संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १९९ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १९९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १९९ Translation - भाषांतर ऋषय ऊचुः ॥तिस्रःकोट्योर्धकोटी च तीर्थानामिह भूतले ॥श्रूयते सूत कार्त्स्न्येन कीर्त्यमाना मुनीश्वरैः ॥१॥कथं लभ्येत सर्वेषां तीर्थानां स्नानजं फलम् ॥अल्पायुर्भिर्महाभाग कलिकाल उपस्थिते ॥२॥ ॥सूत उवाच ॥क्षेत्रत्रयमिहाख्यातं तथारण्यत्रयं महत् ॥पुरीत्रयं वनान्येव त्रीणि ग्रामास्तथात्रयः ॥३॥तथा तीर्थत्रयं चान्यत्पर्वतत्रितयान्वितम् ॥महानदीत्रयं चैव सर्वपातकनाशनम् ॥४॥मर्त्यलोकेस्थितं विप्राः सर्वतीर्थफलप्रदम् ॥सर्वेष्वेतेषु यः स्नाति स सर्वेषां फलं लभेत् ॥५॥चतुर्विंशतिसंख्यानामिदमाह प्रजापतिः ॥य एकस्मिंस्त्रिके स्नाति सर्व त्रिकफलं लभेत् ॥६॥ ॥ ऋषय ऊचुः ॥त्रीणि क्षेत्राणि कानीह तथारण्यानि कानि च ॥पुर्यस्तिस्रो महाभाग काःख्याताश्च वनानि च ॥७॥के ग्रामाः कानि तीर्थानि के नगाः सरितश्च काः ॥नामभिर्वद नः सूत सर्वाण्येतानि विस्तरात् ॥८॥ ॥ सूत उवाच ॥कुरुक्षेत्रमिति ख्यातं प्रथमं क्षेत्रमुत्तमम् ॥हाटकेश्वरजं क्षेत्रं द्वितीयं परिकीर्तितम् ॥९॥प्राभासिकं तृतीयं तु क्षेत्रं हि द्विजसत्तमाः ॥एतत्क्षेत्रत्रयं पुण्यं सर्वपातकनाशनम् ॥१०॥यथोक्तविधिना दृष्ट्वा नरः पापात्प्रमुच्यते ॥यो यं काममभिध्यायन्क्षेत्रेष्वेतेषु भक्तितः ॥११॥स्नानं करोति तस्येष्टं मनसो जायते फलम् ॥चतुर्विंशतिमानेषु स्नातो भवति स द्विजाः ॥१२॥एकं तु पुष्करारण्यं नैमिषारण्यमेव च ॥धर्मारण्यं तृतीयं तु तेषां संकीर्त्यते द्विजाः ॥१३॥त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत् ॥१४॥वाराणसी पुरीत्येका द्वितीया द्वारकापुरी ॥अवन्त्याख्या तृतीया च विश्रुता भुवनत्रये ॥१५॥एतासु यो नरः स्नाति चतुर्विंशतिभाग्भवेत् ॥१६॥वृन्दावनं वनं चैकं द्वितीयं खांडवं वनम् ॥ख्यातं द्वैतवनं चान्यत्तृतीयं धरणीतले ॥१७॥त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत् ॥१८॥कल्पग्रामः स्मृतश्चैकः शालिग्रामो द्वितीयकः ॥नंदिग्रामस्तृतीयस्तु विश्रुतो द्विजसत्तमाः ॥१९॥त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत् ॥२०॥अग्नितीर्थं स्मृतं चैकं शुक्लतीर्थमथापरम् ॥तृतीयं पितृतीर्थं तु पितॄणामतिवल्लभम् ॥२१॥त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत् ॥२२॥श्रीपर्वतः स्मृतश्चैको द्वितीयश्चार्बुदस्तथा ॥तृतीयो रैवताख्योऽत्र विख्यातः पर्वतोत्तमाः ॥२३॥त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत् ॥२४॥गंगा नदी स्मृता पूर्वा नर्मदाख्या तथा परा ॥सरस्वती तृतीया तु नदी प्लक्षसमुद्भवा ॥२५॥आसु सर्वासु यः स्नाति चतुर्विंशतिभाग्भवेत् ॥२६॥एतेष्वेव हि सर्वेषु यः स्नानं कुरुते नरः ॥सार्धकोटित्रयस्यात्र स कृत्स्नं फलमाप्नुयात् ॥यश्चैकस्मिन्नरः स्नाति स त्रिकस्य फलं लभेत् ॥२८॥एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥संक्षेपात्तीर्थजं पुण्यं लभ्यते यन्नरैर्भुवि ॥२९॥सांप्रतं किं नु वो वच्मि यत्तद्वदत मा चिरम् ॥३०॥ ॥ ऋषय ऊचुः ॥हाटकेश्वरजे क्षेत्रे यानि तीर्थानि सूतज ॥तानि प्रोक्तानि सर्वाणि त्वयाऽस्माकं सुविस्तरात् ॥३१॥तथा चायतनान्येव संख्यया रहितानि च ॥अपि वर्षशतेनात्र स्नानं कर्तुं न शक्यते ॥३२॥तेषु सर्वेषु मर्त्येन यथोक्तविधिना स्फुटम् ॥देवतायतनान्येव तथा द्रष्टुं महा मते ॥३३॥यस्मिन्स्नातो दिने चैव तस्य व्युष्टिः प्रकीर्तिता ॥अल्पायुषस्तदा मर्त्याः कृतेऽपि परिकीर्तिताः ॥३४॥त्रेतायां द्वापरे चापि किमु प्राप्ते कलौ युगे ॥एवमल्पायुषो ज्ञात्वा मानवान्सूतनंदन ॥३५॥लभेरंश्च कथं सर्वतीर्थानां स्नानजं फलम् ॥देवदर्शनजं वापि विशेषान्निर्धनाश्च ये ॥३६॥अस्ति कश्चिदुपायोऽत्र दैवो वा मानुषोऽपि वा ॥येन तेषां भवेत्पुण्यं सर्वेषामेव हेलया ॥३७॥ ॥ सूत उवाच ॥अस्मिन्नर्थे पुरा पृष्टो विश्वामित्रो महामुनिः ॥समुपेत्याश्रमं तस्य आनर्तेन महीभुजा ॥३८॥ ॥ राजोवाच ॥भगवन्नत्र तीर्थानि संख्यया रहितानि च ॥तेषु स्नानविधिः प्रोक्तः सर्वेष्वेव पृथक्पृथक् ॥३९॥मासे वारे दिने चैव कुत्रचिन्मुनिसत्तमैः ॥दानानि च तथोक्तानि यथा स्नान विधिस्तथा ॥४०॥देवानां दर्शनं चापि पृथक्तेन प्रकीर्तितम् ॥न शक्यते फलं प्राप्तुं सर्वेषां केनचिन्मुने ॥४१॥अपि वर्षशतेनापि किं पुनः स्तोकवासरैः ॥तस्माद्वद महाभाग सुखोपायं च देहिनाम् ॥४२॥एकस्मिन्नपि च स्नातस्तीर्थे प्राप्नोति मानवः ॥सर्वेषामेव तीर्थानां स्नानजं सकलं फलम् ॥४३॥तथैकस्मिन्सुरे दृष्टे सर्वदेवसमुद्भवम् ॥फलं दर्शनजं भावि नराणां द्विजसत्तम ॥४९॥ ॥ सूत उवाच ॥तच्छ्रुत्वा सुचिरं ध्यात्वा विश्वामित्रो महामुनिः ॥अब्रवीच्छृणु राजेंद्र सरहस्यं वदामि ते ॥४५॥चत्वार्यत्र प्रकृष्टानि मुख्यतीर्थानि पार्थिव ॥येषु स्नाने कृते राजञ्छ्राद्धे च तदनंतरम् ॥सर्वेषामेव तीर्थानां स्नानजं लभ्यते फलम् ॥४६॥सप्तविंशतिलिंगानि तथात्रैव स्थितानि च ॥सिद्धेश्वरप्रपूर्वाणि सर्वपापहराणि च ॥४७॥तेषु सर्वेषु दृष्टेषु भक्त्या पूतेन चेतसा ॥सर्वेषामेव देवानां भवेद्दर्शनजं फलम् ॥४८॥एकस्मिन्नपि संदृष्टे पूजिते वा सुरोत्तमे ॥सप्तविंशतिलिंगानां पूजा तेन कृता भवेत् ॥४९॥ ॥ राजोवाच ॥कानि चत्वारि तीर्थानि तत्र मुख्यानि सन्मुने ॥येषु स्नातो नरः सम्यक्सर्वेषां लभते फलम् ॥५०॥ ॥ विश्वामित्र उवाच ॥अत्रास्ति कूपिका पुण्या यस्यां संश्रयते गया ॥कृष्णपक्षे चतुर्दश्याममावास्यादिने तथा ॥५१॥विशेषेण महाभाग कन्यासंस्थे दिवाकरे ॥निर्विण्णा भूमिलोकानां कृतैः श्राद्धैरनेकधा ॥५२॥यस्तस्यां कुरुते श्राद्धं सम्यक्छ्रद्धासमन्वितः ॥५३॥तस्मिन्नहनि राजेंद्र स संतारयते पितॄन् ॥तथा तीर्थं द्वितीयं तु शंखतीर्थमिति स्मृतम् ॥५४॥तत्र स्नात्वा नरो यस्तु पश्येच्छंखेश्वरं ततः ॥सर्वेषां फलमाप्नोति माघस्य प्रथमेऽहनि ॥५५॥तथा मन्नामकं तीर्थे तृतीयं मुख्यतां गतम् ॥अत्र स्नात्वा तु यः पश्येन्मया संस्थापितं हरम् ॥५६॥विश्वामित्रेश्वरं नाम सर्वेषां स फलं लभेत् ॥नभस्यस्य सिताष्टम्यां सर्वेषां लभते फलम् ॥५७॥शक्रतीर्थमिति ख्यातं चतुर्थं बालमण्डनम् ॥तत्र स्नात्वा च पंचाहं शक्रेश्वरमवेक्ष्य च ॥आश्विनस्य सितेऽष्टम्यां सर्वेषां लभते फलम् ॥५८॥ ॥ राजोवाच ॥विधानं वद मे विप्र गयाकूप्याः समुद्भवम् ॥विस्तरेण महाभाग श्रद्धा मे महती स्थिता ॥५९॥ ॥ विश्वामित्र उवाच ॥अमावास्यादिने प्राप्ते तत्र कन्यागते रवौ ॥यः श्राद्धं कुरुते भक्त्या स पितॄंस्तारयेन्निजान् ॥६०॥भर्तृयज्ञविधानेन शुद्धैः स्थानोद्भवैर्द्विजैः ॥भर्तृयज्ञविधिं त्यक्त्वा योऽन्येन विधिना नरः ॥६१॥श्राद्धं करोति मूढात्मा विहीनं स्थानजैर्द्विजैः ॥स्थानजैरपि वाऽशुद्धैस्तस्य तद्व्यर्थतां व्रजेत् ६२॥वृष्टिः स्यादूषरे यद्वत्सत्यमेतन्मयोदितम् ॥अंधस्याग्रे यथा नृत्यं प्रगीतं बधिरस्य च ॥तथा च व्यर्थतां याति अन्यस्थानोद्भवैर्द्विजैः ॥६३॥ब्राह्मणैः कारयेच्छ्राद्धं मूर्खैरपि द्विजोत्तमाः ॥चतुर्वेदा अपि त्याज्या अन्यस्थानसमुद्भवाः ॥६४॥दवे कर्मणि पित्र्ये वा सोमपाने विशेषतः ॥देशांतरगतो यस्तु श्राद्धं च कुरुते नरः ॥वैश्वानरपुरस्तेन कार्यं नान्यद्विजस्य च ॥६५॥संनिवेश्य दर्भबटूञ्छ्राद्धं कुर्याद्द्विजोत्तमाः ॥दक्षिणा भोजनं देयं स्थानिकानां चिरादपि ॥६६॥पंचगव्यस्य संपूर्णो यथा कुम्भः प्रदुष्यति ॥बिंदुनैकेन मद्यस्य पतितेन नृपोत्तम ॥६७॥एकेनापि च बाह्येन बहूनामपि भूपते ॥मध्ये समुपविष्टेन तच्छ्राद्धं दोषमाप्नुयात् ॥६८॥स्थानजोऽपि चतुर्वेदो यद्यपि स्यान्न शुद्धिभाक् ॥बहूनामपि शुद्धानां मध्ये श्राद्धं विनाशयेत् ॥६९॥तस्मात्सर्वप्रयत्नेन शुद्धं ब्राह्मणमानयेत् ॥७०॥स्थानिकं मूर्खमप्येवमलाभे गुणिनामपि ॥हीनांगमधिकांगं वा दूषितं नो तथा परम् ॥७१॥कन्यादाने तथा श्राद्धे कुलीनो ब्राह्मणः सदा ॥आहर्तव्यः प्रयत्नेन य इच्छेच्छुभमात्मनः ॥सोऽपि शुद्धिसमायुक्तो यदि स्यान्नृपसत्तम ॥७२॥वृक्षाणां च यथाऽश्वत्थो देवतानां यथा हरिः ॥श्रेष्ठस्थानजविप्राणां तथा चाष्टकुलोद्भवः ॥७३॥आयुधानां यथा वज्रं सरसां सागरो यथा ॥श्रेष्ठस्थानजविप्राणां तथाष्टकुलसंभवः ॥७४॥उच्चैःश्रवा यथाऽश्वानां गजानां शक्रवाहनः ॥श्रेष्ठस्थानजविप्राणां तथाष्टकुलसंभवः ॥७५॥नदीनां च यथा गंगा सतीनां चाप्यरुंधती ॥तद्वत्स्थानजविप्राणां श्रेष्ठोऽष्टकुलिकः स्मृतः ॥७६॥ग्रहाणां भास्करो यद्वन्नक्षत्राणां निशाकरः ॥तद्वत्स्थानजविप्राणां श्रेष्ठोऽष्टकुलिकः स्मृतः ॥७७॥पर्वतानां यथा मेरुर्द्विपदानां द्विजोत्तमः ॥स्थानजानां तु विप्राणां श्रेष्ठोऽष्टकुलिकस्तथा ॥७८॥पक्षिणां गरुडो यद्वत्सिंहोऽरण्यनिवासिनाम् ॥स्थानजानां तु विप्राणां श्रेष्ठोऽष्टकुलिकस्तथा ॥७९॥एवं ज्ञात्वा प्रयत्नेन श्राद्धे यज्ञे च पार्थिव ॥कन्यादाने विशेषेण योज्यश्चाष्टकुलोद्भवः ॥८०॥नृत्यंति पितरस्तस्य गर्जंति च पितामहाः ॥वेदिमूले समालोक्य प्राप्तमष्टकुलं नृप ॥८१॥पुनर्वदंति संहृष्टाः किमस्माकं प्रदास्यति ॥दौहित्रश्चापसव्येन जलं दर्भतिलान्वितम् ॥८२॥ ॥ राजोवाच ॥यदेतद्भवता प्रोक्तं श्रैष्ठ्यमष्टकुलोद्भवम् ॥सर्वेषां नागराणां च तत्किं वद महामते ॥८३॥न ह्यत्र कारणं स्वल्पं भविष्यति द्विजोत्तम ॥८४॥ ॥ विश्वामित्र उवाच ॥सत्यमेतन्महाराज यत्त्वया व्याहृतं वचः ॥अन्येऽपि नागराः संति वेदवेदांगपारगाः ॥८५॥श्राद्धार्हा यज्ञयोग्याश्च कन्यायोग्या विशेषतः ॥परं ते स्थापिता राजन्स्वयमिंद्रेण तत्र च ॥८६॥प्रधानत्वेन सर्वेषां नागरैश्चापि कृत्स्नशः ॥तेन ते गौरवं प्राप्ताः स्थानेत्रैव विशेषतः ॥८७॥तस्माच्छ्रूाद्धं प्रकर्तव्यं विप्रै श्चाष्टकुलोद्भवैः ॥अप्राप्तौ चैव तेषां तु कार्यं नागरसंभवैः ॥८८॥नान्यस्थानसमुद्भूतैश्चतुर्वेदैरपि द्विजैः ॥भर्तृयज्ञेन मर्यादा कृता ह्येषा महा त्मना ॥८९॥मुक्त्वा तु नागरं विप्रं योऽन्येनात्र करिष्यति ॥श्राद्धं वा यदि वा यज्ञं व्यर्थं तस्य भविष्यति ॥१९९०॥ ॥ राजोवाच ॥संत्यन्ये विविधा विप्रा वेदवेदांगपारगाः ॥मध्यदेशोद्भवाः शान्तास्तथान्ये तीर्थसंभवाः ॥९१॥भर्तृयज्ञेन ये त्यक्ताः श्राद्धे यज्ञे विशेषतः ॥हीनांगाश्चाधिकांगाश्च द्विर्नग्नाः श्यावदंतकाः ॥९२॥कुनखाः कुष्ठसंयुक्ता मूर्खा अपि विगर्हिताः ॥श्राद्धार्हाः सूचितास्तेन एतं मे संशयं वद ॥९३॥ ॥ विश्वामित्र उवाच ॥कीर्तयिष्ये नरव्याघ्र कारणानि बहूनि च ॥चमत्कारस्य पत्न्याश्च दानेन पतिता यतः ॥९४॥स्त्रीणां प्रतिग्रहेणैव विप्रेषु प्रोषितेषु च ॥पृथक्त्वं च ततो जातं बाह्याभ्यन्तरसंज्ञकम् ॥९५॥दुर्वाससा ततः शप्ता रुष्टेनेवाहिना यथा ॥विद्याधनाभिमानेन शापेन पतिताः सदा ॥९६॥कुशे राज्यगते राजन्राक्षसानां महाभयम् ॥प्रजयाऽऽवेदितं सर्वं तस्य राज्ञो महात्मनः ॥९७॥विभीषणस्य लंकायां दूतश्च प्रेषितस्तदा ॥सर्वं निवेदयामास प्रजानां भयसंभवम् ॥९८॥अभिवन्द्य कुशादेशं रामस्य चरितं स्मरन् ॥पुर्यां विलोकयामास लङ्कायां रामशासनात् ॥९९॥उपप्लवस्य कर्तारो नष्टाः सर्वे दिशो दश ॥गन्धर्वाणां च लोकं हि भयेन महता गताः ॥१००॥स्थातुं तत्र न शक्तास्ते विभीषणभयेन च ॥पृथिव्यां समनुप्राप्ताः स्थानान्यपि बहूनि च ॥१०१॥भयेन महता तत्र कुशस्यैव तु शासने ॥ब्राह्मणानां च रूपाणि कृत्वा तत्र समागताः ॥१०२॥वाडवानां महिम्ना च मध्ये स्थातुं न तेऽशकन् ॥पतितानां च संस्थानं चमत्कारपुरं गताः ॥१०३॥मायाविशारदैस्तैश्च धनेन विद्यया ततः ॥अध जग्धं ततस्तैस्तु तेषां मध्ये स्थितं च तैः ॥१०४॥ततःप्रभृति ते सर्वे राक्षसत्वं प्रपेदिरे ॥क्रूराण्यपि च कर्माणि कुर्वंति च पदेपदे ॥ततस्ते सर्वथा राजन्वर्जनीयाः प्रयत्नतः ॥श्राद्धे यज्ञे नरव्याघ्र नरके पातयंति च ॥१०६॥अन्यच्च दूषणं तेषां कीर्तयिष्ये तवाऽनघ ॥त्रिजाताः स्थापिता राजन्सर्पाणां गरनाशनात् ॥१०७॥नगरत्वं ततो जातं चमत्कार पुरस्य तु ॥त्रिजातत्वं तु सर्वेषां जातं तत्र विशेषतः ॥१०८॥एतेभ्यः कारणेभ्यश्च भर्तृयज्ञेन वर्जिताः ॥पुनश्च कारणं तेषां स्पर्शादपि न शुद्धिभाक् ॥१०९॥कुम्भकोत्थं च संप्राप्तं महच्चण्डालसंभवम् ॥११०॥ ॥ राजोवाच ॥एतच्च कारणं विप्र कथयस्व प्रसादतः ॥स्थावरस्य चरस्यैव जगतो ज्ञानमस्ति ते ॥१११॥ ॥ विश्वामित्र उवाच ॥अत्र ते कीर्तयिष्यामि पूर्ववृत्तकथांतरम् ॥भर्तृयजेन ये त्यक्ताः सर्वेन्ये ब्राह्मणोत्तमाः ॥११२॥वर्धमाने पुरे पूर्वमासीदंत्यजजातिजः ॥चण्डालः कुंभकोनाम निर्दयः पापकर्मकृत् ॥११३॥कस्यचित्त्वथ कालस्य तस्य पुत्रो बभूव ह ॥विरूपस्यापि रूपाढ्यः पूर्वकर्मप्रभावतः ॥११४॥पिंगाक्षस्य सुकृष्णस्य वयोमध्यस्य पार्थिव ॥दक्षः सर्वेषु कृत्येषु सर्वलक्षणलक्षितः ॥११५॥स वृद्धिं द्रुतमभ्येति शुक्लपक्षे यथोडुराट् ॥तथाऽसौ शंस्यमानस्तु सर्वलोकैः सुरूपभाक् ॥दृष्ट्वा कुटुंबकं नित्यं वैराग्यं परमं गतः ॥११६॥ततो देशांतरं दुःखाद्भ्रममाण इतस्ततः ॥चमत्कारपुरं प्राप्तो द्विजरूपं समाश्रितः ॥स स्नाति सर्वकृत्येषु भिक्षान्नकृतभोजनः ॥११७॥एतस्मिन्नेव काले तु ब्राह्मणः शंसितव्रतः ॥छांदोग्यगोत्रविख्यातः सुभद्रोनाम पार्थिवः ॥११८॥नागरो वर्षयाजी च वेदवेदांगपारगः ॥तत्रासीत्तस्य सञ्जाता कन्यका द्विगुणै रदैः ॥११९॥तथा त्रिभिःस्तनै रौद्रा पृष्ठ्यावर्तकसंयुता ॥दरिद्रोऽपि सुदुःस्थोऽपि कुलहीनोपि पार्थिव ॥१२०॥दीयमानामपि न तां प्रतिगृह्णाति कश्चन ॥यद्भक्षयति भर्तारं षण्मासाभ्यंतरे हि सा ॥१२१॥यस्याः स्युर्द्विगुणा दंता एवं सामुद्रिका जगुः ॥त्रिस्तनी कन्यका या तु श्वशुरस्य कुलक्षयम् ॥संधत्ते नात्र सन्देहस्तस्मात्तां दूरतस्त्यजेत् ॥१२२॥पृष्ठ्यावर्तो भवेद्यस्या असती सा भवेद्द्रुतम् ॥बहुपापसमाचारा तस्मात्तां परिवर्जयेत् ॥१२३॥अथ तां वृद्धिमापन्नां दृष्ट्वा विप्रः सुभद्रकः ॥चिन्ताचक्रं समारूढो न शांतिमधिगच्छति ॥१२४॥किं करोमि क्व गच्छामि कथमस्याः पतिर्भवेत् ॥न कश्चित्प्रतिगृह्णाति प्रार्थितोऽपि मुहुर्मुहुः ॥१२५॥दरिद्रो व्याधितो वाऽपि वृद्धोऽपि ब्राह्मणो हि सः ॥स्मृतौ यस्मादिदं प्रोक्तं कन्यार्थे प्राङ्महर्षिभिः ॥१२६॥अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी ॥दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥१२७॥माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ॥त्रयस्ते नरकं यांति दृष्ट्वा कन्यां रजस्वलाम् ॥१२८॥एवं चिन्तयतस्तस्य सोंऽत्यजो द्विजरूपधृक् ॥भिक्षार्थं तद्गृहं प्राप्तो दृष्टस्तेन महात्मना ॥१२९॥पृष्टश्च विस्मयात्तेन दृष्ट्वा रूपं तथाविधम् ॥कुतस्त्वमिह सम्प्राप्तः क्व यास्यसि च भिक्षुक ॥१३०॥ईदृग्भव्यतरो भूत्वा कस्मान्माधुकरीं गतः ॥किं गोत्रं तव मे ब्रूहि कतमः प्रवरश्च ते ॥१३१॥सोऽब्रवीद्गौडदेशीयं स्थानं मे सुमहत्तरम् ॥नाम्ना भोजकटं ख्यातं नानाद्विजसमाश्रितम् ॥१३२॥तत्रासीन्माधवोनाम ब्राह्मणो वेदपारगः ॥वसिष्ठगोत्रविख्यात एकप्रवरसूचितः ॥१३३॥तस्याहं तनयो नाम्ना चंद्रप्रभ इति स्मृतः ॥१३४॥ततोऽहमष्टमे वर्षे यदा व्रतधरः स्थितः ॥तदा पंचत्वमापन्नः पिता मे वेदपारगः ॥१३५॥माता मे सह तेनैव प्रविष्टा हव्यवाहनम् ॥ततो वैराग्यमापन्नो निष्क्रांतोऽहं निजालयात् ॥१३६॥तीर्थानि भ्रममाणोऽत्र संप्राप्तस्तु पुरं तव ॥अधुना संप्रयास्यामि प्रभासं क्षेत्रमुत्तमम् ॥१३७॥यत्र सोमेश्वरो देवस्त्यक्त्वा कैलासमागतः ॥न मया पठिता वेदा न च शास्त्रं नृपोत्तम ॥तीर्थयात्राप्रसंगेन तेन भिक्षां चराम्यहम् ॥१३८॥ ॥ विश्वामित्र उवाच ॥तस्य तद्वचनं श्रुत्वा चिन्तयामास चेतसि ॥ब्राह्मणोऽयं सुदेशीयस्तथा भव्यतमाकृतिः ॥यदि गृह्णाति मे कन्यां तदस्मै प्रददाम्यहम् ॥१३९॥यावद्रजस्वला नैव जायते सा निरूपिता ॥कृत्स्नं दूषयति क्षिप्रं नैव वंशं ममाधमा ॥१९ ॥ततः प्रोवाच तं म्लेच्छं संमंत्र्य सह भार्यया ॥यदि गृह्णासि मे कन्यां तव यच्छाम्यहं द्विज ॥१४१॥भरणं पोषणं द्वाभ्यां करिष्यामि सदैव हि ॥१४२॥तच्छ्रुत्वा हर्षितः प्राह सोंऽत्यजो नृपसत्तमम् ॥तवादेशं करिष्यामि यच्छ मे कन्यकां नृप ॥१४३॥तथेत्युक्त्वा गतस्तेन तस्मै दत्ता निजा सुता ॥गृह्योक्तेन विधानेन विवाहो विहितस्ततः ॥१४४॥ततो ददौ धनं धान्यं गृहं क्षेत्रं च गोधनम् ॥तस्मै तुष्टिसमायुक्तो मन्यमानः कृतार्थताम् ॥अथ सोऽपि च तां प्राप्य विलासानकरोद्बहून् ॥खाद्यैः पानैः सुवस्त्रैश्च गन्धमाल्यैर्विभूषणैः ॥१४६॥परं स व्रजति प्रायो येन मार्गेण केनचित् ॥सारमेयाः सशब्दाश्च पृष्ठतोऽनुव्रजंति वै ॥१४७॥अन्येषामंत्यजात्यानां यद्वत्तस्य विशेषतः ॥वेदाभ्यासपरश्चैव यदि संजायते क्वचित् ॥रक्तं पतति वक्त्रेण तत्क्षणात्तस्य दुर्मतेः ॥१४८॥एतस्मिन्नंतरे लोकः सर्व एव प्रशंकितः ॥अब्रवीच्च मिथोऽभ्येत्य चंडालोऽयमसंशयम् ॥१४९॥यदेते पृष्ठतो यांति भषमाणाः शुनीसुताः ॥सुभद्रोऽपि च तत्तेषां श्रुत्वा चिन्तापरोऽभवत् ॥१५०॥मन्यमानश्च तत्सत्यं दुःखेन महतान्वितः ॥नूनमंत्यजजातीयो भविष्यति सुतापतिः ॥१५१॥ज्ञायते चेष्टितैः सर्वैर्यथाऽयं जल्पते जनः ॥१५२॥एवं रात्रिंदिवं तस्य चिन्तयानस्य भूपतेः ॥लोकापवादयुक्तस्य कियान्कालोऽभ्यवर्तत ॥१५३॥अन्यस्मिन्नहनि प्राप्ते आद्याद्या द्विजसत्तमाः ॥मध्यगेन समायुक्ता ब्रह्मस्थानं समागताः ॥तस्य शुद्धिकृते प्रोचुर्येन शंका प्रणश्यति ॥१५४॥अथोचुस्तं द्विजश्रेष्ठा ब्रह्मस्थानस्य मध्यगम् ॥मध्यगस्य तु वक्त्रेण विवर्णवदनं स्थितम् ॥१५५॥कुलं गोत्रं निजं ब्रूहि प्रवरांश्च विशेषतः ॥स्थानं देशं च विप्राणां येन शुद्धिः प्रदीयते ॥१५६॥अथासौ वेपमानस्तु प्रस्विन्नवदनस्तथा ॥अधोदृष्टिरुवाचेदं गद्गदं विहिताञ्जलिः ॥१५७॥गर्भाष्टमे पिता मह्यं वर्षे मृत्युं गतस्ततः ॥ततः सा तं समादाय जननी मे पतिव्रता ॥मां त्यक्त्वा दुःखितं दीनं प्रविष्टा हव्यवाहनम् ॥१५८॥अहं वैराग्यमापन्नस्तीर्थयात्रां समाश्रितः ॥बालभावे पितुर्दुःखात्तापसैरपरैः सह ॥१५९॥न मया पठितो वेदो न च शास्त्रं निरूपितम् ॥तीर्थयात्रापरोऽहं च समायातो भवत्पुरम् ॥१६०॥अभद्रेण सुभद्रेण श्वशुरेण दुरात्मना ॥एतज्जानाम्यहं विप्रा गोत्रं वासिष्ठमेव वा ॥१६१॥अथैकप्रवरो देशो गौडो मधुपुरं पुरम् ॥ततस्ते ब्राह्मणाः प्रोचुर्यस्य नो ज्ञायते कुलम् ॥तस्य शुद्धिः प्रदातव्या धटद्वारेण केवला ॥१६२॥स त्वं धटं समारुह्य ब्राह्मण्यार्थं च केवलम् ॥शुद्धिं प्राप्य ततो भोगान्भुंक्ष्वात्रस्थोऽपि केवलम् ॥१६३॥सोऽब्रवीत्साहसं कृत्वा सर्वानेव द्द्विजोत्तमान् ॥प्रतिगृह्णाम्यहं कामं तप्तमाषकमेव च ॥१६४॥प्रविशामि हुताशं वा भक्षयिष्याम्यहं विषम् ॥१६५॥किं पुनर्धटदिव्यं च क्रियमाणे सुखावहम् ॥ब्राह्मणस्य कृते विप्राश्चित्ते नो मामके घृणा ॥१६६॥अथ ते ब्राह्मणास्तस्य धटारोहणसंभवम् ॥शुद्धिं निर्दिश्य वारं च सूर्यस्य च ततः परम् ॥जग्मुः स्वंस्वं गृहं सर्वे सोऽपि विप्रोंऽत्यजो द्विजाः ॥१६७॥ततः प्राह निजां भार्यां रहस्ये नृपसत्तम ॥ज्ञातोऽहं ब्राह्मणैः सर्वैरंत्यजातिसमुद्भवः ॥देशातरं गमिष्यामि त्वमागच्छ मया सह ॥१६८॥ ॥ भार्योवाच ॥अहमग्निं प्रवेक्ष्यामि न यास्यामि त्वया सह ॥पापबुद्धे पतिष्यामि न चाहं नरकाग्निषु ॥१६९॥बुध्यमाना न सेविष्ये त्वामंत्यजसमुद्भवम् ॥पाप संदूषितं सर्वं त्वयैतत्स्थानमुत्तमम् ॥१७०॥तथा मम पितुर्हर्म्यं संवत्सरप्रयाजिनः ॥तस्माद्द्रुततरं गच्छ यावन्नो वेत्ति कश्चन ॥१७१॥नो चेत्पापसमाचार संप्राप्स्यसि महाऽऽपदम् ॥ततो निशामुखे प्राप्ते कौपीनावरणान्वितः ॥नष्टोऽभीष्टां दिशं प्राप्य तदा जीवितजाद्भयात् ॥१७३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागराष्टकुलश्रैष्ठ्यवर्णनंनामैकोनद्विशततमोऽध्यायः ॥१९९॥ N/A References : N/A Last Updated : December 31, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP