संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय ९५ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय ९५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ९५ Translation - भाषांतर ॥ सूत उवाच ॥अथान्यापि च तत्रास्ति देशकामप्रदा नृणाम् ॥अजापालेन भूपेन स्थापिता पापनाशनी ॥१॥तां च शुक्लचतुर्दश्यामजापालेश्वरीं नरः ॥यो वै पूजयते भक्त्या धूपपुष्पानुलेपनैः ॥स प्राप्नोतीप्सितान्कामान्दुर्लभा सर्वमानवैः ॥२॥तस्या देव्याः प्रसादेन सत्यमेतन्मयोदितम् ॥अजापालो महीपालः पुराऽऽसीत्संमतः सताम् ॥३॥हितकृत्सर्वलोकस्य यथा माता यथा पिता ॥तेन राज्यं समासाद्य पितृपैतामहं शुभम् ॥४॥चिंतितं मनसा पश्चात्स्वयमेव महात्मना ॥मया तत्कर्म कर्तव्यं यदन्यैरिह भूमिपैः ॥न कृतं न करिष्यंति ये भविष्यन्त्यतः परम् ॥५॥एष एव परो धर्मो भूपतीनामुदाहृतः ॥यत्प्रजापालनं शश्वत्तासां च सुखसंस्थितिः ॥६॥यथायथा करं भूपास्ता मां गृह्णंति लोलुपाः ॥तथातथा मनःक्षोभो हृदये संप्रजायते ॥७॥न करेण विना भूपा हस्त्यश्वादिबलं च यत् ॥शक्नुवंति परित्रातुं पादातं च विशेषतः ॥८॥विना तेन स गम्यः स्यान्नीचानामपि सत्वरम् ॥एतस्मात्कारणाद्भूपाः करं गृह्णंति लोकतः ॥९॥तस्मान्मया विनाप्याशु नागैश्चैव नरैस्तथा ॥तपः शक्त्या प्रकर्तव्यं राज्यं निहतकण्टकम् ॥१०॥करानगृह्णता तेन लोकान्रंजयता सदा ॥अन्येषां भूमिपालानां विशेषेण महात्मनाम् ॥११॥एवं चित्ते समाधाय वसिष्ठं मुनिपुंगवम् ॥पुरोधसं समाहूय ततः प्रोवाच सादरम् ॥१२॥अत्र भूमितले विप्र सर्वेषां तीर्थमुत्तमम् ॥अल्पकालेन सन्तुष्टिं यत्र याति महेश्वरः ॥वासुदेवोऽथवा ब्रह्मा ह्येतच्छीघ्रं वदस्व मे ॥१३॥येनाहं सर्वलोकस्य हितार्थं तप आददे ॥न स्वार्थं ब्राह्मणश्रेष्ठ सत्येनात्मानमालभे ॥१४॥ ॥ वसिष्ठ उवाच ॥तिस्रः कोट्योर्धकोटी च तीर्थानामिह भूतले ॥संति पार्थिवशार्दूल प्रभावसहितानि च ॥१५॥अष्टषष्टिस्तथा राजन्क्षेत्राणामस्ति भूतले ॥येषां सांनिध्यमभ्येति सर्वदैव महेश्वरः ॥१६॥तथा सर्वे सुरास्तुष्टा ब्रह्मविष्णु शिवादयः ॥परं सिद्धिप्रदं शीघ्रं मानुषाणां महीपते ॥१७॥हाटकेश्वरदेवस्य क्षेत्रं पातकनाशनम् ॥देवानामपि सर्वेषां तुष्टिं गच्छति चंडिका ॥१८॥शीघ्रमाराधिता सम्यक्छ्रद्धायुक्तैर्नरैर्भुवि ॥तस्मात्तत्क्षेत्रमासाद्य तां देवीं श्रद्धयान्वितः ॥आराधय महाभाग द्रुतं सिद्धिमवाप्स्यसि ॥१९॥एवमुक्तः स तेनाथ गत्वा तत्क्षेत्रमुत्तमम् ॥प्रतिष्ठाप्य च देवीं तां पूजयामास भक्तितः ॥२०॥ब्रह्मचर्यपरो भूत्वा शुचिर्व्रतपरायणः ॥नियतो नियताहारस्त्रिकालं स्नानमाचरन् ॥२१॥एवमाराध्यतस्तत्र गन्धपुष्पानुलेपनैः ॥पूजापरस्य सा देवी तस्य तुष्टिं ततो गता ॥२२॥ ॥देव्युवाच ॥परितुष्टास्मि ते वत्स व्रतेनानेन नित्यथः ॥बलिपूजाविधानेन विहितेनामुना स्वयम् ॥२३॥तद्ब्रूहि येन ते सर्वं प्रकरोमि हृदि स्थितम् ॥सद्य एव महीपाल त्रिदशैरपि दुर्लभम् ॥२४॥ ॥राजोवाच ॥लोकानां हितकामेन मयैतद्व्रतमाहृतम् ॥येन तेषां भवेत्सौख्यं मत्प्रसादादनुत्तमम् ॥२५॥तस्माद्देहि महाभागे ज्ञानयुक्तानि भूरिशः ॥ममास्त्राणि विचित्राणि स्वैरगाणि समन्ततः ॥२६॥यानि जानंति भूपृष्ठे मम पार्श्वे स्थितान्यपि ॥अपराधं सदा लोके परदारादि यत्कृतम् ॥२७॥अनुरूपं ततस्तस्य पातकस्य विनिग्रहम् ॥प्रकुर्वंति मिथो येन न तेषां संकरो भवेत् ॥२८॥मंत्रग्रामं तथा देवि मम देहि पृथग्विधम् ॥निग्रहं व्याधिसत्त्वानां येन शीघ्रं करोम्यहम् ॥२९॥येन स्युर्मनुजाः सर्वे मम राज्ये सुखान्विताः ॥नीरोगाः पुष्टिसंपन्ना भयशोकविवर्जिताः ॥३०॥नाहं देवि करिष्यामि हस्त्यश्वरथसंग्रहम् ॥यतस्तेषां भवेत्पुष्टिर्वित्तैर्वित्तं करैर्भवेत् ॥गृहीतैः सर्वलोकानां तस्मात्तन्न ममेप्सितम् ॥३१॥ ॥ श्रीदेव्युवाच ॥अत्यद्भुततरं कर्म त्वयैतत्पृथिवीपते ॥प्रारब्धं यन्न केनापि कृतं न च करिष्यति ॥३२॥तथाप्येवं करिष्यामि तव दास्यामि कृत्स्नशः ॥ज्ञानयुक्तानि शस्त्राणि मंत्रग्रामं च तादृशम् ॥३३॥गृह्यन्ते येन ते सर्वे व्याधयोऽपि सुदारुणाः ॥परं सदैव ते रक्ष्या मन्मन्त्रैरपि संयुताः ॥३४॥यदि दृष्टिपथात्तुभ्यं क्वचिद्यास्यंति दूरतः ॥मानवान्पीडयिष्यंति चिरात्प्राप्याधिकं ततः ॥३५॥यदा त्वं पृथिवीपाल स्वर्गं यास्यसि भूतलात् ॥तदात्र सलिले स्थाप्या मदग्रे(*) यद्व्यवस्थितम् ॥३६॥सर्वे मंत्रास्तथाऽस्त्राणि ममवाक्यादसंशयम् ॥येन स्यात्पूर्ववत्सर्वो व्यवहारो नृपोद्भवः ॥३७॥ ॥सूत उवाच ॥बाढमित्येव तेनोक्ते तत्क्षणाद्द्विजसत्तमाः ॥प्रादुर्भूतानि दिव्यानि तस्यास्त्राणि बहूनि च ॥३८॥ज्ञानसंपत्प्रयुक्तानि यादृशानि महात्मना ॥तेन संयाचितान्येव व्याधिमंत्रास्तथैव च ॥३९॥व्याधयो यैश्च गृह्यंते मुच्यंते स्वेच्छया सदा ॥सुखेन परिपाल्यंते दृष्टिगोचरसंस्थिताः ॥४०॥ततस्तं सकलं प्राप्य प्रसादं चंडिकोद्भवम् ॥तच्च हस्त्यादिकं सर्वं ब्राह्मणेभ्यो ददौ नृप ॥४१॥एकां मुक्त्वा निजां भार्यामेकं दशरथं सुतम् ॥तांश्चापि सकलान्व्याधीन्मंत्रैः संयम्य यत्नतः ॥४२॥अजारूपान्स्वयं पश्चाद्यष्टिमादाय रक्षति ॥एवं तस्य नरेन्द्रस्य वर्तमानस्य भूतले ॥४३॥गुप्तोऽपि नापराधः स्यात्कस्यचित्प्रकटः कुतः ॥प्रमादाद्यदि भूलोके कश्चित्पापं समाचरेत् ॥४४॥तद्रूपो निग्रहस्तस्य तत्क्षणादेव जायते ॥वधं वा यदि वा बंधं क्लेशं चाऽरातिसंभवम् ॥४५॥अदृष्टान्यपि शस्त्राणि तानि कुर्वंति तत्क्षणात् ॥अन्येषां च महीपानां राज्ये गुप्तान्यनेकशः ॥कुर्वन्ति मनुजास्तेषां चक्रे वैवस्वतो ग्रहम् ॥४६॥न तत्र भयसंत्रस्तस्ततः पापसमाचरेत् ॥प्रत्यक्षं वा विशेषेण ज्ञात्वा शस्त्रभयं च तत् ॥४७॥ततस्ते पापनिर्मुक्ता लोकाः संशुद्धगात्रकाः ॥रोगेषु निगृहीतेषु प्राप्ताः सुखमनुत्तमम् ॥४८॥एवं स्थितेषु लोकेषु गतपापामयेषु च ॥प्रयाताः शून्यतां सर्वे नरका ये यमालये ॥४९॥न कश्चिन्नरकं याति न च मृत्युपथं नरः ॥यथा कृतयुगं तादृक्त्रेतायामपि संस्थितम् ॥५०॥व्यवहारे ततो नष्टे यमलोकसमुद्भवे ॥स्वर्गेण तुल्यतां प्राप्ते प्राणिभिर्मृत्युवर्जितैः ॥५१॥ततो वैवस्वतो गत्वा ब्रह्मणः सदनं प्रति ॥प्रोवाच दुःखसंपन्नः प्रणिपत्य पितामहम् ॥५२॥अहं पुरा त्वया देव धर्माधर्मदिदृक्षया ॥मानुषाणां समादिष्टो निग्रहानुग्रहं प्रति ॥५३॥अजापालेन भूपेन तत्सर्वं विफलीकृतम् ॥तपःशक्त्या सुरश्रेष्ठ देवीमाराध्य चंडिकाम् ॥५४॥नाधयो व्याधयस्तत्र न पापानि महीतले ॥कस्यचिद्देव जायंते यथा कृतयुगे तथा ॥५५॥तस्मात्कुरु सुरश्रेष्ठ पुनरेव यथा पुरा ॥मदीयभवने कृत्स्नो व्यवहारः प्रजायते ॥५६॥तस्य तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥समीप उपविष्टस्य शिवस्याऽऽस्यं व्यलोकयत् ॥९७॥अथाब्रवीत्प्रहस्योच्चैस्त्रिनेत्रश्चतुराननम् ॥अत्यद्भुततमां श्रुत्वा तां वार्तां यमसंभवाम् ॥५८॥ ॥ महेश्वर उवाच ॥धर्ममार्गप्रवृत्तस्य सदाचारस्य भूपतेः ॥कथं निवारणं तत्र क्रियते कश्च निग्रहः ॥५९॥तस्मात्तेन महीपेन यस्मान्मार्गः प्रदर्शितः ॥अपूर्वो धर्मसंभूतः कृतः सम्यङ्महात्मना ॥६०॥तन्मयापि यथा चास्य प्रसादः सुरसत्तम ॥अपूर्वः करणीयश्च यथा धर्मो न दुष्यति ॥६१॥एवमुक्त्वा चतुर्वक्त्रं यमं प्राह ततः शिवः ॥वदायुषोऽस्य यच्छेषमजापालस्य भूपतेः ॥येन तत्समये प्राप्ते तं नयामि निजालयम् ॥६२॥ ॥ यम उवाच ॥पञ्चवर्षसहस्राणि तस्यातीतानि चायुषः ॥तिष्ठंति पञ्चपञ्चाशत्प्रतीक्ष्येऽहं ततः कथम् ॥६३॥यावत्कालं सुरश्रेष्ठ शून्ये जाते स्व आश्रये ॥तस्मात्कुरु द्रुतं कंचिदुपायं तद्विनाशने ॥६४॥एवमुक्ते यमेनाथ तं विसृज्य गृहं प्रति ॥व्याघ्ररूपं समास्थाय स्वयं तत्संनिधौ ययौ ॥६५॥यत्र संस्थो महीपः स प्रजापालनतत्परः ॥मेघगम्भीरनिर्घोषं गर्जमानो मुहुर्मुहुः ॥६६॥अजास्तास्तं च संवीक्ष्य व्याघ्रं रौद्रवपुर्द्धरम् ॥अजापालं समुद्दिश्य संत्रस्ताः शरणं गताः ॥६७॥तस्य यत्नपरस्यापि रक्षमाणस्य भूपतेः ॥अजास्ता व्याघ्ररूपेण शंकरेण प्रभक्षिताः ॥६८॥अजानां कदनं दृष्ट्वा ततः स पृथिवीपतिः ॥स्वहस्ताद्यष्टिमुत्सृज्य जग्राह निशितायुधम् ॥६९॥यत्तस्य तुष्टया दत्तं चंडं चंडार्चिषा समम् ॥तच्छस्त्रं च तथान्यानि देवीदत्तानि शंकरः ॥शनैःशनैः प्रजग्राह स्ववक्त्रेण महेश्वरः ॥७०॥अस्त्राभावात्ततस्तूर्णं ध्रियमाणेऽपि कांतया ॥द्वंद्वयुद्धेन तं व्याघ्रं योधयामास भूपतिः ॥७१॥ततस्तस्यांगसंस्पर्शान्मुक्त्वा व्याघ्रतनुं च ताम् ॥दधार भस्मसंदिग्धां तनुं चन्द्रविभूषिताम् ॥७२॥रुंडमालावरां दिव्यां सखट्वांगां सपन्नगाम् ॥तां दृष्ट्वा स महीपालः सभार्यः प्रणतस्ततः ॥७३॥प्रोवाचाथ स्तुतिं कृत्वा विनयावनतः स्थितः ॥आनंदाश्रुपरिक्लिन्नो हर्षगद्गदया गिरा ॥७४॥ ॥ राजोवाच ॥अज्ञानाद्यन्मया देव प्रहारास्तव निर्मिताः ॥तिरस्कारस्तथा दत्तस्तत्सर्वं क्षम्यतां विभो ॥७५॥ ॥ श्रीभगवानुवाच ॥क्षांत एष मया पुत्र तव सर्वः पराभवः ॥परितुष्टेन ते कर्म दृष्ट्वा चैवातिमानुषम् ॥७६॥यथा कृतं त्वया राज्यं प्रजाः संरक्षिता नृप ॥तथान्यो भूपतिः कश्चिन्न कर्ता न करिष्यति ॥७७॥तस्माद्गच्छ मया सार्धं पाताले पार्थिवोत्तम ॥अनेनैव शरीरेण धर्मपत्न्यानया सह ॥७८॥नातः परं त्वया स्थेयं मर्त्यलोके कथंचन ॥विरुद्धं सर्वदेवानां यतः कर्म त्वदुद्भवम् ॥७९॥ ॥ राजोवाच ॥एवं देव करिष्यामि गत्वाऽयोध्यां महापुरीम् ॥पुत्रं राज्ये प्रतिष्ठाप्य मंत्रिणां संनिवेद्य च ॥८०॥तथाहं देव देव्या च प्रोक्तः संतुष्टया पुरा ॥मन्त्रग्रामो यया दत्तः शस्त्राणि विविधानि च ॥८१॥यदा त्वं त्यजसि प्राज्ञ मर्त्यलोकं सुदुस्त्यजम् ॥तदात्र मामके कुण्डे प्रक्षेप्तव्यानि कृत्स्नशः ॥८२॥तानि चार्पय मे भूयो येनानृण्यं व्रजाम्यहम् ॥तस्या देव्याः सुराधीश त्वत्प्रसादेन सांप्रतम् ॥८३॥एवमुक्तस्ततस्तेन भगवांस्त्रिपुरांतकः ॥आज्ञाप्य तानि सर्वाणि ददौ तत्र द्रुतं गतः ॥८४॥अब्रवीच्च सुतस्तत्र स्वयं राजा भविष्यति ॥वीर्यौदार्यसमोपेतो वंशस्योद्धरणक्षमः ॥८५॥त्वं चागच्छ मया सार्धमद्यैव मम मंदिरे ॥प्रविश्यात्र जले पुण्ये देवीकुण्डसमुद्भवे ॥८६॥अद्य माघचतुर्दश्यां शुक्लायामपरोऽपि यः ॥देवीमिमां च संपूज्य जलेऽस्मिन्भक्तिसंयुतः ॥८७॥करिष्यति प्रवेशेन प्राणत्यागं नृपोत्तम ॥स च यास्यति यत्रास्ते पाताले हाटकेश्वरः ॥८८॥स्नानं वा पार्थिवश्रेष्ठ यः करिष्यति मानवः ॥अष्टोत्तरशतं तस्य व्याधीनां न भविष्यति ॥८९॥एवमुक्त्वा तमादाय नृपं भार्यासमन्वितम् ॥अजाभिस्ताभिरस्त्रैश्च तैश्चापि परमेश्वरः ॥प्रविवेश जले तस्मिन्देवीकुण्डसमुद्भवे ॥९०॥ततश्च मंदिरं नीतः स्वकीयं द्विजसत्तमाः ॥तेनैव नरदेहेन स कलत्रसमन्वितः ॥९१अद्यापि तिष्ठते तत्र जरामरणवर्जितः ॥पूजयानश्च तं देवं पाताले हाटकेश्वरम् ॥९२॥एवं तत्र समुद्भूता सा देवी परमेश्वरी ॥स्थापिता तेन भूपेन श्रद्धापूतेन चेतसा ॥९३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्येऽजापालेश्वरीमाहात्म्यवर्णनंनाम पञ्चनवतितमोऽध्यायः ॥९५॥ N/A References : N/A Last Updated : December 26, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP