संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २०७ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २०७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २०७ Translation - भाषांतर ॥ विश्वामित्र उवाच ॥एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप ॥बालमंडनमाहात्म्यं सर्वपातकनाशनम् ॥१॥यत्रैकस्मिन्नपि स्नाने कृते पार्थिवसत्तम ॥सर्वेषां लभ्यते पुण्यं तीर्थानां स्नानसंभवम् ॥माघमासे त्रयोदश्यां शुक्लपक्ष उपस्थिते ॥२॥ ॥ आनर्त उवाच ॥कस्माच्छक्रस्य संस्थानं पंचरात्रं धरातले ॥नाधिकं जायते तेषां यथान्येषां दिवौकसाम् ॥३॥वर्षांते कानि चाहानि येषु शक्रो धरातले ॥समागच्छति को मास एतत्सर्वं ब्रवीहि मे ॥४॥ ॥ विश्वामित्र उवाच ॥श्रूयतामभिधास्यामि कथा मेनां धराधिप ॥पंचरात्रात्परं शक्रो यथा न स्याद्धरातले ॥५॥आसीत्पूर्वं बृहत्कल्पे जयत्सेनः सुरेश्वरः ॥त्रैलोक्यस्य समस्तस्य स्वामी दानवदर्पहा ॥६॥त्रैलोक्ये सकले पूजां भजमानः सदैव हि ॥कस्यचित्त्वथ कालस्य गौतमस्य मुनेः प्रिया ॥७॥अहिल्यानाम भार्याऽभूद्रूपे णाप्रतिमा भुवि ॥तां दृष्ट्वा चकमे शक्रः कामदेववशं गतः ॥८॥नित्यमेव समागत्य स्वर्गलोकात्स कामभाक् ॥गौतमे निर्गते राजन्समिदिध्मार्थमेव हि ॥दर्भार्थं फलमूलार्थं स्वयमेव महात्मभिः ॥९॥अथ तस्य समाचख्यौ नारदो मुनिसत्तमः ॥शक्रस्य चेष्टितं सर्वं तथाहिल्यासमुद्भवम् ॥१०॥तच्छ्रुत्वा सहसा तूर्णं गौतमो गृहमभ्यगात् ॥यावत्पश्यति देवेशं सह पत्न्या समागतम् ॥११॥शक्रोऽपि गौतमं दृष्ट्वा पलायनपरायणः ॥निर्जगामाश्रमात्तस्माद्विवस्त्रोऽपि भयाकुलः ॥१२॥अहिल्यापि भयत्रस्ता दृष्ट्वा भर्तारमागतम् ॥अधोमुखी स्थिता राजंस्तदा व्याकुलितेंद्रिया ॥१३॥गौतमोऽपि च तद्दृष्ट्वा सम्यग्भार्याविचेष्टितम् ॥ददौ शापं महाराज कोपसंरक्तलोचनः ॥१४॥यस्माच्छक्र पापकर्म कृतमीदृग्विगर्हितम् ॥भार्या मे दूषिता साध्वी तस्मादवृषणो भव ॥१५॥सहस्रं च भगानां ते वक्त्रे भवतु मा चिरम् ॥येन त्वं विप्लवं यासि त्रैलोक्ये सचराचरे ॥१६॥अपरं मर्त्यलोकेऽत्र यद्यागच्छसि वासव ॥पूजाकृते ततो मूर्धा शतधा ते भविष्यति ॥१७॥एवं शप्त्वा च तं शक्रं ततोऽहिल्यामुवाच सः ॥कोपसंरक्तनेत्रस्तु भर्त्सयित्वा मुहुर्मुहुः ॥१८॥यस्मात्पापे त्वया कर्म कृतमेतद्विगर्हितम् ॥तस्माच्छिलामयी भूत्वा त्वं तिष्ठ वसुधातले ॥१९॥ततः सा तत्क्षणाज्जाता तस्य भार्या शिलात्मिका ॥इन्द्रोऽपि च परित्यक्तो वृषणाभ्यां तथाऽभवत् ॥२०॥सहस्रभगचिह्नस्तु वक्त्रदेशे बभूव ह ॥२१॥अथ मेरोः समासाद्य कंदरं विजनं हरिः ॥सव्रीडः सेवते नित्यं न जगाम निजां पुरीम् ॥२२॥ततो देवगणाः सर्वे सोद्वेगास्तेन वर्जिताः ॥नो जानंति च तत्रस्थं कन्दरान्वेषणे रताः ओ ॥२३॥पीड्यंते दानवै रौद्रैः स्वर्गे जाते विराजके ॥२४॥एतस्मिन्नन्तरे जीवः शक्राण्या भयभीतया ॥सोद्वेगया परिपृष्टः क्व गतोऽथ पुरंदरः ॥२५॥अथ जीवश्चिरं ध्यात्वा दृष्ट्वा तं ज्ञानचक्षुषा ॥जगाम सहितो देवैः प्रोवाचाथ सुनिष्ठुरम् ॥२६॥किमित्थं राज्यभोगांस्त्वं त्यक्त्वा विजनमाश्रितः ॥किं त्वया विहितं ध्यानं किं रौद्रं संश्रितं तपः ॥२७॥बृहस्पतेर्वचः श्रुत्वा भगवक्त्रः पुरंदरः ॥प्रोवाच लज्जया युक्तो दीनो बाष्पपरिप्लुतः ॥२८॥नाहं राज्यं करिष्यामि त्रैलोक्येऽपि कथंचन ॥पश्य मे यादृशी जाता ह्यवस्था गौतमान्मुनेः ॥२९॥सहस्रभगचिह्नेन कथं वक्त्रेण तानहम् ॥देवान्संभावयिष्यामि पौलोमीं च तथा शिवम् ॥३॥मर्त्यलोकोद्भवा पूजा नष्टा मम बृहस्पते ॥गौतमस्य मुनेः शापात्कस्मिंश्चित्कारणांतरे ॥३१॥तच्छ्रुत्वा देवराजस्य बृहस्पतिरुवाचह ॥दुःखेन महता युक्तः सर्वैर्देवैः समावृतः ॥गौतमस्य समीपे च गत्वा प्रोवाच तं स्वयम् ॥३२॥एतच्छक्रपरित्यक्तं त्रैलोक्यमपि चाखिलम् ॥पीड्यते दानवैर्विप्र नष्टयज्ञोत्सवक्रियम् ॥३३॥नैष वांछति राज्यं स्वं लज्जया परया युतः ॥तस्मादस्य प्रसादं त्वं यथावत्कर्तुमर्हसि ॥अनुग्रहेण शापस्य मम वाक्याद्द्विजोत्तम ॥३४॥तच्छ्रुत्वा गौतमः प्राह न मे वाक्यं भवेन्मृषा ॥न वाक्यं लोपयिष्यामि यदुक्तं स्वयमेव हि ॥३५॥ततः प्रोवाच ते विष्णुः स्वयं चापि महेश्वरः ॥तथा देवगणाः सर्वे विनयावनता स्थिताः ॥३६॥अन्यथा ब्रह्मणो वाक्यं न ते कर्तुं प्रयुज्यते ॥तस्मात्कुरुष्व विप्रेन्द्र शापस्यानुग्रहं हरेः ॥३७॥दृष्ट्वा तन्मनसो दार्ढ्यं सुरा विष्णुपुरोगमाः ॥ब्रह्मणोंऽतिकमभ्येत्य तस्मै सर्वं न्यवेदयन् ॥३८॥शापं शक्रस्य संजातं तथा तस्मान्महामुनेः ॥३९॥यथा विडंबना जाता देवराजस्य गर्हिता ॥तथा च दानवैः सर्वं त्रैलोक्यं व्याकुलीकृतम् ॥४०॥यथा न कुरुते राज्यं व्रीडितः स शचीपतिः ॥तच्छ्रुत्वा पद्मजस्तूर्णं हरिशंभुसमन्वितः ॥४१॥जगाम तत्र यत्रास्ते दुःखितः पाकशासनः ॥गौतमं च समानीय तत्रैव च पितामहः ॥४२॥ततः प्रोवाच प्रत्यक्षं देवानां वासवस्य च ॥अयुक्तं देवराजेन विहितं मुनिसत्तम ॥४३॥यत्ते प्रदूषिता भार्या कामोपहतचेतसा ॥न ते दोषोऽस्ति यच्छप्तश्छिद्रे चास्मिन्पुरंदरः ॥परं प्रशस्यते नित्यं मुनीनां परमा क्षमा ॥४४॥यथा त्रैलोक्यराज्यं स्वं प्रकरोति शतक्रतुः ॥त्वया स्वयं प्रसादेन तथा नीतिर्विधीयताम् ॥४५॥दत्त्वाऽस्य वृषणौ भूयो नाश यित्वा भगानिमान् ॥मर्त्यलोके गतिश्चास्य यथा स्यात्तत्समाचर ॥४६॥तच्छ्रुत्वा वचनं तेषां स मुनिर्देवगौरवात् ॥वृषणौ मेषसंभूतौ योजयामास तौ तदा ॥४७॥तान्भगान्पाणिना स्पृष्ट्वा चक्रे नेत्राणि सन्मुनिः ॥ततः प्रोवाच तान्देवान्गौतमश्च महातपाः ॥४८॥सहस्राक्षो मया शक्रो निर्मितोयं सुरोत्तमाः ॥स मेषवृषणश्चापि स्वं च राज्यं करिष्यति ॥शोभाऽस्य नेत्रजा वक्त्रे सुरम्या संभविष्यति ॥४९॥पुंस्त्वं च मेषजोत्थाभ्यां वृषणाभ्यां भविष्यति ॥न च मर्त्ये गतिश्चास्य पूजार्थं संभविष्यति ॥५०॥एतस्मिन्नन्तरे जातः सहस्राक्षः पुरंदरः ॥शोभया परया युक्तो मुनेस्तस्य प्रभाव तः ॥५१॥ततः संगृह्य पादौ च गौतमस्य महात्मनः ॥प्रोवाच वचनं शक्रः सर्वदेवसमागमे ॥५२॥दुर्लभा मर्त्यलोकोत्था पूजा ब्राह्मणसत्तम ॥सा मे तव प्रसादेन यथा स्यात्तत्समाचर ॥५३॥त्रैलोक्यपतिजा संज्ञा मा नाशं यातु मे द्विज ॥प्रसादात्तव सा नित्यं यथा स्यात्तद्विधीयताम् ॥५४॥तच्छ्रुत्वा लज्जयाविष्टः कृपया चाथ सन्मुनिः ॥तमूचे सर्वदेवानां प्रत्यक्षं पाकशासनम् ॥५५॥पंचरात्रं च ते पूजा मर्त्यलोके भविष्य ति ॥अनन्यां तृप्तिमभ्येषि यथा चैव तु वत्सरम् ॥५६॥यत्र देशे पुरे ग्रामे पंचरात्रं महोत्सवः ॥तत्र संवत्सरं यावन्नीरोगो भविता जनः ॥५७॥आधयो व्याधयो नैव न दुर्भिक्षं कथंचन ॥न च राज्ञो विनाशः स्यान्नैव लोकेऽसुखं क्वचित् ॥५८॥यत्र स्थाने महो भावी तावकश्च पुरंदर ॥प्रभूतपयसो गावः प्रभविष्यंति तत्र च ॥सुभिक्षं सुखिनो लोकाः सर्वोपद्रववर्जिताः ॥५९॥ ॥ इन्द्र उवाच ॥यद्येवं शरदि प्राप्ते सर्व सत्त्वमनोहरे ॥सप्तच्छदसमाकीर्णे बन्धूकसुविराजिते ॥६०॥मालतीगन्धसंकीर्णे नवसस्यसमाकुले ॥चंद्रज्योत्स्नाकृतोद्द्योते षट्पदाराव संकुले ॥६१॥कुमुदोत्पलसंयुक्ते तत्र स्यात्सुमहोत्सवः ॥येन बालोऽपि वृद्धोऽपि संहृष्टस्तत्समाचर ॥६२॥ ॥ गौतम उवाच ॥अद्य श्रवणनक्षत्रे तव दत्तो महोत्सवः ॥वैष्णवे पुण्यनक्षत्रे सर्वपापविवर्जिते ॥६३॥त्वया मे धर्षिता भार्या पौष्णे नक्षत्रसंज्ञिते ॥तस्मिन्भविष्यति व्यक्तं तव पातः पुरंदर ॥६४॥येनैषा मामकी कीर्तिस्तावकं वक्तु कर्म तत् ॥विख्यातिं यातु लोकेऽत्र न कश्चित्पापमाचरेत् ॥६५॥श्रवणादीनि पंचैव नक्षत्राणि पृथक्पृथक् ॥तव पूजाकृते पंच क्रतुतुल्यानि तानि च ॥भविष्यंति न संदेहः सर्वतीर्थमयानि च ॥६६॥ यो यं काममभिध्याय पूजां तव करिष्यति ॥विशेषात्फलपुष्पैश्च स तं कृत्स्नमवाप्नुयात् ॥६७॥परं मूर्तिर्न ते पूज्या कुत्रापि च भविष्यति ॥त्वया मे दूषिता भार्या ब्राह्मणी प्राणसंमता ॥६८॥तस्माद्वृक्षोद्भवां यष्टिं ब्राह्मणा वेदपारगाः ॥तावकैः सकलैर्मंत्रैः स्थापयिष्यंति शक्तितः ॥६९॥पंचरात्रविधानेन यथान्येषां दिवौकसाम् ॥ततः संक्रमणं कृत्वा पूजा मर्त्यसमुद्भवा ॥त्वया ग्राह्या सहस्राक्ष तृप्तिश्चैव भविष्यति ॥७०॥यो यथा चैव ते यष्टिं सुप्तामुत्थापयिष्यति ॥तस्य तस्याधिका सिद्धिः संभविष्यंति वासव ॥७१॥पंचरात्रव्रतरतो यो ब्रह्मचर्यपरायणः ॥प्रकरिष्यति ते पूजां फलपुष्पैर्यथोदितैः ॥७२॥परदारकृतात्पापात्स सर्वान्मुक्तिमेष्यति ॥७३॥नमः शक्राय देवाय शुनासीराय ते नमः ॥नमस्ते वज्रहस्ताय नमस्ते वज्रपाणये ॥७४॥मन्त्रेणानेन यश्चार्घ्यं तव शक्र प्रदास्यति ॥परदारकृतं पापं तस्य सर्वं प्रयास्यति ॥७५॥यश्चेदं तव संवादं मया सार्धं पुरंदर ॥कीर्तयिष्यति सद्भक्त्या तथैवाकर्णयिष्यति ॥७६॥तस्य संवत्सरं यावन्नैव रोगो भविष्यति ॥तच्छ्रुत्वा विबुधाः सर्वे तथेत्युक्त्वा प्रहर्षिताः ॥७७॥जग्मुः शक्रं समादाय पुनरेवामरावतीम् ॥गौतमोऽपि निजा वासं गतः कोपसमाश्रितः ॥७८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्य इन्द्रमहोत्सववर्णनंनाम सप्तोत्तरद्विशततमोऽध्यायः ॥२०७॥ N/A References : N/A Last Updated : January 06, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP