संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १५८ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १५८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १५८ Translation - भाषांतर ॥ सूत उवाच ॥पुष्पोऽपि गुटिके लब्ध्वा भास्कराद्वारितस्करात् ॥चिराद्भोजनमासाद्य प्रस्थितो वैदिशं प्रति ॥१॥ततो वैदिशमासाद्य स पुष्पो हृष्टमानसः ॥शुक्ला तां गुटिकां वक्त्रे चकारद्विजसत्तमाः ॥२॥मणिभद्रसमो जातस्तत्क्षणादेव स द्विजः ॥हट्टमार्गं गते सोऽथ तस्मिन्गत्वाऽथ मंदिरे ॥प्रविष्टः सहसा मध्ये प्रहृष्टेनांतरात्मना ॥३॥ततश्चाकारयामास तं षंढं द्वारमाश्रितम् ॥तस्य दत्त्वाथ वस्त्राणि पश्चात्षंढमुवाच सः ॥४॥षंढकश्चित्पुमानत्र सम्यग्वेषकरो हि सः ॥मम वेषं समाधाय भ्रमते सकले पुरे ॥५॥सांप्रतं मद्गृहे सोऽथ लोभनायागमिष्यति ॥स च कृत्रिम वेषेण निषेद्धव्यस्त्वया हि सः ॥स तथेति प्रतिज्ञाय द्वारदेशं समाश्रितः ॥६॥पुष्पोऽपि चाब्रवीद्भार्यां माहिकाख्यां ततः परम् ॥माहिकेद्य मया दृष्टः स्वतातः स्वपुरः स्थितः ॥७॥वीरभद्रः सुदुःखार्तो मलिनांबरसंवृतः ॥अब्रवीच्च ततः कोपान्मामेवं परुषाक्षरम् ॥८॥धिग्धिक्पाप त्वया कन्यातीव रूपवती सदा ॥वंचयित्वा जनेतारमुदूढा सा सुमध्यमा ॥९॥न दत्तं तत्पितुः किंचिन्न तस्या अथ पुत्रक ॥विधवां यादृशीं तां च श्वेतांबरधरां सदा ॥१०॥संधारयसि पापात्मन्नेष्टं भोज्यं प्रयच्छसि ॥तस्मात्तस्याः पितुर्देहि त्वं सुवर्णायुतं ध्रुवम् ॥११॥भूषणं वांछितं तस्या यत्तद्वै रुचिपूर्वकम् ॥येन संधारयेद्भार्या साऽऽनंदं परमं गता ॥१२॥निरानंदा यतो नारी न गर्भं धारयेत्स्फुटम् ॥निःसंतानो यतो वंशः स्वर्गादपि क्षितिं व्रजेत् ॥१३॥स पतिष्यत्यसंदिग्धं कुलांगारेण च त्वया ॥सा त्वमानय वस्त्राणि गृहमध्याच्छुभानि च ॥१४॥यानि दत्तानि भूपेन व्यवहारैस्तदा मम ॥पञ्चांगश्च प्रसादो यो मया प्राप्तश्च तैः सह ॥१५॥त्वं संधारय गात्रैः स्वैः शीघ्रं रसवतीं कुरु ॥भोजनायैव शीघ्रं तु त्वया सार्धं करोम्यहम् ॥१६॥एकस्मिन्नपि पात्रे च तदादेशादसंशयम् ॥सापि सर्वं तथा चक्रे यदुक्तं तेन हर्षिता ॥१७॥भोजनाच्छादनं चैव निर्विकल्पेन चेतसा ॥ततः कामातुरः पुष्पो मैथुनायोपचक्रमे ॥१८॥एतस्मिन्नंतरे प्राप्तो मणिभद्रः समुत्सुकः ॥क्षुत्क्षामः स पिपासार्तो व्यवहारोत्थलिप्सया ॥१९॥प्रवेशं कुरुते यावद्गृहमध्ये समुत्सुकः ॥निषिद्धस्तेन षण्ढेन भर्त्सयित्वा मुहुर्मुहुः ॥२०॥हठाद्यावत्प्रवेशं स चकार निजमंदिरे ॥तावच्च दण्डकाष्ठेन मस्तके तेन ताडितः ॥२१॥अथ संपतितो भूमौ मूर्छया संपरिप्लुतः ॥कर्तव्यं नैव जानाति तत्प्रहारप्रपीडितः ॥२२॥ततः कोलाहलो जातस्तस्य द्वारे गृहस्य च ॥जनस्य संप्रयातस्य हाहाकारपरस्य च ॥२३॥पप्रच्छुस्तं जनाः केचि द्धिक्पाप किमिदं कृतम् ॥वृत्तिभंगः कृतोऽनेन अथ त्वं व्यंतरार्दितः ॥२४॥इमामवस्थां यन्नीतः संप्राप्तोऽसि नृपाद्वधम् ॥२५॥ ॥ षंढ उवाच ॥न वृत्तिर्गर्हिता तेन नाहं व्यंतरपीडितः ॥मणिभद्रो न चैष स्यादेष वेषकरः पुमान् ॥२६॥माणिभद्रं वपुः कृत्वा संप्राप्तो याचितुं धनम् ॥हठात्प्रविश्यमानस्तु स मया मूर्ध्नि ताडितः ॥२७॥मणिभद्रो गृहस्यांतर्भुक्त्वा शयनमाश्रितः ॥संतिष्ठते न जानाति वृत्तांतमिदमा स्थितम् ॥२८॥ततः पुष्पोऽपि तच्छ्रुत्वा तं च कोलाहलं बहिः ॥मणिभद्रस्य रूपेण द्वारदेशं समागतः ॥२९॥अब्रवीन्नित्यमभ्येति मम रूपेण चाधमः ॥एष वेषधरः कश्चिद्याचितुं धनमेव हि ॥३०॥एतेनापि च षंढेन न च भद्रमनुष्ठितम् ॥यत्कुब्जोऽयं हतो मूर्ध्नि याचितुं समु पस्थितः ॥३१॥एतस्मिन्नन्तरे सोऽपि चेतनां प्राप्य कृत्स्नशः ॥वीक्षते पुरतो यावत्तावदात्मसमः पुमान् ॥३२॥सर्वतः स तमालोक्य ततो वचनमब्रवीत् ॥३३॥क्व चोरः संप्रविष्टो मे मम रूपेण मंदिरे ॥भेदयित्वा तु षण्डाख्यमेवं दत्त्वा च वाससी ॥३४॥यावद्भूपगृहं गत्वा त्वां षंढेन समन्वितम् ॥वधाय योजयाम्येव तावद्द्रुततरं व्रज ॥३५॥ ॥ पुष्प उवाच ॥मम रूपं समाधाय त्वमायातो गृहे मम ॥शून्यं मत्वा ततो ज्ञातस्त्वयाऽहं गृहसंस्थितः ॥३६॥ततो नृपाय दास्यामि वधार्थं च न संशयः ॥नो चेद्गच्छ द्रुतं पाप यदि जीवितुमिच्छसि ॥३७॥ ॥ सूत उवाच ॥एवमुक्त्त्वा ततस्तौ च बाहुयुद्धेन वै मिथः ॥युध्यमानौ नरैरन्यैः कृच्छ्रेण तु निवारितौ ॥३८॥ततस्ते स्वजना ये तु मणिभ द्रस्य चागताः ॥परिजानंति नो द्वाभ्यां विशेषं माणिभद्रकम् ॥३९॥वालिसुग्रीवयोर्युद्धं तारार्थे युध्यमानयोः ॥एवं विवदमानौ तु क्रोधताम्रा यतेक्षणौ ॥४०॥राजद्वारं समासाद्य स्थितौ स्वजनसंवृतौ ॥द्वाःस्थेन सूचितौ राज्ञे सभातलमुपस्थितौ ॥४१॥चौरचौरेति जल्पन्तौ पर स्परवधैषिणौ ॥भूभुजा वीक्षितौ तौ च द्विजौ तु द्विजसत्तमाः ॥४२॥न विशेषोऽस्ति विश्लेषस्तयोरेकोपिकायतः ॥ततश्च व्यवहारेषु समती तेषु वै तदा ॥४३॥पृष्टौ गुह्येषु सर्वेषु प्रत्यक्षेषु विशेषतः ॥वदतस्तौ यथावृत्तं पृथक्पृथग्व्यवस्थितम् ॥४४॥ततस्तु स्वजनैः सर्वैरेको नीत्व थ चान्यतः ॥पृष्टो गोत्रान्वयं सर्वं द्वितीयस्तु ततः परम् ॥४५॥तेषामपि तथा सर्वं यथासम्यङ्निवेदितम् ॥अथ राजा बृहत्सेनः सर्वांस्तानि दमब्रवीत् ॥४६॥पत्नी चानीयतां तस्य मणिभद्रस्य वै गृहात् ॥निजकान्तस्य विज्ञाने सा प्रमाणं भविष्यति ॥४७॥ततो गत्वा च सा प्रोक्ता पुरुषैर्नृपसंभवैः ॥आगच्छ कांतं जानीहि त्वं प्रमाणं भविष्यसि ॥४८॥ततः सा व्रीडया युक्ता प्रच्छादितशिरास्ततः ॥नृपाग्रे संस्थिता प्रोचे विद्धिसम्यङ्निजं प्रियम् ॥४९॥न वयं निश्चयं विद्मो न चैते स्वजनास्तव ॥५०॥ततः सा चिन्तयामास निजचित्ते वरांगना ॥मणिभद्रेण दग्धाहमीर्ष्यावह्निगताऽनिशम् ॥५१॥वंचयित्वा तु पितरं गृहीतास्मि ततः परम् ॥न किंचित्पाप्मना दत्तं जल्पयित्वा धनं बहु ॥५२॥द्वितीयेन तु मे पुंसा मर्त्यलोके सुखं कृतम् ॥दत्त्वा वस्त्राणि चित्राणि तथैवाभरणानि च ॥५३॥प्रदास्यति च तातस्य सुवर्णं कथितं च यत् ॥यद्गृह्णामि स्वहस्तेन मणिभद्रं द्वितीयकम् ॥५४॥एवं निश्चित्य मनसा दृष्ट्वा रक्तपरिप्लुतम् ॥प्रथमं मणिभद्रं सा जगृहेऽथ द्वितीयकम् ॥५५॥अब्रवीच्च ततो वाक्यं सर्वलोकस्य शृण्वतः ॥अहं तातेन दत्तास्य विवाहे अग्निसंनिधौ ॥५६॥द्वितीयोऽयं दुराचारो वेषकर्ता समा गतः ॥मां च प्रार्थयते गुप्तां नानाचारैः पृथग्विधैः ॥५७॥ततस्तु पार्थिवः क्रुद्धस्तस्य शाखावलंबनम् ॥आदिदेश द्विजश्रेष्ठा मणिभद्रस्य दुर्मतेः ॥५८॥एतस्मिन्नंतरे सोऽथ वधकानां समर्पितः ॥तं वृक्षं नीयमानस्तु श्लोकानेतांस्तदापठत् ॥५९॥निर्दयत्वं तथा द्रोहं कुटिलत्वं विशेषतः ॥अशौचं निर्घृणत्वं च स्त्रीणां दोषाः स्वभावजाः ॥६०॥अन्तर्विषमया ह्येता बहिर्भागे मनोरमाः ॥गुञ्जाफलसमाकारा योषितः सर्व दैवहि ॥६१॥उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ॥मन्वादयस्तथान्येऽपि स्त्रीबुद्धेस्तत्र किंच न ॥६२॥पीयूषमधरे वासं हृदि हालाहलं विषम् ॥आस्वाद्यतेऽधरस्तेन हृदयं च प्रपीड्यते ॥६३॥अलक्तको यथा रक्तो नरः कामी तथैव च ॥हृतसारस्तथा सोऽपि पादमूले निपा त्यते ॥६४॥संसारविषवृक्षस्य कुकर्मकुसुमस्य च ॥नरकार्तिफलस्योक्ता मूलमेषा नितंबिनी ॥६५॥कस्य नो जायते त्रासो दृष्ट्वा दूरा दपि स्त्रियम् ॥६६॥संसारभ्रमणं नारी प्रथमेऽपि समागमे ॥वह्निप्रदक्षिणन्यायव्याजेनैव प्रदर्शयेत् ॥६७॥एतास्तु निर्घृणत्वेन निर्दय त्वेन नित्यशः ॥विशेषाज्जाड्यकृत्येन दूषयंति कुलत्रयम् ॥६८॥कुलत्रयगृहं कीर्त्या निजया धवलीकृतम् ॥कृष्णं करोत्यकृ त्येन नारी दीपशिखेव तु ॥६९॥धर्मवृक्षस्य वाताली चित्तपद्मशशिप्रभा ॥सृष्टा कामार्णवग्राही केन मोक्षदृढार्गला ॥७०॥कारा संतानकूटस्य संसारवनवागुरा ॥स्वर्गमार्गमहागर्ता पुंसां स्त्री वेधसा कृता ॥७१॥वेधसा बंधनं किंचिन्नृणामन्यदपश्यता ॥स्त्रीरूपेण ततः कोऽपि पाशोऽयं सुदृढः कृतः ॥७२॥इत्येवं बहुधा सोऽपि विललाप सुदुःखितः ॥स्त्रीचिन्तां बहुधा कृत्वा आत्मानं चाप्यगर्हयत् ॥७३॥अहो कुबुद्धिना नैव लब्धं संसारजं फलम् ॥न कदाचिन्मया दत्तं तृष्णाव्याकुलचेतसा ॥७४॥ऐश्वर्येऽपि स्थिते भूरि न मया सुकृतं कृतम् ॥कदाचिन्नैव जप्तं च न हुतं च हुताशने ॥७५॥अथवा सत्यमेवोक्तं केनापि च महात्मना ॥कृपणेन समो दाता न भूतो न भविष्यति ॥अस्पृष्ट्वापि च वित्तं स्वं यः परेभ्यः प्रयच्छति ॥७६॥शरणं किं प्रपन्नानां विषवन्मारयंति किम् ॥न दीयते न भुज्यंते कृपणेन धनानि च ॥७७॥दानं भोगो नाशस्तिस्रो गतयो भवंति वित्तस्य ॥यो न ददाति न भुंक्ते तस्य तृतीया गतिर्भवति ॥७८॥धनिनोप्यदानविभवा गण्यंते धुरि दरिद्राणाम् ॥नहि हंति यत्पिपासामतः समुद्रोऽपि मरुरेव ॥७९॥अत्युपयुक्ताः सद्भिर्गतागतैरहरहः सुनिर्विण्णाः ॥कृपणजनसंनिकाशं संप्राप्यार्थाः स्वपंतीह ॥८०॥प्राप्तान्न लभंते ते भोगान्भोक्तुं स्वकर्मणा कृपणाः ॥मुखपाकः किल भवति द्राक्षापाके बलिभुजानाम् ॥८१॥दातव्यं भोक्तव्यं सति विभवे संचयो न कर्तव्यः ॥पश्येह मधुकरीणां संचितमर्थं हरंत्यन्ये ॥८२॥याचितं द्विजवरे न दीयते संचितं क्रतुवरे न योज्यते ॥तत्कदर्यपरिरक्षितं धनं चौरपार्थिवगृहेषु भुज्यते ॥८३॥त्यागो गुणो वित्तवतां वित्तं त्यागवतां गुणः ॥परस्परवियुक्तौ तु वित्त त्यागौ विडम्बनम् ॥८४॥किं तया क्रियते लक्ष्म्या या वधूरिव केवला ॥या न वेश्येव सामान्या पथिकैरपि भुज्यते ॥८५॥अर्थोष्मणा भवेत्प्राणो भवेद्भक्ष्यैर्विना नृणाम् ॥यतः संधार्यते भूमिः कृपणस्योष्मणा हि सा ॥८६॥कृपणानां प्रसादेन शेषो धारयते महीम् ॥यतस्ते भूगतं वित्तं कुर्वते तस्य चोष्मणा ॥८७॥एवं बहुविधा वाचः प्रलपन्मणिभद्रकः ॥नीत्वा तैः पार्थिवोद्दिष्टैः पुरुषैः परुषाक्षरम् ॥बहुधा प्रलपं श्चैव कृतः शाखावलंबनः ॥८८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मणिभद्रोपाख्याने मणिभद्रनिधनवर्णनंनामाष्टपंचाशदुत्तरशततमोऽध्यायः ॥१५८॥ N/A References : N/A Last Updated : December 31, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP