संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय ७० नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय ७० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ७० Translation - भाषांतर ॥ सूत उवाच ॥तथान्यापि च तत्रास्ति शक्तिः पापप्रणाशिनी ॥कार्तिकेयेन निर्मुक्ता हत्वा वै तारकं रणे ॥१॥तथास्ति सुमहत्कुण्डं स्वच्छोदकसमावृतम् ॥तेनैव निर्मितं तत्र यः स्नात्वा तां प्रपूजयेत् ॥स पापान्मुच्यते सद्य आजन्ममरणांति कात् ॥२॥ ॥ ऋषय ऊचुः ॥कस्मिन्काले विनिर्मुक्ता सा शक्तिस्तेन नो वद ॥किमर्थं स्वामिना तत्र किंप्रभावा वद स्वयम् ॥३॥ ॥ सूत उवाच ॥पुरासीत्तारकोनाम दानवोऽतिबलान्वितः ॥हिरण्याक्षस्य दायादस्त्रैलोक्यस्य भयावहः ॥४॥स ज्ञात्वा जनकं ध्वस्तं विष्णुना प्रभविष्णुना ॥तपस्तेपे ततस्तीव्रं गोकर्णं प्राप्य पर्वतम् ॥५॥यावद्वर्षसहस्रांतं शीर्णपर्णा शनः स्थितः ॥ध्यायमानो महादेवं कायेन मनसा गिरा ॥६॥वरुपूजोपहारैश्च नैवेद्यैर्विविधैस्ततः ॥ततो वर्षसहस्रांते स दैत्यो दुःखसंयुतः ॥७॥ज्ञात्वा रुद्रमसंतुष्टं ततो रौद्रं तपोऽकरोत् ॥विनिष्कृत्त्यात्ममांसानि जुहोतिस्म हुताशने ॥८॥ततस्तुष्टो महादेवो वृषारूढ उमापतिः ॥सर्वैरेव गणैः सार्धं तस्य संदर्शनं ययौ ॥९॥तत्र प्रोवाच संहृष्टस्तारनादेन नादयन् ॥दिशः सर्वा महादेवो हर्ष गद्गदया गिरा ॥१०॥भोभोस्तारक तुष्टोऽस्मि साहसं मेदृशं कुरु ॥प्रार्थयस्व मनोऽभीष्टं येन ते प्रददाम्यहम् ॥११॥ ॥ तारक उवाच ॥अजेयः सर्वदेवानां त्वत्प्रसादादहं विभो ॥यथा भवामि संग्रामे त्वां विहाय तथा कुरु ॥१२॥ ॥ भगवानुवाच ॥मत्प्रसादादसंदिग्धं सर्वमेतद्भविष्यति ॥त्वया यत्प्रार्थितं दैत्य त्वमेको बलवानिह ॥१३॥एवमुक्त्वा महादेवः स्वमेव भवनं गतः ॥तारकश्चापि संहृष्टस्तथैवनिज मन्दिरम् ॥१४॥ततो दानवसैन्येन महता परिवारितः ॥गतः शक्रपुरीं योद्धुं विख्याताममरावतीम् ॥१५॥अथाभवन्महायुद्धं देवानां दानवैः सह ॥यावद्वर्षसहस्रांते मृत्युं कृत्वा निवर्तनम् ॥१६॥तत्राभवत्क्षयो नित्यं देवानां रणमूर्धनि ॥विजयो दानवानां च प्रसादाच्छूलपा णिनः ॥१७॥ततश्चक्रुरुपायांस्ते विजयाय दिवौकसः ॥वर्माणि सुविचित्राणि यन्त्राणि परिखास्तथा ॥१८॥अन्यान्यपि शरीरस्य रक्षणार्थं प्रयत्नतः ॥तथैव योधमुख्यानां विशेषाद्द्विजसत्तमाः ॥१९॥ससृजुस्ते सुराधीशा दानवेभ्यो दिवानिशम् ॥२०॥मुद्गरा भिंडिपालाश्च शतघ्न्योऽथ वरेषवः ॥प्रासाः कुन्ताश्च भल्लाश्च तस्मिन्काले विनिर्मिताः ॥विशेषाहवसंबन्धव्यूहानां प्रक्रियाश्च याः ॥२१॥तथान्यानि विचित्राणि कूटयुद्धान्यनेकशः ॥भीषिकाः कुहकाश्चैव शक्रजालानि कृत्स्नशः ॥२२॥न च ते विजयं प्रापुस्तथापि द्विजसत्तमाः ॥दानवेभ्यो महायुद्धे प्रहारैर्जर्जरीकृताः ॥२३॥अथ प्राह सहस्राक्षो भयत्रस्तो बृहस्पतिम् ॥दिनेदिने वयं दैत्यैर्विजयामो द्विजोत्तम ॥२४॥यथायथा रणार्थाय सदुपायान्करोम्यहम् ॥तथातथा पराभूतिर्जायते मे महाहवे ॥२५॥तदुपायं सुराचार्य स्वबुद्ध्या त्वं प्रचिन्तय ॥येन मे स्याज्जयो युद्धे तव कीर्तिरनिन्दिता ॥२६॥ ॥ सूत उवाच ॥ततो बृहस्पतिः प्राह चिरं ध्यात्वा शचीपतिम् ॥प्रहृष्टवदनो ज्ञात्वा जयोपायं महाहवे ॥२७॥मया शक्र परिज्ञातः स उपायो महाहवे ॥जीयन्ते शत्रवो येन लीलयैवापि भूरिशः ॥२८॥यदाभीष्टं वरं तेन प्रार्थितस्त्रिपुरांतकः ॥तदैवं वचनं प्राह प्रणिपत्य मुहुर्मुहुः ॥२९॥अजेयः सर्वदेवानां त्वत्प्रसादादहं विभो ॥यथा भवामि संग्रामे त्वां विहाय तथा कुरु ॥३०॥न तं स्वयं महादेवः स्वशिष्यं सूदयिष्यति ॥विषवृक्षमपि स्थाप्य कश्छिनत्ति पुनः स्वयम् ॥३१॥यो वै पिता स पुत्रः स्याच्छ्रुतिवाक्यमिदं स्मृतम् ॥तस्माज्जनयतु क्षिप्रं हरस्तन्नाशकृत्सुतम् ॥३२॥येन सेनाधिपत्ये तं विनियोज्य महाहवम् ॥कुर्मो दैत्यैः समं शस्त्रैः प्राप्नुयाम ततो जयम् ॥३३॥एष एव उपायोऽत्र मया ते परिकीर्तितः ॥विजयाय सहस्राक्ष नान्योऽस्ति भुवनत्रये ॥३४॥ततो देवगणैः सर्वैः समेतः पाकशासनः ॥तमर्थं प्रोक्तवाञ्छंभुं विनयावनतः स्थितः ॥३५॥सुतस्य जननार्थाय कुरु यत्नं वृषध्वज ॥येन सेनाधिपत्ये तं योजयामि दिवौकसाम् ॥३६॥प्राप्नोम्यहं च संग्रामे विजयं त्वत्प्रसादतः ॥निहत्य दानवान्सर्वांस्तारकेण समन्वितान् ॥३७॥नान्यथा विजयो मे स्यात्संग्रामे दानवैः सह ॥इति मां प्राह देवेज्यो ज्ञात्वा सम्यङ्महामतिः ॥३८॥अथोवाच विहस्योच्चैः शंकरस्त्रिदशेश्वरम् ॥करिष्यामि वचः क्षिप्रं तव शक्र न संशयः ॥३९॥पुत्रमुत्पादयिष्यामि सर्वदैत्यविनाशकम् ॥यं त्वं सेनापतिं कृत्वा जयं प्राप्स्यसि सर्वदा ॥४०॥एवमुक्त्वा महादेवो गत्वा कैलास पर्वतम् ॥गौर्या समं ततश्चक्रे कामधर्मं यथोचितम् ॥४१॥हावैर्भावैः समोपेतं हास्यैरन्यैस्तदात्मिकैः ॥यावद्वर्षसहस्रांतं दिव्यं चैव निमेषवत् ॥४२॥अथ देवगणाः सर्वे भयसंत्रस्तमानसाः ॥चक्रुर्मंत्रं तदर्थं हि तारकेण प्रपीडिताः ॥४३॥सहस्रं वत्सराणां तु रतासक्तस्य शूलिनः ॥अतिक्रांतं न देवानां तेन कृत्यं विनिर्मितम् ॥४४॥तस्माद्गच्छामहे तत्र यत्र देवो महेश्वरः ॥संतिष्ठते समं गौर्या कैलासे विजने स्थितः ॥४५॥ततस्तत्रैव संजग्मुः सर्वे देवाः सवासवाः ॥उद्वहन्तः परामार्तिं तारकारिसमुद्भवाम् ॥४६॥अथ कैलासमासाद्य यावद्यांति भवांतिकम् ॥निषिद्धा नंदिना तावन्न गंतव्यमतः परम् ॥४७॥रहस्ये भगवान्सार्धं पार्वत्या समवस्थितः ॥अस्माकमपि नो गम्यं तस्मात्तावन्न गम्यताम् ॥४८॥ततस्तैर्विबुधैः सर्वैः प्रेषितस्तत्र चानिलः ॥किं करोति महादेवः शीघ्रं विज्ञायतामिति ॥४९॥अथ वायुर्गतस्तत्र यत्रास्ते भगवाञ्छिवः ॥गौर्या सह रतासक्त आनन्दं परमं गतः ॥५०॥अथ प्रचलिते शुक्रे स्थानादप्राप्तयोनिके ॥देवेन वीक्षितो वायुर्नातिदूरे व्यवस्थितः ॥५१॥ततो व्रीडा समोपेतस्तत्क्षणादेव चोत्थितः ॥भावासक्तां प्रियां त्यक्त्वा मा मोत्तिष्ठेतिवादिनीम् ॥५२॥अब्रवीदथ तं वायुं विनयावनतं स्थितम् ॥किमर्थं त्वमिहायातः कच्चित्क्षेमं दिवौकसाम् ॥५३॥ ॥ वायुरुवाच ॥एते शक्रादयो देवा नंदिना विनिवारिताः ॥तारकेण हतोत्साहास्तिष्ठंति गिरिरोधसि ॥५४॥तस्मादेतान्समाभाष्य समाश्वास्य च सादरम् ॥प्रेषयस्व द्रुतं तत्र यत्र ते दानवाः स्थिताः ॥५५॥अथ तानाह्वयामाम तत्क्षणात्त्रिपुरांतकः ॥संप्राह चविषण्णास्यः कृतांजलिपुटान्स्थितान् ॥५६॥ ॥ श्रीभगवानुवाच ॥युष्मत्कृते समारंभः पुत्रार्थं यो मया कृतः ॥स्वस्थानाच्चलिते शुक्रे कृतो मोघोद्य वायुना ॥५७॥एतद्वीर्यं मया धैर्यात्स्तंभितं लिंगमध्यगम् ॥अमोघं तिष्ठते सर्वं क्व दधामि निवेद्यताम् ॥५८॥येन संजायते पुत्रो दानवांतकरः परः ॥सेनानाथश्च युष्माकं दुर्द्धरः समरे परैः ॥५९॥एतत्कल्पाग्निसंकाशं धर्तुं शक्नोति नापरः ॥विना वैश्वानरं तस्माद्दधात्वेष सनातनम् ॥६०॥येन तत्र प्रमुञ्चामि सुताय विजयाय च ॥एतद्वीर्यं महातीव्रं द्वादशार्कसमप्रभम् ॥६१॥अथ प्राहुः सुराः सर्वे वह्निं संश्लाघ्य सादराः ॥त्वं धारयाग्ने वक्त्रांते वीर्यमेतद्भवोद्भवम् ॥६२॥ततः प्रसारयामास स्ववक्त्रं पावको द्रुतम् ॥कुर्वञ्छक्रसमादेशमविकल्पेन चेतसा ॥६३॥शंकरोऽप्यक्षिपत्तत्र कामबाणप्रपीडितः ॥गौरीं भगवतीं ध्यायन्नानन्दं परमं गतः ॥६४॥पावकोऽपि भृशं तेन कल्पाग्निसदृशेन च ॥दह्यमानोऽक्षिपद्भूमौ शरस्तंबे सुविस्तरे ॥६५॥एतस्मिन्नंतरे प्राप्ता भ्रममाणा इतस्ततः ॥भार्यास्तत्र मुनीनां ताः षण्णां षट्कृत्तिकाः शुभाः ॥६६॥तासां निदेशयामास स्वयमेव शतक्रतुः ॥एतद्बीजं त्रिनेत्रस्य परिपाल्यं प्रयत्नतः ॥६७॥अत्र संपत्स्यते पुत्रो द्वादशार्कसमप्रभः ॥भवतीनामपि प्रायः पुत्रत्वं संप्रयास्यति ॥६८॥इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खंडे हाटकेश्वरक्षेत्रमाहात्म्ये कार्तिकेयोत्पत्तिवृत्तांतवर्णनंनाम सप्ततितमोऽध्यायः ॥७०॥ N/A References : N/A Last Updated : December 26, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP