संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २६९ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २६९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २६९ Translation - भाषांतर सूत उवाच ॥कपालेशस्य माहात्म्यं श्रूयतामधुना द्विजाः ॥चतुर्थस्य महाभागास्तत्र क्षेत्रे स्थितस्य च ॥१॥.श्रुतमात्रेण येनात्र नरः पापात्प्रमुच्यते ॥२॥ऋषय ऊचुः ॥त्रयाणां चैव लिंगानां पूर्वोक्तानां महामते ॥श्रुतास्माभिः समुत्पत्तिःकपालेश्वरवर्जिता ॥केनायं स्थापितो देवः कपालेश्वरसंज्ञितः ॥३॥तस्मिन्दृष्टे फलं किं स्यात्पूजिते च वदस्व नः ॥४॥सूत उवाच ॥इंद्रेण स्थापितः पूर्वमेष देवो द्विजोत्तमाः ॥कपालेश्वसंज्ञस्तु ब्रह्महत्या विमुक्तये ॥५॥तत्प्रभावत्सुरश्रेष्ठ स्तया मुक्ते द्विजोत्तमाः ॥पापं पूरुषदानेन इत्येषा वैदिकी श्रुतिः ॥अन्योऽपि यो नरस्तं च पूजयित्वा प्रभक्तितः ॥प्रयच्छेद्ब्राह्मणेन्द्राय शुद्धये पापपूरुषम् ॥स मुच्येत्पातकाद्घोराद्ब्रह्महत्यासमुद्भवात् ॥७॥दक्षिणामूर्तिमासाद्य प्रोवाचेदं बृहस्पतिः ॥हाटकेश्वरजे क्षेत्रे गत्वा तं वीक्ष्य शंकरम् ॥८॥यो ददाति शरीरं च कृत्वा हेममयं ततः ॥मुच्यते नात्र संदेहः पातकैः पूर्वसंयुतैः ॥९॥ऋषय ऊचुः ॥ब्रह्महत्या कथं जाता सुरेन्द्रस्य हि सूतज ॥एतन्नः सर्वमाचक्ष्व परं कौतूहलं हि नः ॥१०॥कपालेश्वरसंज्ञस्तु कथं देवोऽत्र संस्थितः ॥ब्रह्महत्या कथं नष्टा तत्प्रभावाद्दिवस्पतेः ॥११॥स पापपूरुषो देयो विधिना केन सूतज ॥कैर्मंत्रैः स हि देयः कैश्चैव ह्युपस्करैः ॥१२॥दर्शनात्पूजनाच्चापि किं फलं जायते नृणाम् ॥अदत्त्वा स्वशरीरं वा पूजया केवलं वद ॥१३॥सूत उवाच ॥अहं वः कीर्तयिष्यामि कथामेतां पुरातनीम् ॥यां श्रुत्वापि महाभागा नरः पापात्प्रमुच्यते ॥१४॥अज्ञानाज्ज्ञानतो वापि विहितैरन्यजन्मजैः ॥दृष्टमात्रेण येनात्र पातकात्तद्दिनोद्भवात् ॥मुच्यते नात्र संदेहः सत्यमेतन्मयोदितम् ॥१५॥पुरा त्वष्टुः सुतो जज्ञे वृत्रो हि द्विजसत्तमाः ॥पुलोमदुहितुः पार्श्वाद्विभावर्याः सुवीर्यवान् ॥१६॥स बाल एव धर्मात्मा आसीत्सर्वजनप्रियः ॥दानवं भावमुत्सृज्य द्विजभक्तिपरायणः ॥१७॥स गत्वा पुष्करारण्यं परमेण समाधिना ॥तोषयामास देवेशं पद्मजं तपसि स्थितः ॥१८॥तस्य तुष्टः स्वयं ब्रह्मा दृष्टिगोचरमागतः ॥प्रोवाच वरदोऽस्मीति किं ते कृत्यं करोम्यहम् ॥१९॥वृत्र उवाच ॥यदि तुष्टोसि मे देव ब्राह्मणत्वं प्रयच्छ मे ॥ब्राह्मणत्वं समासाद्य साधयामि परं पदम् ॥२०॥तेन किंचिदसाध्यं न ब्राह्मण्येन भवेन्मम ॥ब्राह्मणेन समं चान्यन्न किंचित्प्रतिभाति मे ॥२१॥परमं दैवतं किंचिन्न विप्राद्विद्यते परम् ॥तस्मान्मे हृत्स्थितं नान्यदपि राज्यं त्रिविष्टपे ॥२२॥सूत उवाच ॥तस्य तद्वचनं श्रुत्वा तुष्टस्तस्य पितामहः ॥ब्राह्मणत्वं स्वयं दत्त्वा ततः प्रोवाच सादरम् ॥२३॥मया त्वं विहितो विप्र पुत्र प्रकुरु वांछितम् ॥प्रसादयस्व सततं ब्राह्मणान्ब्रह्मवित्तमान् ॥२४॥ब्राह्मणैः सुप्रसन्नैश्च प्रीयंते सर्वदेवताः ॥तस्मात्सर्वप्रयत्नेन पूजनीया द्विजोत्तमाः ॥२५॥सूत उवाच ॥एवमुक्तस्तदा तेन वृत्रोऽभूद्ब्राह्मणस्ततः ॥ब्राह्म्या लक्ष्म्या समोपेतो ब्रह्मचर्यपरायणः ॥२६॥तस्मिंस्तपसि संस्थे तु हता इंद्रेण दानवाः ॥वंशोच्छेदे समापन्ने दानवानां महात्मनाम् ॥ततस्ते दानवाः सर्वे पराभूताः सुरैस्ततः ॥स्वं स्थानं संपरित्यज्य दुःखशोकसमन्विताः ॥२८॥तन्मातरं पुरस्कृत्वा तत्सकाशमुपागताः ॥स च तां मातरं दृष्ट्वा वृतां तैश्च समन्वितः ॥२९॥दानवैश्च पराभूतैस्तथाभूतां च मातरम् ॥किमागमनकृत्यं च दुःखितानां ममांतिके ॥३०॥दानवा ऊचुः ॥वयं देवैः पराभूता भवंतं शरणागताः ॥क्व यामोऽन्यत्र चाऽस्माकं त्वां विना नास्ति संश्रयः ॥३१॥तेषां तद्वचनं श्रुत्वा वृत्रः प्रोवाच सादरम् ॥देवानहं हनिष्यामि गम्यतां तत्र मा चिरम् ॥३२॥तवागमनकृत्यं च मातः कथय सांप्रतम् ॥३३॥मातोवाच ॥तथा कुरु महाभाग शीघ्रं दारपरिग्रहम् ॥वंशवृद्धौ प्रमाणं चेद्वाक्यं तव ममोद्भवम् ॥३४॥एष एव परो धर्म एष एव परो नयः ॥पुत्रस्य जननीवाक्यं यत्करोति समाहितः ॥३५॥तथा स्त्रीणां पतिं मुक्त्वा नान्यास्ति भुवि देवता ॥जनन्यां जीवमानायां तथैव च सुतस्य च ॥३६॥अतिक्रम्य च या नारी पतिं धर्मपरा भवेत् ॥तत्सर्वं विफलं तस्या जायते नात्र संशयः ॥३७॥पुत्रः स्वजननीवाक्यं योऽतिक्रम्य यथारुचि ॥करोति धर्मकृत्यानि तानि सर्वाणि तस्य च ॥३८॥भवंति च तथा नूनं वृथा भस्महुतं यथा ॥अरण्ये रुदितानीव ऊषरे वापितानि च ॥३९॥यथैव बधिरस्याग्रे गीतं नृत्यमचक्षुषः ॥तद्वन्मातृमतादन्यकृतं पुत्रस्य धर्मजम् ॥४०॥सर्वं कर्म न संदेहस्तेनाहं त्वामुपागता ॥बंधूनां वचनात्पुत्र दुःखार्ता च विशेषतः ॥४१॥किं वा ते बहुनोक्तेन भूयो भूयश्च पुत्रक ॥आनृण्यं जायते यद्वत्पितॄणां तत्तथा शृणु ॥४२॥तव वत्स प्रमाणं चेत्कुरुष्व च वचो मम ॥तस्यास्तद्वचनं श्रुत्वा वृत्रः संचिंत्य चेतसि ॥४३॥श्रुतिस्मृत्युक्तमार्गेण न मातुर्विद्यते परम् ॥स तथेति प्रतिज्ञाय आनिनाय परिग्रहम् ॥४४॥त्वष्टा तस्मै ददौ प्रीतस्ततो रत्नान्यनेकशः ॥संख्याहीनानि तस्यैव कुप्याकुप्यमनंतकम् ॥४५॥हस्त्यश्वयानकोशाढ्यं सोऽभिषिक्तः पदे निजे ॥दानवानां महावीर्यो ब्राह्मण्येन समन्वितः ॥४६॥अभिषिक्तं तदा वृत्रं स्वराज्ये तेऽसुरादयः ॥श्रुत्वाभिषेकं संहृष्टास्तस्य वृत्रस्य बांधवाः ॥४७॥दानवाश्च समाजग्मुर्ये तत्रासन्पुरोगताः ॥पातालाद्गिरिदुर्गाच्च स्थलदुर्गेभ्य एव च ॥कृतवैराः समं देवैः कोपेन महता वृताः ॥४८॥ततः प्रोत्साहितः सर्वैर्दानवैः स महाबलः ॥प्रस्थितः शत्रुनाशाय महेन्द्रभवनं प्रति ॥४९॥शक्रोऽपि वृत्रमाकर्ण्य समायांतं युयुत्सया ॥सन्मुखः प्रययौ हृष्टः सर्वदेवसमन्वितः ॥५०॥ततः समभवद्युद्धं देवानां दानवैः सह ॥मेरुपृष्ठे सुविस्तीर्णे नित्यमेव दिवानिशम् ॥५१॥नित्यं पराजयो जज्ञे देवानां दानवैः सह ॥तत्रोवाच गुरुः शक्र मा युद्धं कुरु देवप ॥५२॥वृत्रोऽयं दारुणो युद्धे बलद्वयसमन्वितः ॥चत्वारश्चाग्रतो वेदाः पृष्ठतः सशरं धनुः ॥५३॥तेन जेयतमो दैत्यस्तवैव च महाहवे ॥तस्मात्संधानमेतेन त्वं कुरुष्व शचीपते ॥५४॥ततो विश्वासमाया तं जहि वज्रेण दानवम् ॥षडुपायै रिपुर्वध्य इति शास्त्रनिदर्शनम् ॥५५॥भुंजानश्च शयानश्च दत्त्वा कन्यामपि स्वकाम् ॥विप्रदानेन संयोज्य कृत्वापि शपथं गुरुम् ॥मायाप्रपंचमासाद्य तस्मादेवं समाचर ॥५६॥इन्द्र उवाच ॥यद्येवं च स्वयं गत्वा त्वं विश्वासे नियोजय ॥तव वाक्येन विश्वासं नूनं यास्यति दानवः ॥५७॥सूत उवाच ॥शक्रस्य मतमाज्ञाय प्रतस्थे च बृहस्पतिः ॥यत्र वृत्रः स्थितो दैत्यो युद्धार्थं कृतनिश्चयः ॥५८॥वृत्रोऽपि तं समालोक्य स्वयं प्राप्तं बृहस्पतिम् ॥सदैव द्विजभक्तः स हृष्टात्मा समपद्यत ॥विशेषात्प्रणिपत्योच्चैर्वाक्यमेतदभाषत ॥५९॥वृत्र उवाच ॥स्वागतं ते द्विजश्रेष्ठ किं करोमि प्रशाधि माम् ॥प्रिया मे ब्राह्मणा यस्मात्तस्मात्कीर्तय सांप्रतम् ॥६०॥बृहस्पतिरुवाच ॥ संदिग्धो विजयो युद्धे यस्माद्दैवेन सत्तम ॥तस्मात्कुरु महेंद्रेण व्यवस्थां वचनान्मम ॥६१॥त्वं भुंक्ष्व भूतलं कृत्स्नं शक्रश्चापि त्रिविष्टपम् ॥व्यवस्थयाऽनया नित्यं वर्तितव्यं परस्परम् ॥६२॥वृत्र उवाच ॥अहं तव वचो ब्रह्मन्करिष्यामि सदैव हि ॥संगमं कुरु शक्रेण सांप्रतं मम सद्द्विज ॥६३॥सूत उवाच ॥अथ शक्रं समानीय बृहस्पतिरुदारधीः ॥वृत्रेण सह संधानं चक्रे चैव परस्परम् ॥६४॥एकारिमित्रतां गत्वा तावुभौ दैत्यदेवपौ ॥प्रहृष्टौ गतवन्तौ तौ ततश्चैव निजं गृहम् ॥६५॥अथ शक्रच्छलान्वेषी सदा वृत्रस्य वर्तते ॥न च्छिद्रं लभते क्वापि वीक्षमाणोपि यत्नतः ॥६६॥कथंचिदपि सोऽभ्येति तत्सकाशं पुरंदरः ॥किंचिच्छिद्रं समासाद्य तत्प्रतापेन दह्यते ॥६७॥इंद्र उवाच ॥न शक्नोमि च तं दैत्यं वीक्षितुं च कथंचन ॥तेजसा सर्वतो व्याप्तं तत्कथं सूदयाम्यहम् ॥६८॥तस्मात्कंचिदुपायं मे तद्वधार्थं प्रकीर्तय ॥यथा शक्नोमि तत्सोढुं तेजस्तस्य दुरात्मनः ॥६९॥सूत उवाच ॥तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा बृहस्पतिः ॥ततः प्रोवाच तं शक्रं विनयावनतं स्थितम् ॥७०॥बृहस्पतिरुवाच ॥तस्य ब्राह्म्यं स्थितं तेजः सम्यग्गात्रे पुरंदर ॥वीक्षितुं नैव शक्नोषि तेन त्वं त्रिदशाधिप ॥७१॥तथा ते कीर्तयिष्यामि तस्योपायं वधोद्भवम् ॥वधयिष्यसि येनात्र तं त्वं दानवसत्तमम् ॥७२॥प्राचीसरस्वतीतीरे पुष्करारण्यमाश्रितः ॥दधीचिर्नाम विप्रर्षिः शतयोजनमुच्छ्रितः ॥७३ ॥.तत्र नित्यं तपः कुर्वन्स्तौति नित्यं पितामहम् ॥स निर्विण्णो मुनिश्रेष्ठः प्राणानां धारणे हरे ॥७४॥चिरंतनो मुनिः स स्याज्जरयातिसमावृतः ॥तं प्रार्थय द्रुतं गत्वा तस्यास्थीनि गुरूणि च ॥७५॥स ते दास्यस्त्यसंदिग्धं त्यक्त्वा प्राणानतिप्रियान् ॥तस्यास्थिभिः प्रहरणं वज्राख्यं ते भविष्यति ॥७६॥अमोघं ते ततो नूनं त्वं वृत्रं सूदयिष्यसि ॥तस्य वज्रस्य तत्तेजो ब्रह्मतेजोऽभिबृंहितम् ॥तेन वृत्रोद्भवं तेजः प्रशमं संप्रयास्यति ॥७७॥सूत उवाच ॥तच्छ्रुत्वा सत्वरं शक्रः सर्वैर्दैवगणैः सह ॥जगाम पुष्करारण्ये यत्र प्राची सरस्वती ॥७८॥त्रयस्त्रिंशत्समोपेता तीर्थानां कोटिभिर्युता ॥दधीचेराश्रमं तत्र सोऽविशच्चित्रसंयुतम् ॥७९॥क्रीडंते नकुलैः सर्पा यत्र तुष्टिं गता मिथः ॥मृगाः पंचाननैः सार्धं वृषदंशास्तथाऽऽखुभिः ॥८०॥उलूक सहिताः काका मिथो द्वेषविवर्जिताः ॥प्रभावात्तस्य तपसो दधीचेः सुमहात्मनः ॥८१॥दधीचिरपि चालोक्य देवाञ्छक्रपुरोगमान् ॥समायातान्प्रहृष्टात्मा सत्वरं संमुखोभ्यगात् ॥८२॥ततश्चार्घ्यं समादाय प्रणिपत्य मुहुर्मुहुः ॥शक्रमभ्यागतं प्राह किं ते कृत्यं करोम्यहम् ॥८३॥गृहायातस्य देवेश तच्छीघ्रं मे निवेदय ॥८४ ॥.इंद्र उवाच ॥आतिथ्यं कुरु विप्रेंद्र गृहायातस्य सन्मुने ॥त्वदस्थीनि निजान्याशु मम देह्यविकल्पितम् ॥८५॥अतदर्थमहं प्राप्तस्त्वत्सकाशं मुनीश्वर ॥अस्थिभिस्ते परं कार्यं देवानां सिद्धिमेष्यति ॥८६॥सूत उवाच ॥इंद्रस्य तद्वचः श्रुत्वा दधीचिस्तोषसंयुतः ॥ततः प्राह सहस्राक्षं सर्वैर्देवैः समन्वितम् ॥८७॥अहो नास्ति मया तुल्यः सांप्रतं भुवि कश्चन ॥पुण्यवान्यस्य देवेशः स्वयमर्थी गृहागतः ॥८८॥धन्यानि च ममास्थीनि यानि देवेश ते हितम् ॥करिष्यंति सदा कार्यं रक्षार्थं त्रिदिवौकसाम् ॥८९॥एषोऽहं संप्रदास्यामि प्रियान्प्राणान्कृते तव ॥गृहाण स्वेच्छयाऽस्थीनि स्वकार्यार्थं पुरंदर ॥९०॥एवमुक्त्वा महर्षिः स ध्यानमाश्रित्य सत्वरम् ॥ब्रह्मरंध्रेण निःसार्य प्राणमात्मानमत्यजत् ॥९१॥तदात्मना परित्यक्तं तस्य गात्रं च तत्क्षणात् ॥पतितं मेदनीपृष्ठे व्यसु तद्द्विजसत्तमाः ॥९१॥तस्मिन्नेव काले तु तस्यास्थीनि शतक्रतुः ॥प्रगृह्य विश्वकर्माणं ततः प्रोवाच सादरम् ॥९३॥एतैरस्थिभिः शीघ्रं मे कुरु त्वं वज्रमायुधम् ॥येन व्यापादयाम्याशु वृत्रं दानवसत्तमम् ॥९४॥तस्य तद्वचनं श्रुत्वा विश्वकर्मा त्वरान्वितः ॥यथायुधं तथा चक्रे वज्राख्यं दारुणाकृति ॥९५॥षडस्रि शतपर्वाख्यं मध्ये क्षामं विभीषणम् ॥प्रददौ च ततस्तस्मै सहस्राक्षाय धीमते ॥९६॥अथ तं स समादाय द्वादशार्कसमप्रभम् ॥समाधिस्थं चरैर्ज्ञात्वा वृत्रं संध्यार्चने रतम् ॥९७॥ततश्च पृष्ठभागं स समाश्रित्य त्रिलोकराट् ॥चिक्षेप वज्रमुद्दिश्य तद्वधार्थं समुत्सुकः ॥९८॥स हतस्तेन वज्रेण दानवो भस्मसाद्गतः ॥शक्रोपि हतमज्ञात्वा भयात्तस्याथ दुद्रुवे ॥९९॥मनुष्यरहिते देशे विषमे गुल्मसंवृते ॥लिल्ये शक्रस्तदा सर्वं मेने वृत्रमयं जगत् ॥१००॥एतस्मिन्नंतरे देवाः पश्यंतः सर्वतो दिशम् ॥सिद्धचारणगन्धर्वा आजग्मुश्च शतक्रतुम् ॥१०१॥ततः कृच्छ्राच्च तैर्दृष्टः शक्रोऽसौ गहने वने ॥निलीनो भयसंत्रस्तो गुल्ममध्ये व्यवस्थितः ॥१०२॥देवा ऊचुः ॥किं त्वं भीतः सहस्राक्ष वृत्रोऽयं घातितस्त्वया ॥परिवारेण सर्वेण वीक्षितोऽस्माभिरेव च ॥१०३॥अस्मादागच्छ गच्छामो गृहं प्रति पुरंदर ॥कुरु त्रैलोक्यराज्यं त्वं सांप्रतं हतकण्टकम् ॥१०४॥तच्छ्रुत्वाऽथ विनिष्क्रांतो गुल्ममध्याच्छतक्रतुः ॥हृष्टरोमा हतं श्रुत्वा वृत्रं दानवसत्तमम् ॥अथ पश्यंति यावत्तं देवाः सर्वे शतक्रतुम् ॥तावत्तेजोविहीनं तद्गात्रं दुर्गंधितायुतम् ॥१०६॥दृष्ट्वा लोकगुरुर्ब्रह्मा देवान्सर्वानुवाच ह ॥शक्रोऽयं सांप्रतं व्याप्तः पापया ब्रह्महत्यया ॥१०७॥यदनेन हतो वृत्रो ब्रह्मभूतश्छलेन सः ॥तस्मात्त्याज्यः सुदूरेण नो चेत्पापमवाप्स्यथ ॥१०८॥ब्रह्मघ्नेन समं स्पर्शः संभाषोऽथ विनिर्मितः ॥पापाय जायते पुंसां तस्मात्तं दूरतस्त्यजेत् ॥१०९॥आस्तां संस्पर्शनं तस्य संभाषो वा विशेषतः ॥दर्शनं वापि तस्याहुः सर्वपापप्रदं नृणाम् ॥११०॥सूत उवाच ॥.तच्छ्रुत्वा ब्रह्मणो वाक्यं शक्रो दृष्ट्वाऽऽत्मनस्तनुम् ॥तेजसा संपरित्यक्तां दुर्गन्धेन समावृताम् ॥१११॥ततः प्रोवाच लोकेशं दीनः प्रणतकन्धरः ॥तवाहं किंकरो देव त्वयेंद्रत्वे नियोजितः ॥११२॥तस्मात्कुरु प्रसादं मे ब्रह्महत्याविनाशनम् ॥प्रायश्चित्तं विभो ब्रूहि येन शुद्धिः प्रजायते ॥११३ ॥ब्रह्मोवाच ॥अष्टषष्टिषु तीर्थेषु त्वं स्नात्वा बलसूदन ॥आत्मानं हेमजं देहि पापपूरुषसंज्ञितम् ॥११४॥मंत्रवत्तं यथोक्तं च ब्राह्मणाय महात्मने ॥स्नात्वा पुण्यजले तीर्थे ब्रह्मघ्नोऽहमिति ब्रुवन् ॥११५॥स्नातमात्रस्य ते हस्ताद्यत्र तत्पतति क्षितौ ॥तेजः संजायतेगात्रे दुर्गंधश्च प्रणश्यति ॥११६॥तस्मिंस्तीर्थे त्वया तच्च स्थाप्यं शक्र कपालकम् ॥महेश्वरस्य नाम्ना च पूजनीयं ततः परम् ॥११७॥पंचभिर्वक्त्रमंत्रैश्च ततो देयाऽऽत्मतस्तनूः ॥हेमोद्भवा द्विजेन्द्राय ततः शुद्धिमवाप्स्यसि ॥११८॥शक्रस्तु तद्वचः श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः ॥कपालं वृत्रजं गृह्य तीर्थयात्रां ततो गतः ॥११९॥अष्टषष्टिषु तीर्थेषु गच्छन्स च सुरेश्वरः ॥हाटकेश्वरजे क्षेत्रे समायातः क्रमेण च ॥१२०॥विश्वामित्रह्रदे स्नात्वा यावत्तस्माद्विनिर्गतः ॥कपालं पतितं तस्मात्स्वयमेव हतात्मनः ॥१२१॥ततस्तं पूजयामास मन्त्रैर्वक्त्रसमुद्भवैः ॥सर्वपापहरैः पुण्यैर्यथोक्तैर्ब्रह्मणा पुरा ॥१२२॥एतस्मिन्नेव काले तु दुर्गन्धो नाशमाप्तवान् ॥तच्छरीराद्द्विजश्रेष्ठा महत्तेजो व्यजायत ॥१२३॥एतस्मिन्नन्तरे ब्रह्मा सह देवैः समागतः ॥ब्रह्महत्याविमुक्तं तं ज्ञात्वा सर्वसुराधिपम् ॥१२४॥श्रीब्रह्मोवाच ॥ब्रह्महत्याकृतो दोषो गतस्ते सुरसत्तम ॥शेषपापविशुद्ध्यर्थं स्वर्णदानं प्रयच्छ भोः ॥१२५॥कपालमेतद्देशेऽत्र यत्त्वया परिपूजितम् ॥वृत्रस्य पंचभिर्मंत्रैर्हरवक्त्रसमुद्भवैः ॥१२६॥प्रदास्यसि ततो भक्त्या हेमजामात्मनस्तनुम् ॥विधिना मंत्रयुक्तेन तव पापं प्रयास्यति ॥यद्यत्पूर्वकृतं कृत्स्नं प्रदाय ब्राह्मणाय भोः ॥१॥एवमुक्तस्ततः शक्रो ब्रह्मणा सुरसंनिधौ ॥तथेत्युक्त्वा तु तत्कालं पापपिंडं निजं ददौ ॥१२८॥कृत्वा हेममयं विप्रा ब्राह्मणाय महात्मने ॥गर्तातीर्थसमुत्थाय वाताख्यायाहिताग्नये ॥१२९॥एतस्मिन्नंतरे विप्रो गर्हितः सोऽथ नागरैः ॥.धिग्धिक्पाप वृथा वेदा ये त्वया पारिताः पुरा ॥१३०॥नास्माभिः सह संपर्कं कदाचित्त्वं करिष्यसि ॥गृहीतं यत्त्वया दानं पापपिंडसमुद्भवम् ॥१३१॥ततः प्रोवाच विप्रः स उपमन्युकुलोद्भवः ॥विवर्णवदनो भूत्वा नाम्ना ख्यातः स वातकः ॥१३२॥त्वया शक्र प्रदत्तो मे पापपिंडः स्वको यतः ॥मया प्रतिग्रहस्तेन दाक्षिण्येन कृतस्तव ॥१३३॥न लोभेन सुरश्रेष्ठ पश्यतस्ते विगर्हितः ॥अहं च ब्राह्मणैः सर्वैरेतैर्नगरवासिभिः ॥१३४॥तस्मान्नाहं ग्रहीष्यामि एतं तव प्रतिग्रहम् ॥१३५॥भूयोऽपि तव दास्यामि न त्वं गृह्णासि चेत्पुनः ॥ ब्रह्मशापं प्रदास्यामि दारुणं च क्षयात्मकम् ॥१३६॥इंद्र उवाच ॥वेदागंपारगो विप्रो यदि कुर्यात्प्रतिग्रहम् ॥न स पापेन लिप्येत पद्मपत्रमिवांभसा ॥१३७॥तस्मात्ते पातकं नास्ति शृणुष्वात्र वचो मम ॥एतैस्त्वं गर्हिते यस्माद्ब्राह्मणैर्नगरोद्भवैः ॥१३८॥एतेषां सर्वकृत्येषु प्रधानस्त्वं भविष्यसि ॥एतेषां पुत्रपौत्रा ये भविष्यंति तथा तव ॥१३९॥ते सर्वे चाज्ञया तेषां वर्तयिष्यंत्यसंशयम् ॥युष्मद्वाक्यविहीनं यत्कृत्यं स्वल्पमपि द्विज ॥१४०॥तेषां संपत्स्यते वन्ध्यं यथा भस्महुतं तथा ॥कपालमोचनं नाम ख्यातमेतद्भविष्यति ॥१४१॥ये तु संस्मृत्य मनुजाः कपालं मम सद्द्विज ॥तत्र श्राद्धं करिष्यंति ते नरा मुक्तिसंयुताः ॥श्राद्धपक्षे विशेषेण प्रयास्यंति परांगतिम् ॥१४२॥स्थानबाह्यद्विजातीनां कुले दारपरिग्रहम् ॥कृत्वा त्वद्गोत्रसंभूता ब्राह्मणा मत्प्रसादतः ॥१४३॥व्यवहार्या भविष्यंति नगरे सर्वकर्मसु ॥एवमुक्त्वा सहस्राक्षस्ततश्चादर्शनं गतः ॥१४४॥वातोपि तेन वित्तेन प्रतिग्रहकृतेन च ॥चकार तत्र प्रासादं देवदेवस्य शूलिनः ॥ततः प्रोवाच शक्रस्तान्ब्राह्मणान्नगरोद्भवान् ॥कपालमोचने स्नात्वा यो देवं ह्यर्चयिष्यति ॥१४६॥ब्रह्महत्योद्भवं पापं तस्य नश्यत्यसंशयम् ॥महापातकयुक्तो वा विपाप्मा संभविष्यति ॥१४७॥स तथेति प्रतिज्ञाय ब्राह्मणान्नगरोद्भवान् ॥तत्रैव स्वाश्रमं कृत्वा पूजयामास शंकरम् ॥१४८॥ततःप्रभृति यत्किंचित्तेषां कृत्यं प्रजायते ॥तद्वाक्येन प्रकुर्वंति तत्र ये नागरः स्थिताः ॥१४९॥एतस्मात्कारणाज्जातो मध्यगो द्वितीयस्त्विह ॥१५०॥एतद्वः सर्वमाख्यातमाख्यानं पापनाशनम् ॥कपालेश्वरदेवस्य शृण्वतां पठतां नृणाम् ॥१५१॥यथा देवेश्वरस्यात्र पापं नष्टं महात्मनः ॥ब्रह्महत्या यथा नष्टा तस्मिंस्तीर्थे द्विजोत्तमाः ॥१५२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वातकेश्वरक्षेत्रकपालमोचनेश्वरोत्पत्तिमाहात्म्यवर्णनं नामैकोनसप्तत्युत्तरद्विशततमोऽध्यायः ॥२६९॥ N/A References : N/A Last Updated : January 06, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP