संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २६ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २६ Translation - भाषांतर ॥ सूत उवाच ॥यत्पूर्वापरसीमान्तं तन्मया संप्रकीर्तितम् ॥दक्षिणोत्तरसंभूतं तद्वो वक्ष्यामि सांप्रतम् ॥१॥अस्ति भूभितले ख्याता मधुराख्या महापुरी ॥नानाविप्रसमाकीर्णा यमुनातटसंश्रया ॥२॥तस्यामासीद्द्विजश्रेष्ठो गोकर्ण इति विश्रुतः ॥वेदाध्ययनसंपन्नः सर्वशास्त्रविचक्षणः ॥३॥अथापरोऽस्ति तन्नामा तत्र विप्रो वयोऽन्वितः ॥सोऽपि च ब्राह्मणः श्रेष्ठः सर्वविद्यासु पारगः ॥४॥कस्यचित्त्वथकालस्य यमः प्राह स्वकिंकरम् ॥ऊर्ध्वकेशं सुरक्ताक्षं कृष्णदन्तं भयानकम् ॥५॥अद्य गच्छ द्रुतं दूत मथुराख्यां महापुरीम् ॥आनयस्व द्विजश्रेष्ठं तस्यां गोकर्णसंज्ञकम् ॥६॥तस्यायुषः क्षयो जातो मध्याह्नेऽद्यतने दिने ॥त्याज्योऽन्योऽस्ति च तत्रैव चिरायुस्तादृशो द्विजः ॥.७॥ ॥सूत उवाच ॥अथ दूतो द्रुतं गत्वा तां पुरीं यमशासनात् ॥विभ्रमादानयामास गोकर्णं च चिरायुषम् ॥८॥ततः कोपपरीतात्मा यमः प्रोवाच किंकरम् ॥दीर्घायुरेष आनीतो धिक्पाप किमिदं कृतम् ॥९॥तस्मात्प्रापय तत्रैव यावदस्य च बन्धुभिः ॥नो गात्रं दह्यते शोकात्सुसमिद्धेन वह्निना ॥२१०॥ ॥ब्राह्मण उवाच ॥नाहं तत्र गमिष्यामि दिष्ट्या प्राप्तोस्मि तेंऽतिकम् ॥वांछमानः सदा मृत्युं दारिद्र्येण कदर्थितः ॥११॥ ॥यम उवाच ॥निमिषेणापि नो मर्त्यमानयामि महीतलात् ॥आयुःशेषेण विप्रेन्द्र पूर्णेनाथ त्यजामि न ॥१२॥तत एव हि मे नाम धर्मराज इति स्मृतम् ॥समत्वात्सर्वजंतूनां पक्षपातविवर्जनात् ॥१३॥तस्माद्गच्छ गृहं विप्र यावद्गात्रं न दह्यते ॥बंधुभिस्तव शोकार्तैर्नाधुना तत्र ते स्थितिः ॥१४॥प्रार्थयस्व मनोऽभीष्टं वरं ब्राह्मणसत्तम ॥न वृथा दर्शनं मे स्यात्कथंचिदपि देहिनाम् ॥१५॥ ॥ब्राह्मण उवाच ॥अवश्यं यदि गंतव्यं मया देव गृहं पुनः ॥तन्ममाचक्ष्व पृच्छामि वरश्चैष भवेन्मम ॥१६॥एते ये नरका रौद्राः सेविताः पापकर्मभिः ॥दृश्यंते वद कः केन कर्मणा सेव्यते जनैः ॥१७॥ ॥यम उवाच ॥असंख्या नरका विप्र यथा प्राणिगणाः क्षितौ ॥कृत्स्नशः कथितुं शक्या नैववर्षशतैरपि ॥१८॥कीर्तयिष्यामि तेषां ते प्राधान्येन द्विजोत्तम ॥एकविंशतिसंख्या ये पापिलोककृते कृताः ॥१९॥आद्योऽयं रौरवो नाम नरको द्विजसत्तम ॥प्रतप्ततैलकुंभेषु पच्यंते यत्र जंतवः ॥२२०॥हा मातस्तात पुत्रेति प्रकुर्वंति सुदारुणम् ॥परपाकरताः क्षुद्राः परद्रव्या पहारकाः ॥२१॥द्वितीय एष विप्रेंद्र महारौरवसंज्ञितः ॥कृतघ्नैः सेव्यते नित्यं तथा च गुरुतल्पगैः ॥२२॥रोरूयमाणैर्दाहार्तैः पच्यमानै र्हविर्भुजा ॥खंडशः क्रियमाणैश्च तीक्ष्णशस्त्रैरनेकधा ॥२३॥तृतीयोंऽधतमोनाम नरकः सुभयावहः ॥अत्र ये पुरुषा यांति तांश्च वक्ष्यामि सुद्विज ॥२४॥दुष्टेन चक्षुषा दृष्टाः परदारा नराधमैः ॥सुलोहास्याः खगास्तेषां हरंत्यत्र विलोचने ॥२५॥चतुर्थोऽयं प्रतप्ताख्यो नरकः संप्रकीर्तितः ॥अत्र ते यातनां भुक्त्वा तथा शुद्धा भवंति च ॥२६॥यैः कृता सततं निंदा गुरुदेवतपस्वि नाम् ॥तेषामुत्पाट्यते जिह्वा जाताजाताऽत्र भूरिशः ॥२७॥एषोऽन्यः पंचमो नाम सुप्रसिद्धो विदारकः ॥मित्रद्रोहरताश्चात्र च्छिद्यंते करपत्रकैः ॥२८॥प्रतप्तवालुकापूर्णो ध्मायते यश्च वह्निना ॥निकुम्भ इति विख्यातः षष्ठो लोकभयावहः ॥२९॥प्राणांतिकं पुरा दत्तं यैर्दुःखं प्राणिनां नरैः ॥अपराधं विना तेऽत्र पच्यंते वालुकोत्करैः ॥३०॥बीभत्सुरिति विख्यातः सप्तमो नरकाधमः ॥मूत्रामेध्य समाकीर्णः समंतादतिगर्हितः ॥३१॥राजगामि च पैशुन्यं यैः कृतं सुदुरात्मभिः ॥अमेध्यपूर्णवक्त्रास्ते धार्यंतेऽत्र नराधमाः ॥३२॥कुत्सितोनाम विख्यातो द्विजायं चाष्टमोऽधमः ॥श्लेष्ममूत्राभिसंपूर्णैस्तथा गन्धैश्च कुत्सितैः ॥३३॥गुरुदेवातिथिभ्यश्च स्वभृत्येभ्यो विशेषतः ॥अदत्त्वा भोजनं यैस्तु कृतं तेऽत्र व्यवस्थिताः ॥३४॥एष दुर्गमनामा च नवमो द्विजसत्तम ॥तीक्ष्णकंटकसंकीर्णः सर्पवृश्चिकसंकुलः ॥३५॥एकसार्थप्रयाताय क्षुत्क्षामायावसीदते ॥अदत्त्वा भोजनं यैश्च कृतं तेऽत्र व्यवस्थिताः ॥३६॥दशमोऽयं सुविख्यातो नरको नामदुः सहः ॥तप्तलोहमयैः स्तंभैः समंतात्परिवारितः ॥३७॥ये पापाः परदारेषु रक्ता मिष्टामिषेषु वा ॥तप्तलोहमयान्स्तंभांस्तेऽत्रालिंगंति मानवाः ॥३८॥एकादशोऽपरश्चायमाकर्षाख्यः प्रकीर्तितः ॥नरको विप्रशार्दूल तप्तसंदंशसंकुलः ॥३९॥स्त्रीविप्रगुरुदेवानां वित्तं चाश्नंति ये नराः ॥संदंशैरपि कृष्यंते तत्र तप्तैः समंततः ॥४०॥संदंशो द्वादशश्चायं तथाऽभक्ष्यप्रभक्षकाः ॥लोहदंतमुखैर्गृधैर्भक्ष्यंतेऽत्र नराधमाः ॥४१॥एष त्रयोदशोनाम सुविख्यातो नियंत्रकः ॥समंतात्कृमिभिर्व्याप्तस्तथा च दृढबन्धनैः ॥४२॥न्यासापहारकाः पापास्तत्र बद्धाश्च बंधनैः ॥कृमिवृश्चिक कीटाद्यैर्भक्ष्यते द्विजसत्तम ॥४३॥तथा चतुर्दशोनाम नरकोऽधोमुखः स्थितः ॥नरकाणां समस्तानामेष रौद्रतमाकृतिः ॥४४॥अत्र चाधोमुखा बद्धा वृक्षशाखावलंबिताः ॥पच्यंते वह्निनाऽधस्ताद्ब्रह्मघ्ना ये च मानवाः ॥४५॥यूकामत्कुणदंशाद्यैः संकीर्णोऽयं द्विजोत्तम ॥नरको भीषणो नाम ख्यातः पञ्चदशो महान् ॥४६॥कूटसाक्ष्यरतानां च तथैवानृतवादिनाम् ॥अत्राश्रयो मया दत्तस्तथान्येषां कुकर्मिणाम् ॥४७॥एष षोडश उद्दिष्टो नरको नाम क्षुद्रदः ॥युधार्तैर्मानवैर्व्याप्तः समंताद्द्विजसत्तम ॥४९॥मृष्टमांसानि यैः पापैर्भक्षितानि द्विजन्मभिः ॥क्षुधार्तास्ते निजं कायं भक्षयंत्यत्र संस्थिताः ॥४९॥तथा सप्तदशश्चायं क्षाराख्यो नरकः स्मृतः ॥सुक्षारेण समाकीर्णः सर्वप्राणिभयावहः ॥५०॥व्रतभंगकरा ये च ये च पाषण्डिनो नराः ॥तेऽत्रागत्य शितैः शस्त्रैः पिष्यंते पापकृत्तमाः ॥५१॥एष चाष्टादशो नाम कथितश्च निदाघकः ॥ज्वलितांगारसंकीर्णो दुःसेव्यः सर्वदेहिनाम् ॥५२॥दूषयंति च ये शास्त्रं काव्यं विप्रं च कन्यकाम् ॥अंगारांतः स्थितातेऽत्र ध्रियंते मानवा द्विज ॥५३॥एकोनविंशतिश्चायं प्रख्यातः कूटशाल्मलिः ॥सुतीक्ष्णकंटकाकीर्णः समंताद्द्विजसत्तम ॥५४॥नास्तिका भिन्नमर्यादा ये च विप्रस्य घातकाः ॥ते सर्वेऽत्र नरा नित्यमारुहंति पतंति च ॥५५॥एष विंशतिमो नाम नरको द्विजसत्तम ॥असिपत्रवनाख्यश्च कष्टसेव्यो दुरात्मभिः ॥५६॥अत्र यांति नरा विप्र पररंध्रनिरीक्षकाः ॥कूटकर्मरता ये च शास्त्रविक्रयकारकाः ॥५७॥एकविंशतिमा चैषा नाम्ना वैतरणी नदी ॥सर्वैरेव नरैर्गम्या धर्मपापानुयायिभिः ॥५८॥मृत्युकाले समुत्पन्ने धेनुं यच्छंति ये नराः ॥तस्या लांगूलमाश्रित्य तारयंति सुखेन च ॥५९॥अदत्त्वा गां च ये मर्त्या म्रियंते द्विजसत्तम ॥तीर्त्वा हस्तादिभिर्दुर्गा त इमां संतरंति च ॥६०॥एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तम ॥विस्तरेण तव प्रीत्या स्वरूपं नरकोद्भवम् ॥६१॥तस्माद्गच्छ गृहं शीघ्रं यावद्गात्रं न दह्यते ॥बन्धुभिस्तव शोकार्तैर्गृहीत्वा वांछितं धनम् ॥६२॥ ॥ब्राह्मण उवाच ॥यदि देव मया सम्यग्गंतव्यं निजमंदिरम् ॥तद्ब्रूहि कर्मणा येन नरकं याति नो नरः ॥६३॥ ॥यम उवाच तीर्थयात्रापरो नित्यं देवतातिथिपूजकः ॥ब्रह्मण्यश्च शरण्यश्च न याति नरकं नरः ॥६४॥परोपकारसंयुक्तो नित्यं जपपरायणः ॥स्वाध्यायनिरतश्चैव न याति नरकं द्विज ॥६५॥वापीकूपतडागानि देवतायतनानि च ॥यः करोति नरो नित्यं नरकं न स पश्यति ॥६६॥हेमंते वह्निदो यः स्यात्तथा ग्रीष्मे जलप्रदः ॥वर्षास्वाश्रयदो यश्च नरकं न स पश्यति ॥६७॥व्रतोपवाससंयुक्तः शांतात्मा विजितेंद्रियः ॥ब्रह्मचारी सदा ध्यानी नरकं याति नो नरः ॥६८॥अन्नप्रदो नरो यः स्याद्विशेषेण तिलप्रदः ॥अहिंसानिरतश्चैव नरकं न स पश्यति ॥६९॥वेदाध्ययनसंपन्नः शास्त्रासक्तः सुमृष्टवाक् ॥धर्माख्यानपरो नित्यं नरकं न स पश्यति ॥७०॥ ॥ब्राह्मण उवाच ॥एतन्मूर्खोऽपि जानाति शुभकर्मकरः पुमान् ॥न याति नरकं स्वर्गे तथा पापक्रियारतः ॥७१॥तस्मादशुभकर्मापि कर्मणा येन पातकम् ॥स्वल्पेनापि निहन्त्याशु याति स्वर्गं नरस्ततः ॥७२॥तन्मेब्रूहि सुरश्रेष्ठ व्रतं नियममेव वा ॥तीर्थं वा जपहोमं वा सर्वलोकसुखावहम् ॥७३॥ ॥यम उवाच ॥अत्र ते सुमहद्गुह्यं कीर्तयिष्ये द्विजोत्तध ॥गोपनीयं प्रयत्नेन वचनान्मम सर्वदा ॥७४॥महापातकयुक्तोऽपि पुरुषो येन कर्मणा ॥अनुष्ठितेन नो याति नरकं क्लेशकारकम् ॥७५॥आनर्तविषये रम्यं सर्वतीर्थमयं शुभम् ॥हाटकेश्वरजं क्षेत्रं महापातकनाशनम् ॥७६॥तत्रैकमपि मासार्धं यो भक्त्या पूजयेद्धरम् ॥स सर्वपापयुक्तोऽपि शिवलोके महीयते ॥७७॥तस्मात्तत्र द्रुतं गत्वा त्वमाराधय शंकरम् ॥येन गच्छसि निर्वाणं दशभिः पुरुषैः सह ॥७८॥ ॥सूत उवाच ॥उपदेशं समाकर्ण्य स यदा प्रस्थितो गृहम् ॥धर्मराजस्य संहष्टो मधुरां नगरीं प्रति ॥७९॥तावद्द्वितीयं गो कर्णं दूत आदाय संगतः ॥दर्शयामास धृत्वाग्रे धर्मराजस्य सत्वरम् ॥८०॥ततः प्रोवाच तं दूतं धर्मराजः प्रहर्षितः ॥गोकर्णं पुरतो दृष्ट्वा द्वितीयं प्रस्थितं गृहम् ॥८१॥ यस्मात्कालात्ययं कृत्वाऽऽनीतोऽयं ब्राह्मणस्त्वया ॥तस्मादेनमपि क्षिप्रं द्वितीयेन समं त्यज ॥८२॥ततस्तौ तत्क्षणान्मुक्तौ गोकर्णौ ब्राह्मणौ समम् ॥स्वंस्वं कलेवरं प्राप्य सहसाथ समन्वितौ ॥८३॥ततः स कथयामास गोकर्णः प्रथमो द्विजः ॥यमोपदेशसंजुष्टो द्वितीयाय सविस्तरम् ॥८४॥ततो गृहं परित्यज्य गोकर्णौ द्वावपि स्थितौ ॥देवतायतनैर्व्याप्तं क्षेत्रं दृष्ट्वाऽखिलं ततः ॥८५॥लिंगे संस्थापिते ताभ्यां सीमांते दक्षिणोत्तरे ॥हाटकेश्वरजं क्षेत्रं संप्राप्य तपसि द्रुतम् ॥८६॥ततः शिवं समाराध्य तपः कृत्वा यथोचितम् ॥सशरीरौ दिवं प्राप्तौ तत्प्रभावाद्विजोत्तमाः ॥८७॥ताभ्यां मार्गचतुर्दश्यां कृष्णायां जागरः कृतः ॥यः करोति नरो भक्त्या स गच्छति शिवालयम् ॥८८॥अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात् ॥निष्कामस्तु पुनर्मोक्षं नरो याति न संशयः ॥८९॥ ॥सूत उवाच ॥एतद्वः सर्वमाख्यातं सीमांतं द्विजसत्तमाः ॥क्षेत्रस्यास्य प्रमाणं च विस्तरेण चतुर्दिशम् ॥९०॥अत्रांतरे नरा ये च निवसंति द्विजोत्तमाः ॥कृषिकर्मोद्यताश्चापि यांति ते परमां गतिम् ॥किं पुनर्नियतात्मानः शांता दांता जितेंद्रियाः ॥९१॥अपि कीटपतंगा ये पशवः पक्षिणो मृगाः ॥तस्मिन्क्षेत्रे मृता यांति स्वर्गलोकं न संशयः ॥९२॥किं पुनर्ये नरास्तत्र कृत्वा प्रायोपवेशनम् ॥संन्यस्ताः श्रद्धयोपेता हृदयस्थे जनार्दने ॥९३॥तस्मात्सर्व प्रयत्नेन तत्क्षेत्रं सेव्यमेव हि ॥विशेषेण कलौ प्राप्ते युगे पापसमावृते ॥९४॥पुनंति स्नानदानाभ्यां सर्वतीर्थान्यसंशयम् ॥हाटकेश्वरजं क्षेत्रं पुनर्वासात्पुनाति च ॥९५॥वापीकूपतडागेषु यत्रयत्र जलं द्विजाः ॥तत्रतत्र नरः स्नातः सर्वपापैः प्रमुच्यते ॥९६॥किं य्रज्ञैः किं वृथा दानैः क व्रतैः किं जपैरपि ॥वरं तत्र कृतो वासः क्षेत्रे स्वर्गमभीप्सुभिः ॥९७॥एतत्पवित्रमायुष्यं मांगल्यं पापनाशनम् ॥हाटकेश्वरजक्षेत्रमाहात्म्यं शृण्वतां सदा ॥९८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गोकर्णतीर्थमाहात्म्य वर्णनंनाम षड्विंशोऽध्यायः ॥२६॥ N/A References : N/A Last Updated : December 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP