संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २९ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २९ Translation - भाषांतर ॥सूत उवाच ॥एवं सर्वेषु तीर्थेषु संस्थितेषु द्विजोत्तमाः ॥तत्क्षेत्रं ख्यातिमापन्नं समस्ते धरणीतले ॥१॥समस्तेभ्यस्ततोऽदूरान्मुनयः शंसितव्रताः ॥संश्रयंति ततो भूपास्तपोऽर्थं जरयाऽन्विताः ॥२॥तथा ते लिंगिनो दान्ताः सिद्धिकामाः समंततः ॥समाश्रयंति तत्क्षेत्रं सवर्तीर्थसमा श्रयम् ॥३॥तत्र सिद्धेश्वरंनाम लिंगमस्ति द्विजोत्तमाः ॥सर्वसिद्धिप्रदं नृणां स्वयं सिद्धिप्रदायकम् ॥४॥निर्विद्य भूतले शर्वः सर्वव्यापी सदा शिवः ॥हाटकेश्वरसंज्ञेऽस्मिन्क्षेत्रे देवः स्वयं स्थितः ॥५॥लिंगरूपेण भगवान्प्रादुर्भूतः स्वयं हरः ॥स्मरणाद्दर्शनाच्चैव सर्वसिद्धिप्रदः सदा ॥६॥सिद्धेनाराधितो यस्मात्तस्मात्सिद्धेश्वरः स्मृतः ॥तस्यैव वरदानाद्धि अत्रैवावस्थितो हरः ॥७॥यस्तं पश्यति सद्भक्त्या शुचिः स्पृशति वा नरः ॥वांछितं लभते सद्यो यद्यपि स्यात्सुदुर्लभम् ॥८॥तत्र सिद्धिं गताः पूर्वं शतशः पुरुषा भुवि ॥दर्शनात्स्पर्शनाच्चान्ये प्रणामादपरे नराः ॥९॥दक्षिणामूर्तिमासाद्य मन्त्रं तस्य षडक्षरम् ॥यो जपेच्छ्रद्धयोपेतस्तस्यायुः संप्रवर्धते ॥१०॥यावत्संख्यं जपेन्मत्रं तावत्संख्यान्यहानि सः ॥आयुषः परतो मर्त्यो जीवते नात्र संशयः ॥११॥ ॥ऋषय ऊचुः ॥अत्याश्चर्यमिदं सूत यत्त्वया परिकीर्तितम् ॥आयुषोऽप्यधिकं मर्त्यो जीवते यदि मानवः ॥१२॥ ॥सूत उवाच ॥अत्र वः कीर्तयिष्यामि स्वयमेव मया श्रुतम् ॥वदतस्तत्समुद्दिश्य यद्वत्सस्य महात्मनः ॥१३॥पुरा मे वसमानस्य पुरतोऽत्र पितुर्गृहे ॥आयातः स मुनिस्तत्र वत्सो नाम महाद्युतिः ॥१४॥वहमानो युवावस्थां द्वादशार्कसमद्युतिः ॥अंगैः सर्वैस्तु रूपाढ्यः कामदेव इवापरः ॥१५॥मत्पित्रा स तदा दृष्टस्ततो भक्त्याऽभिवादितः ॥अर्घ्यं दत्त्वा ततः प्रोक्तो विश्रांतो विनयेन च ॥१६॥स्वागतं तव विप्रेंद्र कुतस्त्वमिह चागतः ॥आदेशो दीयतां मह्यं किं करोमि यथोचितम् ॥१७॥ ॥वत्स उवाच ॥तवाश्रमपदे सूत चातुर्मास्यसमुद्भवम् ॥कर्तुमिच्छाम्यनुष्ठानं शुश्रूषां चेत्करोषि मे ॥१८॥ ॥लोमहर्षण उवाच ॥एवं विप्र करिष्यामि तवादेशमसंशयम् ॥धन्योऽस्म्यनुगृहीतोऽस्मि यस्त्वं मे गृहमागतः ॥१९॥एवमुक्ताथ मामाह स पिता द्विजसत्तमाः ॥त्वया वत्सस्य कर्तव्या शुश्रूषा नित्यमेव हि ॥२०॥ततोऽहं विनयोपेतस्तस्य कृत्यानि कृत्स्नशः ॥करोमि स च मे रात्रौ चित्राः कीर्तयते कथाः ॥२१॥राजर्षीणां पुराणानां देवदानवरक्षसाम् ॥द्वीपानां पर्वतानां च स्वयं दृष्ट्वा सहस्रशः ॥२२॥एकदा तु मया पृष्टः कथांते प्राप्य कौतुकम् ॥विस्मयाविष्टचित्तेन स द्विजो द्विजसत्तमाः ॥२३॥भगवन्सुकुमारं ते शरीरं प्रथमं वयः ॥द्वीपानां च करोषि त्वं कथाश्चित्राः पृथक्पृथक् ॥२४॥कथं सर्वं धरापृष्ठं ससमुद्रं निरीक्षितम् ॥स्वल्पेन वयसा तात ( ?) विस्तरतो वद ॥२५॥त्वया ये कीर्तिता द्वीपाः समुद्राः पर्वतास्तथा ॥मनसापि न शक्यास्ते गन्तुं मर्त्यैः कथंचन ॥२६॥अत्र कौतूहलं जातमश्रद्धेयं वचस्तथा ॥श्रुत्वा श्रद्धेयवाक्यस्य तस्मात्सत्यं प्रकीर्तय ॥२७॥तपसः किं प्रभावोऽयं किं वा मंत्रपराक्रमः ॥येन पृथ्वीतलं कृत्स्नं त्वया दृष्टं मुनीश्वर ॥२८॥किं वा देवप्रसादस्तु तवौषधिकृतोऽथवा ॥तच्च पुण्यतमं तात त्वं मे ब्रूहि सविस्तरम् ॥२९॥अथ मां स मुनिः प्राह विहस्य मुनिसत्तमाः ॥सत्यमेतत्त्वया ज्ञातं मम मंत्रपराक्रमम् ॥३०॥सदाहमष्टसंयुक्तं सहस्रं शिवसन्निधौ ॥जपामि शिवमंत्रस्य षडक्षरमितस्य च ॥३१॥त्रिकालं तेन मे जातं सुस्थिरं यौवनं मुने ॥अतीतानागतं ज्ञानं जीवितं च सुखोदयम् ॥३२॥मम वर्षसहस्राणि बहूनि प्रयुतानि च ॥संजातानि महाभाग दृश्यते प्रथमं वयः ॥३३॥अत्र ते कीर्तयिष्यामि विस्तरेण महामते ॥यथा सिद्धिर्मया प्राप्ता प्रसादाच्छंकरस्य च ॥३४॥अहं हि ब्राह्मणो नाम्ना वत्सः ख्यातो महीतले ॥नानाशास्त्रकृताभ्यासः पुराऽऽसं वेदपारगः ॥३५॥एतस्मिन्नेव काले तु मेनका च वराप्सराः ॥वसंतसमये प्राप्ता मर्त्यलोके यदृच्छया ॥३६॥सा गता भ्रममाणाथ काम्यकंनाम तद्वनम् ॥मत्तकोकिलनादाढ्यं मनोज्ञद्रुमसं कुलम् ॥३७॥यत्रास्ते मुनिशार्दूलो देवरात इति स्मृतः ॥व्रतस्वाध्यायसंपन्नस्तपसा ध्वस्तकिल्विषः ॥३८॥उपविष्टो नदीतीरे देवतार्च्चापरायणः ॥श्रद्धया परया युक्त एकाकी निर्जने वने ॥३९॥अथ सा पश्यतस्तस्य विवस्त्रा प्राविशज्जलम् ॥दिव्यरूपसमोपेता घर्मार्ता वरवर्णिनी ॥४०॥अथ तस्य मुनींद्रस्य रेतश्चस्कन्द तत्क्षणात् ॥दृष्ट्वा तां चारुसर्वांगीं जलमध्यं समाश्रिताम् ॥४१॥एतस्मिन्नंतरे प्राप्ता सारंगी सुपिपासिता ॥जलमिश्रं तया रेतः पीतं सर्वमशेषतः ॥४२॥अथ साऽपि दधे गर्भं मानुषं वै प्रभावतः ॥अमोघरेतसो मासे सुषुवे दशमे ततः ॥४३॥जनयामास दीप्तांगी कन्यां पद्मदलेक्षणाम् ॥तस्मिन्नेव जले पुण्ये देवराताश्रमं प्रति ॥४४॥अथ तां स मुनिर्ज्ञात्वा स्वज्ञानेन स्ववीर्यजाम् ॥कृपया परयाविष्टो जग्राह च पुपोष च ॥४५॥स्नेहेन महता युक्तः कृतकौतुकमंगलः ॥रक्षमाणो वने चैनां श्वापदेभ्यः प्रयत्नतः ॥४६॥ आजहार सुमृष्टानि तत्कृते सुफलानि सः ॥स्वयं गत्वा सुदूरं च कानने श्वापदाकुले ॥४७॥तत्रस्था ववृधे सा च नाम्ना ख्याता मृगावती ॥शुक्लपक्षे यथा व्योम्नि कलेव शशलक्ष्मणः ॥४८॥अथ सा भ्रममाणेन मया दृष्टा मृगेक्षणा ॥ततोऽहं कामबाणेन तत्क्षणात्ताडितो हृदि ॥४९॥विज्ञाय च कुमारीं तां सवर्णां चारुहासिनीम् ॥आदरेण गृहं गत्वा स मुनिर्याचितस्ततः ॥५०॥प्रयच्छैनां मम ब्रह्मन्पत्न्यर्थं निज कन्यकाम् ॥यथात्मा पोषयिष्यामि भोजनाच्छादनादिभिः ॥५१॥ततस्तेन प्रदत्ता मे तत्क्षणादेव सुन्दरी ॥विधिना शास्त्रदृष्टेन नक्षत्रे भग दैवते ॥५२॥ततः कतिपयाहस्य मयोढा सा सुविस्मिता ॥सखीजनसमायुक्ता फलार्थं निर्गता वने ॥५३॥अथ वीरुधसंछन्ने वने तस्मिन्सुसंस्थिते ॥तया न्यस्तं पदं मूर्ध्नि तृणाच्छन्नस्य भोगिनः ॥५४॥सा दष्टा सहसा तेन पतिता वसुधातले ॥विषार्दिता गतप्राणा तत्क्षणादेव भामिनी ॥५५॥अथ सख्यः समागत्य तस्या दुःखेन दुःखिताः ॥शशंसुस्ता यथावृत्तं रुदन्त्यो मम सूतज ॥५६॥ततोऽहं सत्वरं गत्वा दृष्ट्वा तां पतितां भुवि ॥विलापान्कृतवान्दीनो रुदितं करुणस्वरम् ॥५७॥इयं मे सुविशालाक्षी मनःप्राणसमा प्रिया ॥मृता भूमौ यया हीनो नाहं जीवितुमुत्सहे ॥५८॥सोऽहमद्य गमिष्यामि परलोकं सहानया ॥प्रियारहितहर्म्यस्य जीवितस्य च किं फलम् ॥५९॥पुत्रपौत्रवधूभिश्च भृत्यवर्गयुतस्य च ॥पत्नीहीनानि नो रेजुर्गृहाणि गृहमेधिनाम् ॥६०॥यदीयं कर्णनेत्रांता तन्वंगी मधुरस्वरा ॥न जीवति पृथुश्रोणी मरिष्येऽ हमसंशयम् ॥६१॥एवं विलपमानस्य मम सूत कुलोद्वह ॥आगताः सुहृदः सर्वे रुरुदुस्तेऽपि दुःखिताः ॥६२॥रुदित्वा सुचिरं तत्र तैः समं महतीं चिताम् ॥कृत्वा तां संनिधायाथ प्रदत्तो हव्यवाहनः ॥६३॥तत आदाय मां कृच्छ्रान्निन्युश्च स्वगृहं प्रति ॥रुदन्तं प्रस्खलन्तं च मुह्यमानं पदेपदे ॥६४॥ततो निशावशेषेऽहमुत्थाय त्वरयाऽन्वितः ॥कांतादुःखपरीतात्मा गतोऽरण्यं तदेव हि ॥६५॥कामेनोन्मत्ततां प्राप्तो भ्रममाण इतस्ततः ॥विलपन्नेव दुःखार्तो वने जनविवर्जिते ॥६६॥क्व गतासि विशालाक्षि विजनेऽस्मिन्विहाय माम् ॥नाहं गृहं गमिष्यामि मम दुःखाय निर्दयः ॥६७॥एषोऽरुणकरस्पर्शात्स्वाभां त्यजति चंद्रमाः ॥निशाक्षये निरुत्साहो यथाहं विधिना कृतः ॥६८॥अयं तनुः समायाति सविता रक्तमंडलः ॥निगदिष्यति मे वार्तां नूनं कच्चित्त्वदुद्भवाम् ॥६९॥गगनं व्यापयन्सूर्यः संतापयति मां भृशम् ॥बाह्ये चाभ्यंतरे कामः कथं वक्ष्यामि जीवितम् ॥७०॥करींदः स्वयमभ्येति तत्कुचाभौ समुद्वहन् ॥कुम्भौ गत्वा तु पृच्छामि यदि शंसति तां प्रियाम् ॥७१॥एवं प्रलपमानस्य मम मोहो महानभूत् ॥भास्करांशुप्रतप्तस्य मदनाकुलितस्य च ॥७२॥यंयं पश्यामि तत्राहं भ्रममाणो महावने ॥वृक्षं वा प्राणिनो वापि तंतं पृच्छामि मोहतः ॥७३॥त्वद्दंतमुसलप्रख्यं यस्या ऊरुयुगं गज ॥तां बालां वद चेद्दृष्टा दयां कृत्वा ममोपरि ॥७४॥त्वया जंबूक चेद्दृष्टा बिंबाफलनिभाधरा ॥दयिता मम तद्ब्रूहि श्रेयस्ते भविता महत् ॥७५॥अथवा बिल्व शंस त्वं यदि बिल्वोपमस्तनी ॥भ्रममाणा वने दृष्टा मम प्राणसमा प्रिया ॥७६॥त्वत्पुष्पसदृशांगी सा मम भार्या मनस्विनी ॥स त्वं चंपक जानीषे यदि त्वं शंस मे द्रुतम् ॥७७॥मधूक तव पुष्पेण दयितायाः समौ शुभौ ॥कपोलौ पांडुरच्छायौ दृष्ट्वा त्वां स्मृतिमागतौ ॥७८॥कदलीस्तंभ सुव्यक्तं प्रियायाश्च सुकोमलौ ॥ऊरू त्वत्तोऽपि तन्वंग्याः सत्येनात्मानमालभे ॥७९॥भोभो मृग न मे भार्या त्वया दृष्टाऽत्र कानने ॥त्वत्समे लोचने स्पष्टे कज्जलेन समावृते ॥८०॥तृणादोऽपि सुवृद्धोऽपि वने वृद्धोऽपि यः पशुः ॥सोऽपि कांतापरित्यक्तो न मृगो रमते क्षणम् ॥८१॥कांतायाः पुरतो नित्यं विधत्तेंऽगं कलापकृत् ॥विहंगयोनि जातोऽपि वृद्ध्यर्थं पुष्पधन्वनः ॥८२॥योऽयं संदृश्यते हंसो हंसीमनुस्मरत्यसौ ॥गतिस्तादृङ्न चाप्यस्य मत्प्रियायाश्च यादृशी ॥८३॥एक एव सुधन्योऽयं चक्रवाको विहंगमः ॥मुहूर्तमपि योऽभीष्टां न त्यजेच्चक्रवाकिकाम् ॥८४॥य एष श्रूयते रावो विभ्रमं जनयन्मम ॥किंवा पिकसमुत्थो ऽयं किं वा मे दयितोद्भवः ॥८५॥मां दृष्ट्वाऽयं मृगो याति तं मृगी याति पृष्ठतः ॥धावमाना ममाप्येवमनुयाति पुरा प्रिया ॥८६॥वारणोऽयं प्रियां कांतामनुरागानुयायिनीम् ॥स्पर्शयत्यग्रहस्तेन मम संस्मारयन्प्रियाम ॥८७॥हा प्रिये मृगशावाक्षि तप्तकांचनसंनिभे ॥कथं मां न विजानासि भ्रमंतमिह कानने ॥८८॥क्व सा भक्तिः क्व सा प्रीतिः क्व सा तुष्टिः क्व सा दया ॥निगदन्तं सुदीनं मां संभाषयसि नो यतः ॥८९॥एवं प्रलपमानस्य मम प्राप्ताः सुहृज्जनाः ॥अन्वेषंतः पदं तत्र वनेषु विषमेषु च ॥९०॥ततस्तैः कोपरक्ताक्षैः प्रोक्तोऽहं सूतनंदन ॥भर्त्सद्भिः परुषैर्वाक्यैर्धिक्त्वां काममयाधुना ॥९१॥त्वं किं शोचसि मूढात्मन्नशोच्यं जीवितं नृणाम् ॥यतस्त्वामपि शोचंतं शोचयिष्यंति चापरे ॥९२॥यूयं वयं तथा चान्ये संजाताः प्राणिनो भुवि ॥सर्व एव मरिष्यामस्तत्र का परिदेवना ॥९३॥अदर्शनात्प्रिया प्राप्ता पुनश्चादर्शनं गता ॥न सा तव न तस्यास्त्वं वृथा किमनुशोचसि ॥९४॥नायमत्यंतसंवासः कस्यचित्केनचित्सह ॥अपि स्वेन शरीरेण किमुतान्यैर्वृथा जनैः ॥९५॥मृतं वा यदि वा नष्टं योतीतमनुशोचति ॥स दुःखेन लभेद्दुःखं द्वावनर्थो प्रपद्यते ॥९६॥एवं संबोधयित्वा मां गृहीत्वा ते मुहुर्जनैः ॥निन्यु र्गृहं ततः सर्वे वनात्तस्मात्सुदारुणात् ॥९७॥ततो मम गृहस्थस्य स्मरमाणस्य तां प्रियाम् ॥उत्पन्नः सुमहान्कोपः सर्पान्प्रति महामते ॥९८॥ततः कोपपरीतेन प्रतिज्ञातं मया स्फुटम् ॥सर्पानुद्दिश्य यत्सर्वं तन्निबोधय दारुणम् ॥९९॥अद्यप्रभृति चेन्नाहं सर्पं दृष्टिवशं गतम् ॥निहन्मि दण्डघातेन तत्पापं स्याद्ध्रुवं मम ॥१००॥यच्च निक्षेपहर्तॄणां यच्च विश्वासघातिनाम् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥१०१॥यत्पापं साधुनिंदायां मातापितृवधे च यत् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥१०२॥परदाररतानां च यत्पापं जीवघातिनाम् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥१०३॥उक्तौ चाभिरतानां च यत्पापं गरदायिनाम् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥१०४॥कृतघ्नानां च यत्पापं परवित्तापहारिणाम् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥१०५॥यत्पापं शस्त्रकर्तृणां तथा वह्निप्रदायिनाम् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥१०६॥व्रतभंगेन यत्पापं व्रतिनां निंदयापि यत् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥१०७॥यत्पापं भ्रूणहत्यायां मृष्टमांसाशिनां च यत् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥१०८॥वृक्षच्छेद प्रसक्तानां यत्पापं शल्यकारिणाम् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥१०९॥पाखंडिनां च यत्पापं नास्तिकानां च यद्भवेत् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥११०॥मांसमद्यप्रसक्तानां यत्पापं विटभोजिनाम् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥१११॥मृषावादप्रसक्तानां पररंध्रावलोकिनाम् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥११२॥यत्पापं साक्ष्यकर्तृणां धान्यसंग्रहकारिणाम् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥११३॥आखेटकरतानां च यत्पापं पाशदायिनाम् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥११४॥नित्यं प्रेषणकर्तॄणां यत्पापं मधुजीविनाम् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥११५॥अदृष्टदेववक्त्राणां यत्पापं मत्स्यजीविनाम् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥११६॥विवादे पृच्छमानानां पक्षपातेन जल्पताम् ॥भयाद्वा यदि वा लोभाद्द्वेषाद्वा कामतोऽपि वा ॥११७॥यत्पापं तु भवेत्तेषां निर्दयानां दुरात्मनाम् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥११८॥कन्याविक्रयकर्तृणां यत्पापं पापसंगिनाम् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥११९॥विद्याविक्रयकर्तॄणां यत्पापं समुदाहृतम् ॥तन्मे स्याद्यदि नो हन्मि सर्पं दृष्टिवशं गतम् ॥१२०॥एवं मया प्रतिज्ञाय कोपाविष्टेन सूतज ॥गृहीतो लगुडः स्थूलो वधार्थं पवनाशिनाम् ॥१२१॥ततःप्रभृत्यहं भूमौ भ्रमामि लगुडायुधः ॥ब्राह्मीं वृत्तिं परित्यज्य मार्गमाणो भुजंगमान् ॥१२२॥मया कोपपरीतेन बहवः पन्नगा हताः ॥विषोल्बणा महाकायास्तथान्ये मध्यमाधमाः ॥१२३॥एकदाहं वनं प्राप्तो गहनं लगुडायुधः ॥शयानं तत्र चापश्यं जलसर्पं वयोऽधिकम् ॥१२४॥ततोऽहं दंडमुद्यम्य कालदंडोपमं रुषा ॥हन्मि तं यावदेवाहं स मां प्रोवाच पन्नगः ॥१२५॥नापराध्यामि ते किंचिदहं ब्राह्मणसत्तम ॥संरंभात्तत्किमर्थं मां जिघांससि वयोऽधिकम् ॥१२६॥ततो मया स संप्रोक्तः कोपात्सलिलपन्नगः ॥महामन्युपरीतेन स्मृत्वा भार्यां मृगावतीम् ॥मम भार्या प्रिया पूर्वं सर्पेणासीद्विनाशिता ॥१२७॥ततोऽहं तेन वैरेण सूदयामि महो रगान् ॥अद्य त्वामपि नेष्यामि वैवस्वतगृहं प्रति ॥हत्वा दंडप्रहारेण तस्मादिष्टतमं स्मर ॥१२८॥ततः स मां पुनः प्राह भयेन महतावृतः ॥शृणु तावद्वचोऽस्माकं ततः कुरु यथोचितम् ॥१२९॥अन्ये ते पन्नगा विप्र ये दशंतीह मानवान् ॥वयं सलिलसंभूता निर्विषाः सर्परूपिणः ॥१३०॥एवं प्रजल्पमानोऽपि स दंडेन मया हतः ॥सूत तत्सूदनार्थाय निर्विकल्पेन चेतसा ॥१३१॥अथासौ लगुडस्पर्शात्तत्क्षणादेव पन्नगः ॥द्वादशार्कप्रतीकाशो बभूव पुरुषो महान् ॥१३२॥तदाश्चर्यं समालोक्य ततोऽहं विस्मयान्वितः ॥उक्तवांस्तं प्रणम्योच्चैः क्षम्यतामिति सादरम् ॥१३३॥को भवान्किमिदं रूपं कृतं सर्पमयं विभो ॥किं वा ते ब्रह्मशापोऽयं किं वा क्रीडासदेदृशी ॥१३४॥ततः प्रोवाच मां हृष्टः स नरः प्रश्रयान्वितः ॥शृणुष्वावहितो भूत्वा वृत्तांतं स्वं वदामि ते ॥१३५॥अहमासं पुरा विप्र चमत्कारपुरोत्तमे ॥युवा परमतेजस्वी धनवान्सुसमृद्धिभाक् ॥१३६॥तत्रैव नगरे रम्ये ह्यस्ति पुण्यं शिवालयम् ॥सिद्धेश्वरस्य देवस्य पताकाभिरलंकृतम ॥१३७॥कस्यचित्त्वथ कालस्य तत्र यात्रा व्यजायत ॥तत्र वादित्रघोषेण नादितं भुवनत्रयम् ॥१३८॥अथ तत्र समायाता मुनयः संशितव्रताः ॥देवस्य दर्शनार्थाय शतशोऽथ सहस्रशः ॥१३९॥शैवाः पाशुपताश्चैव तथा कापालिकाश्च ये ॥महाव्रतधराश्चान्ये शिवभक्तिपरायणाः ॥१४०॥एकाहारा निराहारा वायुभक्षास्तथापरे ॥अब्भक्षाः फल भक्षाश्च शीर्णपर्णाशिनस्तथा ॥१४१॥तेऽभिवन्द्य यथान्यायं देवदेवं महेश्वरम् ॥उपाविष्टाः पुरस्तस्य कथाश्चक्रुः पृथग्विधाः ॥१४२॥राजर्षीणां पुराणानां देवेन्द्राणां च हर्षिताः ॥दयाधर्मसमोपेतास्तथान्येऽपि च भूरिशः ॥१४३॥केचित्तत्र प्रनृत्यंति गायंति च तथाऽपरे ॥साधवो भक्तिसंयुक्ता वाद्यं चक्रुश्च भूरिशः ॥१४४॥अन्ये दानानि यच्छंति धनिनः श्रद्धयान्विताः ॥दीनांधकृपणेभ्यश्च तपस्विभ्यो विशेषतः ॥१४५॥एवं महोत्सवे तत्र वर्तमाने महोदये ॥आगतो बहुभिः सार्धमहं यौवनगर्वितः ॥१४६॥शिवदर्शनविद्वेषी तमसा संवृताशयः ॥यात्रोत्सव विनाशाय प्रेरितोऽन्यैः सुदुर्जनैः ॥१४७॥जलसर्पं समादाय सुदीर्घं भीषणाकृतिम् ॥लेलिहानं मुहुर्जिह्वां जरया परया वृतम् ॥१४८॥ततश्च क्षिप्तवांस्तत्र महाजनसमागमे ॥तं दृष्ट्वा विद्रुताः सर्वे जना मृत्युभयार्दिताः ॥१४९॥तत्रासीत्तापसो नाम्ना सुप्रभः शंसितव्रतः ॥समाधिस्थः सुशिष्याढ्यस्तपसा दग्धकिल्बिषः ॥१५०॥निष्कंपां सुदृढामृज्वीं नातिस्तब्धां न कुंचिताम् ॥ग्रीवां दधत्स्थिरां यत्नाद्गात्रयष्टिं च सर्वतः ॥१५१॥संपश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥तालुमध्यगतेनैव जिह्वाग्रेणाचलेन च ॥१५२॥आवर्तपंकजांतःस्थमष्टपत्र मधोमुखम् ॥तन्मध्यकर्णिकासंस्थं संपश्यन्रविमंडलम् ॥१५३॥तस्यापि मध्यतश्चान्यं नरमंगुष्ठमात्रकम् ॥द्वादशार्कप्रतीकाशमप्रतर्क्यतमाकृतिम् ॥१५४॥पश्यन्पद्मासनस्थं च वैदनाथं महेश्वरम् ॥यमक्षरं वदंत्येव सर्वगं सर्ववेदिनम् ॥१५५॥अनिंद्यं चाप्यभेद्यं च जरामरणवर्जितम् ॥पुलकांचितसर्वांगो योगनिद्रावशंगतः ॥१५६॥आनंदाश्रुपरिक्लिन्नः संनिरुद्धेंद्रियाकृतिः ॥कुंभयित्वोदरांतःस्थं स्वभ्यासाद्वायुपञ्चकम् ॥१५७॥अंगुष्ठतर्जनीयोगं कृत्वा हृदयसंगतम् ॥एवं तत्रोपविष्टस्य स सर्पस्तस्य विग्रहम् ॥१५८॥वेष्टयामास भोगेन निश्चलस्य महात्मनः ॥एतस्मिन्नंतरे शिष्यस्तस्यासीत्सुतपोऽन्वितः ॥१५९॥श्रीवर्धनइतिख्यातो नानाशास्त्रकृतश्रमः ॥स दृष्ट्वा सर्पभोगेन समंताद्वेष्टितं गुरुम् ॥१६०॥नातिदूरस्थितं मां च ज्ञात्वा तत्कर्मकारिणम् ॥उवाच परुषं वाक्यं कोपसंरक्तलोचनः ॥१६१॥स्फुरताधरयुग्मेन बाष्पगद्गदया गिरा ॥मया चेत्सुतपस्तप्तं गुरुशुश्रूषया सदा ॥१६२॥निर्विकल्पेन चित्तेन यदि ध्यातो महेश्वरः ॥तेन सत्येन दुष्टोऽयं पापात्मा ब्राह्मणाधमः ॥ईदृक्कायो भवत्वाशु गुरुर्मे येन धर्षितः ॥१६३॥अथाहं सर्पतां प्राप्तस्तत्क्षणादेव दारुणाम् ॥पश्यतां सर्वलोकानां वदतां साधुसाध्विति ॥१६४॥अथ गत्वा समाधेः स पर्यंतं संयतो मुनिः ॥ददर्श निज गात्रस्थं द्विजिह्वं दारुणाकृतिम् ॥१६५॥अथ सर्पाकृतिं मां च दुःखेन महतान्वितम् तटस्थं भयसंत्रस्तं तथा सर्वजनं तदा ॥१६६॥ततो विज्ञाय तत्सर्वं स मुनिर्ज्ञानचक्षुषा ॥अब्रवीत्कृपायाविष्टः शिष्यं श्रीवर्धनं रुषा ॥१६७॥न मे प्रियं कृतं शिष्य त्वयैतत्कर्म कुर्वता ॥शपता ब्राह्मणं दीनं नैष धर्मस्तपस्विनाम् ॥१६८॥समो मानेऽपमाने च समलोष्टाश्मकांचनः ॥तपस्वी सिद्धिमायाति सुहृच्छत्रुसमाकृतिः ॥१६९॥तस्मादजानता वत्स शप्तोऽयं ब्राह्मणस्त्वया ॥बाल्यभावात्प्रसादोऽस्य भूयोयुक्तो ममाज्ञया ॥१७०॥अथ श्रीवर्धनः प्राह प्रणिपत्य निजं गुरुम् ॥अमर्षवशमापन्नः कृतांजलिपुटः स्थितः ॥१७१॥अज्ञानाद्यदिवा ज्ञानान्मया यद्व्याहृतं वचः ॥तत्तथैव न संदेहस्तस्मान्मौनं गुरो कुरु ॥न मृषा वचनं प्रोक्तं स्वैरेणापि गुरो मया ॥किं पुनर्यत्तवार्थाय तस्मान्मौनं समाचर ॥१७३॥पश्चादुदयते सूर्यः शोषं याति महार्णवः ॥अपि मेरुश्च शीर्येत न मे स्यादन्यथा वचः ॥१७४॥तमुवाच गुरुः शिष्यं स पुनः श्लक्ष्णया गिरा ॥जानाम्यहं न ते वाणी कथंचिज्जायतेऽन्यथा ॥१७५॥सदा शिष्यो वयःस्थोपि शासनीयः प्रयत्नतः ॥किं पुनर्बाल एव त्वं तेन त्वां वच्मि भूरिशः ॥१७६॥धर्मं न व्ययते कोऽपि मुनीनां पूर्वसंचितम् ॥तपोधर्मविहीनानां गतिस्तेषां न विद्यते ॥१७७॥क्षमैका सिद्धिदा प्रोक्ता यतीनां च विशेषतः ॥तस्मात्क्षमां पुरस्कृत्य वर्तितव्यं तपस्विभिः ॥१७८॥न पापं प्रति पापः स्याद्बुद्धिरेषा सनातनी ॥आत्मनैव हतः पापो यः पापं तु समाचरेत् ॥१७९॥दग्धः स दहते भूयो हतमेव निहंति च ॥सम्यग्ज्ञानपरित्यक्तो यः पापे पापमाचरेत् ॥१८०॥उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ॥अपकारिषु यः साधुः कीर्त्यते जनैः ॥१८१॥एवमुक्त्वा स तं शिष्यं ततो मामिदमब्रवीत् ॥दयया परया युक्तः सुव्रतः शंसितव्रतः ॥१८२॥नान्यथा वचनं भावि मम शिष्यस्य पन्नग ॥कञ्चित्कालं प्रतीक्षस्व तस्मात्सर्पवपुःस्थितः ॥१८३॥ ॥सर्प उवाच ॥कस्मिन्काले मुनिश्रेष्ठ शापो मेऽस्तमुपैष्यति ॥प्रसादं कुरु दीनस्य शापस्याज्ञानिनस्तथा ॥१८४॥ ॥सुव्रत उवाच ॥मुहूर्तमपि गीतादि यः करोति शिवालये ॥न तस्य शक्यते कर्तुं संख्या धर्मस्य भद्रक ॥१८५॥मुहूर्तमपि यो विघ्नं करोति च महोत्सवे ॥तस्य पापस्य नो संख्या कर्तुं शक्या हि केनचित् ॥१८६॥तस्मात्त्वं पापको विप्रो नैव मुक्तिमवाप्स्यसि ॥वार्तासंगेन दुर्बुद्धे तस्माच्छृणु वचो मम ॥१८७॥शैवं षडक्षरं मंत्रं योजपेच्छ्रद्धयान्वितः ॥अपि ब्रह्मवधा त्पापं जातं तस्य प्रणश्यति ॥१८८॥दशभिर्दिनजं पापं विंशत्या वत्सरोद्भवम् ॥षडक्षरस्य जाप्येन पापं क्षालयते नरः ॥१८९॥तस्मात्त्वं जलमध्यस्थस्तं मंत्रं जप सादरम् ॥येन पापं क्षयं याति कृतमप्यन्यजन्मनि ॥१९०॥यदा त्वां जलमध्यस्थं वत्सोनाम द्विजो रुषा ॥ताडयिष्यति दण्डेन तदा मोक्षमवाप्स्यसि ॥१९१॥तस्माद्गच्छ द्रुतं सर्प स्थानादस्माज्जलाशये ॥किञ्चिदिष्टं मया प्रोक्तो विरराम स सन्मुनिः ॥१९२॥ततोऽहं दुःखसंयुक्तः संप्राप्तोऽत्र जलाशये ॥षडक्षरं जपन्मन्त्रं नित्यमेव व्यवस्थितः ॥१९३॥त्वत्प्रसादादहं मुक्तः सर्पत्वाद्ब्राह्मणोत्तम ॥किं करोमि प्रियं तेऽद्य तस्माच्छीघ्रतरं वद ॥१९४॥वत्सोनाम न सन्देहः स त्वं यः कीर्तितो मम ॥सुव्रतेन विमानं मे पश्यैतदुपसर्पति ॥१९५॥ततः प्रोक्तो मया सम्यक्स सर्पो दिव्यरूपधृक् ॥भगवन्नुपदेशं मे किञ्चिद्देहि शुभावहम् ॥१९६॥येन नो जायते दुःखं प्रियलोपसमुद्भवम् ॥न दारिद्यं न च व्याधिर्न च शत्रुपराभवः ॥१९७॥अथोवाच स मां भूयः सोत्सुकः पुरुषोत्तमः ॥प्रश्नभारः समाख्यातस्त्वया मम द्विजोत्तम ॥१९८॥न चैतच्छक्यते वक्तुं विमाने समुपस्थिते ॥विस्तरात्तु ततो वच्मि संक्षेपेण तव द्विज ॥१९९॥शैवः षडक्षरो मन्त्रो नृणामशुभहारकः ॥स त्वया शक्तितो विप्र जपनीयो दिवानिशम् ॥२००॥ततः प्राप्स्यत्यसंदिग्धं यद्यद्वांछसि चेतसा ॥स्वर्गं वा यदि वा मोक्षं विमुक्तः सर्वपातकैः ॥२०१॥मया हि सुमहत्पापं सर्वदा समनुष्ठितम् ॥तत्रापि मंत्रमाहात्म्यात्प्राप्ता लोका महोदयाः ॥२०२॥एको दानानि सर्वाणि यच्छति श्रद्धयान्वितः ॥षडक्षरं जपेन्मंत्रमन्यस्ताभ्यां समं फलम् ॥२०३॥सर्वतीर्थाभिषेकं च कुरुतेऽन्यो नरो द्विज ॥षडक्षरं जपेन्मंत्रमन्यस्ताभ्यां समं फलम् ॥२०४॥चांद्रायणसहस्रं तु कुरुतेऽन्यो यथोचितम् ॥षडक्षरं जपेदन्यो मंत्रं ताभ्यां समं फलम् ॥२०५॥वर्षास्वाकाशशायी च हेमंते सलिलाशयः ॥पञ्चाग्निसाधको ग्रीष्मे यावद्वर्षशतं नरः ॥२०६॥अन्यः षडक्षरं मन्त्रं शुचिः श्रद्धासमन्वितः ॥जपेदहर्निशं मर्त्यः फलं ताभ्यां समं स्मृतम् ॥२०७॥पितृपक्षे सदा चैको गयायां श्राद्धमाचरेत् ॥अन्यः षडक्षरं मन्त्रं जपेत्ताभ्यां समं फलम् ॥२०८॥गोसहस्रं ददात्येकः कार्तिक्यां ज्येष्ठपुष्करे ॥षडक्षरं जपेन्मंत्रमन्यस्ताभ्यां समं फलम् ॥२०९॥संनिहित्यां नरः स्नाति राहुग्रस्ते दिवाकरे ॥एको अन्यस्तु जपेन्मन्त्रं षडर्णं तुल्यमेव तत् ॥२१०॥सोमे सोमग्रहेऽन्यस्तु सोमनाथं प्रपश्यति ॥अन्यः षडक्षरं मन्त्रं जपेत्ताभ्यां समं फलम् ॥२११॥एकश्चण्डीश्वरं पश्येदयने चोत्तरे नरः ॥अन्यः षडक्षरं मन्त्रं जपेत्ताभ्यां समं फलम् ॥२१२॥भृगुपातं पतेदेकः केदारं वीक्ष्य भक्तितः ॥अन्यः षडक्षरं मंत्रं जपेत्ताभ्यां समं फलम् ॥२१३॥करीषं साधयेदन्यो दत्त्वा सर्वस्वमादितः ॥षडक्षरं जपेन्मंत्रमन्यस्ताभ्यां समं फलम् ॥२१४॥सर्व संगपरित्यागं कृत्वैको ज्ञानमाप्नुयात् ॥अन्यः षडक्षरं मन्त्रं जपेत्ताभ्यां समं फलम् ॥२१५॥एतत्ते परमं गुह्यं मया विप्र प्रकीर्तितम् ॥नास्तिकाय न दातव्यं भक्तिहीनाय नैव च ॥२१६॥तथान्यदपि वक्ष्यामि हितबुद्ध्या द्विजोत्तम ॥मम वाक्यं कुरुष्वाद्य यदीच्छसि परां गतिम् ॥२१७॥अहिंसा परमो धर्मः सर्ववेदे प्रकीर्तितः ॥ब्राह्मणस्य विशेषेण तस्मात्सर्पवधं त्यज ॥२१८॥अहिंसकानि भूतानि यो हिनस्ति सुनिर्दयः ॥स याति नरकं घोरं यावदाभूतसंप्लवम् ॥२१९॥चराचराणां भूतानामभयं यः प्रयच्छति ॥सर्वदा सर्वसौख्याढ्यो जायते दिवि चेह च ॥२२०॥नास्ति भर्गसमो देवो नास्ति गंगासमा नदी ॥नास्ति हिंसासमं पापं नास्ति धर्मो दयापरः ॥२२१॥अथाहमब्रुवं तं च तच्छ्रुत्वा तस्य जल्पितम् ॥अहिंसालक्षणं धर्मं परलोकभयातुरः ॥२२२॥मन्यते वृद्धलोकानामेतद्वाक्यं श्रुतं मया ॥भूपतेर्नेव दोषः स्याद्वने व्यापादितैर्मृगैः ॥२२३॥प्रवदंति तथा वैद्या वैद्यशास्त्रविचक्षणाः ॥भवंति पुष्टिसंयुका मांसादाश्चिरजीविनः ॥२२४॥तदत्र विषये ब्रूहि परं निःश्रेयसं वचः ॥सर्वं कर्तास्म्यसंदिग्धं तव वक्त्राद्विनिर्गतम् ॥२२५॥अथ मां स पुनः प्राह वद मैवं द्विजोत्तम ॥मतमेतद साधूनां पापानां मांसगृद्धिनाम् ॥२२६॥अहो शोच्यतमा लोके पापात्मानः सुनिर्दयाः ॥सर्वदोषाकरं मांसं मूढाः स्वादंति ये नराः ॥२२७॥॥न मांसमायुषो हेतुरारोग्यस्य बलस्य वा ॥सर्वमेतदसत्यं स्याच्छ्रणुष्वाद्य निदर्शनम् ॥२२८॥मांसाशिनोऽपि दृश्यंते रोगार्ता दुर्बलास्तथा ॥स्वल्पायुषश्च मत्वैवं मांसं वर्जय दूरतः ॥२२९॥अमांसादा अपि क्ष्मायां दृश्यंते रोगवर्जिताः ॥चिरायुषश्च पीनांगास्त स्मान्मांसं विवर्जयेत् ॥२३०॥यो भक्षयति मांसानि सत्त्वानां जीवितैषिणाम् ॥स याति नरकं घोरं तत्रस्थो भक्ष्यते च तैः ॥२३१॥न हि मांसं तृणात्काष्ठादुपलादपि जायते ॥हते जंतौ भवेन्मांसं तस्मात्तत्परिवर्जयेत् ॥२३२॥एतदेव हि दृष्टांतं मांसस्य परिवर्जने ॥यदंगं ह्रियते स्वं च कंटकेनापि विक्षतम् ॥२३३॥आत्मौपम्येन भूतानि तस्मात्सर्वाणि पंडितैः ॥द्रष्टव्यानि न हिंस्यानि रक्षणीयानि शक्तितः ॥२३४॥हंता चैवानुमंता च विशस्ता क्रयविक्रयी ॥संस्कर्ता चोपहर्ता च खादकश्चाष्ट घातकाः ॥२३५॥धनेन क्रयकृद्धंति भक्षणेन च खादकः ॥घातको वधबंधाभ्यामित्यन्यस्त्रिविधो वधः ॥२३६॥कर्मणा मनसा वाचा यो हिनस्ति न किंचन ॥स प्राप्नोति परं स्थानं जरा मरणवर्जितम् ॥२३७॥शाकमूलफलाहारो ब्रह्मचर्यपरायणः ॥न तस्य फलमाप्नोति यदि हिंसापरो नरः ॥२३८॥एको वर्षशतं साग्रं तपस्तपति दुस्तरम् ॥अहिंसानिरतो यस्तु तयोः श्रेष्ठो दयान्वितः ॥२३९॥यंयं कामयते कामं दुष्प्रापमपि मानवः ॥तं तमाप्नोत्यसंदिग्धं यदि स्यात्सुदयान्वितः ॥२४०॥कामगेन विमानेन दिव्यस्त्रीशतसेवितः ॥देववन्मोदते स्वर्गे सवभूताभयप्रदः ॥२४१॥एवमुक्त्वा महात्मा स पश्यतो मम सूतज ॥विमानवरमारुह्य गतश्च त्रिदिवालयम् ॥२४२॥गन्धर्वैर्गीयमानस्तु स्तूयमानश्च किन्नरैः ॥षडक्षरस्य मंत्रस्य माहात्म्ये न महामते ॥२४३॥तस्मिन्गते तदा स्वर्गं दुःखं मे समुपस्थितम् ॥स्मृत्वा पूर्वं हतान्सर्पान्भग्नगात्रोऽभवं तदा ॥२४४॥ततोऽहं कृतवांस्तत्र विप्रलापाननेकशः ॥स्वकर्मभयसंत्रस्तस्तस्मिन्नेव महावने ॥२४५॥अहो मया नृशंसेन बहवः प्राणिनो हताः ॥निन्दितश्च महादेवो नर कार्तिर्भविष्यति ॥२४६॥सोऽहं हिंसां परित्यज्य चरिष्यामि महत्तपः ॥शिवदीक्षां समासाद्य पूजयिष्ये महेश्वरम् ॥२४७॥यत्किंचित्त्रिषु लोकेषु प्रार्थयंति नराः सुखम् ॥तत्सर्वं तपसा साध्यं तस्मात्कार्यं मया तपः ॥२४८॥अधुनैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ ॥चरन्भैक्षं मुनिर्मौनी चरिष्याम्याश्रमानिमान् ॥२४९॥पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः ॥वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥२५०॥एवं विलप्य यत्नेन मया सूतकुलोद्वह ॥गृहीतं भक्तियुक्तेन शिवदीक्षाव्रतं ततः ॥२५१॥षडक्षरस्य मंत्रस्य अयुतं प्रजपाम्यहम् ॥त्रिसन्ध्यं श्रद्धया युक्तः सिद्धेश्वरसमीपतः ॥२५२॥तत्प्रभावेन मे स्थैर्यं संजातं यौवनोद्भवम् ॥तथा लोकातंरज्ञानं खेचरत्वं च सूतज ॥२५३॥सिद्धेश्वरं प्रयास्यामि द्वापरांते ह्यवस्थिते ॥सदाशिवं प्रयास्यामि सत्यमेतन्मयोदितम् ॥२५४॥एतत्ते सर्वमाख्यातं मया सूतज मोक्षदम् ॥षडक्षरस्य माहात्म्यं सर्वपापप्रणाशनम् ॥२५५॥यश्चैतच्छृणुयान्नित्यं सम्यक्छ्रद्धासमन्वितः ॥आजन्ममरणात्पापात्सोऽपि मुच्येत मानवः ॥२५६॥तस्मात्त्वं हि महाभाग मन्त्रमेनं सदा जप ॥संप्राप्स्यसि परान्कामान्मनसा वांछितान्सदा ॥२५७॥सूत उवाच ॥एतच्छ्रुतं मया पूर्वं सकाशात्तस्य सद्गुरोः ॥षडक्षरस्य माहात्म्यं यद्युष्माकं प्रकीर्तितम् ॥२५८॥धन्यं यशस्यमायुष्यं शत्रुपक्षक्षयावहम् ॥पठतां शृण्वतां नित्यं सर्वकामाभयप्रदम् ॥२५९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये षडक्षरमन्त्रमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनामैकोनत्रिंशोऽध्यायः ॥२९॥ N/A References : N/A Last Updated : December 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP