संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २५९ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २५९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २५९ Translation - भाषांतर ॥ गालव उवाच ॥तस्मिंस्तु पतिते लिंगे योजनायामविस्तृते ॥विषादार्त्ता ऋषिगणास्तत्राजग्मुः सहस्रशः ॥१॥व्यलोकयन्त सर्वत्र दृष्ट्वा तत्र महेश्वरम् ॥नासौ दृष्टिपथे तेषां बभूव भयविह्वलः ॥२॥वीर्यं वर्षसहस्राणि बहून्यपि सुसंचितम् ॥पृथिवीं सकलां व्याप्य स्थितं ददृशिरे द्विजाः ॥३॥तद्दृष्ट्वा सुमहल्लिंगं रुधिराक्तं जलैः प्लुतम् ॥ब्राह्मणाः संशयगता दह्यमाना वसुन्धरा ॥४॥तल्लिंगं तत्र संस्थाप्य चक्रुस्तां नर्मदां नदीम् ॥तज्जलं नर्मदारूपं ल्लिंगं चामरकण्टकम् ॥५॥नरकं वारयत्येतत्सेवितं नरकापहम् ॥भूतग्रहाश्च सर्वेऽपि यास्यंति विलयं ध्रुवम् ॥६॥तत्र स्नात्वा जलं पीत्वा संतर्प्य च पितॄंस्तथा ॥.सर्वान्कामानवाप्नोति मनुष्यो भुवि दुर्लभान् ॥७॥लिंगानि नार्मदेयानि पूजयिष्यंति ये नराः ॥तेषां रुद्रमयो देहो भविष्यति न संशयः ॥चातुर्मास्ये विशेषेण लिंगपूजा महाफला ॥चातुर्मास्ये रुद्रजपं हरपूजा शिवे रतिः ॥९॥पंचामृतेन स्नपनं न तेषांगर्भवेदना ॥ये करिष्यंति मधुना सेचनं लिंगमस्तके ॥१०॥तेषां दुःखसहस्राणि यास्यंति विलयं ध्रुवम् ॥दीपदानं कृतं येन चातु र्मास्ये शिवाग्रतः ॥११॥कुलकोटिं समुद्धृत्य स्वेच्छया शिवलोकभाक् ॥चन्दनागुरुधूपैश्च सुश्वेतकुसुमैरपि ॥१२॥नर्मदाजललिंगं ये ह्यर्च यिष्यंति ते शिवाः ॥शिला हरत्वमापन्नाः प्राणिनामपि का कथा ॥१३॥तत्संभूतं महालिंगं जलधारणसंयुतम् ॥पूजयित्वा विधानेन चातुर्मास्ये शिवो भवेत् ॥१४॥चातुर्मास्ये ये मनुजा नर्मदाऽमरकण्टके ॥तीर्थे स्नास्यंति नियतास्तेषां वासस्त्रिविष्टपे ॥१५॥ ॥ ब्रह्मोवाच ॥इत्युक्त्वा ते द्विजास्तत्र स्थाप्य लिंगं यथाविधि ॥अमरकण्टकतीर्थे नर्मदां च महानदीम् ॥१६॥पुनश्चिन्तापरा जाता विश्वस्य क्षोभकारणे ॥पद्मासनगता भूत्वा प्राणायामपरायणाः ॥१७॥चिन्तयामासुरव्यग्रं हृदयस्थं महे श्वरम् ॥ततो देवा महेंद्राद्याः संप्राप्यामरकण्टकम् ॥१८॥ब्राह्मणानां स्तुतिं चक्रुर्विनयानतकन्धराः ॥नमोऽस्तु वो द्विजातिभ्यो ब्रह्मविद्भ्यो महेश्वराः ॥१९॥भूसुरेभ्यो गुरुभ्यश्च विमुक्तेभ्यश्च वंधनात् ॥यूयं गुणत्रयातीता गुणरूपा गुणाकराः ॥२०॥गुणत्रयमयैर्भावैः सततं प्राणबुद्बुदाः ॥येषां वाक्यजलेनैव पापिष्ठा अपि शुद्धताम् ॥प्रयांति पापपुंजाश्च भस्मसाद्यांति पापिनाम् ॥२१॥शस्त्रं लोहमयं येषां वागेव तत्समन्विताः ॥पापैः पराभिभूतानां तेषां लोकोत्तरं बलम् ॥२२॥क्षमया पृथिवीतुल्याः कोपे वैश्वानरप्रभाः ॥पातनेऽनेकशक्तीनां समर्था यूयमेव हि ॥२३॥स्वर्गादीनां तथा याने भवन्तो गतयो ध्रुवम् ॥२४॥सत्कर्मकारकाश्चैव सत्कर्मनिरताः सदा ॥सत्कर्मफलदातारः सत्कर्मेभ्यो मुमुक्षवः ॥२५॥सावित्रीमंत्रनिरता ये भवंतोऽघनाशनाः ॥आत्मानं यजमानं च तारयंति न संशयः ॥२६॥वह्नयश्च तथा विप्रास्तर्पिताः कार्यसाधकाः ॥चातुर्मास्ये विशेषेण तेषां पूजा महाफला ॥कोपिताः सर्वदेहस्य नाशनाय भवंति हि १ ॥तावन्न वज्रमिंद्रस्य शूलं नैव पिनाकिनः ॥२८॥दण्डो यमस्य तावन्नो यावच्छापो द्विजोद्भवः ॥अग्निना ज्वाल्यते दृश्यं शापोद्दिष्टानपि स्वयम् ॥२९॥हंति जातानजातांश्च तस्माद्विप्रं न कोपयेत् ॥विप्रकोपाग्निना दग्धो नरकान्नैव मुच्यते ॥३०॥शस्त्रक्षतोऽपि नरकान्मुच्यते नात्र संशयः ॥देवानां मधुधान्यानां सामर्थ्यं भेदनेन हि ॥३१॥वाङ्मात्रेण हि विप्रस्य भिद्यते सकलं जगत् ॥ते यूयं गुरवोऽस्माकं विश्वकारणकारकाः ॥प्रसादपरमा नित्यं भवंतु भुवनेश्वराः ॥३२॥ईश्वरेण विना सर्वे वयं लोकाश्च दुःखिताः ॥तत्कथ्यतां स भगवान्कुत्रास्ते परमेश्वरः ॥३३॥गालव उवाच ॥ज्ञात्वा मुनिभयत्रस्तं देवेशं शूलपाणिनम् ॥३४॥सुरभीगर्भसंभूतं देवानूचुर्महर्षयः ॥स्वागतं देवदेवेभ्यो ज्ञातो वै स महेश्वरः ॥३५॥तत्र गच्छंतु देवेशा यत्र देवः सनातनः ॥इत्युक्त्वा ते महात्मानः सह देवैर्ययुस्तदा ॥३६॥गोलोकं देवमार्गेण यत्र पायसकर्दमाः ॥घृतनद्योमधु ह्रदा नदीनां यत्र संघशः ॥३७॥पूर्वजानां गणाः सर्वे दधिपीयूषपाणयः ॥मरीचिपाः सोमपाश्च सिद्धसंघास्तथा परे ॥३८॥घृतपाश्चैव साध्याश्च यत्र देवाः सनातनाः ॥ते तत्र गत्वा मुनयो ददृशुः सुरभीसुतम् ॥३९॥तेजसा भास्करं चैव नीलनामेति विश्रुतम् ॥इतस्ततोऽभिधावंतं गवां संघातमध्यगम् ॥४०॥नंदा सुमनसा चैव सुरूपा च सुशीलका ॥कामिनी नंदिनी चैव मेध्या चैव हिरण्यदा ॥४१॥धनदा धर्मदा चैव नर्मदा सकलप्रिया ॥वामनालंबिका कृष्णा दीर्घशृंगा सुपिच्छिका ॥४२॥तारा तरेयिका शांता दुर्विषह्या मनोरमा ॥सुनासा दीर्घनासा च गौरा गौरमुखीह या ॥४३॥हरिद्रवर्णा नीला च शंखिनी पंचवर्णका ॥विनताभिनताचैव भिन्नवर्णा सुपत्रिका ॥४४॥जयाऽरुणा च कुण्डोध्नी सुदती चारुचंपका ॥एतासां मध्यगं नीलं दृष्ट्वा ता मुनिदेवताः ॥४५॥विचरंति सुरूपं तं संजातविस्मयोन्मुखाः ॥मुनीश्वराः कृपाविष्टा इन्द्राद्या हृष्टमानसाः ॥स्तुतिमारेभिरे कर्त्तुं तेजसा तस्य तोषिताः ॥४६॥ ॥ शूद्र उवाच ॥कथं नीलेति नामासौ जातोयमद्भुताकृतिः ॥किमस्तुवन्प्रसन्नास्ते ब्राह्मणा विश्वकारणम् ॥४७॥ ॥ गालव उवाच ॥लोहितो यस्तु वर्णेन मुखे पुच्छे च पांडुरः ॥४८॥श्वेतः खुरविषाणेषु स नीलो वृषभः स्मृतः ॥चतुष्पादो धर्मरूपो नील लोहितचिह्नकः ॥४९॥कपिलः खुरचिह्नेषु स नीलो वृषभः स्मृतः ॥योऽसौ महेश्वरो देवो वृषश्चापि स एव हि ॥५०॥चतुष्पादो धर्मरूपो नीलः पंचमुखो हरः ॥यस्य संदर्शनादेव वाजपेयफलं लभेत् ॥५१॥नीले च पूजिते यस्मिन्पूजितं सकलं जगत् ॥स्निग्धग्रासप्रदानेन जगदाप्यायितं भवेत् ॥५२॥यस्य देहे सदा श्रीमान्विश्वव्यापी जनार्दनः ॥नित्यमर्चयते योऽसौ वेदमन्त्रैः सनातनैः ॥५३॥ ॥ ऋषय ऊचुः ॥त्वं देवः सर्वगोप्तॄणां विश्वगोप्ता सनातनः ॥विघ्नहर्ता ज्ञानदश्च धर्मरूपश्च मोक्षदः ॥५४॥त्वमेव धनदः श्रीदः सर्वव्याधिनिषूदनः ॥जगतां शर्मकरणे प्रवृत्तः कनकप्रदः ॥५५॥तेजसां धाम सर्वेषां सौरभेय महाबल ॥शृंगाग्रे धृतकैलासः पार्वतीसहितस्त्वया ॥५६॥३३ स्तुत्यो वेदमयो वेदात्मा वेदवित्तमः ॥वेदवेद्यो वेदयानो वेदरूपो गुणाकरः ॥५७॥गुणत्रयेभ्योऽपि परो याथात्म्यं वेद कस्तव ॥वृषस्त्वं भगवान्देव यस्तुभ्यं कुरुते त्वघम् ॥५८॥वृषलः स तु विज्ञेयो रौरवादिषु पच्यते ॥यदा स्पृष्टः स तु नरो नरकादिषु यातनाः ॥५९॥सेवते पापनिचयैर्निगाढप्रायबन्धनैः ॥क्षुत्क्षामं च तृषाक्रांतं महाभारसमन्वितम् ॥६०॥निर्दया ये प्रशोष्यंति मतिस्तेषां न शाश्वती ॥चतुर्भिः सहितं मर्त्या विवाहविधिना तु ये ॥६१॥विवाहं नीलरूपस्य ये करिष्यंति मानवाः ॥पितॄनुद्दिश्य तेषां वै कुले नैवास्ति नारकी ॥६२॥त्वं गतिः सर्वलोकानां त्वपिता परमेश्वरः ॥त्वया विना जगत्सर्वं तत्क्षणादेव नश्यति ॥६३॥परा चैव तु पश्यंती मध्यमा वैखरी तथा ॥चतुर्विधानां वचसामीश्वरं त्वां विदुर्बुधाः ॥६४॥चतुःशृंगं चतुष्पादं द्विशीर्षसप्तहस्तकम् ॥त्रिधा बद्धं धर्ममयं त्वामेव वृषभं विदुः ॥६५॥तृप्तिदं सर्वभूतानां विश्वव्यापकमोजसा ॥ब्रह्म धर्ममयं नित्यं त्वामात्मानं विदुर्जनाः ॥६६॥अच्छेद्यस्त्वमभेद्यस्त्वमप्रमेयोमहा यशाः ॥अशोच्यस्त्वमदाह्योऽसि विदुः पौराणिका जनाः ॥६७॥त्वदाधारमिदं सर्वं त्वदाधारमिदं जगत् ॥त्वदाधाराश्च देवाश्च त्वदाधारं तथा मृतम् ॥६८॥जीवरूपेण लोकांस्त्रीन्व्याप्य तिष्ठसि नित्यदा ॥एवं स संस्तुतो नीलो विप्रैस्तैः सोमपायिभिः ॥६९॥प्रसन्नवदनो भूत्वा विप्रा न्प्रणतितत्परः ॥पुनरेव वचः प्रोचुर्विप्राः कृतशिवागसः ॥७०॥वरं ददुर्महेशस्य नीलरूपस्य धर्मतः ॥एकादशाहे प्रेतस्य यस्य नोत्सृज्यते वृषः ॥७१॥प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥पुनरेव सुसर्पंतं दृष्ट्वा नीलं महावृषम् ॥७२॥स्वल्पक्रोधसमाविष्टं द्विजाश्चक्रुस्तमं कितम् ॥चक्रं च वामभागेषु शूलं पार्श्वे च दक्षिणे ॥७३॥उत्ससृजुर्गवां मध्ये तं देवैर्गोपितं तदा ॥ततो देवगणाः सर्वे महर्षीणां गणाः पुनः ॥स्वानि स्थानानि ते जग्मुर्मुनयो वीतमत्सराः ॥७४॥एवमृषीणां दयितासु सक्तः कामार्त्तचित्तो मुनिपुंगवानाम् ॥शापं समासाद्य शिवोऽपि भक्त्या रेवाजलेऽगात्सुशिलामयत्वम् ॥७९॥इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने वृषस्तुतिर्नामैकोनषष्ट्युत्तरद्विशततमोअध्यायः ॥२५९॥ N/A References : N/A Last Updated : January 06, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP