संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १९४ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १९४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १९४ Translation - भाषांतर ॥ सूत उवाच ॥एवं सा तान्वरान्दत्त्वा सर्वेषां शापभागिनाम् ॥मौनव्रतपरा भूत्वा निविष्टाऽथ धरातले ॥१॥ततो देवगणाः सर्वे तापसाश्च महर्षयः ॥साधुसाध्विति तां प्रोच्य ततः प्रोचुरिदं वचः ॥२॥एतां देवीप्रसादेन ब्राह्मणानां विशेषतः ॥पूजयिष्यंति मर्त्येऽत्र सर्वे लोकाः समाहिताः ॥३॥ब्रह्माणं पूजयित्वा तु पश्चादेनां सुरेश्वरीम् ॥पूजयिष्यंति ये मर्त्यास्ते तु यांति परां गतिम् ॥४॥या कन्या पतिसंयोगं संप्राप्यात्र समाहिता ॥ततः पादप्रणामं च गायत्र्याश्च करिष्यति ॥पतिं प्रजापतिं प्राप्य सा भविष्यत्यसंशयम् ॥५॥सर्वकामसुखोपेता धनधान्यसमन्विता ॥या नारी दुर्भगा वंध्या भविष्यति च शोभना ॥६॥ ॥ ऋषय ऊचुः ॥यदेतद्भवता प्रोक्तं गते पंचोत्तरे शते ॥पद्मजानां हरः प्रादादेतत्कथमनुत्त मम् ॥७॥ब्राह्मणेभ्यः स संतुष्टः किंवाऽन्योऽस्ति महेश्वरः ॥एतं नः संशयं भूयो यथावद्वक्तुमर्हसि ॥८॥आयुष्यं शंकरस्यापि यत्प्रमाणं तथा हरेः ॥ब्रह्मणोऽपि समाचक्ष्व परं कौतूहलं हि नः ॥९॥ ॥ सूत उवाच ॥अहं वः कीर्तयिष्यामि विस्तरेण द्विजोत्तमाः ॥त्रयाणामपि चायुष्यं यत्प्रमाणं व्यवस्थितम् ॥१०॥निमेषस्य चतुर्भागस्त्रुटिः स्यात्तद्द्वयं लवः ॥लवद्वयं कला प्रोक्ता काष्ठा तु दशपंचभिः ॥११॥त्रिंशत्काष्ठां कलामाहुः क्षणस्त्रिंशत्कलो मतः ॥मुहूर्तमानं मौहूर्ता वदंति द्वादशक्षणम् ॥१२॥त्रिंशन्मुहूर्तमुद्दिष्टमहोरात्रं मनीषिभिः ॥मासस्त्रिंशदहोरात्रैर्द्वौ मासावृतुसंज्ञितः ॥१३॥ऋतुत्रयं चायनं च अयने द्वे तु वत्सरम् ॥दैविकं च भवेत्तच्च ह्यहोरात्रं द्विजोत्तमाः ॥१४॥उत्तरं चायनं तत्र दिनं रात्रिस्तथाऽपरम् ॥लक्षैः सप्तदशाख्यैस्तु मनुष्याणां च वत्सरैः ॥१५॥अष्टाविंशतिभिश्चैव सहस्रैस्तु तथा परैः ॥आद्यं कृतयुगं चैव तद्भ विष्यति सद्द्विजाः ॥१६॥ततो द्वादशभिर्लक्षैः षोडशानां सहस्रकैः ॥त्रेतायुगं समादिष्टं द्वितीयं द्विजसत्तमाः ॥१७॥द्वापरं चाष्टभिर्लक्षैस्तृ तीयं परिकीर्तितम् ॥चतुःषष्टिसहस्रैस्तु यथावत्परिसंख्यया ॥१८॥चतुर्लक्षं समादिष्टं युगं कलिसमुद्भवम् ॥द्वात्रिंशता सहस्रैस्तु चतुर्थं तद्विदुर्बुधाः ॥१९॥चतुर्युगसहस्रेण दिनं पैतामहं भवेत् ॥तेषां त्रिंशद्दिनैर्मासो मासैर्द्वादशभिर्वत्सरो भवेत् ॥२॥ब्रह्मा तेषां शतं यावत्स जीवति पितामहः ॥सांप्रतं चाष्टवर्षीयः षण्मासश्चैव संस्थितः ॥२१॥प्रतिपद्दिवसस्यास्य प्रथमस्य तथा गतम् ॥यामद्वयं शुक्रवारे वर्तमाने महात्मनः ॥२२॥ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते ॥२३॥सोपि वर्षशतंयावदात्ममानेन जीवति ॥पंचपचाशदादिष्टास्तस्य जातस्य वत्सराः ॥२४॥तिथयः पंच यामार्द्धं सोमवारेण संगतम् ॥वैष्णवेन तु वर्षेण दिनं माहेश्वरं भवेत् ॥२५॥शिवो वर्षशतं यावत्तेन रूपेण च स्थितः ॥यावदुच्छ्वसितं वक्त्रं सदाशिवसमुद्भवम् ॥२६॥पश्चाच्छक्तिं समभ्येति यावन्निश्वसितं भवेत् ॥निश्वासोच्छ्वसितानां च सर्वेषामेव देहिनाम् ॥२७॥ब्रह्मविष्णुशिवानां च गन्धर्वोरगरक्षसाम् ॥एकविंशत्सहस्राणि शतैः षड्भिः शतानि च ॥२८॥अहोरात्रेण चोक्तानि प्रमाणे द्विज सत्तमाः ॥षड्भिरुच्छ्वासनिश्वासैः पलमेकं प्रवर्तते ॥२९॥नाडी षष्टिपला प्रोक्ता तासां षष्ट्या दिनं निशा ॥निश्वासोच्छ्वसितानां च परिसंख्या न विद्यते ॥सदाशिवसमुत्थानामेतस्मात्सोऽक्षयः स्मृतः ॥३०॥अन्येऽपि ये प्रगच्छंति ब्रह्मज्ञानसमन्विताः ॥अक्षयास्तेऽपि जायंते सत्यमेतन्मयोदितम् ॥३१॥ ॥ ऋषय ऊचुः ॥यद्येवं सूतपुत्रात्र ब्रह्मविष्णुमहेश्वराः ॥आत्मवर्षशते पूर्णे यांति नाशमसंशयम् ॥३२॥तत्कथं मानुषाणां च मर्त्यलोकेल्पजीविनाम् ॥कथयंति च ये मुक्तिं विद्वांसश्चैव सूतज ॥३३॥नूनं तेषां मृषा वादो मोक्षमार्गसमु द्भवः ॥३४॥ ॥ सूत उवाच ॥अनादिनिधनः कालः संख्यया परिवर्जितः ॥असंख्याता गता मोक्षं ब्रह्मविष्णुमहेश्वराः ॥३५॥निजे वर्षशते पूर्णे वालुकारेणवो यथा ॥निजमानेन या श्रद्धा ब्रह्मज्ञानसमुद्भवा ॥तेषां चेन्मानुषाणां च तन्मुक्तिः स्यादसंशयम् ॥३६॥यथैते दंशमशका मानुषाणां च कीटकाः ॥जायंते च म्रियंते च गण्यंते नैव कुत्रचित् ॥इन्द्रादीनां तथा मर्त्याः संभाव्या जगतीतले ॥३७॥देवानां च यथा मर्त्याः कीटस्थाने च संस्थिताः ॥तथा देवा अपि ज्ञेया ब्रह्मणोऽव्यक्तजन्मनः ॥३८॥ब्रह्मणस्तु यथा देवाः कीटस्थाने व्यवस्थिताः ॥तथा ब्रह्मापि विष्णोश्च कीटस्थाने व्यवस्थितः ॥३९॥पितामहो यथा विष्णोः कीटस्थाने व्यवस्थितः ॥तथा स शिवशक्तिभ्यां परिज्ञेयो द्विजोत्तमाः ॥४०॥यथा विष्णुः कृमिर्ज्ञेयस्ताभ्यामेव द्विजोत्तमाः ॥सदाशिवस्य विज्ञेयौ तथा तौ कृमिरूपकौ ॥४१॥एवं च विविधैर्यज्ञैः श्रद्धा पूतेन चेतसा ॥ब्रह्मज्ञानात्परं यांति सदाशिवसमुद्भवम् ॥४२॥अग्निष्टोमादिभिर्यज्ञैः कृतैः संपूर्णदक्षिणैः ॥तदर्थं ते दिवं यांति भुक्त्वा भोगान्पृथग्विधान् ॥४३॥क्षये च पुनरायांति सुकृतस्य महीतले ॥ब्रह्मज्ञानात्परं प्राप्य पुनर्जन्म न विद्यते ॥४४॥तस्मात्सर्वप्रयत्नेन तत्राभ्यासं समा चरेत् ॥जन्मभिर्बहुभिः पश्चाच्छनैर्मुक्तिमवाप्नुयात् ॥४५॥एकजन्मनि संप्राप्तो लेशो ज्ञानस्य तस्य च ॥द्वितीये द्विगुणस्तस्य तृतीये त्रिगु णो भवेत् ॥४६॥एकोत्तरो भवेदेवं सदा जन्मनिजन्मनि ॥४७॥ ॥ ऋषय ऊचुः ॥ब्रह्मज्ञानस्य संप्राप्तिर्मर्त्यानां जायते कथम् ॥एतन्नः सर्वमाचक्ष्व यदि त्वं वेत्सि सूतज ॥४८॥ ॥ सूत उवाच ॥का शक्तिर्मम वक्तव्ये ज्ञाने मर्त्यसमुद्भवे ॥स्वयमेव न यो वेत्ति स परस्य वदेत्कथम् ॥४९॥उपदेशः परं यो मे पित्रा दत्तो द्विजोत्तमाः ॥तमहं वः प्रवक्ष्यामि ब्रह्मज्ञानसमुद्भवम् ॥५०॥हाटकेश्वरजे क्षेत्रे ह्यस्ति तीर्थद्वयं शुभम् ॥कुमारिकाभ्यां विहितं ब्रह्मज्ञानप्रदं नृणाम् ॥५१॥ब्राह्मण्या चैव शूद्र्या च कुमारीभ्यां विनिर्मितम् ॥अष्टम्यां च चतुर्दश्यां यस्ताभ्यां स्नानमाचरेत् ॥५२॥पश्चात्पूजयते भक्त्त्या प्रसिद्धे सिद्धिपादुके ॥सुगुप्ते गर्तमध्यस्थे कुमार्या परिपूजिते ॥५३॥तस्य संवत्सरस्यान्ते ब्रह्मज्ञानं प्रजायते ॥शक्त्या विनिहिते ते च स्वदर्शनविवृद्धये ॥५४॥लोकानां मुक्तिकामानां ब्रह्मज्ञानसुखावहे ॥मम तातो गतस्तत्र ततश्च ज्ञानवान्स्थितः ॥५५॥तस्यादेशादहं तत्र गतः संवत्सरं स्थितः ॥पादुके पूजयामास ततो ज्ञानं च संस्थितम् ॥५६॥यत्किञ्चिद्वा श्रुतं लोके पुराणाग्र्यं व्यवस्थितम् ॥वर्तमानं भविष्यच्च तदहं वेद्मि भो द्विजाः ॥५७॥तत्प्रसादादसंदिग्धं प्रमाणं चात्र संस्थितम् ॥मुक्त्वैकं वेदपठनं सूतत्वं च यतो मयि ॥५८॥तस्यापि वेद्मि सर्वार्थं भर्तृयज्ञो यथा मुनिः ॥अस्मादत्रैव गच्छध्वं यदि मुक्तेः प्रयोजनम् ॥५९॥किमेतैः स्वर्गदैः सत्रैः पुनरावृत्तिकारकैः ॥आराधयध्वं ते गत्वा पादुके सिद्धिदे नृणाम् ॥येन संवत्सरस्यान्ते ब्रह्मज्ञानं प्रजायते ॥६०॥ ॥ ऋषय ऊचुः ॥साधुसाधु महाभाग ह्युपदेशः कृतो महान् ॥तेन संतारिताः सर्वे वयं संसारसागरात् ॥६१॥यास्यामोऽपि वयं तत्र सत्रे द्वादशवार्षिके ॥समाप्तेऽस्मिन्न संदेहः सर्वे च कृतनिश्चयाः ॥६२॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्रह्मज्ञानप्राप्त्यर्थं कुमारिकातीर्थद्वयगर्तक्षेत्रस्थपादुकामाहात्म्यवर्णनंनाम चतुर्णवत्युत्तरशततमोऽध्यायः ॥१९४॥ N/A References : N/A Last Updated : December 31, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP