संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १२५ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १२५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १२५ Translation - भाषांतर ॥ सूत उवाच ॥ततः कर्णोत्पलातीर्थं विख्यातं चास्ति शोभनम् ॥यत्र स्नातो नरः सम्यङ्न वियोगमवाप्नुयात् ॥१॥कथंचिदपि चेष्टेन धनेनालिजनेन च ॥पराक्रमेण धर्मेण कलत्रेण विशेषतः ॥२॥सत्यसंध इति ख्यातः पुरासीत्पृथिवीपतिः ॥इक्ष्वाकुकुलसंभूतः सर्वरूपगुणैर्युतः ॥३॥तस्य कर्णोत्पलानाम जाता कन्या सुशोभना ॥बहुपुत्रस्य चैका सा सर्वलक्षणलक्षिता ॥४॥अथ तस्याः पिता नाम चक्रे द्वादशमे दिने ॥संमंत्र्य ब्राह्मणैः सार्धं भृत्यामात्यैर्मुहुर्मुहुः ॥५॥यस्मात्कर्णोत्पला चेयं जाता मम कुमारिका ॥तस्मात्कर्णोत्पलानाम जाता कन्या सुशोभना ॥६॥बहु पुत्रस्य चैका सा सर्वलक्षणलक्षिता ॥तस्मात्कर्णोत्पलानाम जायतां द्विजसत्तमाः ॥७॥कृतनामाऽथ सा बाला वृद्धिं याति दिनेदिने ॥आह्लादकारिणी नित्यं कला चांद्रमसी यथा ॥८॥अथ सा क्रमशः प्राप्ता यौवनं बंधुलालिता ॥हस्ताद्धस्तं प्रगच्छंती सर्वेषां द्विजसत्तमाः ॥९॥अथ तां यौवनोपेतां दृष्ट्वा स पृथिवीपतिः ॥चिंतयामास चित्तेन कस्येमां प्रददाम्यहम् ॥१०॥न तस्याः सदृशः कश्चिद्वरोऽत्र धरणीतले ॥न स्वर्गे न च पाताले किं कृत्यं मेऽधुना भवेत् ॥ ११॥स एवं बहुधा ध्यात्वा तदर्थं पृथिवीपतिः ॥निश्चयं प्राकरोच्चित्ते प्रष्टव्योऽत्र पितामहः ॥१२मयाद्य विषये चास्मिन्स देवः प्रेरयिष्यति ॥तस्मै पुत्रीं प्रदास्यामि नान्यस्मै वै कथंचन ॥१३॥स एवं निश्चयं कृत्वा तामादाय ततः परम् ॥ब्रह्मलोकं जगामाथ प्रष्टुं तस्याः कृते वरम् ॥१४॥अथ यावत्स संप्राप्तो ब्रह्मलोकं नरेश्वरः ॥तावत्संध्या समुत्पन्ना ब्राह्मी ब्राह्मणसत्तमाः ॥१५॥एतस्मिन्नंतरे ब्रह्मा सायंतनक्रियोत्सुकः ॥उपविष्टः समाधिस्थस्तत्कालं समपद्यत ॥१६॥सत्यसंधोऽपि तं दृष्ट्वा समाधिस्थं पितामहम् ॥समाध्यंतं प्रतीक्षन्स उपविष्टः समीपतः ॥१७॥ततो विलोक्य चात्मानमात्मनि प्रपितामहः ॥पद्मे प्रवर्तिते सम्यगष्टपत्रे हृदि स्थिते ॥१८॥कर्णिकामध्यगं दीप्तं बहुवर्णमतिस्थिरम् ॥आनंदाश्रुपरिक्लिन्नवदनः पुलकांकितः ॥१९॥तत आचम्य प्रक्षाल्य चरणौ सर्वतोदिशम् ॥अपश्यत्प्रणतः सर्वैर्ब्रह्मलोकनिवासिभिः ॥२०॥एतस्मिन्नंतरे राजा तामादाय शुभाननाम् ॥नमस्कृत्य तया सार्धं ततः प्रोवाच सादरम् ॥२१॥अहं देव समायातो मर्त्यलोकात्तवांतिकम् ॥सत्यसंधो महीपाल आनर्त भुवि विश्रुतः ॥२२॥इयं कर्णोत्पलानाम मम कन्या सुशोभना ॥अस्या भुवि मया लब्धो न समोऽत्र पतिः क्वचित् ॥२३॥सदृशस्तेन चायातस्तव पार्श्वे सुरोत्तम ॥तस्मान्मे ब्रूहि भर्त्तारमस्या येन ददाम्यहम् ॥२४॥ ॥ सूत उवाच ॥तस्य तद्वचनं श्रुत्वा ततः प्रोवाच पद्मजः ॥विहस्य सर्वदेवानां समाजे द्विजसत्तमाः ॥ २५॥यदि पृच्छसि मे भूप कन्याधर्मपतिं प्रति ॥तन्नैषा कस्यचिद्देया सांप्रतं शृणु कारणम् ॥२६॥आत्मश्रेणिप्रसूताय वयोज्येष्ठाय भूपते ॥कन्या देया च धर्माय यशसे कुलवृद्धये ॥२७॥सेयं तव सुता मर्त्ये ज्येष्ठभावं समाश्रिता ॥सर्वेषां भूमिपालानां यत्तत्त्वं कारणं शृणु ॥२८॥ममांतिकं प्रपन्नस्य तव जातं युगत्रयम् ॥अतीता भूतले मर्त्या ये दृष्टाः प्राक्त्वया नृप ॥२९॥अन्या सृष्टिः समुत्पन्ना सांप्रतं धरणीतले ॥न त्वं जानासि माहात्म्यान्मम लोकसमुद्भवात् ॥३०॥न देवा मानुषीं भार्यां कुर्वन्ति च कथंचन ॥श्लेष्ममूत्रपुरीषाणां संस्थानं या विगर्हिता ॥३१॥तस्मादत्रैव तिष्ठ त्वं सुतया सहितो नृप ॥हस्त्यश्वादि च यत्किंचित्तत्सर्वं ते क्षयं गतम् ॥३२॥पुत्राः पौत्रास्तथा भृत्या ये चान्ये बांधवास्तव ॥ते सर्वे निधनं प्राप्ता ये चान्ये भवतेक्षिताः ॥३३॥स तथेति प्रतिज्ञाय स्थितः पार्थिवसत्तमः ॥यावत्तावत्सुदुःखार्ता रुदतीसाऽब्रवीत्सुता ॥३४॥नाहं तात वसिष्यामि स्थानेस्मिन्ब्रह्मसंभवे ॥सखीजनपरित्यक्ता बंधुवर्गविनाकृता ॥३५॥तस्माद्यास्यामि तत्रैव यत्र सा जननी मम ॥ताश्च सख्यः कृतानंदा याभिः संक्रीडितं मया ॥३६॥भर्त्रा विनाकृता नाहं नयिष्ये कालसंस्थितिम् ॥तस्मात्तत्र द्रुतं गच्छ यत्र मे जननी स्थिता ॥३७॥तस्यास्तद्वचनं श्रुत्वा स्नेहार्द्रेण स चेतसा ॥तामादाय ततः प्राप्तः स्वं देशं पार्थिवोत्तमः ॥३८॥यावत्पश्यति तावत्स स्थलस्थाने जलाशयान् ॥जलस्थानेषु संजाताः स्थलसंघाः सुदुर्गमाः ॥३९॥अन्ये लोकास्तथा धर्मास्तेषां मध्ये व्यवस्थिताः ॥पृच्छन्नपि न जानाति संबंधं केनचित्सह ॥४०॥तथा मर्त्यानिलस्पृष्टन्द्यतत्त्कणात्स महीपतिः ॥सा च कन्या जराग्रस्ता संजाता श्वेतमूर्द्धजा ॥४१॥वलिभिः पूर्णितांगी च शीर्णदंता कुचच्युता ॥अमनोज्ञा विरूपांगी चिपिटाक्षी द्विजोत्तमाः ॥४२॥सोपि राजा तथाभूतो वेपमानः पदेपदे ॥पप्रच्छ भूपतिः कोत्र देशः कोयं पुरं च किम् ॥४३॥अथ प्रोचुर्जनास्तस्य देश आनर्त इत्ययम् ॥अयं भूपोत्र विख्यातः सुधर्मज्ञो बृहद्बलः ॥४४॥एतत्प्राप्तिपुरंनाम एषा साभ्रमती नदी ॥गर्तातीर्थमिदं पुण्यमेतस्याः परिकीर्तितम् ॥४९॥यत्रैते मुनयः शांता दांताश्चाष्टगुणे रताः ॥तपरता महाभागाः स्नानजप्ययपरायणाः ॥४६॥ततः स तु समाकर्ण्य रुरोद कृतनिःस्वनः ॥स्वसुतां तां समालिंग्य दुःखशोकसमन्वितः ॥४७॥तौ च वृद्धतमौ दृष्ट्वा रुदतौ कृपयान्विताः ॥सर्वे लोकाः समाजग्मुः पप्रच्छुश्च सुदुःखिताः ॥४८॥किं त्वं वृद्ध सुदुःखार्तः प्ररोदिषि निरर्गलम् ॥अनया वृद्धया सार्धं तस्मान्नः कारणं वद ॥४९॥किं ते नष्टः प्रियः कश्चित्किं वा जातो धनक्षयः ॥पराभूतोसि वा किं त्वं केनापि वद मा चिरम् ॥५०॥धर्मज्ञो दुष्टहंता च साधूनां पालने रतः ॥राजा बृहद्बलोस्माकं येन ते कुरुते सुखम् ॥५१॥सत्यसंध उवाच ॥आनर्त्ताधिपतिश्चाहं सत्यसंध इति स्मृतः ॥मम कर्णोत्पलानाम सुतेयं दयिता सदा ॥५२॥सोहमस्याः प्रदानार्थं ब्रह्मलोकमितो गतः ॥प्रष्टुं पितामहं देवं स्थितस्तत्र मुहूर्तवत् ॥५३॥ततो भूयः समायातो यावत्पश्यामि भूतलम् ॥तावद्विलोमतां प्राप्तं सर्वं नो वेद्मि किञ्चन ॥५४॥तच्छ्रुत्वा ते जना गत्वा विस्मयोत्फुल्ललोचनाः ॥बृहद्बलाय तत्सर्वमाचख्युस्तुष्टिसंयुताः ॥५५॥सोऽपि तत्सर्वमाकर्ण्य ततः शीघ्रतरं गतः ॥पद्भ्यामेव स्थितो यत्र सत्यसन्धो महीपतिः ॥५६॥ततस्तं प्रणिपत्योच्चैः कृतांजलिपुटः स्थितः ॥स्वागतं ते महीपाल भूयः सुस्वागतं च ते ॥५७॥इदं राज्यं निजं भूयो मया भृत्येन सादरम् ॥कुरुष्व स्वेच्छया देहि दानानि विविधानि च ॥५८॥ततस्तं च समालिंग्य शिरस्याधाय चासकृत् ॥उवाचाश्रुपरिक्लिन्नवदनो गद्गदाक्षरम् ॥५९॥वत्स चीर्णं मया राज्यं दानं दत्तं पृथग्विधम् ॥वाजिमेधमुखैर्यज्ञैरिष्टं संपूर्णदक्षिणैः ॥६०॥तस्मात्तपश्चरिष्यामि सुतया चानया सह ॥यथैषा लभते भूयस्तारुण्यं प्राक्तनं शुभम् ॥६१॥ ॥ बृहद्बल उवाच ॥पारंपर्येण राजेंद्र मयैतत्सकलं श्रुतम् ॥सत्यसंधो महीपालः कन्यामादाय निर्गतः ॥६२॥कुत्रचिन्न समायातः स भूयोऽपि पुरोत्तमे ॥ततस्तत्सचिवै राज्यं प्रतिपाल्य चिरं नृप ॥अभिषिक्तस्ततः पुत्रः सुहयोनाम विश्रुतः ॥६३॥तस्याहं क्रमशो जातः सप्तसप्ततिमो विभो ॥पुरुषस्तव वंशस्य समुद्भूतो महापतिः ॥६४॥तस्मादत्रैव कल्याणे स्थानेऽस्मिन्मेध्यतां गते ॥गर्तातीर्थे कुरु विभो तपस्त्वमनया सह ॥६५॥येन ते चरणौ नित्यं प्रणिपत्य त्रिसंधिजम् ॥श्रेयः प्राप्नोम्यसंदिग्धं प्रसादः क्रियतामिति ॥६६॥ ॥ सत्यसंध उवाच ॥हाटकेश्वरजे क्षेत्रे मयासीत्स्थापितं पुरा ॥लिंगं वृषभनाथस्य तावदस्ति सुपुत्रक ॥६७॥तत्तस्याराधनं नित्यं करिष्यामि दिवानिशम् ॥तस्मात्प्रापय मां तत्र अनया सुतया सह ॥६८॥एवं तयोः प्रवदतोरन्योन्यं भूमिपालयोः ॥गर्त्तातीर्थात्समायाता ब्राह्मणाः कौतुकान्विताः ॥श्रुत्वा भूमिपतिं प्राप्तं चिरंतनगुरुं शुभम् ॥६९॥ततः स पार्थिवस्तेषां दत्त्वार्घं प्रांजलिः स्थितः ॥प्रोवाच स्वर्गवृत्तांतमास्यतामिति सादरम् ॥७०॥अथ ते ब्राह्मणाः सर्वे यथाज्येष्ठं यथासुखम् ॥उपविष्टा नरेंद्रस्य चतुर्दिक्षु सुविस्मिताः ॥पप्रच्छुस्तं च भूपालं वार्तां ब्रह्मगृहोद्भवाम् ॥७१॥यथा स तत्र निर्यात आगतश्च यथा पुरा ॥आलापाः पद्मयोनेश्च यथा जातास्त्वनेकशः ॥७२॥ततः कथांतमासाद्य सत्यसंधो महीपतिः ॥किंचिदासाद्य तं प्राह समीपस्थं बृहद्बलम् ॥७३॥मया इष्टं मखैश्चित्रैरनेकैर्भूरिदक्षिणैः ॥दानानि च विचित्राणि येषां संख्या न विद्यते ॥७४॥एकदाहं गतः पुत्र चमत्कारपुरोत्तमे ॥दृष्टं मया पुरं तच्च समंताद्ब्राह्मणैवृतम् ॥७५॥जपस्वाध्यायसंपन्नैरग्निहोत्रपरायणैः ॥गृहस्थधर्मसंपन्नैर्लोकद्वयफलान्वितैः ॥७६॥ततश्च चिंतितं चित्ते स वन्यो मम पूर्वजः ॥येनैषोपार्जिता कीर्तिः शाश्वती क्षयवर्जिता ॥७७॥तस्मादहमपि स्थाप्य पुरमीदृक्समुच्छ्रितम् ॥ब्राह्मणेभ्यः प्रदास्यामि तत्कीर्तिपरिवृद्धये ॥७८॥एवं चितयमानस्य मम नित्यं महीपते ॥अवांतरेण संजातं ब्रह्मलोकप्रयाणकम् ॥७९॥एतदेकं हि मे चित्ते पश्चात्तापकरं स्थितम् ॥नान्यत्किंचिन्महीपाल कृतकृत्यस्य सर्वतः ॥८०॥तस्मात्प्रार्थय विप्रेंद्रान्कांश्चिदेषां महात्मनाम् ॥येन यच्छामि सुस्थानं कृत्वा तेभ्यस्तवाज्ञया ॥८१॥ततः स प्रार्थयामास तदर्थं ब्राह्मणोत्तमान् ॥ममोपरि दयां कृत्वा क्रियतां भोः परिग्रहः ॥८२॥अस्य भूपस्य सद्भक्त्या यच्छतः पुरमुत्तमम् ॥अहं वः पालयिष्यामि सर्वे मद्वंशजाश्च ते ॥८३॥ततः कांश्चित्सुकृच्छ्रेण समानीय बृहद्बलः ॥राज्ञे निवेदयामास एतेभ्यो दीयतामिति ॥८४॥ततः प्रक्षाल्य सर्वेषां पादान्स पृथिवीपतिः ॥सत्यसंधो ददौ तेभ्यः पुरार्थं भूमिमुत्तमाम् ॥८५॥बृहद्बलस्य चादेशं ददौ संप्रस्थितः स्वयम् ॥त्वयैतद्योग्यतां नेयं पुरं परपुरंजय ॥८६॥गत्वा च स तया सार्धं तत्क्षेत्रं हाटकेश्वरम् ॥तल्लिंगं प्राप्य संहृष्टश्चिरं तेपे तपस्ततः ॥८७॥सापि कर्णोत्पला प्राप्य किंचित्पुण्यं जलाशयम् ॥तपस्तेपे प्रतिष्ठाप्य गौरीं श्रद्धासमन्विता ॥८८॥एतस्मिन्नंतरे राजा कालधर्ममुपागतः ॥आनर्ताधिपतिर्युद्धे हतः पुत्रैः समन्वितः ॥८९॥ततस्ते ब्राह्मणाः सर्वे गर्तातीर्थसमुद्भवाः ॥सत्यसंधं समभ्येत्य प्रोचुर्दुःखसमन्विताः ॥९०॥परिग्रहः कृतोऽस्माभिः केवलं पृथिवीपते ॥न च किंचित्फलं जातं वृत्तिजं नः पुरोद्भवम् ॥९१॥तस्मात्कुरु स्थितिं त्वं च स्वधर्मपरिवृद्धये ॥येन तद्वर्तनोपायो ह्यस्माकं नृपसत्तम ॥९२॥राजा बृहद्बलो युद्धे कालधर्ममुपागतः ॥यस्त्वया दर्शितोऽस्माकं वृत्त्यर्थं नृपसत्तम ॥९३॥ ॥ सत्यसन्ध उवाच ॥संन्यस्तोऽहं द्विजश्रेष्ठा वृत्तिं कर्तुं न च क्षमः ॥यदि मे स्यात्पुमान्कश्चिदन्वयेऽपि न संशयः ॥९४॥तस्माद्व्रजथ हर्म्यं स्वं प्रसादः क्रियतां मम ॥अभाग्यैर्भवदीयैश्च हतो राजा बृहद्बलः ॥९५॥एवमुक्ताश्च ते विप्रा मत्वा तथ्यं च तद्वचः ॥स्वस्थानं त्वरिता जग्मुः सोऽपि चक्रे तपश्चिरम् ॥९६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सत्यसन्धनृपतिवृत्तान्तवर्णनंनाम पंचविंशत्यधिकशततमोऽध्यायः ॥१२५॥ N/A References : N/A Last Updated : December 29, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP