संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २२१ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २२१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २२१ Translation - भाषांतर ॥ भर्तृयज्ञ उवाच ॥एतस्मात्कारणात्कश्चित्तस्मिन्नहनि पार्थिव ॥ददाति नैव च श्राद्धं पितॄनुद्दिश्य कर्हिचित् ॥वंशच्छेदभयाद्राजन्सत्यमेतन्मयोदितम् ॥१॥श्राद्धं विनापि दातव्यं तद्दिने मधुना सह ॥पायसं ब्राह्मणाग्र्येभ्यः सघृतं तृप्तिकारणात् ॥२॥खड्गमांसं कालशाकं मांसं वाध्रीणसोद्भवम् ॥प्रदेयं ब्राह्मणेभ्यश्च तत्समंतादुदाहृतम् ॥३॥त्रिःपिबश्चेंद्रियक्षीणः सर्वयूथानुगस्तथा ॥एष वाध्रीणसः प्रोक्तः पितॄणां तृप्तिदः सदा ॥४॥तस्याभावेऽपि दातव्यं क्षीरौदनमनुत्तमम् ॥तस्मिन्नहनि विप्रेभ्यः पितॄणां तुष्टये नृप ॥५॥तस्याभावेऽपि दातव्यं जलं तिलविमिश्रितम् ॥सदर्भं सहिरण्यं च हिरण्यशकलान्वितम् ॥६॥यच्छ्रेयो जायते पुंसः पक्षश्राद्धेन पार्थिव ॥कृतेन तत्फलं कृत्स्नं तस्मिन्नहनि पार्थिव ॥७॥पितॄनुद्दिश्य चाऽऽज्येन मधुना पायसेन च ॥कालशाकेन मधुना खड्गमांसेन वा नृप ॥८॥श्राद्धं विनापि दत्तेन श्रुतिरेषा पुरातनी ॥तस्मात्सर्वप्रयत्नेन पित्र्यर्क्ष्ये समुपस्थिते ॥त्रयोदश्यां नभस्यस्य हस्तगे दिननायके ॥९॥दरिद्रेणापि दातव्यं हिरण्यशकलान्वितम् ॥तोयं तिलैर्युतं राजन्पितॄणां तुष्टिमिच्छता ॥१०॥ ॥ आनर्त उवाच ॥मांसं विगर्हितं विप्र यतः शास्त्रे निगद्यते ॥ तस्मात्तत्क्रियते केन श्राद्धं कीर्तय मेऽखिलम् ॥११॥स्वमांसं परमांसेन यो वर्धयति निर्दयः ॥स नूनं नरकं याति प्रोक्तमेतन्महर्षिभिः ॥१२॥त्वं च तस्य प्रभावं मे प्रजल्पसि द्विजो त्तम ॥विशेषाच्छ्राद्धकृत्ये च तदेवं मम संशयः ॥१३॥ ॥ भर्तृयज्ञ उवाच ॥सत्यमेतन्महाभाग मांसं सद्भिर्विगर्हितम् ॥श्राद्धे प्रयुज्यते यस्मात्तत्तेऽहं वच्मि कारणम् ॥१४॥यदा चारंभिता सृष्टिर्ब्रह्मणा लोककारिणा ॥संपूज्य च पितॄन्देवान्नांदीमुखपुरःसरान् ॥तदा खड्गः समुत्पन्नः पूर्वं वाध्रीणसश्च यः ॥१५॥ ततो ये पितरो दिव्या ये च मानुषसम्भवाः ॥जगृहुस्ते ततः सर्वे बलिभूतमिवात्मनः ॥१६॥तानुवाच ततो ब्रह्मा एतौ तु पितरो मया ॥युष्मभ्यं कल्पितौ सम्यग्बलिभूतौ प्रगृह्यताम् ॥१७॥एताभ्यां परमा प्रीतिर्युष्मभ्यं संभविष्यति ॥मम वाक्यादसंदिग्धं परमेतौ नरो भुवि ॥१८॥नैव संप्राप्स्यते पापं युष्मदर्थंहनन्नपि ॥तस्मात्सर्वप्रयत्नेन दातव्यं भूतिमिच्छता ॥१९॥खड्गवाध्रीणसोद्भूतं मांसं श्राद्धे सुतृप्तिदम् ॥तौ चापि परमौ दिव्यौ स्वर्गं लोकं गमिष्यतः ॥२०॥श्राद्धदस्य परं श्रेयो भविष्यति सुदुर्लभम् ॥पितॄणां चाक्षया तृप्तिर्भवेद्द्वादशवार्षिकी ॥२१॥एतस्मात्कारणाच्छस्तं मांसमाभ्यां नराधिप ॥तस्मिन्नहनि नान्यत्र विनियोगोऽस्य कीर्तितः ॥२२॥ ॥ रोहिताश्व उवाच ॥अप्राप्तखड्गमांसस्य तथा वाध्रीणसस्य च ॥कथं श्राद्धं भवेद्विप्र पितॄणां तृप्तिका रकम् ॥२३॥ ॥ मार्कण्डेय उवाच ॥मधुना सह दातव्यं पायसं पितृतुष्टये ॥तेन वै वार्षिकी तृप्तिः पितॄणां चोपजायते ॥२४॥आजं च पिशितं राजञ्छिशुमारसमुद्भवम् ॥मांसं प्रतुष्टये प्रोक्तं वत्सरं मासवर्जितम् ॥२५॥तदभावे वराहस्य दशमासप्रतुष्टिदम् ॥ मांसं प्रोक्तं महाराज पितॄणां नात्र संशयः ॥२६॥आरण्यमहिषोत्थेन तृप्तिः स्यान्नवमासिकी ॥रुरोश्चैवाष्टमासोत्था एणस्य सप्तमासिका ॥२७॥शम्बरोर्मासषट्कं च शशकस्य तु पञ्चकम् ॥चत्वारः शल्लकस्योक्तास्त्रयो वा तैत्तिरस्य च ॥२८॥मासद्वयं च मत्स्यस्य मासमेकं कपिञ्जले ॥नान्येषां योजयेन्मांसं पितृकार्ये कथंचन ॥२९॥एतेषामेव मांसानि पावनानि नृपोत्तम ॥३०॥ ॥ आनर्त उवाच ॥कस्मादेते पवित्राः स्युर्येषां मांसं प्रचोदितम् ॥श्राद्धे च तन्ममाचक्ष्व यथावद्द्विजसत्तम ॥३१॥ ॥ भर्तृयज्ञ उवाच ॥सृष्टिं प्रकुर्वता तेन पशवो लोककारिणा ॥खड्गवाध्रीणसादीनां पश्चात्सृष्टाः स्वयंभुवा ॥३२॥एकादशप्रमाणेन ततश्चान्ये नृपोत्तम ॥अजश्च प्रथमं सृष्टः स तथा मेध्यतां गतः ॥३३॥तथैते प्रथमं सृष्टाः पशवोऽत्र नराधिप ॥सस्यानि सृजता तेन तिलाः पूर्वं च निर्मिताः ॥३४॥श्राद्धार्थं व्रीहयः सृष्टा वन्येषु च प्रियंगवः ॥गोधूमाश्च यवाश्चैव माषा मुद्राश्च वै नृप ॥३५॥नीवाराश्चापि श्यामाकाः प्रवक्ष्यामि यथाक्रमम् ॥तृप्तिं मांसेन वाञ्छंति मांसं मांसेन वर्जितम् ॥३६॥पुष्पजात्यो यदा सृष्टास्तदा प्राक्छतपत्रिका ॥सृष्टा तेन च मुख्या सा श्राद्धकर्मणि सर्वदा ॥३७॥धातूनि सृजता तेन रूप्यं सृष्टं स्वयंभुवा ॥तेन तद्विहितं श्राद्धे दक्षिणायां प्रतृप्तये ॥३८॥राजतेषु च पात्रेषु यद्द्विजेभ्यः प्रदीयते ॥पितृभ्यस्तस्य नैवाऽन्तो युगान्तेऽपि प्रजायते ॥३९॥अभावे रूप्यपात्राणां नामापि परिकीर्तयेत् ॥तुष्यंति पितरो राजन्कीर्तनादपि वै यतः ॥४०॥रसांश्च सृजता तेन मधु सृष्टं स्वयंभुवा ॥तेन तच्छस्यते श्राद्धे पितॄणां तुष्टिदायकम् ॥४१॥यच्छ्राद्धं मधुना हीनं तद्रसैः सकलैरपि ॥मिष्टान्नैरपि संयुक्तं तत्पितॄणां न तृप्तये ॥४२॥अणुमात्रमपि श्राद्धे यदि न स्याद्धि माक्षिकम् ॥नामापि कीर्तयेत्तस्य पितॄणां तुष्टये यतः ॥४३॥शाकानि सृजता तेन ब्रह्मणा परमेष्ठिनौ ॥कालशाकं पुरः सृष्टं तेन तत्तृप्तिदायकम् ॥४४॥कालं हि सृजता तेन कुतपः प्राग्विनिर्मितः ॥तस्मात्कुतप काले च श्राद्धं कार्यं विजानता ॥य इच्छेच्छाश्वतीं तृप्तिं पितॄणामात्मनः सुखम् ॥४५॥वीरुधः सृजता तेन विधिना नृपसत्तम ॥दर्भास्तु प्रथमं सृष्टाः श्राद्धार्हास्तेन ते स्मृताः ॥४६॥श्राद्धार्हान्ब्राह्मणांस्तेन सृजता पद्मयोनिना ॥दौहित्राः प्रथमं सृष्टाः श्राद्धार्हास्तेन ते स्मृताः ॥४७॥अपि शौचपरित्यक्तं हीनांगाधिकमेव वा ॥दौहित्रं योजयेच्छ्राद्धे पितॄणां परितुष्टये ॥४८॥पशून्विसृजता तेन पूर्वं गावो विनिर्मिताः ॥तेन तासां पयः शस्तं श्राद्धे सर्पिर्विशेषतः ॥४९॥तस्माच्छ्राद्धे घृतं शस्तं प्रदत्तं पितृतुष्टये ॥५०॥प्रजाश्च सृजता तेन पूर्वं दृष्टा द्विजोत्तमाः ॥तस्मात्प्रशस्तास्ते श्राद्धे पितृतृप्तिकराः सदा ॥५१॥देवांश्च सृजता तेन विश्वेदेवाः कृताः पुरः ॥तेन ते प्रथमं पूज्याः प्रवृत्ते श्राद्धकर्मणि ॥५२॥ते रक्षंति ततः श्राद्धं यथावत्परितर्पिताः ॥छिद्राणि नाशयंति स्म श्राद्धे पूर्वं प्रपूजिताः ॥५३॥एतैर्मुख्यतमैः सृप्तैः फूरा श्राद्धं विनिर्मितम् ॥स्वयं पितामहेनैव ततो देवा विनिर्मिताः ॥५४॥तेन ते सर्वलोकेषु गताः ख्यातिं पुरा नृप ॥५५॥एतच्छ्राद्स्य सत्रत्वं मया ते परिकीर्तितम् ॥पितॄणां परमं गुह्यं दत्तस्याक्षयकारकम् ॥५६॥यश्चैतत्कीर्तयेच्छ्राद्धे क्रियमाणे नृपोत्तम ॥विप्राणां भोक्त्तुकामानां तच्छ्राद्धं त्वक्षयं भवेत् ॥५७॥यश्चैतच्कृणुयाद्राजन्सम्यक्छ्रद्धासमन्वितः ॥विहितस्य भवेत्पुण्यं यच्छ्राद्धस्य तदाप्नुयात् ॥५८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेरक्षेत्रमाहात्म्ये श्राद्धकल्पे सृष्ट्युत्पत्तिकालिकब्रह्मोत्सृष्टश्राद्धार्हवस्तुपरिगणनवर्णनं नामैकविंशत्युत्तरद्विशततमोऽध्यायः ॥२२१॥ N/A References : N/A Last Updated : January 06, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP