संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २१५ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २१५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २१५ Translation - भाषांतर ॥ ऋषय ऊचुः ॥सांप्रतं वद नः सूत श्राद्धकल्पस्य यो विधिः ॥विस्तरेण महाभाग यथा तच्चाक्षयं भवेत् ॥१॥कस्मिन्काले प्रकर्तव्यं श्राद्धं पितृपरायणैः ॥कीदृशैर्ब्राह्मणैस्तच्च तथा द्रव्यैर्महामते ॥२॥ ॥ सूत उवाच ॥एतदर्थं पुरा पृष्टो मार्कंडेयो महामुनिः ॥रोहिताश्वेन विप्रेंद्रा हरिश्चन्द्र सुतेन सः ॥३॥हरिश्चन्द्रे गते स्वर्गं रोहिताश्वे नृपे स्थिते ॥तीर्थयात्राप्रसंगेन मार्कण्डो मुनिसत्तमः ॥४॥सरय्वाः संगमे पुण्ये स्नानार्थं समुपस्थितः ॥तत्र स्नात्वा पितॄन्देवान्संतर्प्य विधिपूर्वकम् ॥५॥प्रविष्टस्तां पुरीं रम्यामयोध्यां सत्यनामिकाम् ॥रोहिताश्वोऽपि तं श्रुत्वा समायातं मुनीश्वरम् ॥पदातिः प्रययौ तूर्णं दूरदेशं तु सम्मुखम् ॥६॥ततः प्रणम्य तं मूर्ध्ना कृतांजलिपुटः स्थितः ॥प्रोवाच मधुरं वाक्यं विनयेन समन्वि तः ॥७॥स्वागतं ते मुनिश्रेष्ठ भूयः सुस्वागतं मुने ॥धन्योऽहं कृतपुण्योऽहं संप्राप्तः परमां गतिम् ॥यत्ते पादरजोभिर्मे मूर्द्धजा विमलीकृताः ॥८॥एवमुक्त्वा गृहीत्वा तं स्वहस्तालंबनं तदा ॥ययौ तत्र सभास्थानं बृहत्सिंहासनाश्रयम् ॥९॥सिंहासने निवेश्याथ तं मुनिं पार्थिवोत्तमः ॥उपविष्टो धरापृष्ठे कृतांजलिपुटः स्थितः ॥१०॥ततः प्रोवाच मधुरं विनयावनतः स्थितः ॥निःस्पृहस्यापि विप्रेंद्र कि वाऽऽगमनकारणम् ॥११॥तद्ब्रवीहि यथातथ्यं करोमि तव सांप्रतम् ॥अदेयमपि दास्यामि गृहायातस्य ते विभो ॥१२॥मार्कंडेय उवाच ॥तीर्थयात्राप्रसंगेन वयमत्र समागताः ॥सरय्वाः संगमे पुण्ये कल्ये यास्याम्यहे पुनः ॥१३॥निःस्पृहैरपि द्रष्टव्या धर्मवन्तो द्विजोत्तमाः ॥ततः प्रोक्तं पुराण ज्ञैर्ब्राह्मणैः शास्त्रदृष्टिभिः ॥१४॥धर्मवन्तं नृपं दृष्ट्वा लिंगं स्वायंभुवं तथा ॥नदीं सागरगां चैव मुच्येत्पापाद्दिनोद्भवात् ॥१५एवमुक्त्वा ततश्चक्रे पृच्छां स मुनिसत्तमः ॥तं दृष्ट्वा नृपशार्दूलं पुरःस्थं विनयान्वितम् ॥१६॥कच्चित्ते सफला वेदाः कच्चित्ते सफलं श्रुतम् ॥कच्चित्ते सफला दाराः कच्चित्ते सफलं धनम् ॥१७॥ ॥ रोहिताश्व उवाच ॥कथं स्युः सफला वेदाः कथं स्यात्सफलं श्रुतम् ॥कथं स्युः सफला दाराः कथं स्यात्सफलं धनम् ॥१८॥ ॥ मार्कंडेय उवाच ॥अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् ॥रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥१९॥एवं ज्ञात्वा महाराज नान्यथा कर्तुमर्हसि ॥२०॥चत्वार्येतानि कृत्यानि मयोक्तानि च तानि ते ॥यथा तानि प्रकृत्यानि लोकद्वयमभीप्सता ॥२१॥एवमुक्त्वा ततश्चक्रे कथाश्चित्राश्च तत्पुरः ॥राजर्षीणां पुराणानां देवर्षीणां विशेषतः ॥२२॥ततः कथावसाने च कस्मिंश्चिद्द्विजसत्तमाः ॥पप्रच्छ तं मुनिश्रेष्ठं रोहिताश्वो महीपतिः ॥२३॥भगवञ्छ्रोतुमिच्छामि श्राद्धकल्पमहं यतः ॥दृश्यंते बहवो भेदा द्विजानां श्राद्धकर्मणि ॥२४॥ ॥ मार्कंडेय उवाच ॥सत्यमेतन्महाभाग यत्पृष्टोऽस्मि नृपोत्तम ॥श्राद्धस्य बहवो भेदाः शाखाभेदैर्व्यवस्थिताः ॥२५॥तस्मात्ते निर्णयं वच्मि भर्तृयज्ञेन यत्पुरा ॥आनर्त्ताधिपतेः प्रोक्तं सम्यक्छ्राद्धस्य लक्षणम् ॥२६॥भर्तृयज्ञं सुखासीनं निजाश्रमपदे नृपः ॥आनर्ताधिपतिर्गत्वा प्रणिपत्य ततोऽब्रवीत् ॥२७॥ ॥ आनर्त उवाच ॥सांप्रतं वद मे ब्रह्मञ्छ्राद्धकल्पं पित्रीप्सितम् ॥येन मे तुष्टिमायांति पितरः श्राद्धतर्पिताः ॥२८॥कः कालो विहितः श्राद्धे कानि द्रव्याणि मे वद ॥श्राद्धार्हाणि तथान्यानि मेध्यानि द्वि जसत्तम ॥यानि योज्यानि वांछद्भिः पितृणां तृप्तिमुत्तमाम् ॥२९॥कीदृशा ब्राह्मणा ब्रह्मञ्छ्राद्धार्हाः परिकीर्तिताः ॥कीदृशा वर्जनीयाश्च सर्वं मे विस्तराद्वद ॥३०॥ ॥ भर्तृयज्ञ उवाच ॥अहं ते कीर्तयिष्यामि श्राद्धकल्पमनुत्तमम् ॥यं श्रुत्वाऽपि महाराज लभेच्छ्राद्धफलं नरः ॥३१॥श्राद्धमिदुक्षयेऽवश्यं सदा कार्यं विपश्चिता ॥यदि ज्येष्ठतमः सर्गः सन्तानं च तथा नृप ॥३२॥शीतार्ता यद्वदिच्छंति वह्निं प्रावरणानि च ॥पितरस्तद्वदिच्छंति क्षुत्सामाश्चन्द्रसंक्षयम् ॥३३॥दरिद्रोपहता यद्वद्धनं वांछंति मानवाः ॥पितरस्तद्वदिच्छंति क्षुत्क्षामाश्चन्द्रसं क्षयम् ॥३४॥यथा वृष्टिं प्रवांछन्ति कर्षुकाः सस्यवृद्धये ॥तथात्मप्रीतये तेऽपि प्रवांछन्तींदुसंक्षयम् ॥३५॥यथोषश्चक्रवाक्यश्च वांछन्ति रवि दर्शनम् ॥पितरस्तद्वदिच्छंति श्राद्धं दर्शसमुद्भवम् ॥३६॥जलेनापि च यः श्राद्धं शाकेनापि करोति वाः ॥दर्शस्य पितरस्तृप्तिं यांति पापं प्रण श्यति ॥ ३७॥अमावास्यादिने प्राप्ते गृहद्वारं समाश्रिता ॥वायुभूताः प्रवांछन्ति श्राद्धं पितृगणा नृणाम् ॥यावदस्तमयं भानोः क्षुत्पिपासास माकुलाः ॥३८॥ततश्चास्तं गते भानौ निराशा दुःखसंयुताः ॥निःश्वस्य सुचिरं यांति गर्हयंति स्ववंशजम् ॥३९॥ ॥ आनर्त उवाच ॥किमर्थं क्रियते श्राद्धममावास्यादिने द्विज ॥विशेषेण ममाचक्ष्य विस्तरेण यथातथम् ॥४०॥मृताश्च पुरुषा विप्र स्वकर्मजनितां गतिम् ॥गच्छन्ति ते कथं तस्य सुतस्याश्रयमाययुः ॥४१॥एष नः संशयो विप्र सुमहान्हृदि संस्थितः ॥४२॥ ॥ भर्तृयज्ञ उवाच ॥सत्यमेतन्महाभाग यत्त्वया व्याहृतं वचः ॥स्वकर्मार्हां गतिं यांति मृताः सर्वत्र मानवाः ॥४३॥परं यथा समायांति वंशजस्याश्रयं प्रति ॥तथा तेऽहं प्रव क्ष्यामि न तथा संशयो भवेत् ॥४४॥मृता यांति तथा राजन्येऽत्र केचिन्महीतले ॥ते जायंते न मर्त्येऽत्र यावद्वंशस्य संस्थितिः ॥४५॥परं शुभात्मका ये च ते तिष्ठंति सुरालये ॥पापात्मानो नरा ये च वैवस्वतनिवासिनः ॥४६॥अन्यदेहं समाश्रित्य भुंजानाः कर्मणः फलम् ॥शुभं वा यदि वा पापं स्वयं विहितमात्मनः ॥४७॥यमलोके स्थितानां हि स्वर्गस्थानामपि क्षुधा ॥पिपासा च तथा राजंस्तेषां संजायतेऽधिका ॥४८॥यावन्नरत्रयं राजन्मातृतः पितृतस्तथा ॥तेषां च परतो ये च ते स्वकर्म शुभाशुभम् ॥भुंजते क्षुत्पिपासा च न तेषां जायते क्व् चित् ॥४९॥तत्रापि पतनं तस्मात्स्थानाद्भवति भूमिप ॥वंशोच्छेदान्पुनः सर्वे निपतंति महीतले ॥त्रुटद्रज्जुनिबद्धं हि भांडं यद्वन्निराश्रयम् ॥५०॥एतस्मात्कारणाद्यत्नः सन्तानाय विचक्षणैः ॥प्रकर्तव्यो मनुष्येंद्र वंशस्य स्थितये सदा ॥५१॥अपि द्वादशधा राजन्नौरसादिसमु द्भवाः ॥तेषामेकतमोऽप्यत्र न दैवाज्जायते सुतः ॥५२॥पितॄणां गुप्तये तेन स्थाप्योऽश्वत्थः समाधिना ॥पुत्रवत्परिपाल्यश्च निर्विशेषं नराधिप ॥५३॥यावत्संधारयेद्भूमिस्तमश्वत्थं नराधिप ॥कृतोद्वाहं समं शम्या तावद्वंशोऽपि तिष्ठति ॥५४॥अश्वत्थजनका मर्त्या निपत्य जगती तले ॥पापामुक्ताः समायांति योनिं श्रेष्ठां शुभान्विताः ॥५५॥एतस्मात्कारणादन्नं नित्यं देयं तथोदकम् ॥समुद्दिश्य पितॄन्राजन्यतस्ते तन्मयाः स्मृताः ॥५६॥अदत्त्वा सलिलं सस्यं पितॄणां यो नराधिप ॥स्वयमश्नाति वा तोयं पिवेत्स स्यात्पितृद्रुहः ॥स्वर्गेऽपि च न ते तोयं लभंते नान्नमेव च ॥५७॥न दत्तं वंशजैर्मर्त्यैश्चेद्व्यथां यांति दारुणाम् ॥क्षुत्पिपासासमुद्भूतां तस्मात्संतर्पयेत्पितॄन् ॥५८॥नित्यं शक्त्या नरो राजन्पयोऽन्नैश्च पृथग्विधैः ॥तथान्यैर्वस्त्रनैवेद्यैः पुष्पगन्धानुलेपनैः ॥५९॥पितृमेधादिभिः पुण्यैः श्राद्धैरुच्चावचैरपि ॥तर्पितास्ते प्रयच्छंति कामानिष्टान्हृदि स्थितान् ॥त्रिवर्गं च महाराज पितरः श्राद्धतर्पिताः ॥६०॥तर्पयंति न ये पापाः स्वपितॄन्नित्यशो नृप ॥पशवस्ते सदा ज्ञेया द्विपदाः शृंगवर्जिताः ॥६१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धावश्यकताकारणवर्णनंनाम पञ्चदशोत्तरद्विशततमो ऽध्यायः ॥२१५॥ N/A References : N/A Last Updated : January 06, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP