संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय ७७ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय ७७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ७७ Translation - भाषांतर ॥ ऋषय ऊचुः ॥यदेतद्भवता प्रोक्तं तत्र तौ परमेश्वरौ ॥उमामहेश्वरौ सूत हरिश्चन्द्रेण भूभुजा ॥१॥कृतौ कथयसीत्येवं वेदिमध्यं समाश्रितौ ॥उतान्यौ स्थापितौ तत्र चमत्कारपुरांतिकम् ॥२॥वेदिमध्यगतौ नित्यं पार्वतीपरमेश्वरौ ॥एतत्संश्रूयते सूत विवाहः प्रागभूत्तयोः ॥ओषधिप्रस्थमासाद्य पुरं हिम वतः प्रियम् ॥३॥अत्र नः संशयो जातः श्रद्धेयमपि ते वचः ॥श्रुत्वा किं वा भ्रमस्तेऽयं किं वाऽस्माकं प्रकीर्तय ॥४॥ ॥ सूत उवाच ॥नास्माकं विभ्रमो जातो युष्माकं तु द्विजोत्तमाः ॥परं यत्कारणं कृत्स्नं तद्ब्रवीमि निबोध्यताम् ॥५॥य एष ओषधिप्रस्थे विवाहः प्रागभू त्तयोः ॥उमात्रिनेत्रयो रम्यः सर्वदेवप्रमोदकृत् ॥६॥वैवस्वतेऽन्तरे पूर्वं संजातो द्विजसत्तमाः ॥सप्तमस्य तु विख्यातो युष्माकं विदितोऽत्र यः ॥७॥हाटकेश्वरजे क्षेत्रे यश्चोद्वाहस्तयोरभूत् ॥स्वायंभुवमनोराद्ये स संजातः सुविस्तरः ॥८॥ ॥ ऋषय ऊचुः ॥विवाह ओषधिप्रस्थे यः पुरा समभूत्तयोः ॥पार्वतीहरयोः सूत सोऽस्माभिर्विस्तराच्छ्रुतः ॥९॥हाटकेश्वरजे क्षेत्रे दक्षयज्ञे मनोहरे ॥विवाहो वृषयानस्य मनौ स्वायंभुवे पुरा ॥१०॥सोऽस्माकं कीर्तनीयश्च त्वया सूतकुलोद्वह ॥विस्तरेण यथा वृत्तः एतन्न कौतुकं परम् ॥११॥ ॥ सूत उवाच ॥अत्र वः कीर्तयिष्यामि सर्वपातकनाशनम् ॥विवाहसमयं सम्यग्देवदेवस्य शूलिनः ॥१२॥ब्रह्मणो दक्षिणांगुष्ठाद्दक्षः प्राचेतसोऽभवत् ॥शतानि पञ्च कन्यानां तस्य जातानि च द्विजाः ॥१३॥तासां ज्येष्ठतमा साध्वी सतीनाम शुचिस्मिता ॥बभूव कन्यका सर्वैर्गुणैर्युक्ताऽऽयतेक्षणा ॥१४॥न देवी न च गंधर्वी नासुरी न च नागजा ॥तादृग्रूपाऽभवच्चान्या यादृशी सा सुमध्यमा ॥१५॥अथ तां प्रददौ दक्षः पत्न्यर्थं शूल पाणये ॥प्रार्थितां बहुशो यत्नात्सस्पृहाय स्पृहान्विताम् ॥६॥ततः पुण्यतमं क्षेत्रं कन्यादानस्य स क्षमम् ॥संध्याय ससुतामात्यः सभृत्यः समुपस्थितः ॥१७॥ततश्चोद्वाहयोग्यानि वसुनि विविधान्यपि ॥आनयामास भूरीणि मांगल्यानि विशेषतः ॥१८॥अथ चैत्रस्य शुक्लस्य नक्षत्रे भगदैवते ॥त्रयोदश्यां दिने भानोः समायातो महेश्वरः ॥१९॥सर्वैः सुरगणैः सार्धं देवविष्णुपुरःसरैः ॥आदित्यैर्वसुभी रुद्रैरश्विभ्यां च तथाऽपरैः ॥२०॥सिद्धैः साध्यगणैर्भूतैः प्रेतैर्वैनायकैस्तथा ॥गन्धर्वैश्चारणौघैश्च गुह्यकैर्यक्षराक्षसैः ॥२१॥एतस्मिन्नंतरे दक्षः संप्रहृष्टतनूरुहः ॥प्रययौ संमुखस्तस्य युक्तः सर्वैः सुहृद्गणैः ॥२२॥वाद्यमानैर्महावाद्यैः सूतमागधबन्दिभिः ॥पठद्भिः सर्वतोऽनेकैर्गायद्भिर्गायनैस्तथा ॥२३॥ततः सर्वे सुरास्तत्र स्वयं दक्षेण पूजिताः ॥यथाश्रेष्ठं यथाज्येष्ठमुपविष्टा यथाक्रमम् ॥परिवार्याखिलां वेदिं मंडपांतरवर्तिनीम् ॥२४॥ततः पितामहं प्राह दक्षः प्रीतिपुरःसरम् ॥प्रणिपत्य त्वया कर्म कार्यं वैवाहिकं विभोः ॥२५॥स्वयमेव सुताऽस्माकं येन स्यात्सुभगा सती ॥पुत्र पौत्रवती नित्यं सुशीला पतिवल्लभा ॥२६॥बाढमित्येव सोऽप्युक्त्वा प्रहृष्टेनांतरात्मना ॥समुत्थाय ततश्चक्रे कृत्यमर्हणपूर्वकम् ॥२७॥संप्रदानक्रियां कृत्वा तत्रैव विधिपूर्वकम् ॥ततो हस्तग्रहं ताभ्यां मिथश्चक्रे यथाक्रमम् ॥मातॄणां पुरतो वेधाः सतीशाभ्यां यथोचितम् ॥२८॥अथ वेदिं समासाद्य गृह्योक्तविधिनाऽखिलम् ॥अग्निकार्यं यथोद्दिष्टं चकाराथ सुविस्तरम् ॥२९॥यथायथा स रम्याणि वीक्षतेंऽगानि कौतुकात् ॥सत्याः पितामहो हृष्टः कामार्तोऽभूत्तथातथा ॥३०॥तेनैकं वदनं मुक्त्वा तस्या वस्त्रावगुंठितम् ॥वीक्षिताऽतिस्मरार्तेन यथा कश्चिन्न बुद्ध्यते ॥३१॥न शंभोर्लज्जया वक्त्रं प्रत्यक्षं स व्यलोकयत् ॥न च सा लज्जयाविष्टा करोति प्रकटं मुखम् ॥३२॥ततस्तद्दर्शनार्थाय स उपायं व्यलो कयत् ॥धूमद्वारेण कामार्तश्चकार च ततः परम् ॥३३॥आर्द्रेंधनानि भूरीणि क्षिप्त्वाक्षित्वा विभावसौ ॥स्वल्पाज्याहुतिविन्यासादार्द्रद्रव्योद्भव स्तथा ॥३४॥एतस्मिन्नंतरे धूमः प्रादुर्भूतः समंततः ॥तादृग्येन तमोभूतं वेदिमूलं विनिर्मितम् ॥३५॥ततो धूमाकुलेनेत्रे भगवांस्त्रिपु रान्तकः ॥हस्ताभ्यां छादयामास येऽन्ये तत्र व्यवस्थिताः ॥३६॥ततो वस्त्रं समुत्क्षिप्य सतीवक्त्रं पितामहः ॥वीक्षयामास कामार्तः प्रहृष्टेनांतरात्मना ॥३७॥तस्य रेतः प्रचस्कन्द ततस्तद्वीक्षणाद्द्रुतम् ॥पतितं च धरापृष्ठे तुषारचयसंनिभम् ॥३८॥ततश्च सिकतौघेना तत्क्षणात्पद्मसंभवः ॥छादयामास तद्रेतो यथा कश्चिन्न बुद्ध्यते ॥३९॥अथ तद्भगवाञ्च्छंभुर्ज्ञात्वा दिव्येन चक्षुषा ॥रेतोऽवस्कन्दनात्तस्य कोपादेतदुवाच ह ॥४०॥किमेतद्विहितं पाप त्वया कर्म विगर्हितम् ॥नैवार्हा मम कान्ताया वक्त्रवीक्षाऽनुरागतः ॥४१॥त्वं वेत्सि शंकरेणैतत्कर्मजालं न विंदितम् ॥त्रैलोक्येऽपि मयाऽप्यस्ति गूढं तत्स्यात्कथं विधे ॥४२॥यत्किञ्चित्त्रिषु लोकेषु जंगमं स्थावरं तथा ॥तस्याहं मध्यगो मूढ तैलं यद्वत्तिलांतगम् ॥४३॥तस्मात्स्पृश निजं शीर्षं ब्रह्मन्नेतदसंशयम् ॥यावदेवं गते ब्रह्मा शिरः स्पृशति पाणिना ॥तावत्तत्र स्थितः साक्षात्तद्रूपो वृषवाहनः ॥४४॥ततो लज्जापरीतांगः स्थितश्चाधोमुखो द्विजाः ॥इन्द्राद्यैरमरैः सर्वैः सहितः सर्वतः स्थितैः ॥४५॥अथाऽसौ लज्जयाविष्टः प्रणिपत्य महेश्वरम् ॥प्रोवाच च स्तुतिं कृत्वा क्षम्यतां क्षम्यतामिति ॥४६॥अस्य पापस्य शुद्ध्यर्थं प्राय श्चित्तं वद प्रभो ॥निग्रहं च यथान्यायं येन पापं प्रयाति मे ॥४७॥ ॥ श्रीभगवानुवाच ॥अनेनैव तु रूपेण मस्तकस्थेन वै ततः ॥तपः कुरु समाधिस्थो ममाराधनतत्परः ॥४८॥ख्यातिं यास्यति सर्वत्र नाम्ना रुद्रशिरः क्षितौ ॥साधकः सर्वकृत्यानां तेजोभाजां द्विजन्म नाम् ॥४९॥मानुषाणामिदं कृत्यं यस्माच्चीर्णं त्वयाऽऽधुना ॥तस्मात्त्वं मानुषो भूत्वा विचरिष्यसि भूतले ॥५०॥यस्त्वां चानेन रूपेण दृष्ट्वा पृच्छां करिष्यति ॥किमेतद्ब्रह्मणो मूर्ध्नि भगवांस्त्रिपुरांतकः ॥५१॥ततस्ते चेष्टितं सर्वं कौतुकाच्च शृणोति यः ॥परदारकृतात्पापात्ततो मुक्तिं प्रयास्यति ॥५२॥यथायथा जनस्त्वेतत्कृत्यं ते कीर्तयिष्यति ॥तथातथा विशुद्धिस्ते पापस्यास्य भविष्यति ॥५३॥एतदेव हि ते ब्रह्मन्प्रायश्चित्तं प्रकीर्तितम् ॥जनहास्यकरं लोके तव गर्हाकरं परम् ॥५४॥एतच्च तव वीर्यं तु पतितं वेदिमध्यगम् ॥कामार्तस्य मया दृष्टं नैतद्व्यर्थं भविष्यति ॥५५॥यावन्मात्रैः परिस्पृष्टमेतत्सैकतरेणुभिः ॥तावन्मात्रा भविष्यंति मुनयः संशितव्रताः ॥५६॥वालखिल्या इति ख्याताः सर्वेंऽगुष्ठप्रमाणकाः ॥तपोवीर्यसमोपेताः शापानुग्रहकारकाः ॥५७॥एतस्मिन्नंतरे तस्माद्वेदिमध्याच्च तत्क्षणात् ॥अष्टाशीतिसहस्राणि मुनीनां भावितात्मनाम् ॥अंगुष्ठकप्रमाणानि निष्क्रान्तानि द्विजोत्तमाः ॥५८॥ततस्ते प्रणिपत्योच्चैः प्रोचुर्देवं पितामहम् ॥स्थानं दर्शय नस्तात तपोऽर्थं कलिवर्जितम् ॥५९॥ ॥ पितामह उवाच ॥अस्मिन्क्षेत्रे मया सार्धं कुरुध्वं पुत्रकास्तपः ॥गमिष्यथ परां सिद्धिं येन लोके सुदुर्लभाम् ॥६०॥ते तथेति प्रतिज्ञाय कृत्वा तत्राश्रमं शुभम् ॥वालखिल्यास्तपश्चक्रुः संसिद्धिं च परां गताः ॥६१॥अथ ब्रह्मापि तत्कर्म सर्वं वैवाहिकं क्रमात् ॥समाप्तिमनयत्प्रोक्तं यच्छ्रुतौ तेन च स्वयम् ॥६२॥पतत्सु पुष्पवर्षेषु समन्ताद्गगनांगणात् ॥वाद्यमानेषु वाद्येषु गीय मानैश्चगीतकैः ॥६३॥पठत्सु विप्रमुख्येषु नृत्यमानासु रागतः ॥रंभादिषु पुरन्ध्रीषु देवानां दृङ्मनोहरम् ॥६४॥एवं महोत्सवो जज्ञे तत स्तुंबुरुपूर्वकैः ॥गीयमानेषु गीतेषु यथापूर्वं त्रिविष्टपे ॥६५॥अथ कर्मावसाने स भगवांस्त्रिपुरांतकः ॥प्रोवाच पद्मजं भक्त्या दक्षिणां ते ददामि किम् ॥६६॥वैवाहिकी सुरश्रेष्ठ यद्यपि स्यात्सुदुर्लभा ॥ब्रूहि शीघ्रं महाभाग नादेयं विद्यते मम ॥६७॥ ॥ पितामह उवाच ॥अनेनैव तु रूपेण वेद्यामस्यां सुरेश्वर ॥त्वया स्थेयं सदैवात्र नृणां पापविशुद्धये ॥६८॥येन ते सन्निधौ कृत्वा स्वाश्रमं शशिशेखर ॥तपः करोमि नाशाय पापस्यास्य महत्तमम् ॥६९॥चैत्रशुक्लत्रयोदश्यां नक्षत्रे भगदैवते ॥सूर्यवारेण यो भक्त्या वीक्षयिष्यति मानवः ॥तदैव तस्य पापानि प्रयास्यन्ति च संक्षयम् ॥.७०॥या नारी दुर्भगा वन्ध्या काणा रूपविवर्जिता ॥साऽपि त्वद्दर्शनादेव भविष्यति सुरूपधृक् ॥प्रजावती सुभोगाढ्या सुभगा नात्र संशयः ॥७१॥ ॥ महेश्वर उवाच ॥हिताय सर्वलोकानां वेद्यामस्यां व्यवस्थितः ॥स्थास्यामि सहितः पत्न्या सत्यात्व द्वचनाद्विधे ॥७२॥ ॥ सूत उवाच ॥एवं स भगवांस्तत्र सभार्यो वृषभध्वजः ॥विद्यते वेदिमध्यस्थो लोकानां पापनाशनः ॥७३॥एतद्वः सर्वमाख्यातं यथा तस्य पुराऽभवत् ॥विवाहो वृषनाथस्य मनौ स्वायंभुवे द्विजाः ॥७४॥विवाहसमये प्राप्ते प्रारम्भे वा शृणोति यः ॥एतदाख्यानमव्यग्रं संपूज्य वृषभध्वजम् ॥तस्याऽविघ्नं भवेत्सर्वं कर्म वैवाहिकं च यत् ॥७५॥कन्या च सुखसौभाग्य शीलाचारगुणान्विता ॥तथा स्यात्पुत्रिणी साध्वी पतिव्रतपरायणा ॥७६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये हराश्रयवेदिकामाहात्म्यवर्णनंनाम सप्तसप्ततितमोऽध्यायः ॥७७॥ N/A References : N/A Last Updated : December 26, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP