संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय ९० नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय ९० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ९० Translation - भाषांतर ॥ ऋषय ऊचुः ॥अग्नितीर्थं त्वया प्रोक्तं ब्रह्मतीर्थं च यत्पुरा ॥न तयोः कथितोत्पत्तिर्माहात्म्यं च महामते ॥१॥तस्माद्विस्तरतो ब्रूहि एकैकस्य पृथक्पृथक् ॥न वयं तृप्तिमापन्नाः शृण्वतस्ते वचोऽमृतम् ॥२॥ ॥ सूत उवाच ॥अत्र वः कीर्तयिष्यामि कथां पातकनाशिनीम् ॥अग्नितीर्थसमुद्भूतां सर्वसौख्यावहां शुभाम् ॥३॥सोमवंशसमुद्भूतः प्रतीपो नाम भूपतिः ॥पुरासीच्छौर्यसंपन्नो ब्रह्मज्ञानविचक्षणः ॥४॥तस्य पुत्रद्वयं जज्ञे सर्वलक्षणलक्षितम् ॥देवापिः प्रथमस्तत्र द्वितीयः शंतनुर्द्विजाः ॥५॥अथो शिवपदं प्राप्ते प्रतीपे नृपसत्तमे ॥तपोऽर्थं राज्यमुत्सृज्य देवापिर्नियर्यौ वनम् ॥६॥ततश्च मंत्रिभिः सर्वैः शंतनुस्तस्य चानुजः ॥पितृपैतामहे राज्ये सत्वरं सन्नियोजितः ॥७॥एतस्मिन्नंतरे शक्रो न ववर्ष क्रुद्धाऽन्वितः ॥यावद्द्वादशवर्षाणि तस्मि न्राज्यं प्रशासति ॥८॥अतः कृच्छ्रं गतः सर्वो लोकः क्षुत्परिपीडितः ॥चामुंडासदृशो जातो यो न मृत्युवशंगतः ॥९॥संत्यक्ताः पतिभिर्नार्यः पुत्राश्च पितृभिर्निजैः ॥मातरश्च तथा पुत्रैर्लोकेष्वन्येषु का कथा ॥१०॥दैवयोगात्क्वचित्किंचित्कस्यचिद्यदि दृश्यते ॥सस्यं सिद्धमसिद्धं वा ह्रियते वीर्यतः परैः ॥११॥शुष्का महीरुहाः सर्वे तथा ये च जलाशयाः ॥नद्यश्च स्वल्पतोयाश्च गंगाद्या अपि संस्थिताः ॥१२॥एवं वृष्टेः क्षये जाते नष्टे धर्मपथे तथा ॥लोकेऽस्मिन्नस्थिसंघातैः पूरिते भस्मना वृते ॥१३॥न कश्चिद्यजनं चक्रे न स्वाध्यायं न च व्रतम् ॥एवमालोक्यते व्योम वृष्ट्यर्थं क्षुत्समाकुलैः ॥१४॥एतस्मिन्नेव काले तु विश्वामित्रो महामुनिः ॥चर्मास्थिशेषसर्वांगो बुभुक्षार्त इतस्ततः ॥१५॥परिभ्रमंस्ततः प्राप्य कंचिद्ग्रामं निरुद्वसम् ॥मृतमर्त्योद्भवैव्याप्तमस्थिसंघैः समंततः ॥१६॥अथ तत्र भ्रमन्प्राप्तश्चंडालस्य निवेशनम् ॥शून्ये गोऽस्थिसमाकीर्णे दुर्गंधेन समावृते ॥१७॥अथापश्यन्मृतं तत्र सारमेयं चिरोषितम् ॥संशुष्कं गन्धनिर्मुक्तं गृहप्रांते व्यवस्थितम् ॥१९॥समादाय ततस्तं च आपद्धर्मपरायणः ॥प्रक्षाल्य सलिले पश्चात्प्रचकर्त तदा मुनिः ॥१९॥ततश्च श्रपयामास सुसमिद्धे हुताशने ॥क्षुत्क्षामो भोजनार्थाय ततः पाकाग्रमेव च ॥२०॥समादाय पितॄंस्तर्प्य यावदग्नौ जुहोति सः ॥तावद्वह्निः परित्यज्य समस्तमपि भूतलम् ॥२१॥गतश्चादर्शनं सद्यः सर्वेषां क्षितिवासिनाम् ॥चित्ते कोपं समाधाय शक्रस्योपरि भूरिशः ॥२२॥एतस्मिन्नंतरे वह्नौ मर्त्यलोकाद्विनिर्गते ॥विशेषात्पीडिता लोका येऽवशिष्टा धरातले ॥२३॥एतस्मिन्नंतरे देवा ब्रह्मविष्णुपुरः सराः ॥वह्नेरन्वेषणार्थाय वभ्रमुर्धरणीतले ॥२४॥अथ तैर्भ्रममाणैश्च प्रदृष्टोऽभूद्गजो महान् ॥निश्वसन्पतितो भूमौ वह्नितापप्रपीडितः ॥२५॥अथ देवा गजं दृष्ट्वा पप्रच्छुस्त्वरयाऽन्विताः ॥कच्चित्त्वया स दृष्टोऽत्र कानने पावको गज ॥२६॥ ॥ गज उवाच ॥वंशस्तंबेऽत्र संकीर्णे संप्रविष्टो हुताशनः ॥सांप्रतं तेन निर्दग्धः कृच्छ्रादत्राहमागतः ॥२७॥अथ तैर्वेष्टितस्तस्मिन्वंशस्तंबे हुताशनः ॥देवैर्दत्त्वा गजेंद्रस्य शापं पश्चाद्विनिर्गतः ॥२८॥यस्मात्त्वयाहमादिष्टो देवानां वारणाधम ॥तस्मात्तव मुखे जिह्वा विपरीता भविष्यति ॥२९॥एवं शप्त्वा गजं शीघ्रं नष्टो वैश्वानरः पुनः ॥देवाश्चापि तथा पृष्ठे संलग्नास्तद्दिदृक्षया ॥३०॥अथ दृष्टः शुकस्तैश्च भ्रममाणैर्महावने ॥भोभोः शुक त्वया वह्निर्यदि दृष्टो निवेद्यताम् ॥३१॥शुक उवाच ॥योऽयं संदृश्यते दूराच्छमीगर्भे च पिप्पलः ॥एतस्मिंस्तिष्ठते वह्निरश्वत्थे सुरसत्तमाः ॥३२॥अत्रस्थो यः कुलायो म आसीच्छिशुसमन्वितः ॥संदग्धस्तत्प्रतापेन अहंकृच्छ्राद्विनिर्गतः ॥३३॥तच्छ्रुत्वा तैः सुरैः सर्वैः शमीगर्भः स तत्क्षणात् ॥वेष्टितः पावकोऽप्याशु शुकं शप्त्वा विनिर्गतः ॥३४॥अहं यस्मात्त्वया पाप देवानां संनिवेदितः ॥तस्माच्छुक न ते वाणी विस्पष्टा संभविष्यति ॥३५॥एवमुक्त्वा जातवेदा देवादर्शनवांछया ॥हाटकेश्वरजे क्षेत्रे देवस्य परमेष्ठिनः ॥३६॥जलाशयं सुगम्भीरं पूर्वोत्तरदिक्संस्थितम् ॥दृष्ट्वा तत्र प्रविष्टस्तु निभृतं च समाश्रितः ॥३७॥एतस्मिन्नंतरे तत्र मत्स्यकच्छपदर्दुराः ॥वह्निप्रतापनिर्दग्धा दृश्यंते शतशो मृताः ॥३८॥अथ चैकोऽर्धनिर्दग्ध आयुःशेषेण दर्दुरः ॥तस्माज्जलाद्विनिष्क्रांतो दृष्टो देवैश्च दूरतः ॥३९॥पृष्टश्च ब्रूहि चेद्भेक त्वया दृष्टो हुताशनः ॥तदर्थमिह संप्राप्ताः सर्वे देवाः सवासवाः ॥४०॥ ॥ भेक उवाच ॥अस्मिञ्जलाशये वह्निः सांप्रतं पर्यवस्थितः ॥तस्यैते जलमध्यस्था मृता भूरिजलोद्भवाः ॥४१॥अस्माकं निधनं प्राप्तं कुटुम्बं सुरसत्तमाः ॥अहं कृच्छ्रेण निष्क्रांत एतस्माज्जलसंश्रयात् ॥४२॥तच्छ्रुत्वा ते सुराः सर्वे सर्वतस्तं जलाशयम् ॥वेष्टयित्वा स्थितास्तत्र वह्निर्भेकं शशाप ह ॥४३॥यस्माद्भेक त्वया मूढ देवेभ्योऽहं निवेदितः ॥तस्मात्त्वं भविता नूनं विजिह्वोऽत्र धरातले ॥४४॥एवमुक्त्वा ततः स्थानात्ततो वह्निर्विनिर्गतः ॥तावत्स ब्रह्मणा प्रोक्तः स्वयमेव महात्मना ॥४५॥भोभो वह्ने किमर्थं त्वं देवान्दृष्ट्वा प्रगच्छसि ॥त्वमाद्यश्चैव सर्वेषामेतेषां संस्थितो मुखम् ॥४६॥त्वय्याहुतिर्हुता सम्यगादित्यमुपतिष्ठते ॥आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥४७॥तस्माद्धाता विधाता च त्वमेव जगतः स्थितः ॥संतुष्टे धार्यते विश्वं त्वयि रुष्टे विनंक्ष्यति ॥४८॥अग्निष्टोमादिका यज्ञास्त्वयि सर्वे प्रतिष्ठिताः ॥अथ सर्वाणि भूतानि जीवंति तव संश्रयात् ॥४९॥त्वमग्ने सर्वभूतानामन्तश्चरसि सर्वदा ॥तेनैवान्नं च पानं च जठरस्थं पचत्यलम ॥५०॥तस्मात्कुरु प्रसादं त्वं सर्वेषां च दिवौकसाम् ॥कोपस्य कारणं ब्रूहि यतस्त्यक्त्वा प्रगच्छसि ॥५१॥ ॥ सूत उवाच ॥तस्य तद्वचनं श्रुत्वा देवस्य परमेष्ठिनः ॥प्रोवाच प्रणयात्कोपं कृत्वा नत्वा च पद्मजम् ॥५२॥ ॥ अग्निरुवाच ॥अहं कोपं समाधाय शक्रस्योपरि पद्मज ॥प्रणष्टो जगदुत्सृज्य यस्मात्तत्कारणं शृणु ॥५३॥अनावृष्ट्या महेन्द्रस्य संजातश्चौषधीक्षयः ॥ततोऽस्म्यहं श्वमांसेन विश्वामित्रेण योजितः ॥५४॥एतस्मात्कारणान्नष्टो न कामान्न च संभ्रमात् ॥अभक्ष्यभक्षणाद्भीतः सत्यमेतन्मयोदितम् ॥५५॥तच्छ्रुत्वा स चतुर्वक्त्रः शक्रमाह ततः परम् ॥युक्तमेव शिखी प्राह किमर्थं न च वर्षसि ॥५६॥ ॥ शक्र उवाच ॥ज्येष्ठं भ्रातरमुल्लंघ्य शंतनुः पृथिवीपतिः ॥पितृपैतामहे राज्ये स निविष्टः पितामह ॥५७॥एतस्मात्कारणाद्वृष्टिः संनिरुद्धा मया प्रभो ॥तद्ब्रूहि किं करोम्यद्य त्वं प्रमाणं पितामह ॥५८॥ ॥ पितामह उवाच ॥तस्याक्रमस्य संप्राप्तं पापं तेन महीभुजा ॥उपभुक्तमवृष्ट्याद्य तस्माद्वृष्टिं कुरु द्रुतम् ॥५९॥मद्वाक्याद्याति नो नाशं यावदेतज्जगत्त्रयम् ॥अकालेनापि देवेन्द्र सस्याभावाद्बुभुक्षया ॥६०॥एतस्मिन्नंतरे शक्र आदिदेश त्वरान्वितः ॥पुष्करावर्तकान्मेघान्वृष्ट्यर्थं धरणीतले ॥६१॥तेऽपि शक्रसमादेशात्समस्तधरणीतलम् ॥तत्क्षणात्पूरयामासुर्गर्जन्तो विद्युदन्विताः ॥६२॥अथाब्रवीत्पुनर्ब्रह्मा देवैः सार्धं हुताशनम् ॥अग्निहोत्रेषु विप्राणां प्रत्यक्षो भव पावक ॥सांप्रतं त्वं वरं मत्तः प्रार्थयस्वाभिवांछितम् ॥६३॥ ॥ अग्निरुवाच ॥अयं जलाशयः पुण्यो मन्नाम्ना पृथिवीतले ॥ख्यातिं यातु चतुर्वक्त्र वह्नितीर्थमिति स्मृतम् ॥६४॥अत्र यः प्रातरुत्थाय स्नात्वा श्रद्धा समन्वितः ॥अग्निसूक्तं जपित्वा च त्वां प्रपश्यति सादरम् ॥तस्य तुष्टिस्त्वया कार्या द्रुतं मद्वाक्यतः प्रभो ॥६५॥ ॥ श्रीब्रह्मोवाच ॥अत्र यः प्रातरुत्थाय स्नात्वा वै वेदविद्द्विजः ॥अग्निसूक्तं जपित्वा च वीक्षयिष्यति मां ततः ॥६६॥अग्निष्टोमस्य यज्ञस्य सकलं लप्स्यते फलम् ॥अनेकजन्मजं पापं नाशमेष्यति पावक ॥६७॥ ॥ सूत उवाच ॥एवमुक्त्वा स भगवान्विरराम पितामहः ॥पावकोऽपि च विप्राणामग्निहोत्रेषु संस्थितः ॥६८॥एवं तत्र समुद्भूतं वह्नितीर्थं महाद्भुतम् ॥तत्र स्नातो नरः प्रातः सर्वपापैः प्रमुच्यते ॥६९॥ ॥ अग्निरुवाच ॥ममातृप्तस्य लोकेश तावद्द्वादशवत्सरान् ॥क्षुत्पीडासंवृते मर्त्ये न प्राप्तं कुत्रचिद्धविः ॥७०॥भविष्यंति तथा यज्ञा कालेन महता विभो ॥संजातैः पशुभिर्भूयः सस्यादैरपरैर्भुवि ॥७१॥वसुधारा, स्वयम्भु ॥ श्रीब्रह्मोवाच ॥अत्र ये ब्राह्मणाः केचिन्निवसंति हुताशन ॥वसोर्द्धाराप्रदानेन ते त्वां नक्तंदिनं सदा ॥७२॥तर्पयिष्यंति सद्भक्त्या ततः पुष्टिमवाप्स्यसि ॥तेऽपि काम्यैर्मनोऽभीष्टैर्भविष्यंति समन्विताः ॥७३॥संक्रांति समये येषां वसोर्धाराप्रदायिनाम् ॥भविष्यति क्षुतं वह्ने हूयमाने तवानल ॥७४॥तेषां पापं च यत्किंचिज्ज्ञानतोऽज्ञानतः कृतम् ॥तद्यास्यति क्षयं सर्वमाजन्ममरणांतिकम् ॥७५॥त्वयि तुष्टिं गते पश्चाद्भविष्यति महीपतिः ॥शिबिर्नाम सुविख्यात उशीनरसमुद्रवः ॥७६॥स कृत्वा श्रद्धया युक्तः सत्रं द्वादशवार्षिकम् ॥वसोर्द्धाराप्रदानेन वर्षं त्वां तर्पयिष्यति ॥कलशस्य च वक्त्रेणाविच्छिन्नेन दिवानिशम् ॥७७॥ततस्तुष्टिं परां प्राप्य परां पुष्टिमवाप्स्यसि ॥पूज्यमानो धरापृष्ठे सर्वैर्वेदविदां वरैः ॥७८॥अद्यप्रभृति यत्किंचित्कर्म चात्र भविष्यति ॥शांतिकं पौष्टिकं वापि वसोर्द्धारासमन्वितम् ॥संभविष्यति तत्सर्वं तव तृप्तिकरं परम् ॥७९॥अपि यद्वैश्वदेवीयं कर्म किंचिद्द्विजन्मनाम् ॥वसोर्द्धाराविहीनं च निष्फलं संभविष्यति ॥८०॥यस्माद्भवति संपूर्णं कर्म यज्ञादिकं हि तत् ॥शांतिकं वैश्वदेवं च पूर्णाहुतिरिहोच्यते ॥८१॥यः सम्यक्छ्रद्धया युक्तो वसोर्द्धारां प्रदास्यति ॥स कामं मनसा ध्यातं समवाप्स्यति कृत्स्नशः ॥८२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वसोर्द्धारामाहात्म्यवर्णनंनाम नवतितमोऽध्यायः ॥९०॥ छ ॥ N/A References : N/A Last Updated : December 26, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP