संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १४४ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १४४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १४४ Translation - भाषांतर ॥ सूत उवाच ॥सा गत्वा त्रिदिवं पश्चात्सहस्राक्षं सुरैर्युतम् ॥प्रोवाच भगवन्दिष्ट्या क्षोभितोऽसौ महामुनिः ॥१॥तपस्तस्य हतं कृत्स्नं यत्कृच्छ्रेण समाचितम् ॥तथा निस्तेजसत्वं च नीतस्त्वं सुखभाग्भव ॥२॥एवमुक्त्वाऽथ सा रंभा शंसिता निखिलैः सुरैः ॥अमोघरेतसस्तस्य दध्रे गर्भं निजोदरे ॥३॥जाबालिरपि कृत्वा च पश्चात्तापमनेकधा ॥भूयस्तु तपसि स्थित्वा स्थितस्तत्रैव चाश्रमे ॥४॥ततस्तु दशमे मासि संप्राप्ते सुषुवे शुभाम् ॥कन्यां सरोजपत्राक्षीं दिव्यलक्षणलक्षिताम् ॥५॥अथ तां मानुषोद्भूतां मत्वा तस्यैव चाश्रमम् ॥गत्वा मुमोच प्रत्यक्षं तस्यर्षेश्चेदमब्रवीत् ॥६॥तव वीर्यसमुद्भूतामेनां मज्जठरोषिताम् ॥कन्यकां मुनिशार्दूल तस्मात्पालय सांप्रतम् ॥७॥न स्वर्गे विद्यते वासो मानुषाणां कथंचन ॥एतस्मात्कारणात्तुभ्यं मया ब्रह्मन्समर्पिता ॥८॥एवमुक्त्वा ययौ रंभा सत्वरं त्रिदशालयम् ॥जाबालिरपि तां दृष्ट्वा कन्यकां स्नेहमाविशत् ॥९॥ततस्तां कन्यकां कृत्वा सुष्ठु गुप्ते लतागृहे ॥रसैर्मिष्टफलोद्भूतैः पुपोष च दिवानिशम् ॥१०॥सापि कन्या परां वृद्धिं शनैर्याति दिनेदिने ॥शुक्लपक्षं समासाद्य यथा चन्द्रकला दिवि ॥११॥यथायथाथ सा याति वृद्धिं कमललोचना ॥तथातथास्य सुस्नेहो जाबालेरप्यवर्धत ॥१२॥सा शिशुत्वे मृगैः सार्द्धं पक्षिभिश्च सुशोभना ॥क्रीडां चक्रे सुविश्रब्धैर्वर्धयंती मुनेर्मुदम् ॥१३॥ततो बाल्यं परित्यक्त्वा वल्कलावृतगात्रिका ॥तस्यर्षेः सर्वकृत्येषु साहाय्यं प्रकरोति च ॥१४॥समित्कुशादि यत्किंचित्फलपुष्पसमन्वितम् ॥वनात्तदानयामास तस्य प्रीतिमवर्धयत् ॥१५॥ततः कतिपयाहस्य फलार्थं सा मृगेक्षणा ॥निदाघसमये दूरं स्वाश्रमात्प्रजगाम ह ॥१६॥एतस्मिन्नंतरे तत्र विमानवरमाश्रितः ॥प्राप्तश्चित्रांगदोनाम गन्धर्वस्त्रिदिवौकसाम् ॥१७॥तेन सा विजने बाला पूर्णचन्द्रनिभानना ॥दृष्टा चांद्रमसी लेखा पतितेव धरातले ॥१८॥ततः कामपरीतांगः सोवतीर्य धरातलम् ॥विमानान्मधुरैर्वाक्यैस्तामुवाच कृतांजलिः ॥१९॥का त्वं कमलगर्भाभा निर्जनेऽथ महावने ॥भ्रमस्येकाकिनी बाले वनमध्ये सुलोचने ॥२०॥ ॥ कन्योवाच ॥अहं फलवतीनाम जाबालेर्दुहिता मुने ॥फलपुष्पार्थमायाता तदर्थमिह कानने ॥२१॥ ॥ चित्रांगद उवाच ॥कुमारब्रह्मचारी स श्रूयते मुनिसत्तमः ॥तत्कथं तस्य वामोरु त्वं जाता भार्यया विना ॥२२॥ ॥ कन्योवाच ॥सत्यमेतन्महाभाग नास्ति दारपरिग्रहः ॥तस्यर्षेः किं तु संजाता यथा तन्मेऽवधारय ॥२३॥रंभा नामाप्सरास्तेन पुरा दृष्टा सुरांगना ॥ततः कामपरीतेन सेविता च यथासुखम् ॥२४॥ततस्तदुदराज्जाता देवलोके महत्तरे ॥तयापि चेह तस्यर्षेर्भूय एव नियोजिता ॥२५॥एवं स मे पिता जातो जाबालिर्मुनिसत्तमः ॥पोषिताऽहं ततस्तेन नानाफलसमुद्रवैः ॥२६॥ततः फलवती नाम कृतं तेन महात्मना ॥ममानुरूपमेतद्धि यन्मां त्वं परिपृच्छसि ॥२७॥ ॥ चित्रांगद उवाच ॥तव रूपं समालोक्य कामस्याहं वशं गतः ॥तस्माद्भजस्व मां भीरु नो चेद्यास्यामि संक्षयम् ॥२८॥अहं चित्रांगदोनाम गन्धर्वस्त्रिदिवौकसाम् ॥तीर्थयात्राकृते प्राप्तः क्षेत्रेऽस्मिञ्छ्रद्धयाऽन्वितः ॥२९॥ ॥ कन्योवाच ॥कुमारधर्मिणी चाहमद्यापि वशगा पितुः ॥कामधर्मं न जानामि चित्रांगद कथंचन ॥३०॥तस्मात्प्रार्थय मे तातं स मां तुभ्यं प्रदास्यति ॥अनुरूपाय योग्याय तरुणाय मनस्विनीम् ॥३१॥ममापि रुचितं चित्ते तव वाक्यमिदं शुभम् ॥धन्याहं यदि ते कण्ठमालिंगामि यथेच्छया ॥३२॥ ॥ चित्रांगद उवाच ॥न शक्नोमि महाभागे तावत्कालं प्रतीक्षितुम् ॥मां दहत्येष गात्रोत्थः सुमहान्कामपावकः ॥३३॥तस्मात्कुरु प्रसादं मे रतिदानेन शोभने ॥को जानाति हि तच्चित्तं कीदृग्रूपं भविष्यति ॥३४॥ ॥ कन्योवाच ॥एवं ते वर्तमानस्य मम तातः प्रकोपतः ॥दहिष्यति न संदेहः शापं दत्त्वा सुदारुणम् ॥३५॥ ॥ चित्रांगद उवाच ॥तव तातः स कालेन मां दहिष्यति मानदे ॥कामानलः पुनः सद्य एष भस्म करिष्यति ॥३६॥एवमुक्त्वाऽथ तां बालां वेपमानां त्रपावतीम् ॥गृहीत्वा दक्षिणे पाणौ प्रविवेश सुरालयम् ॥३७॥तत्र तां रमयामास तदा कामप्रपीडितः ॥तत्कालजातरागांधां निर्लज्जत्वमुपागताम् ॥३८॥एवं तस्याः समं तेन स्थिताया दिवसो गतः ॥निमेषवन्मुनिश्रेष्ठास्ततश्चास्तं गतो रविः ॥३९॥एतस्मिन्नंतरे विप्रो जाबालिर्दुःख संयुतः ॥अनायातां सुतां ज्ञात्वा परिबभ्राम सर्वतः ॥४०॥अहो सा दुहिता मह्यं किमु व्यालैः प्रभक्षिता ॥वृक्षं कंचित्समारूढा पतिता धरणी तले ॥४१॥किं वा जलाशयं कंचित्प्राप्य गाधमजानती ॥निमग्ना तत्र सा बाला संप्रविष्टा जलार्थिनी ॥४२॥एवं स प्रलपन्विप्रो बभ्राम गहने वने ॥कुशकण्टकविद्धांगः क्षुत्पिपासासमाकुलः ॥४३॥यंयं शृणोति शब्दं स मृगपक्षिसमुद्भवम् ॥रजन्यां तत्र निर्याति मत्वा फलवतीं च ताम् ॥४४॥अथ क्रमात्समायातो हरहर्म्यं स सन्मुनिः ॥यत्र चित्रांगदोपेता सा संतिष्ठति कन्यका ॥४५॥निःशंका जल्पमाना च रागवाक्यान्यनेकशः ॥अनर्हाणि कुमारीणां ब्रह्मजानां विशेषतः ॥४६॥ततः स सुचिरं श्रुत्वा दूरस्थो विस्मयान्वितः ॥कुमार्याश्चेष्टितं दृष्ट्वा कोपसंरक्तलोचनः ॥४७॥अथ दुद्राव वेगेन गृह्य काष्ठसमुच्चयम् ॥द्वाभ्यामेव विनाशाय भर्त्समानो मुहुर्मुहुः ॥४८॥धिग्धिक्पापसमाचारे कौमार्यं दूषितं त्वया ॥लांछनं च समानीतं मम लोकत्रयेऽपि च ॥४९॥नितरां पतिमासाद्य कर्मणानेन चाधमे ॥तस्मादनेन पापेन युक्तां त्वां नाशयाम्यहम् ॥५०॥एवमुक्त्वा प्रहारं स यावत्क्षिपति सन्मुनिः ॥तावच्चित्रांगदो नष्टो व्योममार्गेण सत्वरम् ॥५१॥विवस्त्रा सापि तत्रैव खिन्नांगी कामसेवया ॥न शशाक क्वचिद्गंतुं समुत्थाय ततः क्षितौ ॥५२॥ततः काष्ठप्रहारोघैर्हत्वा तां पतितां क्षितौ ॥मृतामिति परिज्ञाय स क्रोधपरिवारितः ॥५३॥ततश्चित्रांगदस्यापि ददौ शापं सुदारुणम् ॥स दृष्ट्वाऽऽकाशमार्गेण गच्छमानं भयातुरम् ॥५४॥य एष कन्यकां मह्यं धर्षयित्वा समुत्पतेत् ॥स पतत्वचिरात्पापश्छिन्नपक्ष इवांडजः ॥५५॥कुष्ठव्याधिसमायुक्तश्चलितुं नैव च क्षमः ॥एतस्मिन्नन्तरे भूमौ स पपात नभस्तलात् ॥५६॥कुष्ठव्याधिसमायुक्तः स च चित्रांगदो युवा ॥ततस्तं स मुनिः प्राह काष्ठोद्यतकरः क्रुधा ॥५७॥कस्त्वं पापसमाचार येन मे धर्षिता बलात् ॥कुमारी तन्नयाम्येष त्वामद्य यम शासनम् ॥५८॥ ॥ चित्रांगद उवाच ॥अहं चित्रांगदोनाम गन्धर्वस्त्रिदिवौकसाम् ॥तीर्थयात्राप्रसंगेन क्षेत्रेऽस्मिन्समुपागतः ॥५९॥ततस्तु कन्यकां दृष्ट्वा कामदेववशं गतः ॥६०॥ततः सेवितवानत्र लताहर्म्ये जनच्युते ॥तस्मात्कुरु क्षमां मह्यं दीनस्य प्रणतस्य च ॥६१॥यथा व्याधेर्भवेन्नाशो यथा स्याद्गगने गतिः ॥भूयोऽपि त्वत्प्रसादेन स्वल्पः कोपो हि साधुषु ॥६२॥ ॥ जाबालिरुवाच ॥ईदृग्रूपधरस्त्वं हि मम वाक्याद्भविष्यसि ॥एषापि मत्सुता पापा वस्त्रहीना सदेदृशी ॥६३॥भविष्यति न संदेहो जीवयिष्यति चेत्क्वचित् ॥यद्येषा धास्यति क्वापि वस्त्रं गात्रे निजे क्वचित् ॥६४॥तन्नूनं च शिरोऽप्यस्याः फलिष्यति न संशयः ॥एवमुक्त्वा विकोपश्च स जगाम निजाश्रमम् ॥६५॥चित्रांगदोऽपि तत्रैव तया सार्धं तथा स्थितः ॥कस्यचित्त्वथ कालस्य तत्र क्षेत्रे समाययौ ॥६६॥चैत्रशुक्लचतुर्दश्यां भगवाञ्छशिशेखरः ॥गन्तुं चित्रेश्वरे पीठे गणै रौद्रैः समावृतः ॥योगिनीभिः प्रचण्डाभिः सार्धं प्राप्ते निशामुखे ॥६७॥अथ प्राप्ते निशार्धे तु योगिन्यस्ताः सुदारुणाः ॥महामांसं महामांसमित्यूचुर्भक्षणाय वै ॥६८॥नृत्यमानाः पुरस्तस्य देवदेवस्य शूलिनः ॥सस्पर्धा गणमुख्यैस्तैर्नर्तमानैः समंततः ॥६९॥यस्तत्र समये तासां महामांसं प्रयच्छति ॥मंत्रपूतं स संसिद्धिं समवाप्नोति वांछिताम् ॥७०॥मद्यं मांसं तथा चान्यन्नैवेद्यं वा फलादिकम् ॥तस्य सिद्धिः समादिष्टा यथा स्वहृदये स्थिता ॥७१॥एतस्मिन्नंतरे कन्या सा जाबालिसमुद्भवा ॥स च चित्रांगदस्तत्र गत्वा प्रोवाच सादरम् ॥७२॥अस्मदीयमिदं मांसं योगिन्यो हर्षसंयुताः ॥भक्षयन्तु यथासौख्यं स्वयमेव प्रकल्पितम् ॥७३॥अथ तं पुरुषं दृष्ट्वा कुष्ठव्याधिसमावृतम् ॥विवस्त्रां कन्यकां तां च सर्वास्ता विस्मयान्विताः ॥७४॥ते च सर्वे गणा रौद्राः स च देवस्त्रिलोचनः ॥पप्रच्छ कौतुकाविष्टस्तत्र चित्रांगदं प्रभुः ॥७५॥कस्त्वं धैर्यसमायुक्तो महत्सत्त्वे व्यवस्थितः ॥यः प्रयच्छसि जीवं त्वं कीटस्यापि सुवल्लभम् ॥७६॥केयं च वसनैंर्हीना त्वया सार्धं गतव्यथा ॥प्रयच्छति निजं देहं यद्देयं नैव कस्यचित् ॥७७॥ ॥ सूत उवाच ॥ततः स कथयामास सर्वमात्मविचेष्टितम् ॥यथा कन्यासमं संगः कृतः शापश्च सन्मुनेः ॥७८॥ततश्चित्रांगदं दृष्ट्वा स गन्धर्वं दिवौकसाम् ॥तथारूपं कृपाविष्टस्ततः प्रोवाच शंकरः ॥७९॥मम संदर्शनं प्राप्य न मृत्युर्जायते क्वचित् ॥न वृथा दर्शनं चैतत्तस्मात्प्रार्थय सादरम् ॥८०॥ ॥ चित्रांगद उवाच ॥. ॥व्याधिनाऽहं सुनिर्विण्णस्तेन देवात्र चागतः ॥येन व्याधिक्षयो भावी देहनाशेन शंकर ॥८१॥तस्मात्कुरु क्षयं व्याधेर्यदि यच्छसि मे वरम् ॥खेचरत्वं पुनर्देहि येन स्वर्गं व्रजाम्यहम् ॥८२॥ ॥ श्रीशंकर उवाच ॥त्वं स्थापयात्र मल्लिंगं पीठे गन्धर्वसत्तम ॥ततश्चाराधय प्रीत्या यावद्वर्षमुपस्थितम् ॥८३॥यथायथा सुपूजां त्वं मल्लिंगस्य करिष्यसि ॥दिनेदिने तथा व्याधेस्तव नाशो भविष्यति ॥८४॥ततस्तु खे गतिं प्राप्य पुनः स्वर्गं प्रयास्यसि ॥मत्प्रसादान्न सन्देहः सत्यमेतन्मयोदितम् ॥८५॥एषापि कन्यका यस्मात्प्रविष्टा पीठमध्यतः ॥तस्मात्फलवतीनाम योगिनी सम्भविष्यति ॥८६॥अनेनैव तु रूपेण नग्नत्वेन व्यवस्थिता ॥मुख्यामवाप्स्यते पूजां वांछितं च प्रदास्यति ॥पूजकानां स्थितं चित्ते शतसंख्यगुणं तदा ॥८७॥एतां संपूजयेन्मर्त्यः पीठमेतत्ततः परम् ॥पूजयिष्यति तस्येष्टा सिद्धिरेवं भविष्यति ॥८८॥एवमुक्त्वा ततः साऽथ हर्षेण महताऽन्विता ॥योगिनीवृंदमध्यस्था नृत्यं चक्रे ततः परम् ॥८९॥एवं बभूव सा तत्र योगिनी च वरांगना ॥तथा चक्रे परं नृत्यं यथा तुष्टो महेश्वरः ॥९०॥ततः प्रोवाच तां हृष्टः सर्वयोगिनिसंनिधौ ॥अनेन तव नृत्येन गीतेन च विशेषतः ॥९१॥परितुष्टोस्मि ते वत्से तस्माच्छृणु वचो मम ॥निशीथेऽद्य दिने प्राप्ते यस्ते पूजां करिष्यति ॥९२॥सुरा मांसान्नसत्कारैर्मंत्रैरागमसंभवैः ॥स भविष्यति तत्कालं शापानुग्रहशक्तिमान् ॥९३॥बंधनं मोहनं चापि शत्रोरुच्चाटनं तथा ॥करिष्यति न सन्देहो वशीकरणमेव च ॥९४॥त्रिकोणं कुण्डमास्थाय दिशां पालान्प्रपूजयेत् ॥क्षेत्रपालं च सर्वास्ता देवता गमनोद्भवाः ॥९५॥तथा चत्वरपूजां च प्रकृत्वा विधिपूर्वकम् ॥पश्चात्त्वां पूजयित्वा च होमं यश्च करिष्यति ॥९६॥शत्रुवामपदोत्थेन स्पृष्टेन रजसाऽथवा ॥गुग्गुलेन सहस्रांतं स्तंभनं च करिष्यति ॥९७॥यश्च शत्रुं हृदि स्थाप्य शत्रूद्वर्तनसंभवम् ॥मलं धात्रीफलैः सार्धं मोहनं स करिष्यति ॥९८॥यः शत्रोः स्नानजं तोयं गृहीत्वा चाथ कर्दमम् ॥शिवनिर्माल्यसंयुक्तं जुह्वयिष्यति पावके ॥९९॥तवाग्रे स नरो नूनं शत्रुमुच्चाटयिष्यति ॥एषोपि तव संगेन तव चित्रांगदः प्रियः ॥संप्राप्स्यति च सत्पूजामनुषंगात्त्वदुद्भवात् ॥१००॥ ॥ फलवत्युवाच ॥यदि देव प्रसन्नो मे तथान्यमपि सद्वरम् ॥१०१॥हृदिस्थं देहि मे सौख्यं येन संजायतेऽखिलम् ॥पिता ममैष जाबालिर्निर्मुक्तो वसनैः सदा ॥१०२॥अहं यथा तथात्रैव संतिष्ठतु दिवानिशम् ॥येन संतापमायाति पश्यन्मम विरोधिनीम् ॥१०३॥क्रीडां ब्राह्मणवंशस्य मद्यमांससमुद्भवाम् ॥मद्यगन्धं समाघ्राति मांसं पश्यति संस्कृतम् ॥मां स्वच्छंदरतां नित्यं दुःखं याति दिनेदिने ॥१०४॥ ॥ श्रीभगवानुवाच ॥एवं भविष्यति प्रोक्तं संजातं चाधुना शुभे ॥अहं यास्यामि कैलासं त्वं तिष्ठात्र यथोदिता ॥१०५॥ ॥ सूत उवाच ॥एवं स भगवान्प्रोक्त्वा गतश्चादर्शनं हरः ॥योगिन्यश्चैव ताः सर्वाः स्वेस्वे स्थाने व्यवस्थिताः ॥१०६॥चित्रांगदोपि तत्रैव कृत्वा प्रासादमुत्तमम् ॥लिंगं संस्थापयामास देवदेवस्य शूलिनः ॥१०७॥ततश्चाराधयामास दिवारात्रमतंद्रितः ॥१०८॥ततः संवत्सरस्यांते व्याधिमुक्तः सुरूपधृक् ॥विमानवरमारूढो जगाम त्रिदशालयम् ॥सोऽपि जाबालिनामाथ विवस्त्र समपद्यत ॥१०९॥जनहास्यकरो लोके स्थितस्तत्रैव सर्वदा ॥पश्यमानो विकारांस्तान्दुःखितः स्वसुतोद्भवान् ॥११०॥ततश्च गर्हयामास स्त्रीणां जन्म महामुनिः ॥तस्मिन्पीठे समासाद्य दुःखेन महताऽन्वितः ॥१११॥अहो पापात्मनां पुंसां संभविष्यंति योषितः ॥यासामीदृक्समाचारो द्विजवंशोद्भवास्वपि ॥११२॥सकृदेव मया संगः कृतो नार्या समन्वितः ॥आजन्ममरणं यावत्पापं प्राप्तं यथेदृशम् ॥११३॥ये पुनस्तासु संसक्ताः सदैव पुरुषाधमाः ॥का तेषां जायते लोके गतिर्वेद्मि न चिंतयन् ॥११४॥एवं तस्य ब्रुवाणस्य योगिन्यस्ताः क्रुधान्विताः ॥तमूचुर्ब्राह्मणं तत्र घृणया परिवारितम् ॥११५॥ ॥ योगिन्य ऊचुः ॥मा निंदां कुरु मूढात्मंस्त्वं स्त्रीणां योगमाश्रितः ॥एतच्चराचरं विश्वं स्त्रीभिः संधार्यते यतः ॥११६॥याभिः संजनितः शेषः कूर्मश्च तदनंतरम् ॥याभ्यां संधार्यते पृथ्वी यस्यां विश्वं प्रतिष्ठितम् ॥११७॥धन्येयं ते सुता मूढ या प्राप्ता योगमुत्तमम् ॥प्राप्ता च परमं स्थानं स्तोकैरेवात्र वासरैः ॥११८॥त्वं पुनर्मूर्खतां प्राप्तश्छांदसं मार्गमास्थितः ॥अविद्यया समायुक्तः संसारेऽत्र भ्रमिष्यसि ॥११९॥ ॥ मुनिरुवाच ॥स्त्रियो निंद्यतमाः सर्वाः सर्वावस्थासु दुःखदाः ॥इहलोके परे चैव ताभ्यः सौख्यं न लभ्यते ॥१२०॥यदर्थं निहतः शुम्भो निशुम्भश्च महासुरः ॥रावणो दण्डभूपश्च तथान्येऽपि सहस्रशः ॥१२१॥प्राप्य तादृग्द्विजं कांतं गौतमं स्त्रीस्वभावतः ॥अहिल्या शक्रमासाद्य चकमे शीलवर्जिता ॥१२२॥ ॥ कन्योवाच ॥यच्च निंदसि मूढात्मन्संति निंद्याश्च योषितः ॥तद्वदस्व मया सार्धं येन त्वां बोधयाम्यहम् ॥१२३॥न तेऽस्ति हृदये बुद्धिर्न लज्जा न दया मुने ॥किमंत्यजोऽपि तत्कर्म कुरुते यत्त्वया कृतम् ॥१२४॥अहं तावत्प्रहारेण त्वया व्यापादिताऽधम ॥स्त्रीहत्योद्भवपापस्य न चिन्ता विधृता हृदि ॥१२५॥विशेषेण सुतायाश्च कोपाविष्टेन चेतसा ॥गच्छंति पातकान्यत्र प्रायश्चित्तैः पृथग्विधैः ॥१२६॥स्त्रीवधोत्थं पुनर्याति यदि तत्त्वं प्रकीर्तय ॥एतन्मे न च दुःखं स्याद्यद्धतास्मि द्विजाधम ॥१२७॥यच्छप्ता नग्नसद्भावं नीता तत्पातकं च ते ॥कल्पांतेऽपि सुदुर्बुद्धे न संयास्यति कुत्रचित् ॥१२८॥तस्माद्भुंक्ष्व सुदुःखार्तः स्थितोऽत्रैव मया सह ॥न भूयो निंदसि प्रायो न च व्यापादयिष्यसि ॥१२९॥अनिंद्या योषितः सर्वा नैता दुष्यंति कर्हिचित् ॥मासिमासि रजो ह्यासां दुष्कृतान्यपकर्षति ॥१३०॥ ॥ मुनि रुवाच ॥स्त्रियः पापसमाचारा नैताः शुध्यंति कर्हिचित् ॥परकांते रतिर्यासामंत्यजत्वं प्रयच्छति ॥१३१॥ ॥ कन्योवाच ॥मा मैवं वद मूढात्मन्नमेध्या इति योषितः ॥अत्र श्लोकः पुरा गीतो मनुना तं निबोध मे ॥१३२॥ब्राह्मणाः पादतो मेध्या गावो मेध्यास्तु पृष्ठतः ॥अजाश्वा मुखतो मेध्या स्त्रियो मेध्याश्च सर्वतः ॥१३३॥ ॥ मुनिरुवाच ॥ब्राह्मणाः सर्वतो मेध्या गावो मेध्याश्च सर्वतः ॥अजाश्वा मुखतो मेध्या न मेध्याश्च स्त्रियः क्वचित् ॥१३४॥ ॥ कन्योवाच ॥तस्य चिंतामणिर्हस्ते तस्य कल्पद्रुमो गृहे ॥कुबेरः किंकरस्तस्य यस्य स्यात्कामिनी गृहे ॥१३५॥ ॥ मुनिरुवाच ॥तस्यापदोऽखिला दुःखं दुःखं तस्याखिलं गृहे ॥नरकः सर्वतस्तस्य यस्य स्यात्कामिनीगृहे ॥१३६॥ ॥ कन्योवाच ॥यानि कान्यत्र सौख्यानि भोगस्थानानि यानि च ॥धर्मार्थकामजातानि तानि स्त्रीभ्यो भवंति हि ॥१३७॥ ॥ मुनिरुवाच ॥यानि कानि सुदुःखानि क्लेशानि यानि देहिनाम् ॥यानि कष्टान्यनिष्टानि स्त्रीभ्यस्तानि भवंति च ॥१३८॥ ॥ कन्योवाच ॥धर्मार्थकाममोक्षान्स्त्री चतुरोऽपि चतसृभिः ॥वह्निप्रदक्षिणाभिस्तान्विवाहेऽपि प्रदर्शयेत् ॥१३९॥ ॥ मुनिरुवाच ॥संसारभ्रमणं नारी प्रथमेऽपि समागमे ॥वह्निप्रदक्षिणान्यायव्याजेनैव प्रदर्शयेत् ॥१४०॥ ॥ कन्योवाच ॥के नाम न विरज्यंति ज्ञानाढ्या अपि मानवाः ॥कर्णांतलग्ननेत्रांतां दृष्ट्वा पीन पयोधराम् ॥१४१॥ ॥ मुनिरुवाच ॥के नाम न विनश्यंति मूढज्ञाना नितंबिनीम् ॥रम्यबुद्ध्योपसर्पंति ये ज्वालाः शलभा इव ॥१४२॥ ॥ कन्योवाच ॥निर्मुखौ च कठोरौ च प्रोद्धतौ च मनोरमौ ॥स्त्रीस्तनौ सेवते धन्यो मधुमांसे विशेषतः ॥१४३॥ ॥ मुनिरुवाच ॥आभोगिनौ मंडलिनौ तत्क्षणान्मुक्तकंचुकौ ॥वरमाशीविषौ स्पृष्टौ न तु पत्न्याः पयोधरौ ॥१४४॥ ॥ कन्योवाच ॥न चासां रचनामात्रं केवलं रम्यमंगिभिः ॥परिष्वंगोऽपि रामाणां सौख्याय पुलकाय च ॥१४५॥ ॥ मुनिरुवाच ॥न चासां रचनामात्रं रम्यं स्यात्पापदं दृशः ॥वपुः स्पृष्टं विनाशाय स्त्रीणां प्रेत्य नरकाय च ॥१४६॥ ॥ कन्योवाच ॥को नाम न सुखी लोके को नाम सुकृती न च ॥स्पृहणीयतमः को न स्त्रीजनो यस्य रज्यते ॥१४७॥ ॥ मुनिरुवाच ॥को न मुक्तिं व्रजेत्तत्र को न शस्यतरो भवेत् ॥को न स्यात्क्षेमसंयुक्तः स्त्रीजने यो न रज्यते ॥१४८॥ ॥ कन्योवाच ॥संसारांतः प्रसुप्तस्य कीटस्यापि प्ररोचते ॥स्त्रीशरीरं नरस्यात्र किं पुनर्न विवेकिनः ॥१४९॥ ॥ मुनिरुवाच ॥अमेध्यजा तस्य यथा तथा तद्रोचनं कृमेः ॥तथा संसारसूतस्य स्त्रीशरीरं च कामिनः ॥१५०॥ ॥ कन्योवाच ॥सौख्यस्थानं नृणां किंचिद्वेधसा ऽन्यदपश्यता ॥शाश्वतं चिंतयित्वाथ स्त्रीरत्नमिदमाहृतम् ॥१५१॥ ॥ मुनिरुवाच ॥बंधनं जगतः किंचिद्वेधसाऽन्यदपश्यता ॥स्त्रीरूपेण ततः कोपि पाशोऽयं स्त्रीमयः कृतः ॥१५२॥ ॥ सूत उवाच ॥एवं स मुनिशार्दूलस्तयातीव समागमे ॥निरुत्तरीकृतो यावत्ततः प्राह निजां सुताम् ॥१५३॥ ॥ मुनिरुवाच ॥त्वया सह न संवादो मया कार्योऽधुना क्वचित् ॥या त्वं बालापि मामेवं निषेधयसि सर्वतः ॥१५४॥तस्माद्धन्यतरं मन्ये अहमात्मानमद्य वै ॥यस्य मे त्वं सुता ईदृगीदृक्छास्त्रविचक्षणा ॥१५५॥तस्मान्न मे महाभागे कोपः स्वल्पोऽपि विद्यते ॥तस्माद्यथेच्छया क्रीडां कुरु योगिनिमध्यगा ॥१५६॥ततः सा लज्जिता दृष्ट्वा पितरं स्नेहवत्सलम् ॥प्रणिपत्य पुनःप्राह योगिनीमध्यसंस्थिता ॥१५७॥अज्ञानाद्यदि वा ज्ञानात्त्वं निषिद्धो मया प्रभो ॥क्षंतव्यं सकलं मेऽद्य वालिकाया विशेषतः ॥१५८॥अत्र पीठे समागत्य प्रथमं ते द्विजोत्तमाः ॥पूजां सर्वे करिष्यंति मानवा भक्तितत्पराः ॥पश्चाच्च सर्वपीठस्य यास्यंति च परां गतिम् ॥१५९॥एवं सा तत्र संजाता जाबालिमुनिसंभवा ॥जाबालिश्च मुनिश्रेष्ठस्तथा चित्रांगदेश्वरः ॥१६०॥त्रयाणामपि यस्तेषां पूजां मर्त्यः समाचरेत् ॥दिवसेदिवसे तत्र स सिद्धिं समवाप्नुयात् ॥१६१॥नासाध्यं विद्यते किंचित्तावदत्र धरातले ॥पूज्यते भूमिपालाद्यैर्भोगान्दिव्यांस्तथा लभेत् ॥१६२॥तस्मात्सर्वप्रयत्नेन स मुनिः सा च कन्यका ॥पूजनीया विशेषेण स देवोऽथ महेश्वरः ॥१६३॥एतद्वः सर्वमाख्यातमाख्यानं सर्वकामदम् ॥पठतां शृण्वतां चैव इहलोके परत्र च ॥१६४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चित्रांगदेश्वरफलवतीजाबाल्याख्यानवर्णनंनाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥१४४॥ N/A References : N/A Last Updated : December 29, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP