संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १९८ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १९८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १९८ Translation - भाषांतर ॥ सूत उवाच ॥एतस्मिन्नेव काले तु दशार्णाधिपतिस्तदा ॥रत्नवत्या विवाहार्थं तत्र स्थाने समागतः ॥१॥स श्रुत्वा तत्र वृत्तांतं रत्नवत्याः समुद्भवम् ॥विरक्तिं परमां कृत्वा प्रस्थितः स्वपुरं प्रति ॥२॥तं श्रुत्वा प्रस्थितं भूपमानर्तः स्वपुरं प्रति ॥पृष्ठतोऽनुययौ तस्य व्याघो टनकृते तदा ॥३॥अथाब्रवीच्च तं प्राप्य कस्मात्त्वं प्रस्थितो नृप ॥पाणिग्रहमकृत्वा तु मम कन्यासमुद्भवम् ॥४॥ ॥ दशार्ण उवाच ॥दूषितेयं तव सुता कन्यकात्वविवर्जिता ॥यस्याः पीतोऽधरोऽन्येन मर्दितौ च तथा स्तनौ ॥५॥पुनर्भूरिति संज्ञा सा सञ्जाता दुहिता तव ॥पुनर्भूर्जनयेत्पुत्रं यं कदाचित्कथंचन ॥६॥स पातयत्यसंदिग्धं दश पूर्वान्दशापरान् ॥एकविंशतिमं चैव तथैवात्मानमेव च ॥७॥न वरिष्याम्यहं तेन सुतां तेऽहं नरसिप ॥निर्दाक्षिण्यमिति प्रोच्य दशार्णाधिपतिस्तदा ॥८॥छंद्यमानोऽपि विविधैर्हस्त्यश्वरथपूर्वकैः ॥अवज्ञाय महीपालं प्रस्थितः स्वपुरं प्रति ॥९॥अथानर्त्तो गृहं प्राप्य मृगावत्याः समाकुलः ॥तद्वृत्तं कथयामास यदुक्तं तेन भूभुजा ॥स्वभार्यायाः सुतायाश्च मन्त्रिणां दुःखसंयुतः ॥१०॥ते प्रोचुः संति भूपालाः संख्याहीना महीतले ॥रूपाढ्या यौवनोपेता हस्त्यश्वरथसंयुताः ॥११॥तेषामेकतमस्य त्वं देहि कन्यां निजां विभो ॥मा विषादे मनः कृत्वा दुःखस्य वशगो भव ॥१२॥आनर्तोऽपि च तच्छ्रुत्वा तेषां वाक्यं सुदुःखितम् ॥ततः प्राह प्रहृष्टात्मा तान्सर्वान्मन्त्रिपूर्वकान् ॥१३॥तां च कन्यां स्थितां तत्र साम्ना परमवल्गुना ॥पुत्रि दृष्टा महीपालाः सर्वे चित्रगतास्त्वया ॥१४॥तेषां मध्यान्नृपं चान्यं कञ्चिद्वरय शोभने ॥यस्ते चित्तस्य सन्तोषं कुरुते दृक्पथं गतः ॥१५॥ ॥ रत्नावत्युवाच ॥न चाहं वरयिष्यामि पतिमन्यं कथंचन ॥दशार्णाधिपतिं मुक्त्वा श्रूयतामत्र कारणम् ॥१६॥सकृज्जल्पंति राजानः सकृज्जल्पंति च द्विजाः ॥सकृत्कन्याः प्रदीयंते त्रीण्येतानि सकृत्सकृत् ॥१७॥एवं ज्ञात्वा न मां तात त्वमन्यस्मिन्महीपतौ ॥दातुमर्हसि धर्मोऽयं न भवेच्छाश्वतो यतः ॥१८॥ ॥ आनर्त उवाच ॥वाङ्मात्रेण प्रदत्ता त्वं दशार्णाधिपतेर्मया ॥न ते हस्तग्रहं प्राप्तो विप्राग्निगुरुसन्निधौ ॥१९॥तत्कथं स पतिर्जातस्तवः पुत्रि वदस्व मे ॥२०॥ ॥ रत्नावत्युवाच ॥मनसा चिंत्यते कार्यं सकृत्तातपुरा यतः ॥वाचया प्रोच्यते पश्चात् कर्मणा क्रियते ततः ॥२१॥तन्मया मनसा दत्तस्तस्यात्माऽयं पुरा किल ॥त्वया च वाचया चास्मै प्रदत्तास्मि तथा विभो ॥तत्कथं न पतिर्मे स्याद्ब्रूहि वा यदि मन्यसे ॥२२॥साहं तपश्चरिष्यामि कौमारव्रतधारिणी ॥नान्यं पतिं करिष्यामि निश्चयोऽयं मया कृतः ॥२३॥तच्छ्रुत्वा वचनं रौद्रं माता तस्या मृगावती ॥अश्रुपूर्णेक्षणा दीना वाक्यमेतदुवाच ह ॥२४॥मा पुत्रि साहसं कार्षीस्तपोऽर्थं त्वं कथञ्चन ॥बाला त्वं सुकुमारांगी सदैव सुखभागिनी ॥२५॥कथं तपः समर्थासि विधातुं त्वमनिंदिते ॥कन्दमूलफलाहारा चीरवल्कलधारिणी ॥२६॥तस्मान्मुख्यस्य भूपस्य कस्यचित्वां ददाम्यहम् ॥२७॥एषा ते ब्राह्मणीनाम सखी परमसंमता ॥प्रतीक्षते विवाहं ते कौमारं भावमाश्रिता ॥२८॥यस्य भूपस्य त्वं हर्म्ये प्रयास्यसि विवाहि ता ॥पुरोधास्तस्य यो राज्ञो भार्येयं तस्य भाविनी ॥२९॥ ॥ रत्नावत्युवाच ॥न च भूयस्त्वया वाच्यं वाक्यमेवंविधं क्वचित् ॥मदर्थे यदि मे प्राणास्त्वं वांछसि सुतैषिणी ॥३०॥अथवा त्वं हठार्थं च तपोविघ्नं करिष्यसि ॥३१॥ततस्त्यक्ष्याम्यहं देहं भक्षयित्वा महद्विषम् ॥खंडयिष्याम्यहं जिह्वां प्रवेक्ष्यामि च वा जलम् ॥३२॥एवं सा निश्चयं कृत्वा प्रोच्य तां जननीं तदा ॥३३॥ततः प्रोवाच तां कन्यां ब्राह्मणीं संमतां सखीम् ॥कृतांजलिपुटा भूत्वा समालिंग्य च सादरम् ॥३४॥गच्छ त्वं स्वपितुर्हर्म्यं प्रेषितासि मया शुभे ॥येन ते यच्छति पिता नागराय महात्मने ॥३५॥क्षमस्व यन्मया प्रोक्ता कदाचित्परुषं वचः ॥त्वयापि यन्मम प्रोक्तं क्षांतं चैतन्मया ध्रुवम् ॥३६॥ ॥ ब्राह्मण्युवाच ॥अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी ॥दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥३७॥कौमार्यं च प्रणष्टं मे त्वत्संपर्काद्वरानने ॥जातं षोडशकं वर्षं स्त्रीधर्मेण समन्वितम् ॥३८॥न मे पाणिग्रहं कश्चिन्नागरोऽत्र करिष्यति ॥बुध्यमानस्तु स्मृत्यर्थं वक्ष्य माणं वरानने ॥३९॥रजस्वलां च यः कन्यामुद्वाहयति निर्घृणः ॥तस्याः सन्तानमासाद्य पातयेत्पुरुषान्दश ॥४०॥रजस्वला तु यः कन्यां पिता यच्छति निर्घृणः ॥स पातयेदसंदिग्धं दश पूर्वान्दशापरान् ॥४१॥तस्मादहं करिष्यामि त्वया सार्धं तपः शुभे ॥पित्रा नैव हि मे कार्यं न च मात्रा कथंचन ॥४२॥ ॥ सूत उवाच ॥एवं ते निश्चयं कृत्वा कन्यके द्वे द्विजोतमाः ॥गते यत्र स्थितः साक्षाद्भर्तृयज्ञो महामुनिः ॥४३॥स्थितो वास्तुपदे रम्ये सर्वतीर्थमये शुभे ॥तस्य तपःप्रभावेन जातु कोपो न दृश्यते ॥४४॥कस्यचित्क्वापि मर्त्यस्य तिर्यग्योनिग तस्य च ॥क्रीडंति नकुलाः सर्पैर्मार्जाराः सह मूषकैः ॥४६॥सारंगा द्वीपिभिः सार्धं काकाश्च सह कौशिकैः ॥भर्तृयज्ञं सुखासीनं तत्र गत्वा तु ते शुभे ॥प्रोचतुर्विनयोपेते कृतांजलिपुटे स्थिते ॥४६॥ ॥ ब्राह्मण्युवाच ॥अहं सख्या समं याता ह्यनया राजकन्यया ॥तपोऽर्थे तव पादांते तद्ब्रूहि तपसो विधिम् ॥४७॥ वदस्व येन तत्कृत्स्नं प्रकरोमि महामते ॥४८॥ ॥ भर्तृयज्ञ उवाच ॥अहं ते कथयिष्यामि तपश्चर्याविधिं पृथक् ॥येन संप्राप्यते मोक्षः कि पुनस्त्रिदशालयः ॥४९॥चांद्रायणानि कृच्छ्राणि तथा सांतपनानि च ॥षष्ठे काले तथा भोज्यं दिनांतरितमेव च ॥५०॥ब्रह्मकूर्चं त्रिरात्रं च एकभक्तमयाचितम् ॥तपोद्वाराणि सर्वाणि कृतान्येतानि वेधसा ॥५१॥स्वशक्त्या चैव कार्याणि रागद्वेषविवर्जितैः ॥वांछितव्यं फलं चैव सर्वेषामेव पुत्रिके ॥ततः सिद्धिमवाप्नोति या सदा मनसि स्थिता ॥५२॥समत्वं शत्रुमित्राभ्यां तथा पा षाणरत्नयोः ॥यदा संजायते चित्ते तदा मोक्षमवाप्नुयात् ॥५३॥यो लिंगग्रहणं कृत्वा ततः कोपपरो भवेत् ॥तस्य वृथा हि तत्सर्वं यथा भस्महुतं तथा ॥५४॥ ॥ सूत उवाच ॥सा तथेतिप्रतिज्ञाय ब्राह्मणी सहिता तया ॥रत्नावत्या जगामाथ किंचिच्चैव जलाशयम् ॥५५॥स्वच्छोदकेन संपूर्णं पद्मिनीषंडमंडितम् ॥ततश्चांद्रायणं चक्रे तपसः प्रथमं व्रतम् ॥५६॥ततः कृच्छ्रव्रतं चक्रे ततः सांतपनं च सा ॥षष्ठान्नकालभोज्या च सा चाभूद्वत्सरत्रयम् ॥५७॥त्रिरात्रोपोषणं पश्चाद्यावद्वर्षत्रयं तथा ॥एकान्तरोपवासैश्च साऽनयद्वत्सरत्रयम् ॥५८॥हेमंते जलमध्यस्था सा बभूव तपस्विनी ॥पंचाग्निसाधका ग्रीष्मे सा बभूव यशस्विनी ॥५९॥निराश्रयाऽभवत्साध्वी वर्षाकाल उपस्थिते ॥ध्यायमाना दिवानक्तं देवदेवं जनार्दनम् ॥६०॥यद्यद्व्रतं पुरा चक्रे ब्राह्मणी सा च सुव्रता ॥अन्यं जलाशयं प्राप्य सा तच्चक्रे नृपात्मजा ॥प्रीत्या परमया युक्ता तदा सा द्विजस त्तमाः ॥६१॥ततो वर्षशतं सार्धं फलाहारा बभूव सा ॥शीर्णपर्णाशना पश्चात्तावन्मात्रं व्यवस्थिता ॥६२॥ततश्चैव जलाहारा यावद्वर्षशतानि षट् ॥वायुभक्षा बभूवाथ सहस्रं परिवत्सरान् ॥६३॥यथायथा तपश्चक्रे सा कुमारी द्विजोत्तमाः ॥तथातथाऽभवत्तस्यास्तेजोवृद्धिरनुत्तमा ॥६४॥एतस्मिन्नेव काले तु भगवाञ्छशिशेखरः ॥६५॥गौर्या सह प्रसन्नात्मा तस्या गोचरमागतः ॥मेघगंभीरया वाचा ततोवचनमब्रवीत् ॥६६॥वत्से तपोनिवृत्तिं त्वं कुरुष्व वचनान्मम ॥प्रार्थयस्व मनोऽभीष्टं येन सर्वं ददामि ते ॥६७॥ ॥ ब्राह्मण्युवाच ॥अभीष्टमेतदेवं मे यत्त्वं दृष्टोऽसि शंकर ॥स्वप्नेऽपि दर्शनं देव दुर्लभं ते नृणां यतः ॥६८॥ ॥ भगवानुवाच ॥न मे स्याद्दर्शनं व्यर्थं कथंचित्सुतपस्विनि ॥तस्माद्वरय भद्रं ते वरं येन ददाम्यहम् ॥६९॥ ॥ ब्राह्मण्युवाच ॥एषा मे सुसखी साध्वी राजपुत्री यशस्विनी ॥ख्याता रत्नावतीनाम प्राणेभ्योऽपिगरीयसी ॥७०॥मम तुल्यं तपश्चक्रे शूद्रयोनावपि स्थिता ॥निवर्तते तु यद्येषा तपसस्तु निवर्तनम् ॥करोम्यद्य जगन्नाथ तदहं संशयं विना ॥७१॥अस्याः स्नेहेन संत्यक्तो मया भर्ता सुरेश्वर ॥तस्माद्देव वरं देहि त्वमस्या मनसि स्थितम् ॥७२॥ ॥ सूत उवाच ॥तस्यास्तद्वचनं श्रुत्वा भगवाञ्छशिशेखरः ॥अब्रवीद्राजपुत्रीं तां मेघगंभीरया गिरा ॥वत्से मद्वचनादद्य तपस्त्वं त्यक्तुमर्हसि ॥७३॥वरं वरय कल्याणि नित्यं मनसि संस्थितम् ॥अदेयमपि दास्यामि सांप्रतं तव भामिनि ॥७४॥ ॥ रत्नावत्युवाच ॥एतज्जलाशयं पुण्यं पद्मिनीषण्ड मण्डितम् ॥७५॥यत्रैषा ब्राह्मणी साध्वी नित्यं च तपसि स्थिता ॥अस्या नाम्ना च विख्यातिं तीर्थमेतत्प्रपद्यताम् ॥७६॥अत्र यः कुरुते स्नानं श्रद्धया परया युतः ॥तस्य भूयात्सदा वासो देवदेव त्रिविष्टपे औ ॥ ७७॥मदीयं मम नाम्ना तु शूद्रासंज्ञं तु जायताम् ॥तस्य तुल्यप्रभावं तु तीर्थस्य प्रतिपद्यताम् ॥७८॥आवाभ्यां नित्यशः कार्यं कुमारत्वे महत्तपः ॥आराध्यस्त्वं सुरश्रेष्ठो वाङ्मनःकर्मभिस्तथा ॥७९॥एतस्मिन्नेव काले तु निर्भिद्य धरणीतलम् ॥लिंगं माहेश्वरं विप्रा निष्क्रांतं सूर्यसंनिभम् ॥८०॥ततः प्रोवाच ते देवः स्वयमेव महेश्वरः ॥ताभ्यां सुतपसा तुष्टः सादरं भक्तवत्सलः ॥८१॥एतत्तीर्थद्वयं ख्यातं त्रैलोक्येपि भविष्यति ॥शूद्रीनाम त्वदीयं तु ब्राह्मणी च सखी तव ॥८२॥तीर्थद्वयेऽपि यः स्नात्वा एतस्मिञ्छ्रद्धयाऽन्वितः ॥त्वत्तः पद्मानि संगृह्य अस्यास्तोयं च निर्मलम् ॥एतच्च मामकं लिंगं स्नापयित्वाऽर्चयिष्यति ॥८३॥पश्चात्पद्मैश्चतुर्दश्यां शुक्लायां सोमवासरे ॥चैत्रे मासि च संप्राप्ते चिरायुः स भविष्यति ॥८४॥सर्वपापविनिर्मुक्तो यद्यपि स्यात्सुपापकृत् ॥८५॥एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः ॥तत्र नित्यं च तपसि स्थिते सख्यावुभावपि ॥८६॥यावत्कल्पशतं तावज्जरामरणवर्जि ते ॥अद्यापि गगने ते च दृश्येते तारकात्मके ॥८७॥ततःप्रभृति तत्ख्यातं तीर्थयुग्मं धरातले ॥आगत्याथ नरो दूरात्ताभ्यां कृत्वा निमज्जनम् ॥८८॥पूजयित्वा तु तल्लिंगं ततो याति दिवालयम् ॥महापातकयुक्तोऽपि तत्प्रभावादसंशयम् ॥८९॥एतस्मिन्नंतरे मर्त्ये नष्टा धर्मस्य च क्रिया ॥यज्ञदानकृता या च देवार्चनसमुद्भवा ॥९०॥व्याप्तस्तथाखिलः स्वर्गो मानवैः स्पर्धयान्वितैः ॥सार्धं देवैर्विमानस्थैरप्सरोगणसेवितैः ॥९१॥एतस्मिन्नेव काले तु धर्मराजः समाययौ ॥यत्र वेदध्वनिर्ब्रह्मा ब्रह्मलोकं समाश्रितः ॥९२॥अब्रवीद्दुःखितो दीनः क्षिप्त्वाग्रे पत्रकद्वयम् ॥एकं पापसमुद्भूतमन्यद्धर्मसमुद्भवम् ॥९३॥चित्रेण लिखितं यच्च विचित्रेण तथा परम् ॥हाटकेश्वरजे क्षेत्रे देवतीर्थयुगं स्थितम् ॥९४॥शूद्राख्यं ब्राह्मणीनाम तथान्यत्पद्ममंडितम् ॥तथा तत्रास्ति लिंगं च पुण्यं माहेश्वरं महत् ॥९५॥त्रयाणामथ तेषां च प्रभावात्सर्वमानवाः ॥अपि पापसमायुक्ताः प्रयांति त्रिदशालयम् ॥९६॥शून्या मे नरका जाताः सर्वे ते रौरवादयः ॥९७॥न कश्चिद्यजनं चक्रे न दानं न च तर्पणम् ॥देवतानां पितॄणां च मनुष्याणां विशेषतः ॥९८॥तस्मान्मुक्तो मया सर्वो योऽधिकारस्तवोद्भवः ॥नियोजयस्व तत्रान्यं कञ्चिच्छक्ततमं ततः ॥९९॥अप्रमाणं स्थितं सर्वमेतत्पत्रद्वयं मम ॥तच्छ्रुत्वा पद्मजः प्राह समानीय शतक्रतुम् ॥१००॥गत्वा शीघ्रतमं मर्त्ये त्वं शक्र वचनान्मम ॥हाटकेश्वरजे क्षेत्रे तीर्थद्वयमनुत्तमम् ॥१०१॥शूद्र्याख्यं ब्राह्मणीत्येव यच्च लिंगमनुत्तमम् ॥तत्रस्थं नाशय क्षिप्रं कृत्वा पांसुप्रवर्षणम् ॥१०२॥ ॥ सूत उवाच ॥तच्छ्रुत्वा सत्वरं शक्रो गत्वा भूमितलं ततः ॥पांसुभिः पूरयामास ते तीर्थे लिंगमेव च ॥१०३॥अद्यापि कलिकालेऽस्मिन्द्वाभ्यां गृह्य सुमृत्तिकाम् ॥स्नात्वा च तिलकं कार्यं सर्वपापविशुद्धये ॥१०४॥चतुर्दशीदिने प्राप्ते सोमवारे च संस्थिते ॥द्वाभ्यां यः कुरुते श्राद्धं श्रद्धया परया युतः ॥गयाश्राद्धेन किं तस्य मनुः स्वायंभुवोऽब्रवीत् ॥एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥यथा सा ब्राह्मणी जाता शूद्री चापि तथापरा ॥१०६॥यश्चैतच्छृणुयाद्भक्त्या पठेद्वा द्विजसत्तमाः ॥सोऽपि तद्दिनजात्पापान्मुच्यते नात्र संशयः ॥१०७॥एवं नरो न कः सिद्धस्तस्य लिंगस्य पूजनात् ॥चिरायुश्च तथा जातो यथान्यो नात्र विद्यते ॥१०८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शूद्रीब्राह्मणीतीर्थद्वयमाहात्म्यवर्णनं नामाष्टनवत्युत्तरशततममोऽध्यायः ॥ N/A References : N/A Last Updated : December 31, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP