संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १७९ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १७९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १७९ Translation - भाषांतर ॥ सूत उवाच ॥तथान्यदपि तत्रास्ति पुष्करत्रितयं शुभम् ॥हाटकेश्वरजे क्षेत्रे सर्वपातकनाशनम् ॥१॥यस्मिन्दृष्टेऽथवा स्पृष्टे कीर्तिते वा द्विजोत्तमाः ॥पातकं नाशमायाति भास्करेण तमो यथा ॥२॥पुनंति सर्वतीर्थानि स्नानाद्दानादसंशयम् ॥पुष्करालोकनादेव सर्वपापैः प्रमुच्यते ॥३॥ ॥ ऋषय ऊचुः ॥श्रूयते पुष्करंनाम तीर्थं त्रैलोक्यविश्रुतम् ॥ब्रह्मणा निर्मितं तत्र यच्च योजनमात्रकम् ॥४॥उत्तरे चन्द्रभागाया नद्या यावत्सरस्वती ॥दक्षिणे करतोयायाः सीमेयं पुष्करत्रये ॥५॥अस्माकं तु पुरा सूत त्वयोक्तं वियति स्थितम् ॥एतन्नः कौतुकं सूत तत्कथं हाटकेश्वरे ॥तत्र क्षेत्रे समायातं तस्मात्त्वं वक्तुमर्हसि ॥६॥ ॥ सूत उवाच ॥सत्यमेतन्महाभागा यद्भवद्भिरुदाहृतम् ॥तस्मिन्क्षेत्रे द्विजश्रेष्ठास्तच्छृणुध्वं समाहिताः ॥७॥सर्वतो विस्तराद्वच्मि नमस्कृत्य स्वयं भुवम् ॥८॥ब्रह्मलोके निवसतो ब्रह्मणोऽव्यक्तजन्मनः ॥देवर्षिर्नारदः प्राप्तो भ्रांत्वा लोकत्रयं मुनिः ॥९॥स नत्वा शिरसा पादावुपविष्टस्त दग्रतः ॥१०॥ ॥ ब्रह्मोवाच ॥कस्माद्वत्स चिराद्दृष्टः कुतः प्राप्तोऽधुना भवान् ॥क्व भ्रांतस्त्वं समाचक्ष्व ब्रूहि वत्सात्र कारणम् ॥११॥ ॥ नारद उवाच ॥मर्त्यलोकाद्विभो प्राप्तः सांप्रतं च त्वरान्वितः ॥तव पादप्रपूजार्थं सत्येनात्मानमालभे ॥१२॥ ॥ ब्रह्मोवाच ॥किंवदन्तीं ममाचक्ष्व मर्त्यलोकसमुद्भवाम् ॥कीदृशाः पार्थिवास्तत्र कीदृशा द्विजसत्तमाः ॥कीदृशा व्यवहाराश्च वर्तन्ते तत्र सांप्रतम् ॥१३॥ ॥ नारद उवाच ॥मर्त्यलोके कलिर्जातः सांप्रतं सुरसत्तम ॥१४॥राजानः सत्पथं त्यक्त्वा तथा लोभपरायणाः ॥पीडयंति च लोकांश्च अर्थहेतोः सुनिर्घृणाः ॥१५॥शौर्यभावपरित्यक्ताः परदारविमर्दकाः ॥पूजयन्ति न ते विप्रान्न देवान्न गुरूनपि ॥१६॥वेदविक्रय कर्तारो ब्राह्मणाः शौचवर्जिताः ॥पापप्रतिग्रहासक्ताः सन्ध्याहीनाः सुनिर्घृणाः ॥१७॥कृषिकर्मरता नित्यं वैश्यवत्पशुपालकाः ॥वैश्याः सर्वे समुच्छेदं प्रयाता धरणीतले ॥१८॥शूद्रा नित्यं धर्मकामाः शूद्राश्चैव तपस्विनः ॥लोकयात्राक्रियाः सर्वे प्रहसंति व्यपत्रपाः ॥१९॥यस्य चास्ति गृहे वित्तं तरुण्यश्च तथा स्त्रियः ॥तेनतेन समं सख्यं प्रकुर्वन्ति नरा भुवि ॥२०॥विधवानां व्रतस्थानां सर्वेषां लिंगिनां तथा ॥हृदि स्थितो महान्कामो व्रतचर्याबहिःस्थिताः ॥२१॥तीर्थानि विप्लवं यांतिपापलोकश्रितानि च ॥कलेभींतानि सर्वाणि प्रद्रवन्ति दिशो दश ॥२२॥अहं तत्र स्थितो यस्मात्कलिकाले पितामह ॥२३॥कलिकाले विशेषेण स्वैरिण्यो ललितस्पृहाः ॥भर्त्रा विवदमानाश्च स्त्रियः कार्मणतत्पराः ॥वृथा व्रतानि कुर्वंति त्यक्त्वा ताः स्वपतेः कथाम् ॥२४॥कलिर्बलिष्ठः सुतरां वरदानेन ते कृतः ॥यदा मर्त्ये भवेद्युद्धं कंडूतिर्जायते हृदि ॥२९॥स्वर्गे वा मस्तके चैव पाताले चाथ पादयोः ॥सांप्रतं मर्त्यलोके च मया दृष्टमनेकशः ॥२६॥श्वश्रूणां च वधूनां च तथा जनकपुत्रयोः ॥बांधवानां विशेषेण तथा च स्वामिभृत्ययोः ॥२७॥चौराणां पार्थिवानां च दम्पत्योश्च विशेषतः ॥स्वल्पोदकास्तथा मेघाः स्वल्पसस्या च मेदिनी ॥२८॥स्वल्पक्षीरास्तथा गावः क्षीरे सर्पिर्न विद्यते ॥एवं युद्धानि तेषां च वीक्षमाणो दिवानिशम् ॥२९॥अहं मर्त्ये परिभ्रांतश्चिरात्तेन समागतः ॥भूयो यास्यामि तत्रैव कण्डूतिर्महतीस्थिता ॥३०॥तच्छ्रुत्वा वचनं तस्य नारदस्य पितामहः ॥पुष्करस्य कृते जातश्चिन्ताव्याकु लतेंद्रियः ॥३१॥मर्त्ये च मामकं तीर्थं पुष्करंनाम विश्रुतम् ॥नाशं यास्यति तन्नूनं कलिकालपरिप्लुतम् ॥३२॥तस्मादन्यत्र नेष्यामि कलिर्यत्र न विद्यते ॥येन तत्र विमुंचामि निजं तीर्थं च पुष्करम् ॥३३॥कलिकाले च संप्राप्ते सर्वप्राणिभयंकरे ॥तत्र प्रयांतु तीर्थानि सर्वा ण्येव विशेषतः ॥३४॥गते कलौ प्रयास्यंति निजस्थानमसंशयम् ॥३५॥एवं निश्चित्य मनसा हस्तस्थं कमलं ततः ॥प्रोवाच सादरं तच्च स्वयं ध्यात्वा पितामहः ॥३६॥पत त्वं पद्म भूपृष्ठे कलिर्यत्र न विद्यते ॥येनानयामि तत्रैव पुष्करं तीर्थमात्मनः ॥३७॥ततस्तत्प्रेषितं तेन पद्मं भ्रांत्वा महीतले ॥समस्ते पतितं क्षेत्रे हाटकेश्वरसंभवे ॥३८॥दृष्ट्वा वेदविदो विप्रान्स्वाध्यायनिरताञ्छुचीन् ॥तेषां यज्ञक्रियाभिश्च यज्ञोपांतैः समंततः ॥३९॥यूपाद्यैः सर्वतो व्याप्ते सदिशे गगनांगणे ॥ऋग्यजुःसामघोषेण तथा चाथर्वजेन च ॥४०॥दिग्मण्डले तथा व्याप्ते नान्यः संश्रूयते ध्वनिः ॥तथा च तार्किकाणां च विवादेषु महत्सु च ॥४१॥वेदांतानां समस्तानां व्याख्याने बहुधा कृते ॥दृश्यन्ते मुनयो यत्र संस्थिता नियमेषु च ॥४२॥एकाहारा निराहारा एकांतरकृताशनाः ॥त्रिरात्रोपोषिताश्चान्ये कृच्छ्रचांद्रायणे रताः ॥४३॥महापाराकिणश्चान्ये तथा मासोपवासिनः ॥अश्मकुट्टाशिनश्चान्ये दन्तोलूखलिकास्तथा ॥४४॥शीर्णपर्णाशिनश्चैके फलाहारा महर्षयः ॥तद्दृष्ट्वा तादृशं क्षेत्रं संयुक्तं विविधैर्गुणैः ॥४५॥ततस्तत्पतितं तत्र पुण्यं ज्ञात्वा महीतले ॥यत्र स्थानेऽपतत्पूर्वं तस्मादुच्चलितं पुनः ॥४६॥अन्यस्मिंश्च ततः स्थाने द्वितीये द्विजसत्तमाः ॥तस्मादपि तृतीये तु तृतीयं पंकजं हितम् ॥४७॥ततो गर्तात्रयं जातं तेषु स्थानेषु च त्रिषु ॥गर्तासु च जल जातं स्वच्छं स्फटिकसंनिभम् ॥४८॥एतस्मिन्नंतरे प्राप्तः स्वयमेव पितामहः ॥तत्र स्थाने द्विजश्रेष्ठा यज्ञकर्मप्रसिद्धये ॥४९॥दृष्ट्वा समंततः क्षेत्रं हाटकेश्वरसंज्ञितम् ॥नानाविप्रैः समाकीर्णं वेदवेदांगपारगैः ॥तपस्विभिस्तथानेकैर्व्रतचर्यापरायणैः ॥५०॥अहो क्षेत्रमहो क्षेत्रं पुण्यं रम्यं द्विजप्रियम् ॥तस्मायज्ञं करिष्यामि क्षेत्रेऽस्मिंश्च द्विजाश्रये ॥५१॥आनयिष्यामि तच्चापि पुष्करत्रितयं शुभम् ॥गर्तास्वेतासु पुण्यासु ज्येष्ठं मध्यं कनीयकम् ॥५२॥कलिकाले च संप्राप्ते येन लोपं न गच्छति ॥स्वयं निश्चित्य मनसा चोपविश्य धरातले ॥५३॥ध्यात्वा च सुचिरं कालमानयामास तत्र च ॥पुष्करत्रितयं श्रेष्ठं ज्येष्ठमध्यकनीयकम् ॥५४॥ततोऽब्रवीत्स हृष्टात्मा ह्येतद्धि पुष्कर त्रयम् ॥मया सम्यक्समानीतं कलिकालभयेन च ॥५५॥येऽत्र स्नानं करिष्यंति श्रद्धया परया युताः ॥ते यास्यंति परां सिद्धिमक्षयां मत्प्रसादतः ॥५६॥ये च श्राद्धं करिष्यंति कार्तिक्यां सुसमाहिताः ॥करिष्यंति गयाशीर्षे तेषां पुण्यं महत्तमम् ॥५७॥तत्राद्यात्पुष्करात्पुण्यं लभिष्यंति शताधिकम् ॥मया यज्ञः कृतस्तत्र कार्तिक्यां पूर्वपुष्करे ॥५८॥वैशाख्यां च करिष्यामि अत्राहं च द्वितीयके ॥५९॥एवमुक्त्वा ततो ब्रह्मा ह्यादिदेश सदागतिम् ॥ममादेशाद्द्रुतं वायो समानय पुरंदरम् ॥६०॥आदित्यैर्वसुभिः सार्धं रुद्रैश्चैव मरुद्गणैः ॥गंधर्वैर्लोकपालैश्च सिद्धैर्विद्याधरैस्तथा ॥६१॥येन मे स्यात्सहायत्वं समस्ते यज्ञकर्मणि ॥तच्छ्रुत्वा सकलं वायुर्गत्वा शक्रनिवेशनम् ॥कथयामास तत्सर्वं यदुक्तं परमेष्ठिना ॥६२॥सत्वरं प्रययौ तत्र सर्वैर्देवगणैः सह ॥प्रणिपत्य ततस्तं स ब्रह्माणं वाक्यमब्रवीत् ॥६३॥आदेशो दीयतां देव ह्यहमाकारितस्त्वया ॥यदर्थं तत्करिष्यामि तस्माच्छीघ्रं निवेदय ॥६४॥ब्रह्मोवाच ॥मया शक्रात्र चानीतं सुपुण्यं पुष्करत्रयम् ॥कलिकालभयाच्चैव करिष्ये तदहं स्थिरम् ॥६५॥अग्निष्टोमत्रयं कृत्वा वैशाख्यां च यथार्चितम् ॥संभारमाहरस्वाशु तदर्थं सर्वमेव हि ॥६६॥ब्राह्मणांश्च तदर्हांश्च वेदवेदांगपारगान् ॥तच्छ्रुत्वा विनयाच्छक्रस्तथेत्युक्त्वा त्वरान्वितः ॥संभारानानयामास तदर्हांश्च द्विजोत्तमान् ॥६७॥ततश्चकार विधिवद्यज्ञं स प्रपितामहः ॥यथोक्तविधिना सर्वं तथा संपूर्णदक्षिणम् ॥६८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्करत्रयोत्पत्तिपूर्वकं यज्ञसमारंभार्थमुपकरणानयनब्राह्मणामन्त्रणादि प्रकारकथनंनामैकोनाशीत्युत्तरशततमोऽध्यायः ॥१७९॥ N/A References : N/A Last Updated : December 31, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP