संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १०७ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १०७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १०७ Translation - भाषांतर ऋषय ऊचुः ॥अष्टषष्टिरियं प्रोक्ता या त्वया सूतनन्दन ॥क्षेत्राणां देवदेवस्य कथं सा तत्र संस्थिता ॥एतत्सर्वं समाचक्ष्व परं कौतूहलं हि नः ॥१॥ ॥ सूत उवाच ॥प्रश्नभारो महानेष यो भवद्भिः प्रकीर्तितः ॥तथापि कीर्तयिष्यामि नमस्कृत्वा पिनाकिनम् ॥२॥चमत्कारपुरेऽवासीत्पूर्वं ब्राह्मणसत्तमः ॥वत्सस्यान्वयसंभूतश्चित्रशर्मा महायशाः ॥३॥तस्य बुद्धिरियं जाता पाताले हाटकेश्वरम् ॥अत्रानीय ततो भक्त्या पूजयामि दिवानिशम् ॥४॥एवं स निश्चयं कृत्वा तपश्चके ततः परम् ॥नियतो नियताहारः परां निष्ठां समाश्रितः ॥५॥तस्यापि भगवाञ्छंभुः कालेन महता ततः ॥संतुष्टो ब्राह्मण श्रेष्ठास्ततः प्रोवाच सादरम् ॥६॥वरं प्रार्थय विप्रेन्द्र यत्ते मनसि वर्तते ॥अपि त्रैलोक्यराज्यं ते तुष्टो दास्याम्यसंशयम् ॥७॥तस्मात्प्रार्थय ते नित्यं यत्र चित्ते व्यवस्थितम् ॥दुर्लभं सर्वदेवानां मनुष्याणां विशेषतः ॥८॥ ॥ चित्रशर्मोवाच ॥यदि तुष्टोसि मे देव वरं चेन्मे प्रयच्छसि ॥तदत्रागच्छ पातालाल्लिंगरूपी सुरेश्वर ॥९॥यत्पाताले स्थितं लिंगं ब्रह्मणा संप्रतिष्ठितम् ॥हाटकेश्वरसंज्ञं तु तदिहायातु सत्व रम् ॥१०॥ ॥ श्रीभगवानुवाच ॥अचलं सर्वलिंगं स्यात्सर्वत्रापि द्विजोत्तम ॥कि पुनः प्रथमं यच्च ब्रह्मणा निर्मितं स्वयम् ॥११॥तस्मात्थापय लिंगं तद्धाटकेन द्विजोत्तम ॥हाटकेश्वरसंज्ञं तु लोके ख्यातं भविष्यति ॥१२॥सोमवारे चतुदश्यां शुक्लायां श्रद्धयान्वितः ॥यस्तद्भक्तिसमायुक्तः पूजयिष्यति मानवः ॥१३॥आद्यलिंगोद्भवं श्रेयः पूजया लप्स्यते द्विज ॥एवमुक्त्वाऽथ भगवांस्ततश्चादर्शनं गतः ॥४॥चित्रशर्माऽपि कृत्वाथ प्रासादं सुमनोहरम् ॥तत्र हेममयं लिंगं स्थापयामास भक्तितः ॥१५॥शास्त्रोक्तेन विधानेन पूजां चक्रे च नित्यशः ॥ततस्त्रैलोक्य विख्यातं तल्लिंगं तत्र वै द्विजाः ॥१६॥दूरादभ्येत्य लोकाश्च पूजयंति ततः परम् ॥अथ तत्र द्विजा येऽन्ये संस्थिता गुणवत्तराः ॥१७॥तेषां स्पर्धा ततो जाता दृष्ट्वा तस्य विचेष्टितम् ॥एकस्थानप्रसूतानां सर्वेषां गुणशालिनाम् ॥१८॥अयं गुणविहीनोऽपि प्रख्यातो भुवनत्रये ॥हराराधनमासाद्य यस्मात्तस्माद्वयं हरम् ॥तदर्थे तोषयिष्यामः साम्यं येन प्रजायते ॥१९॥अष्टषष्टिः स्मृता लोके क्षेत्राणां शूलपाणिनः ॥यत्र सान्निध्यमभ्येति त्रिकालं परमेश्वरः ॥२०॥अष्टषष्टिश्च गोत्राणामस्माकं चात्र संस्थिता ॥एतेन मूढमनसा सार्धं सामान्यलक्षणा ॥२२॥तस्मादनेन चाराध्य भगवन्तं त्रिलोचनम् ॥तच्च लिंगं समानीतमत्र पातालसंस्थितम् ॥२२॥तथा सर्वैश्च सर्वाणि क्षेत्रलिंगानि कृत्स्नशः ॥आनेतव्यानि चाराध्य तपःशक्त्या महेश्वरम् ॥२३॥एतेषां सर्वगोत्राणामानेष्यति च शंकरः ॥यद्गोत्रं क्षेत्रसंयुक्तं यच्चान्यद्वा भविष्यति ॥२४॥ततस्ते शर्मसंयुक्ताः सर्व एव द्विजोत्तमाः ॥चक्रुस्तपःक्रियां सर्वे दुष्करां सर्वजन्तुभिः ॥२५॥जपैर्होमोपवासैश्च नियमैश्च पृथग्विधैः ॥बलिपूजोपहारैश्च स्नानदानादिभिस्तथा ॥२६॥लिंगं संस्थाप्य देवस्य नाम्ना ख्यातं द्विजेश्वरम् ॥मनोहरतरे प्रोच्चे प्रासादे पर्वतोपमे ॥२७॥त्यक्त्वा गृहक्रियाः सर्वास्तथा यज्ञसमुद्भवाः ॥अन्याश्च लोकयात्रोत्थास्तोषयंति महेश्वरम् ॥२८॥एवमाराध्यमानोऽपि सन्तोषं परमेश्वरः ॥नाभ्यगच्छत्परां तुष्टिं कथंचिदपि स द्विजाः ॥२९॥ततो वर्षसहस्रांते समाराध्य महेश्वरम् ॥न च किञ्चित्फलं प्राप्ता यावत्क्रुद्धास्ततोऽखिलाः ॥३०॥अस्य मूर्खतमस्याऽपि त्वं शूलिंश्चित्रशर्मणः ॥सुस्तोकेनाऽपि कालेन सन्तोषं परमं गतः ॥३१॥वयं वार्धक्यमापन्ना बाल्यात्प्रभृति शंकरम् ॥पूजयन्तोऽपि नो दृष्टस्तथाऽपि परमेश्वर ॥३२॥तस्मात्सर्वे प्रकर्तव्यं हव्यवाहप्रवेशनम् ॥अस्माभिर्निश्चयो ह्येष तवाग्रे सांप्रतं कृतः ॥३३॥ततश्चाहृत्य काष्ठानि सर्वे ते द्विजसत्तमाः ॥ईश्वरं मनसि ध्यात्वा चिताश्चक्रुः पृथग्विधाः ॥३४॥तथा सर्वं क्रियाकल्पं स्नानदानादिकं च यत् ॥कृत्वा ते ब्राह्मणाः सर्वे सुसमिद्धहुताशनम् ॥३५॥यावत्कृत्वा सुतैः सार्धं प्रविशंति समाहिताः ॥तावत्स भगवांस्तुष्टस्तेषां संदर्शनं ययौ ॥३६॥अब्रवीच्च विहस्योच्चैर्मेघगम्भीरया गिरा ॥सर्वांस्तान्ब्राह्मणश्रेष्ठान्मृतान्संजीवयन्निव ॥३७॥भो भो ब्राह्मणशार्दूला मा मैवं साहसं महत् ॥यूयं कुरुत मद्वाक्यात्संतुष्टस्य विशेषतः ॥३८॥तस्माद्वदत यच्चित्ते युष्माकं चैव संस्थितम् ॥येन दत्त्वा प्रगच्छामि स्वमेव भुवनं पुनः ॥३९॥ ॥ ब्राह्मणा ऊचुः ॥अस्मिन्क्षेत्रे सुरश्रेष्ठ पुरस्यास्य च संनिधौ ॥क्षेत्राणामष्टषष्टिर्या धन्या संकीर्त्यते जनैः ॥४०॥सदाभ्यैतु समं लिंगैस्तैराद्यैः सुरसत्तम ॥येनामर्षप्रशांतिर्नः सर्वेषामिह जायते ॥४१॥एष संस्पर्धतेऽस्माभिः सर्वैर्गुणविवर्जितः ॥त्वल्लिंगस्य प्रभावेन तस्मादेतत्समाचर ॥४२॥ ॥ सूत उवाच ॥एतस्मिन्नंतरे विप्रो ज्ञात्वा तं वरदं हरम् ॥उवाच स्पर्धया युक्तश्चित्रशर्मा महेश्वरम् ॥४३॥ ॥ चित्रशर्मोवाच ॥एतैः प्राणपरित्यागमारभ्य तदनतरम् ॥तुष्टिं नीतोऽसि देवश कृत्वा च सुमहत्तपः ॥४४॥मया स्पर्द्धमानैश्च केवलं गुणगर्वितैः ॥तस्मादेषो न दातव्यत्वं त्वया किंचित्सुरेश्वर ॥४५॥यदि त्वं मामतिक्रम्य संप्रदास्यसि वांछितम् ॥एतैः पुत्रकलत्रैश्च सार्धं प्रत्यक्षतस्तव ॥पावकं साधयिष्यामि तस्माद्युक्तं समाचर ॥४६॥ ॥ सूत उवाच ॥तस्य तद्वचनं श्रुत्वा भगवाञ्छशिशेखरः ॥चिन्तयामास चित्तेन किमत्र सुकृतं भवेत् ॥४७॥एते ब्राह्मणशार्दूला विनाशं यांति मत्कृते ॥एषोऽपि सर्वसंसिद्धो गणतुल्यो द्विजोत्तमः ॥४८॥तस्माद्द्वाभ्यां मया कार्यं क्षेत्रे सौख्यं यथा भवेत् ॥ब्राह्मणानां विशेषेण तथा चात्र निवासिनाम् ॥४९॥ममापि सर्वदा चित्ते कृत्यमेतद्धि वर्तते ॥एक स्थाने करोम्येव सर्वक्षेत्राणि यानि मे ॥५०॥भविष्यति तथा कालो रौद्रः कलिसमुद्भवः ॥तत्र क्षेत्राणि तीर्थानि नाशं यास्यंति भूतले ॥५१॥सत्तीर्थैस्तद्भयात्सर्वैः क्षेत्रमेतत्समाश्रितम् ॥आनयिष्याम्यहमपि स्वानि क्षेत्राणि कृत्स्नशः ॥५२॥ततस्तं चित्रशर्माणं प्राह चेदं महेश्वरः ॥शृणु मद्वचनं कृत्स्नं कुरुष्व तदनंतरम् ॥५३॥अत्र क्षेत्राणि सर्वाणि मदीयानि द्विजोत्तम ॥समागच्छंतु विप्राश्च प्रभवंतु प्रहर्षिताः ॥५४॥तवापि योग्यतां श्रेष्ठां करिष्यामि महामते ॥यदि मे वर्तसे वाक्ये मुक्त्वा स्पर्द्धां द्विजोद्भवाम् ॥५५॥तुरीयमपि ते गोत्रं वेदोक्तेन क्रमेण च ॥आद्यतां चापि ते सर्वे कीर्तयिष्यंति ते द्विजाः ॥५६॥तथान्यदपि सन्मानं तव यच्छामि च द्विज ॥आचन्द्रार्कमसंदिग्धं पुत्रपौत्रादिकं च यत् ॥५७॥त्वदन्वये भविष्यंति पुत्रपौत्रास्तथा परे ॥कृत्ये श्राद्धे तर्पणे वा क्रियमाणे विधानतः ॥५८॥आद्यस्य वत्ससंज्ञस्य नाम उच्चार्य गोत्रजम् ॥ततो नामानि चाप्येवं कीर्तयिष्यंति भक्तितः ॥५९॥ततः संतर्पयिष्यंति पितॄनथ पितामहान् ॥तथान्यानपि बंधूंश्च सुहृत्संबंधिबांधवान् ॥६०॥त्वदन्वये विना नाम्ना त्वदीयेन विमोहिताः ॥ये पितॄंस्तर्पयिष्यंति तेषां व्यर्थं भविष्यति ॥६१॥श्राद्धं वा यदि वा दानं तर्पणं वा त्वदुद्भवम् ॥तस्मादहंकृतिं मुक्त्वा मामाराधय केवलम् ॥६२॥येन सिद्धोऽपि संसिद्धिं परामाप्नोषि शाश्वतीम् ॥एवं संबोध्य तं विप्रं कृत्वाद्यमपि पश्चिमम् ॥६३॥ततस्तान्ब्राह्मणानाह प्रासादः क्रियतामिति ॥गोत्रंगोत्रं पुरस्कृत्य स्थाप्यं लिंगमनुत्तमम् ॥येन संक्रमणं तेषु मम संजायतेद्विजाः ॥६४॥अथ ते ब्राह्मणास्तत्र भूमिभागान्मनोहरान् ॥दृष्ट्वादृष्ट्वा प्रचक्रुश्च प्रासादान्हर्षसंयुताः ॥६५॥अष्टषष्टिमितान्दिव्यान्कैलासशिखरोपमान् ॥तेषु संस्थापयामासु लिङ्गानि विविधानि च ॥क्षेत्रेक्षत्रे च यन्नाम तत्तत्संज्ञां प्रचक्रिरे ॥६६॥अथ तेषां पुनर्दृष्टिं गत्वा देवस्त्रिलोचनः ॥प्रोवाच मधुरं वाक्यं कस्मिंश्चित्कालपर्यये ॥आराधितस्तपःशक्त्या लिंगसंस्थापनादनु ॥६७॥ ॥ श्रीभगवानुवाच ॥परितुष्टोऽस्मि विप्रेंद्रा युष्माकमहमद्य वै ॥एतन्मम कृतं कृत्यं भवद्भिरखिलं ततः ॥६८॥अस्मदीयानि लिंगानि क्षेत्राणि च कलेर्भयात् ॥ततो मान्याश्च मे यूयं नान्यैरेतद्भविष्यति ॥६९॥तस्माच्चित्तस्थितं शीघ्रं प्रार्थयंतु द्विजोत्तमाः ॥संप्रयच्छामि येनाशु यद्यपि स्यात्सुदुर्लभम् ॥७०॥ ॥ ब्राह्मणा ऊचुः ॥यदि देव प्रसन्नस्त्वमस्माकं च सुरेश्वर ॥पश्चिमश्चित्रशर्मा च यथाद्यो भवता कृतः ॥७१॥अस्मदीयं सदा नाम कीर्तनीयमसंशयम् ॥श्राद्धकृत्येषु सर्वेषु यथा तेन समा वयम् ॥भवामस्त्वत्प्रसादेन सांप्रतं चित्रशर्मणा ॥७२॥ ॥श्रीभगवानुवाच ॥युष्माकमपि ये केचिद्वशं यास्यंति मानवाः ॥युवानः शास्त्रसंयुक्ता वेदविद्याविशारदाः ॥७३॥आनयिष्यथ तान्यूयमामुष्यायणसंज्ञितान् ॥नित्यं स्थिताश्च ते क्षेत्रे श्राद्धस्याक्षय्यकारकाः ॥७४॥एवमुक्त्वाथ देवेशस्ततश्चादर्शनं गतः ॥तेऽपि विप्राः सुसंतुष्टास्तत्र स्थाने व्यवस्थिताः ॥७५॥एवं तत्र समस्तानि क्षेत्राण्यायतनानि च ॥कलिभीतानि विप्रेंद्रा निवसंति सदैव हि ॥७६॥एवं ते ब्राह्मणाः प्राप्य सिद्धिं चेश्वरपूजनात् ॥ख्याताः सर्वत्र भुवने श्राद्धस्याक्षय्यकारकाः ॥७७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये ब्राह्मणचित्रशर्मलिंगस्थापनवृत्तांतवर्णनंनाम सप्तोत्तरशततमोऽध्यायः ॥१०७॥ N/A References : N/A Last Updated : December 29, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP