संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २६६ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २६६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २६६ Translation - भाषांतर ऋषय ऊचुः ॥श्रुतानि मुख्यतीर्थानि तत्क्षेत्रप्रोद्भवानि च ॥येषु स्नातो नरः स्म्यक्सर्व तीर्थफलं लभेत् ॥१॥लिंगानि च महाभाग तत्र मुख्यानि यानि च ॥यैर्दृष्टैर्लभ्यते श्रेयः सर्वेषां तानि नो वद ॥२॥सूत उवाच ॥तत्र च मंकणाख्यं तु लिंगमस्ति सुशोभनम् ॥तथा सिद्धेश्वरं नाम गौतमेश्वरसंयुतम् ॥३॥कपालेश्वमन्यच्च चतुर्थं परिकीर्तितम् ॥एकैकं सर्वलिंगानां फलं यच्छत्यसंशयम् ॥यथोक्तविधिना सम्यग्यथोक्तं द्विजसत्तमाः ॥४॥तत्र तावत्प्रवक्ष्यामि मंकणेश्वरजं फलम् ॥मकाराक्षरयुक्तस्य लिंगस्यात्र द्विजोत्तमाः ॥५॥शिवरात्रिं समासाद्य यस्तस्य पुरुषो द्विजाः ॥कुर्याज्जागरणं रात्रौ निराहारः स्थितः शुचिः ॥६॥सर्वलिंगोद्भवं चैव फलं दर्शनसंभवम् ॥जायते नात्र संदेह इत्युवाच हरः स्वयम् ॥७॥ऋषय ऊचुः ॥शिवरात्रिर्महाभाग कस्मिन्काले तु सा भवेत् ॥विध्यानं चैव माहात्म्यं सर्वं नो विस्तराद्वद ॥८॥सूत उवाच ॥ माघस्य कृष्णपक्षे या तिथिश्चैव चतुर्दशी ॥तस्या रात्रिः समाख्याता शिवरात्रिसमुद्भवा ॥९॥तस्यां सर्वेषु लिंगेषु सदा संक्रमते हरः ॥विशेषात्सर्वपुण्येषु ख्यातेयं मंकणेश्वरे ॥१०॥ऋषय ऊचुः ॥शिवरात्रिः कथं जाता केनैषा च विनिर्मिता ॥कस्माद्बहुफला जाता सर्वं नो विस्तराद्वद ॥११॥सूत उवाच ॥अत्र वः कीर्तयिष्यामि पूर्ववृत्तं कथानकम् ॥भर्तृयज्ञस्य संवादमश्वसेनस्य भूपतेः ॥१२॥आनर्ताधिपतिः पूर्वमश्वसेन इति स्मृतः ॥आसीद्धर्मपरो नित्यं वेदवेदागंपारगः ॥१३॥भर्तृयज्ञः पुरा तेन इदं पृष्टः कुतूहलात् ॥कलिकालं समुद्वीक्ष्य वर्धमानं दिनेदिने ॥१४॥अश्वसेन उवाच ॥कलिकालकृते किंचिद्व्रतं मे वद सन्मुने ॥स्वल्पायासं महत्पुण्यं सर्वपापप्रणाशनम् ॥१५॥स्वल्पायुषः सदा मर्त्या ब्रह्मन्कृतयुगे पुरा ॥त्रेतायां द्वापरे चैव किमु प्राप्ते कलौ युगे ॥१६ ॥तस्माद्वर्षव्रतं त्यक्त्वा किंचिदेकाह्निकं वद ॥१७॥श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ॥न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् ॥१८ ॥तस्य तद्वचं श्रुत्वा भर्तृयज्ञ उदारधीः ॥अब्रवीत्सुचिरं ध्यात्वा ज्ञात्वा दिव्येन चक्षुषा ॥१९॥अस्ति राजन्व्रतं पुण्यं शिवरात्रीतिसंज्ञितम् ॥एकाह्निकं महाराज सर्वपातकनाशनम् ॥२०॥तत्र यद्दीयते दानं हुतं जप्तं तथैव च ॥सर्वमक्षयतां याति रात्रि जागरणे कृते ॥२१॥अपुत्रो लभते पुत्रानधनो धनमाप्नुयात् ॥स्वल्पायुर्दीर्घमायु्ष्यं शत्रूणां चैव संक्षयम् ॥२२॥यंयं काममभिध्यायन्व्रतमेतत्समाचरेत् ॥तंतं समाप्नुयान्मर्त्यो निष्कामो मोक्षमाप्नुयात् ॥२३॥कार्पण्येनाथ वित्तेन यदि कुर्यात्प्रजागरम् ॥तथा वर्षकृतात्पापान्मुच्यते नात्र संशयः ॥२४॥यानि कान्यत्र लिंगानि स्थावराणि चराणि च ॥तेषु संक्रमते देवस्तस्यां रात्रौ यतो हरः ॥२५॥शिवरात्रिस्ततः प्रोक्ता तेन सा हरवल्लभा ॥प्रार्थितः स सुरैः सर्वैर्लोकानुग्रहकाम्यया ॥२६॥भगवन्कलिकालेऽस्मिन्सर्वपापसमन्विते ॥वर्षपापविशुद्ध्यर्थं दिनमेकं क्षितौ व्रज ॥येन त्वत्पूजया पूता मर्त्याः शुद्धिमवाप्नुयुः ॥ततो दत्तं हुतं तेषामस्माकमुपतिष्ठति ॥यदुच्छिष्टं नरैर्दत्तं तद्वृथा जायतेऽखिलम् ॥२८॥कलिकाले न चास्माकं किंचिदेवोपतिष्ठति ॥अशुद्धैर्मानवैर्दत्तं प्रभूतमपि शंकर ॥२९॥श्रीभगवानुवाच ॥माघमासस्य कृष्णायां चतुर्दश्यां सुरेश्वर ॥अहं यास्यामि भूपृष्ठे रात्रौ नैव दिवा कलौ ॥३०॥लिंगेषु च समस्तेषु चलेषु स्थावरेषु च ॥संक्रमिष्याम्यसंदिग्धं वर्षपापविशुद्धये ॥३१॥तस्यां रात्रौ हि मे पूजां यः करिष्यति मानवः ॥मंत्रैरेतैः सुरश्रेष्ठ विपाप्मा स भविष्यति ॥३२॥ॐ सद्योजाताय नमः ॥ॐ वामदेवाय नमः ॥ॐ घोराय नमः ॥ॐ तत्पुरुषाय नमः ॥ॐ ईशानाय नमः ॥एवं वक्त्राणि संपूज्य गन्धपुष्पानुलेपनैः ॥वस्त्रैर्दीपैश्च नैवेद्यैस्ततोऽर्घं संप्रदापयेत् ॥मंत्रेणानेन संपूज्य मां ध्यात्वा मनसि स्थितम् ॥३३॥गौरीवल्लभ देवेश सर्वाद्य शशिशेखर ॥वर्षपापविशुद्ध्यर्थमर्घो मे प्रतिगृह्यताम् ॥३४ ॥ततः संपूजयेद्विप्रं भोजनाच्छादनादिभिः ॥दत्त्वाथ दक्षिणां तस्मै वित्तशाठ्यं विवर्जयेत् ॥३५॥धर्माख्यानकथाभिश्च सलास्यैस्तांडवैस्तथा ॥३६॥एवं करिष्यते योऽत्र व्रतमेतत्सुरेश्वर ॥वर्षपापविशुद्ध्यर्थं प्रायश्चित्तं भविष्यति ॥३७॥तच्छ्रुत्वा त्रिदशाः सर्वे प्रणम्य शशिशेखरम् ॥संप्रहृष्टा नरश्रेष्ठ स्वानि स्थानानि भेजिरे ॥३८॥प्रेषयामासुरुर्व्यां च नारदं मुनिसत्तमम् ॥प्रबोधनाय लोकानां शिवरात्रिकृते सदा ॥३९॥सोऽपि गत्वा धरापृष्ठं श्रावयामास सर्वतः ॥शिवरात्रेस्तु माहात्म्यं यदुक्तं शूलपाणिना ॥४०॥ततः प्रभृति संजाता शिवरात्रिर्धरातले ॥सर्वकामप्रदा पुण्या सर्वपातकनाशिनी ॥४१॥अत्र वः कीर्तयिष्यामि पुरावृत्तं कथानकम् ॥यद्वृत्तं नैमिषारण्ये लुब्धकस्यात्र कस्यचित् ॥४२॥तत्रासील्लुब्धकः कश्चिज्जातिमात्रान्न कर्मतः ॥व्यसेनानाभिभूतात्मा परवित्तापहारकः ॥४३ ॥न कदाचिद्व्रतं तेन न दत्तं न जपः कृतः ॥केवलं च हृतं वित्तं लोकानां छलसंश्रयात् ॥४४॥कस्यचित्त्वथ कालस्य शिवरात्रिः समागता ॥माघमासेऽसितेपक्षे सर्वपातकनाशिनी ॥४५॥तत्रास्त्यायतनं पुण्यं देवदेवस्य शूलिनः ॥तत्र जागरणं रात्रौ प्रारब्धं बहुभिर्ज्जनैः ॥४६॥नारीभिर्नरशार्दूल भूषिताभिः सुभूषणैः ॥अथासौ चिंतयामास चोरो दृष्ट्वाथ जागरम् ॥४७॥गच्छामि यदि कांचित्स्त्रीं भूषणैः परिभूषिताम् ॥निष्क्रांतां बाह्यतश्चास्य प्रासादस्याप्नुयामहम् ॥४८॥ततो हत्वा समादाय भूषणानि व्रजाम्यहम् ॥४९ ॥एवं निश्चित्य मनसा गतस्तस्य समीपतः ॥कर्णिकारं समारुह्य स्थितो गुप्तस्ततो हि सः ॥५०॥वीक्षमाणो दिशः सर्वा नारीनिष्क्रामणोद्भवाः ॥चौरकर्मप्रवृत्तस्य शीतार्तस्य विशेषतः ॥५१॥अल्पापि निद्रा नायाता न च नारी विनिर्गता ॥तस्याधस्तात्ततो लिंगमभवत्तु धरोद्भवम् ॥गत्वा च पत्राण्यादाय प्रचिक्षेपास्य चोपरि ॥५२॥एतस्मिन्नेव काले तु प्रोद्गतस्तीक्ष्णदीधितिः ॥असतीनां च चौराणां कामिनामसुखावहः ॥५३॥ततो नराश्च नार्यश्च जग्मुः स्वंस्वं निकेतनम् ॥उपचारपराः शांताः प्रणिपत्य महेश्वरम् ॥५४॥सोऽपि चौरो निराशश्च क्षुत्क्षामः शीतविह्वलः ॥अवतीर्य द्रुमात्तस्मादुपायं कंचिदाश्रितः ॥५५॥ततः कालेन महता पंचत्वं समपद्यत ॥जातो जातिस्मरः सोऽथ दशार्णाधिपतेर्गृहे ॥५६॥उपवासप्रभावेन बलादपि प्रजागरात् ॥शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया ॥५७॥ततो राज्यं समासाद्य पितृपैतामहं महत् ॥कारयामास लिंगस्य प्रासादं तस्य शोभनम् ॥५८॥वर्षेवर्षे समाश्रित्य शिवरात्रौ प्रजागरात् ॥उपवासपरोभूत्वा गीतवादित्रनिःस्वनैः ॥५९॥धर्माख्यानकथाभिश्च गीतध्वनिभिरेव च ॥पूर्वोक्तमंत्रैः संपूज्य अर्घं दत्त्वा विधानतः ॥संतर्प्य ब्राह्मणान्कामैर्जगाम निलयं निजम् ॥६०॥कस्यचित्त्वथ कालस्य शिवरात्रौ समागताः ॥प्रासादे तत्र मुनयः प्राप्ता शाण्डिल्यपूर्वकाः ॥६१॥शांडिल्योऽथ भरद्वाजो यवक्रीतोऽथ गालवः ॥पुलस्त्यः पुलहो गार्ग्यस्तथान्ये बहवो नृप ॥६२॥सोऽपि राजा बृहत्सेनो दशार्णाधिपतेः सुतः ॥संप्राप्तो जागरं कर्तुं तस्य लिंगस्य चाग्रतः ॥६३॥पूजयित्वा ततो देवं प्रणिपत्य मुनीश्वरान् ॥उपविष्टस्तस्य चाग्रे ह्यनुज्ञातो द्विजोत्तमैः ॥६४॥ततस्तस्याग्रतश्चक्रुः कथास्ते बहुधा नृप ॥राजर्षीणामतीतानां ब्रह्मर्षीणां विशेषतः ॥६५॥अथ कस्मिन्कथांते स तैः पृष्टो ब्रह्मवादिभिः ॥कौतुकाविष्टचित्तैश्च विस्मयोत्फुल्ललोचनैः ॥६६॥राजन्पृच्छामहे सर्वे वयं कौतूहलान्विताः ॥यदि ब्रवीषि नः सत्यं देवतायतने स्थितः ॥६७॥राजोवाच ॥यदि ज्ञास्यामि विप्रेंद्राः कथयिष्याम्यसंशयम् ॥देवस्याग्रे च संपृष्टः सत्येनात्मानमालभे ॥६८॥ऋषय ऊचुः ॥पुष्कलानि परित्यज्य कस्माद्दानान्यनेकशः ॥जागरं कर्तुकामोऽत्र स्वदेशादुपतिष्ठसि ॥६९॥वर्षेवर्षे सदा प्राप्ते नूनं त्वं वेत्सि कारणम् ॥रहस्यं यदि ते न स्यात्तद्ब्रवीहि नराधिप ॥७०॥सूत उवाच ॥सवैलक्ष्यं स्मितं कृत्वा ततः प्राह स दुर्मनाः ॥रहस्यं परमं ह्येतदवाच्यं हि द्विजोत्तमाः ॥७१॥तथापि च वदिष्यामि पृष्टो देवाग्रतो यतः ॥७२॥ततः स कथयामास पूर्वदेहसमुद्भवम् ॥मलिम्लुचस्ततो नूनं शिवरात्रिसमुद्भवम् ॥७३॥चौर्यभावेन देवस्य पूजनं जागरस्तथा ॥उपवासं विना तेन शिवरात्रौ पुरा कृतम् ॥७४॥जातिस्मरणसंयुक्तं जन्मजातं यथातथम् ॥ततस्ते मुनयः सर्वे साधुवादान्पृथग्विधान् ॥७५॥नृपोत्तमस्य राजर्षेर्दत्त्वाशीर्भिः समन्वितान् ॥रात्रौ जागरणं कृत्वा प्रजग्मुस्ते निजाश्रमान् ॥७६॥सोऽपि राजासमभ्यर्च्य तं देवं तान्द्विजोत्तमान् ॥जगाम स्वपुरं पश्चात्कृत्वा रात्रौ प्रजागरम् ॥७७॥भर्तृयज्ञ उवाच ॥शिवरात्रिः समुत्पन्ना एवं भूमितले नृप ॥एवंविधं च माहात्म्यं तस्यास्ते परिकीर्तितम् ॥७८॥तस्मात्सर्वप्रयत्नेन कार्या स नृपसत्तम ॥कलिकाले विशेषेण य इच्छेद्भूतिमात्मनः ॥७९॥एषा कृता दिलीपेन नलेन नहुषेण च ॥मान्धात्रा धुंधुमारेण सगरेण युयुत्सुना ॥८०॥तथान्यैश्च विशेषेण सम्यक्छ्रद्धासमन्वितैः ॥प्राप्ताश्च हृद्गताः कामा ये दिव्या ये च मानुषाः ॥८१॥तथा चैव तु सावित्र्या श्रिया देव्या तु सीतया ॥अरुंधत्या सरस्वत्या मेनया रंभया तथा ॥८२॥इंद्राण्याथ दृषद्वत्या स्वधया स्वाहया तथा ॥रत्या प्रीत्या प्रभावत्या गायत्र्या च नृपोत्तम ॥सर्वाः प्राप्ताः प्रियान्कामानतिसौभाग्यसंयुतान् ॥८३॥यश्चैतां पठते व्युष्टिं भावेन शिवसंनिधौ ॥दिनजात्पातकात्सोऽपि मुच्यते नात्र संशयः ॥८४॥नास्ति गंगासमं तीर्थं नास्ति देवो हरोपमः ॥शिवरात्रेः परं नास्ति तपः सत्यं मयोदितम् ॥८५॥सर्वरत्नमयो मेरुः सर्वाश्चर्यमयं तपः ॥सर्वधर्ममयी राजञ्छिवरात्रिः प्रकीर्तिताः ॥८६॥गरुडः पक्षिणां यद्वन्नदीनां सागरो यथा ॥प्रधानः सर्वधर्माणां शिवरात्रिस्तथोत्तमा ॥८७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शिवारात्रिमाहात्म्यवर्णनं नाम षट्षष्ट्युत्तरद्विशततमोऽध्यायः ॥२६६॥ N/A References : N/A Last Updated : January 06, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP