विशेषेण शृणुष्वैकमना नृप ॥अमा नाम रवे रश्मिसहस्रप्रमुखः स्थितः ॥७॥यस्य स्वतेजसा सूर्यः प्रोक्तस्त्रैलोक्यदीपकः ॥तस्मिन्वसति येनेन्दुरमावस्या ततः स्मृता ॥८॥अक्षया धर्मकृत्ये सा पितृकृत्ये विशेषतः ॥अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ॥९॥रश्मिपा उपहूताश्च तथैवायंतुनाः परे ॥तथा श्राद्धभुजश्चान्ये स्मृता नान्दीमुखा नृप ॥२११०॥एते पितृगणाः ख्याता नव देवसमुद्भवाः ॥आदित्या वसवो रुद्रा नासत्यावश्विनावपि ॥११॥सन्तर्पयन्ति ते चैतान्मुक्त्वा नान्दीमुखान्पितॄन् ॥ब्रह्मणा ते समादिष्टाः पितरो नृपसत्तम ॥१२॥तान्संतर्प्य ततः सृष्टिं कुरुते पद्मसंभवः ॥१३॥पितरो अन्येऽपि मर्त्या निवसन्ति त्रिविष्टपे ॥द्विविधास्ते प्रदृश्यंते सुखिनोऽसुखिनः परे ॥१४॥येभ्यः श्राद्धानि यच्छंति मर्त्य लोके स्ववंशजाः ॥ते सर्वे तत्र संहृष्टा देववन्मुदिताः स्थिताः ॥१५॥येषां यच्छन्ति ते नैव किंचित्किञ्चित्स्ववंशजाः ॥क्षुत्पिपासाकुला स्ते च दृश्यन्ते बहुदुःखिताः ॥१६॥कस्यचित्त्वथ कालस्य पितरः सुरपूजिताः ॥अग्निष्वात्तादयः सर्वे त्रिदशेन्द्रमुपस्थिताः ॥१७॥भक्त्या दृष्टा महाराज सहस्राक्षेण पूजिताः ॥तथान्यैर्विबुधैः सर्वैः प्रस्थिताः स्वे निकेतने ॥१८॥पितृलोकं महाराज दुर्लभं त्रिदशैरपि ॥तान्दृष्ट्वा प्रस्थितान्राजन्पितरो मर्त्यसंभवाः ॥१९॥क्षुत्पिपासार्दिता ये च त ऊचुर्दैन्यमाश्रिताः ॥स्तुत्वाऽथ सुस्तवैर्दिव्यैः पितृसूक्तैश्च पार्थिव ॥२१२०॥वेदोक्तैरपरैश्चैव पितृतुष्टिकरैः परैः ॥ततः प्रोचुश्च संहृष्टाः पितरस्तान्सुरोद्भवाः ॥२१॥प्रसन्नाः स्मो वयं सर्वे युष्माकं शंसितव्रताः ॥तस्माद्ब्रूत वयं येन यच्छामो वो हृदि स्थितम् ॥२२॥ ॥ पितर ऊचुः ॥वयं हि पितरः ख्याता मनुष्याणामिहागताः ॥स्वर्गे स्वकर्मणा नित्यं निवसाम सुरैः सह ॥२३॥विमानेषु विचित्रेषु संस्थिताः सर्वतोदिशम् ॥वांछितेषु च लोकेषु यामो ध्वजपताकिषु ॥२४॥हंसबर्हिण जुष्टेषु संसेव्येष्वप्सरोगणैः ॥गन्धर्वैर्गीयमानाश्च स्तूयमानाश्च गुह्यकैः ॥२५॥परं सन्तिष्ठमानानामस्माकं त्रिदशैः सह ॥अत्यर्थं जायते तीव्रा क्षुत्पिपासा सुदारुणा ॥२६॥यस्या मन्यामहे चित्ते वह्निमध्यगता वयम् ॥भक्षयामः किमेतान्हि पक्षिणो विविधानपि ॥२७॥हंसादीन्मधुरालापान्किं वा चाप्सरसां गणान् ॥यदि कश्चित्क्षुधाविष्टः कञ्चिदादाय पक्षिणम् ॥गुप्तो गृह्णाति भक्षार्थं हन्तुं शक्तोऽपि सोऽपि न ॥२८॥अजराश्चामराश्चैव स्वर्गे ये स्वर्गगाः खगाः ॥तथा मनोरमा वृक्षा नन्दनादि वनेषु च ॥२९॥फलिता ये प्रदृश्यंते प्राप्यांश्चापि मनोरमाः ॥तत्फलानि वयं सर्वे गृह्णीमः पितरो यदि ॥३०॥न त्रुटंत्यपि यत्नेन समाकृष्टानि तान्यपि ॥एतल्लेखापगातोयं तृषार्त्ता यदि यत्नतः ॥प्रपिबामो न हस्तेषु तच्च तोयं पुनः स्पृशेत् ॥३१॥भुंजानश्च न कोऽप्यत्र दृश्यतेऽत्र पिबन्नपि ॥तस्मात्त्रिविष्टपावासो ह्यस्माकं घोरदारुणः ॥३२॥एते सुरगणाः सर्वे ये चान्ये गुह्यकादयः ॥दृश्यंतेऽत्र विमानस्था सर्वे संहृष्टमानसाः ॥३३॥क्षुत्पिपासापरित्यक्ता नानाभोगसमाश्रयाः ॥कदाचिच्च वयं सर्वे भवामस्तादृशा इव ॥३४॥क्षुत्पिपासापरित्यक्ताः सतोषं परमं गताः ॥तत्किं कारणमेतद्यत्क्षुत्पि पासा प्रजायते ॥३५॥आकस्मिकी च बाधा नः कदाचिन्न प्रणश्यति ॥तथा कुरुत भद्रं वो यथा तुष्टिः प्रजायते ॥३६॥शाश्वती नो यथाऽन्येषां देवानां स्वर्गवासिनाम् ॥यूयं हि पितरो यस्माद्देवानां भावितात्मनाम् ॥३७॥वयं चैव मनुष्याणां तेन वः शरणं गताः ॥ ॥ पितर ऊचुः ॥अस्माकमपि चैवैषा कष्टावस्था प्रजायते ॥३८॥शक्राद्या विबुधा व्यग्राः श्राद्धं यच्छंति नो यदा ॥ततश्चागत्य तान्सर्वे देवान्संप्रार्थयामहे ॥३९॥ततस्तृप्तिं प्रगच्छामस्तैर्देवैस्तर्पिता वयम् ॥युष्माकं वंशजा ये च प्रयच्छंति समाहिताः ॥४०॥कथं न तृप्तिमायातास्ते सर्वे तैः प्रतर्पिताः ॥यत्र प्रमादिभिर्वंश्यैर्न तर्प्यंते कथंचन ॥४१॥क्षुत्पिपासाकुलाः सर्वे ते तदा स्युर्न संशयः ॥किं पुनर्नरकस्था ये धर्मराजनिवेशने ॥४२॥एतद्धि कारणं प्रोक्तं युष्माकं च कथंचन ॥क्षुत्पिपासोद्भवं रौद्रं युष्माभिर्यदुदीरितम् ॥४३॥तदस्माकं विभागं चेद्यूयं यच्छत सत्तमाः ॥सर्वे कव्यस्य दत्तस्य तत्कुर्मो वै हितं शुभम् ॥४४॥ब्रह्माणं प्रार्थयित्वा च स्वयं गत्वा तदंतिकम् ॥बाढमित्येव तैरुक्ते तत आदाय तानपि ॥४५॥दिव्याः पितृगणाः प्राप्ता विधेः सदनमुत्तमम् ॥नांदीमुखान्पुरस्कृत्य पितॄन्यांस्तर्पयेद्विधिः ॥४६॥सृष्टिकाले तु संप्राप्ते वृद्धिकामः सुरेश्वरः ॥अथ तैः सह ते सर्वे स्तुत्वा तं कमलासनम् ॥प्रणिपत्य स्थिताः सर्वे पितरो विनयान्विताः ॥४७॥पितॄंस्तान्विनयोपेतान्प्रणिपातपुरःसरान् ॥विधिः प्रोवाच राजेंद्र सांत्वयञ्श्लक्ष्णया गिरा ॥४८॥ ॥ ब्रह्मोवाच ॥किमर्थं पितरः सर्वे समायाता ममांतिकम् ॥देवतानां मया सार्धं संपूज्याः सर्वदा स्थिताः ॥४९॥तथान्येऽपि च दृश्यंते युष्माभिः सह संगताः ॥य एते मानवा काराः स्वल्पतेजोन्विताः स्थिताः ॥५०॥ ॥ पितर ऊचुः ॥पितरो मानवा ह्येते स्वर्गं प्राप्ताः स्वकर्मभिः ॥देवानां मध्यसंस्थाश्च पीड्यंते क्षुत्पिपासया ॥५१॥यदा यच्छंति नो वंश्याः कव्यं चैव प्रमादतः ॥तदा गच्छंति नो तृप्तिं यानैर्यांति यथा सुराः ॥५२॥तदैतैः प्रार्थनाऽस्माकं कृता शाश्वततृप्तये ॥न च शक्ता वयं दातुं तेन त्वां समुपस्थिताः ॥५३॥यथा स्युर्देवता व्यग्रास्तदाऽस्माकमपि प्रभो ॥कव्यं विना भवेदेषा दशा कष्टा सुरेश्वर ॥५४॥तस्मात्कुरु प्रसादं नः समेमेतैः सुरेश्वर ॥यथा स्याच्छाश्वती तृप्तिः स्वस्थानस्थायिनामपि ॥५५॥एतेऽस्माकं प्रदास्यंति कव्यं यन्निजवंशजैः ॥प्रदत्तं तेन संप्राप्ता वयं देव त्वदन्तिकम् ॥५६॥देवानां चैव यत्कव्यं तन्नास्माकं प्रतृ प्तये ॥यतः क्रियाविहीनं तन्न तेषां विद्यते क्रिया ॥५७॥पितॄनुद्दिश्य यत्कव्यं ब्राह्मणेभ्यः प्रदीयते ॥स्नातैर्धौतांबरैर्मर्त्यैस्तद्भवेत्तृप्तिदं महत् ॥५८॥पितॄणां सर्वदेवेश इत्येषा वैदिकी श्रुतिः ॥न स्नातस्याधिकारोऽस्ति देवानां च द्विजातिवत् ॥५९॥पीयूषमपि तैर्दत्तं तेन नः स्यान्न तृप्तये ॥६०॥तस्मान्मानुषदत्तैर्नो यथा कव्ये प्रजायते ॥स्वर्गस्थानां परा तृप्तिः सममेतैस्तथा कुरु ॥६१॥ ॥ भर्तृयज्ञ उवाच ॥तच्छ्रुत्वा सुचिरं ध्यात्वा ब्रह्मा लोकपितामहः ॥तानुवाच ततः सर्वान्पितॄन्पार्थिवसत्तम ॥६२॥ ॥ ब्रह्मोवाच ॥अस्मिंस्त्रेतायुगे संज्ञा हव्यकव्यसमुद्भवा ॥संप्रयाता युगे युग्मे कलौ न प्रभविष्यति ॥६३॥यथायथा युगानां च ह्रास एष भविष्यति ॥तथातथा जना दुष्टा भविष्यंत्यन्यभक्तिकाः ॥६४॥न दास्यंति यथोक्तानि ते कव्यानि कथंचन ॥ततः कष्टतराऽवस्था पितॄणां संभविष्यति ॥६५॥तस्मादहं करिष्यामि सुखोपायं शरीरिणाम् ॥येन सन्तर्पिता यूयं परां तृप्तिमवाप्स्यथ ॥६६॥पितुः पितामहस्यैव तत्पितुश्च ततः परम् ॥समुद्देशेन दत्तेन ब्राह्मणेभ्यः प्रभक्तितः ॥६७॥सर्वेषां स्यात्परा तृप्तिर्यावन्मां पितरोऽधुना ॥तथा मातामहानां च पक्षे नास्त्यत्र संशयः ॥६८॥त्रिभिः सन्तर्पितास्तेऽपि तर्पिताः स्युर्ममावधि ॥युष्माकं तृप्तये यश्च सुखोपायो भविष्यति ॥६९॥तं शृणुध्वं महाभागा गदतो मम सांप्रतम् ॥पितॄनन्नेन येनैव समुद्दिश्य द्विजोत्तमान् ॥७०॥तर्पयिष्यंति तेनैव पिण्डान्दास्यंति भक्तितः ॥तन्नाम्ना तेन वस्तृप्तिः शाश्वती संभविष्यति ॥७१॥तस्माद्गच्छत सन्तुष्टाः स्वानि स्थानानि पूर्वजाः ॥७२॥ततस्ते सहितास्तैस्तु स्वानि स्थानानि भेजिरे ॥विमानैः सूर्यसंकाशैर्गत्वा पार्थिवसत्तम ॥७३॥अथ संगच्छता राजन्कालेन महता ततः ॥तच्चापि न ददुः श्राद्धं मर्त्यास्त्रिपुरुषं च यत् ॥७४॥नित्यं पितॄन्समुद्दिश्य बहवोऽत्र नराधिप ॥कव्यभागान्पुनस्तेषां तथा पूर्वं यथा नृप ॥७५॥क्षुत्पिपासोद्भवापीडा महती समजायत ॥तेषां च दैविकानां च पितॄणां नृपसत्तम ॥७६॥समेत्याथ पुनः सर्वे ब्रह्माणं शरणं गताः ॥प्रोचुश्च प्रणिपत्योच्चैः सुदीनाः प्रपितामहम् ॥७७॥भगवन्न प्रयच्छंति नित्यं नो वंशसंभवाः ॥श्राद्धानि दौःस्थ्यमापन्नास्तेन सीदामहे विभो ॥७८॥यथा पूर्वं तथा देव तदुपायं प्रचिन्तय ॥कंचिद्येन दरिद्रा वै प्रीणयंति च ते पितॄन् ॥७९॥भर्तृयज्ञ उवाच ॥तेषां तद्वचनं श्रुत्वा तानाह प्रपितामहः ॥कृपाविष्टो महाराज सर्वान्पितृगणांस्तथा ॥८०॥सत्यमेतन्महाभागा दौःस्थ्यं यांति दिनेदिने ॥जना यथायथा याति युगं श्रेष्ठं च पृष्ठतः ॥८१॥तथापि च करिष्यामि युष्मदर्थमसंशयम् ॥उपायं लघु सन्तृप्तिर्येन वोऽत्र भवि ष्यति ॥८२॥अमानाम रवे रश्मिसहस्रप्रमुखः स्थितः ॥तस्मिन्वसति येनेन्दुरमावास्या ततः स्मृता ॥८३॥तस्मिन्नहनि ये श्राद्धं पितॄनुद्दिश्य चात्मनः ॥करिष्यंति नरा भक्त्या ते भविष्यंति सुस्थिताः ॥८४॥धनधान्यसमोपेता सर्वशत्रुविवर्जिताः ॥अपमृत्युपरित्यक्ता मम वाक्याद संशयम् ॥८५॥ ॥ भर्तृयज्ञ उवाच ॥तस्य तद्वचनं श्रुत्वा बभूवुर्हृष्टमानसाः ॥पितरः कव्यमासाद्य प्रहष्टेनांतरात्मना ॥८६॥ययुः स्वानि निकेतानि प्रेषिताः पद्मयोनिना ॥अमावास्यादिनं प्राप्य श्राद्धं दत्तं स्ववंशजैः ॥८७॥संतृप्ता मासमात्रं च तस्थुः संतुष्टमानसाः ॥गच्छता त्वथकालेन दौःस्थ्यं प्राप्य नरा भुवि ॥दर्शेऽस्मिन्नपि नो श्राद्धं प्रायः कुर्वंति केचन ॥८८॥ततः पितृगणाः सर्वें ये दिव्या ये च मानुषाः ॥क्षुत्पिपासाकुला भूयो ब्रह्माणं शरणं गताः ॥८९॥प्रोचुश्च प्रणिपत्योच्चैस्ते समेताःपितामहम् ॥परमं दैन्यमास्थाय बाष्पगद्गदया गिरा ॥९०॥भगवन्निंदुक्षये श्राद्धं प्रोक्तं मासं त्वया विभो ॥अस्माकं प्रीणनार्थाय यत्करिष्यंति मानवाः ॥९१॥दौःस्थात्तदपि नो कुर्युः प्रायशस्तु पितामह ॥तेनास्माकं परा पीडा क्षुत्पिपासासमुद्भवा ॥९२॥तस्मात्कुरु प्रसादं नो यथा पूर्वं सुरेश्वर ॥तथापि दुःस्थताभाजस्तर्पयिष्यंति नोऽधुना ॥९३॥ ॥भर्तृयज्ञ उवाच ॥अथ ब्रह्मापि संचिन्त्य तानुवाच कृपान्वितः ॥युष्मदर्थं मयोपायश्चिंतितः पितरो लघुः ॥९४॥येन तृप्तिं परां यूयं गमिष्यथ पित्रीश्वराः ॥अमावास्योद्भवं श्राद्धमलब्ध्वापि च वत्सरम् ॥९५॥यथा मम प्रसादेन तच्छृणुध्वं समाहिताः ॥आषाढ्याः पंचमे पक्षे कन्यासंस्थे दिवाकरे ॥९६॥मृताहनि पुनर्यो वै श्राद्धं दास्यति मानवः ॥तस्य संवत्सरंयावतृप्ताः स्युः पितरो ध्रुवम् ॥९७॥एवं ज्ञात्वा करिष्यंति प्रेतपक्षे नरा भुवि ॥श्राद्धं यूयं न संदेहो भविष्यथ सुतर्पिताः ॥९८॥यावत्संवत्सरं तेन एकेनापि तु सत्तमाः ॥तस्मिन्नपि च यः श्राद्धं युष्माकं न प्रदास्यति ॥९९॥शाकेनाऽपि दरिद्रोऽसावंत्यजत्वमुपेष्यति ॥आसनं शयनं भोज्यं स्पर्शं संभाषणं तथा ॥१००॥ये करिष्यंति तैः सार्धं तेऽपि पापतमा नराः ॥न तेषां संततिर्वृद्धिं संप्रयास्यति कर्हिचित् ॥११॥न सुखं धनधान्यं च तेषां भावि कथंचन ॥तस्माद्गच्छत चाव्यग्राः स्वस्थानं पितरो द्रुतम् ॥१०२॥कलिकालेऽपि संप्राप्ते दारुणे निर्धेने जने ॥वर्षांते श्राद्धमेकं हि प्रकरिष्यंति मानवाः ॥१०३॥येनाखिलं भवेद्वर्षं युष्माकं प्रीतिरुत्तमा ॥१०४॥ ॥ भर्तृयज्ञ उवाच ॥तच्छ्रुत्वा पितरो हृष्टा जग्मुः स्वंस्वं निकेतनम् ॥वर्षांतेऽपि समासाद्य श्राद्धं न स्युर्बुभुक्षिताः ॥अथ येऽत्र दुरात्मानो निःशंकाः कृपणात्मकाः ॥कलिना मोहिताः श्राद्धं वत्सरांतेऽपि नो ददुः ॥१०६॥तेषां तु पितरो भूयो दिव्यैःपितृभिरन्विताः ॥ब्रह्माणं शरणं जग्मुः प्रोचुस्ते दीनमानसाः ॥१०७॥भगवन्वत्सरांतेऽपि कन्यासंस्थे दिवाकरे ॥नास्माकं वंशजाः श्राद्धं प्रयच्छंति दुरात्मकाः ॥१०८॥तेन संपीडिता देव क्षुत्पिपासा समाकुलाः ॥वयं शरणमापन्नास्तत्प्रतीकारमाचर ॥१०९॥यथा पूर्वं महाभाग वदोपायं लघूत्तमम् ॥एकाहिकेन श्राद्धेन येनास्माकं हि शाश्वती ॥प्रीतिः संजायते देव त्वत्प्रसादात्सुरेश्वर ॥११०॥वंशक्षयेऽपि संजाते ह्यस्माकं पतनं भवेत् ॥१११॥ ॥ भर्तृयज्ञ उवाच ॥तेषां तद्वचनं श्रुत्वा चिरं ध्यात्वा पितामहः ॥कृपया परयाविष्टस्ततः प्रोवाच सादरम् ॥११२ ॥ ब्रह्मोवाच ॥अन्यो युष्मत्प्रतुष्ट्यर्थमुपायश्चिंतितो मया ॥स लघुर्येन वोऽत्यंतं तृप्तिर्भवति शाश्वती ॥११३॥गयाशिरः समासाद्य श्राद्धं दास्यंति येऽत्र वः ॥अप्येकं तत्प्रभावेन दिव्यां गतिमवाप्स्यथ ॥११४॥अपि पापात्मनः पुंसो ब्रह्मघ्नस्यापि देहिनः ॥अपि रौरवसंस्थस्य कुम्भीपाकगतस्य च ॥११५॥प्रेतभावगतस्यापि यस्य श्राद्धं प्रदास्यति ॥गयाशिरसि वंशस्थस्तस्य मुक्तिर्भविष्यति ॥११६॥एतन्मम वचः श्रुत्वा सांप्रतं भुवि मानवाः ॥निःस्वा अपि करिष्यंति श्रादमेकं हि तत्र च ॥गयाशिरसि सुव्यक्तं युष्माकं मुक्तिदायकम् ॥११७॥भर्तृयज्ञ उवाच ॥तच्छ्रुत्वा पितरस्तस्य वचनं परमेष्ठिनः ॥अनुज्ञातास्ततस्तेन स्वानि स्थानानि भेजिरे ॥११८॥ततःप्रभृति श्राद्धानि प्रवृत्तानि धरातले ॥पिंडदानसमे तानि यावदापुरुषत्रयम् ॥११९॥पूर्वं ब्रह्मादितः कृत्वा ये केचित्पुरुषा गताः ॥परलोकं समुद्दिश्य तान्नराञ्छक्तितो नृप ॥१२०॥तत्संख्यानां द्विजेंद्राणां दत्तवंतोऽपि वांछितम् ॥अदैवत्यमिदं श्राद्धं दरिद्राणां सुखावहम् ॥१२१॥पितॄणां देवतानां च मनुष्याणां सुतृप्ति दम् ॥तस्माच्छ्राद्धं प्रकर्तव्यं पुरुषेण विजानता ॥१२२॥पितॄणां वांछता तृप्तिं कालेष्वेतेषु यत्नतः ॥गयायां च विशेषेण लोकद्वयमभीप्सता ॥१२३॥न ददाति नरः श्राद्धं पितॄणां चन्द्रसंक्षये ॥क्षुत्पिपासापरीतांगाः पितरस्तस्य दुःखिताः ॥१२४॥प्रेतपक्षं प्रतीक्षंते गुरुवांछासमन्विताः ॥कर्षुका जलदं यद्वद्दिवानक्तमतंद्रिताः ॥१२५॥प्रेतपक्षे व्यतिक्रांते यावत्कन्यां गतो रविः ॥तावच्छ्राद्धं च वांछंति दत्तं स्वैः पितरः सुतैः ॥१२६॥ततस्तुलागतेप्येके सूर्ये वांछंति पार्थिव ॥श्राद्धं स्ववंशजै र्दत्तं क्षुत्पिपासासमाकुलाः ॥१॥तस्मिन्नपि व्यतिक्रांते काले चांलिं गते रवौ ॥निराशाः पितरो दीनास्ततो यांति निजालयम् ॥१२८॥मासद्वयं प्रतीक्षंते गृहद्वारं समाश्रिताः ॥वायुभूताः पिपासार्ताः क्षुत्क्षामाः पितरो नृणाम् ॥१२९॥यावत्कन्यागतः सूर्यस्तुलास्थश्च महीपते ॥तथा दर्शदिने तद्वद्ब्रह्मणो वचनान्नृप ॥१३०॥तस्माच्छ्राद्धं सदा कार्यं पितॄणां तृप्तिमिच्छता ॥तिलोदकं विशेषेण यथा ब्रह्मवचो नृप ॥१३१॥वित्ताभावेऽपि दर्शायां श्राद्धं देयं विपश्चिता ॥तदभावे च कन्यायां संस्थिते दिवसाधिपे ॥१३२॥तदभावे गयायां च सकृच्छ्राद्धं हि निर्वपेत् ॥येन नित्यं प्रदत्तस्य श्राद्धस्य फलमश्नुते ॥१३३॥एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप ॥येनैतत्क्रियते श्राद्धं जनैः पितृ परायणैः ॥१३४॥अमावास्यां विशेषेण प्रेतपक्षे च पार्थिव ॥१३५॥यश्चैतां शृणुयात्पुण्यां श्राद्धोत्पत्तिं पठेच्च वा ॥स सर्वदोषनिर्मुक्तः श्राद्धदानफलं लभेत् ॥१३६॥श्राद्धकाले पठेद्यस्तु श्राद्धोत्पत्तिमिमां नरः ॥अक्षयं तद्भवेच्छ्राद्धं सर्वच्छिद्रविवर्जितम् ॥१३७॥असद्द्रव्येण वा चीर्णमनर्हैर्ब्राह्मणैरपि ॥अभुक्तं कामहीनं वा मन्त्रहीनमथापि वा ॥१३८॥सर्वं संपूर्णतां याति कीर्तनात्पार्थिवोत्तम ॥अस्याः श्राद्धसमुत्पत्तेः कीर्तनाच्छ्रवणादपि ॥१३९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटके श्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धोत्पत्तिवर्णनंनाम षोडशोत्तरद्विशततमोऽध्यायः ॥२१६॥ N/A References : N/A Last Updated : January 06, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP