संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २७ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २७ Translation - भाषांतर ॥ ऋषय ऊचुः ॥चतुर्युगस्वरूपं तु माहात्म्यं चैव सूतज ॥प्रमाणं वद कार्त्स्न्येन परं कौतूहलं हि नः ॥१॥ ॥सूत उवाच ॥इममर्थं पुरा पृष्टो वासवेन बृहस्पतिः ॥यथा प्रोवाच विप्रेंद्रास्तद्वो वक्ष्यामि सांप्रतम् ॥२॥पुरा शक्रं समासीनं सभायां त्रिदशैः सह ॥सह शच्या महात्मानमुपासांचक्रिरे सुराः ॥३॥गन्धर्वाप्सरसश्चैव सिद्धविद्याधराश्च ये ॥गुह्यकाः किंनरा दैत्या राक्षसा उरगास्तथा ॥४॥कलाः काष्ठानिमेषाश्च नक्षत्राणि ग्रहास्तथा ॥सांगा वेदास्तथा मूर्तास्तीर्थान्यायतनानि च ॥५॥तथा चक्रुः कथाश्चित्रा देवदानवरक्षसाम् ॥राजर्षीणां पुराणानां ब्रह्मर्षीणां विशेषतः ॥६॥कस्मिंश्चिदथ संप्राप्ते प्रस्तावे त्रिदशेश्वरः ॥पप्रच्छ विनयोपेतो विप्रश्रेष्ठं बृहस्पतिम् ॥७॥भगवञ्छ्रोतुमिच्छामि प्रमाणं युगसंभवम् ॥माहात्म्यं च स्वरूपं च यथावद्वक्तुमर्हसि ॥८॥ ॥बृहस्पति रुवाच ॥अहं ते कीर्तयिष्यामि माहात्म्यं युगसंभवम् ॥यत्प्रमाणं स्वरूपं च शृणुष्वावहितः स्थितः ॥९॥अष्टाविंशतिसहस्राणि लक्षाः सप्तदशैव तु ॥प्रमाणेन कृतं प्रोक्तं यत्र शुक्लो जनार्दनः ॥१०॥चतुष्पादस्तथा धर्मः सुसंपूर्णा वसुन्धरा ॥कामक्रोधविनिर्मुक्ता भयद्वेषविवर्जिताः ॥जनाश्चिरायुषस्तत्र शान्तात्मानो जितेन्द्रियाः ॥पञ्चतालप्रमाणाश्च दीप्तिमन्तो बहुश्रुताः ॥१२॥तत्र षोडशसाहस्रं बालत्वं जायते नृणाम् ॥ततश्च यौवनं प्रोक्तं द्वात्रिंशद्यावदेव हि ॥१३॥ततः परं च वार्द्धक्यं शनैः संजायते नृणाम् ॥लक्षांते परमं यावदन्येषामधिकं क्वचित् ॥१४॥तत्र सत्त्वाश्च ये केचित्पशवः पक्षिणो मृगाः ॥दैवीं वाचं प्रजल्पंति न विरोधं व्रजंति च ॥१५॥क्रीडंति नकुलैः सर्पा बिडाला मूषकैः समम् ॥पञ्चाननैर्मृगा नित्यमुलूकाश्चापि वायसैः ॥१६॥अकृष्टा च मही सस्यं जनयत्यति भूरिशः ॥व्रीहिमुद्गयवप्रायं सुस्वादु बलवृद्धिदम् ॥१७॥सर्वर्तुफलिनो वृक्षाः सपुष्पफलधारिणः ॥सुपत्राः कंटकैर्हीनाः कल्पपादपसंनिभाः ॥१८॥धेनवश्च प्रयच्छंति वांछितं स्वादु सत्पयः ॥सर्वेष्वपि हि कालेषु भूरि सर्प्पिःप्रदं नृणाम् ॥१९॥न तत्र विधवा नारी जायते न च दुर्भगा ॥काकवंध्या सुतैर्हीना न च शीलविवर्जिता ॥२०॥ यथाजन्म तथा मृत्युः क्रमात्संजायते नृणाम् ॥न वीक्षते पिता पुत्रं मृतं क्वापि कदाचन ॥२१॥न प्रेतत्वं च लोकानां मृतानां तत्र जायते ॥न चापि नरके वासो न च रोगव्यथा क्वचित् ॥२२॥वेदांतगा द्विजाः सर्वे नित्यं स्वाध्यायशीलिनः ॥वेदव्याख्यानसंहृष्टा ब्रह्मज्ञानविचक्षणाः ॥२३॥क्षत्रियाश्चापि भूपालमेकं कृत्वा सुभक्तितः ॥तदादेशात्प्रभुंजंति महीं धर्मेण नित्यशः ॥२४॥वैश्या वैश्यजनार्हाणि चक्रुः कर्माणि भूरिशः ॥पशुपालनपूर्वाणि क्रयविक्रयजानि च ॥२५॥मुक्त्वैकां द्विजशुश्रूषा न शूद्रास्तत्र चक्रिरे ॥किंचित्कर्म सुरश्रेष्ठ श्रद्धया परया युताः ॥२६॥न तत्र चांत्यजो जज्ञे न च संकरसंभवः ॥नापवित्रो न वर्णानां पञ्चमो दृश्यते भुवि ॥२७॥यजनं याजनं दानं व्रतं नियम एव च ॥तीर्थयात्रां नरास्तत्र निष्कामा एव कुर्वते ॥२८॥एवंविधं सहस्राक्ष मया ते परिकीर्तितम् ॥आद्यं कृतयुगं पुण्यं सर्वलोकसुखावहम् ॥२९॥ततस्त्रेतायुगं नाम द्वितीयं संप्रवर्तते ॥वर्षाणां षण्णवत्याढ्या लक्षा द्वादश संख्यया ॥३०॥सोऽपि साक्षाजगन्नाथः श्वेतद्वीपाश्रयाश्रितः ॥तत्र रक्तत्वमायाति भग वान्गरुडध्वजः ॥३१॥त्रिपादस्तत्र धर्मः स्यात्पादेनैकेन पातकम् ॥तेनापि जायते स्पर्द्धा वर्णानामितरेतरम् ॥३२॥ततः फलानि वांछंति तीर्थयात्रोद्भवानि ते ॥व्रतानां नियमानां च स्वर्गवासादिहेतवः ॥३३॥ततः कामवशान्मोहं सर्वे गच्छंति मानवाः ॥मोहाद्द्रोहं ततो गत्वा पापं कुर्वंत्यनुक्रमात् ॥३४॥ततस्तु रौरवादीनि नरकाणि यमः स्वयम् ॥सज्जीकरोति देवेन्द्र ह्येकविंशतिसंख्यया ॥३५॥कर्मानुसारतस्तानि सेवयंति नराधमाः ॥केचिदन्ये महेन्द्रादिलोकान्मोक्षं तथा परे ॥३६॥त्रिविधाः पुरुषास्तत्र श्रेष्ठाश्चाधममध्यमाः ॥त्रिविधानि च कर्माणि प्रकुर्वंति सुरेश्वर ॥३७॥उन्नतास्तालमात्रेण तेजोवीर्यसमन्विताः ॥चक्रुश्च कृषिकर्माणि वैश्याश्चैवान्नलिप्सया ॥३८॥उप्तक्षेत्रं सकृच्चापि सप्तवारं लुनंति ते ॥यथर्तु फलिनो वृक्षा यथर्तु कुसुमान्विताः ॥३९॥यथर्तु पत्रसंयुक्तास्तत्र स्युः सुमनोहराः ॥अग्निष्टोमादिका यज्ञाः प्रवर्तंते सहस्रशः ॥४०॥इतरेतरसंस्पर्धैः क्रियमाणा नृपोत्तमैः ॥ब्राह्मणैश्च सुरश्रेष्ठ स्वर्गलोकमभीप्सुभिः ॥४१॥तीर्थयात्रां व्रतं दानं नियमं संयमं तथा ॥परलोकमभीप्संतस्तत्र कुर्वंति मानवाः ॥४२॥सहस्रेण तु वर्षाणां तत्र स्याद्यौवनं नृणाम् ॥सहस्रपञ्चकं यावदूर्ध्वं वार्द्धक मुच्यते ॥४३॥रजकश्चर्मकारश्च नटो बुरुड एव च ॥कैवर्त्तमेदभिल्लाश्च चंडालाः शूद्रमानवाः ॥४४॥संभवंति युगे तस्मिन्यो निसंसर्गतो विभो ॥तथान्ये संख्यया हीना एतेभ्यो निंदिता नराः ॥४५॥ ॥इन्द्र उवाच ॥उत्पत्तिः कथमेतेषामंत्यजानां द्विजो त्तम ॥यथावद्वद कार्त्स्न्येन अत्र कौतूहलं महत् ॥४६॥ ॥बृहस्पतिरुवाच ॥एतेषामष्टधा सृष्टिर्जायतेंऽत्यजसंभवा ॥योनि दोषात्सुरश्रेष्ठ जातेर्वक्ष्याम्यहं स्फुटम् ॥४७॥ब्राह्मण्यां क्षत्रियाज्जातः सूत इत्यभिधीयते ॥सूतेन रजकश्चैव रजकेन च चर्मकृत् ॥४८॥चर्मकारेण संजज्ञे नटश्चांत्यजसंज्ञकः ॥चत्वारः क्षेत्रसंभूता एते क्षेत्रे द्विजन्मनाम् ॥४९॥तथा च मागधो जज्ञे वैश्येन द्विजसंभवे ॥क्षेत्रे मागधवीर्येण बुरुडो मरुदुत्तम ॥५०॥बुरुडेन च कैवर्तः कैवर्तेन च मेदकः ॥चत्वारो वैश्यसंभूता एते क्षेत्रे द्विजन्मनाम् ॥प्रजायन्ते सुरश्रेष्ठ सवकर्मसु गर्हिताः ॥५१॥तथा शूद्रेण संजज्ञे ब्राह्मण्यां सुरसत्तम ॥भिल्लाख्यश्चापि भिल्लेन चंडालश्च प्रजायते ॥५२॥एतौ द्वावपि शूद्रेण भवतो द्विजसंभवे ॥क्षेत्रे सर्वसुराधीश सत्यमेतन्मयोदितम् ॥५३॥एतत्त्रेतायुगे प्रोक्तं मया ते सुरसत्तम ॥आकर्णय प्रयत्नेन द्वापरस्याधुना स्थितिम् ॥५४॥लक्षाष्टकप्रमाणेन तद्युगं परिकीर्तितम् ॥चतुःषष्टिसहस्राणि वर्षाणां परिसं ख्यया ॥कपिशो जायते तत्र भगवान्गरुडध्वजः ॥५५॥द्वौ पादौ चैव धर्मस्य द्वौ पापस्य व्यवस्थितौ ॥तत्र स्याद्यौवनं नृणां गते वर्षशतेऽ खिले ॥५६॥ततोऽन्यैः समतिक्रांतैर्वार्धक्यं पञ्चभिः शतैः ॥तत्र सत्यानृता लोका देवा भूपास्तथा परे ॥५७॥नार्यश्चापि सुरश्रेष्ठ तत्स्व रूपाः प्रकीर्तिताः ॥पंचहस्तप्रमाणेन चतुर्हस्तास्तथा परं ॥५८॥नातिरूपेण संयुक्ता न च रूपविवर्जिताः ॥अव्यक्तजल्पकाश्चापि पशवः पक्षिणो मृगाः ॥५९॥नातिपुष्पफलैर्युक्ता वृक्षाश्चापिसुरेश्वर ॥सस्यानि तानि जायन्ते तत्र चोप्तानिकर्षुकैः ॥६०॥वर्षंति जलदाः कामं भवन्त्योषधयोऽखिलाः ॥यत्किंचिद्भूतले ज्ञानं शास्त्रं वा सुरसत्तम ॥तत्तत्र समभावेन न सत्यं नैव चानृतम् ॥६१॥तीर्थानां च मखानां च द्वापरे सुरसत्तम ॥फलं भावानुरूपेण दानानां च प्रजायते ॥६२॥एतत्तव समाख्यातं युगं द्वापरसंज्ञकम् ॥मया सर्वं सुराधीश यथादृष्टं यथा श्रुतम् ॥६३॥शृणुष्वावहितो भूत्वा वदतो मम सांप्रतम् ॥रौद्रं कलियुगंनाम यत्र कृष्णो जनार्दनः ॥६४॥द्वात्रिंशच्च सहस्राणि वर्षाणां कथितं विभो ॥तथा लक्षचतुष्केण साधुलोकविवर्जितम् ॥६५॥तत्रैकपादयुक्तश्च धर्मः पापं त्रिभिः स्मृतम् ॥पूर्वार्धेभ्यः परं सर्वं संभविष्यति पात कम् ॥६६॥न शृण्वंति पितुः पुत्रा न स्नुषा भ्रातरो न च ॥न भृत्या न कलत्राणि यत्र द्वेषः परस्परम् ॥६७॥यत्र षोडशमे वर्षे नराः पलित यौवनाः ॥तत्र द्वादशमे वर्षे गर्भं धास्यति चांगना ॥६८॥आयुः परं मनुष्याणां शतसंख्यं सुरेश्वर ॥नागानां च तरूणां च वर्षाणां यत्र नाधिकम् ॥६९॥द्वात्रिंशद्धयमुख्यानां चतुर्विंशतिः खरोष्ट्रयोः ॥अजानां षोडश प्रोक्तं शुनां द्वादशसंख्यया ॥७०॥चतुष्पदानामन्येषां विंशतिः पंचभिर्युता ॥यत्र काकाश्च गृध्राश्च कौशिकाश्चिरजीविनः ॥७१॥तथा पापपरा लोका दुःस्थिताश्च विशेषतः ॥तथा कण्टकिनो वृक्षा रूक्षाः पुष्पफलच्युताः ॥सेवितास्तेऽपि गृध्राद्यैर्यत्र च्छायाविवर्जिताः ॥७२॥यत्र धर्मो ह्यधर्मेण पीड्यते सुरसत्तम ॥असत्येन तथा सत्यं भूपाश्चौरैः सदैव तु ॥७३॥गुरवश्च तथा शिष्यैः स्त्रीभिश्च पुरुषाधमाः ॥स्वामिनो भृत्यवर्गैश्च मूर्खैश्चापि बहुश्रुताः ॥७४॥यत्र सीदंति धर्मिष्ठा नराः सत्यपरायणाः ॥दान्ता विवेकिनः शान्तास्तथा परहिते रताः ॥७५॥आधयो व्याधयश्चैव तथा पीडा महाद्भुता ॥सदैव संस्थिता यत्र साधुपीडनवांछया ॥७६॥अल्पायुषस्तथा मर्त्या जायंते वर्णसंकरात् ॥ये केचन प्रजीवंति दुःखेन ते समन्विताः ॥७७॥न वर्षति घनः काले संप्राप्तेऽपि यथोचिते ॥न सस्यं स्यात्सुवृष्टेपि कर्षुकस्यापि वांछितम् ॥७८॥न च क्षीरप्रदा गावो यद्यपि स्युः सुपोषिताः ॥न भवंति प्रभू ताश्च यत्नेनापि सुरक्षिताः ॥७९॥आविकानां तथोष्ट्रीणां यत्र क्षीरप्रशंसकाः ॥लोका भवंति निःश्रीकास्तथा ये च मलिम्लुचाः ॥८०॥तथा तपस्विनः शूद्राः शूद्रा धर्मपरायणाः ॥शूद्रा वेदविचारज्ञा यज्ञकर्मणि चोद्यताः ॥८१॥शूद्राः प्रतिग्रहीतारः शूद्रा दानप्रदास्तथा ॥शूद्राश्चापि तथा वन्द्याः शद्रास्तीर्थेषु संस्थिताः ॥८२॥पंचगर्तान्खनंत्येव मृत्युकाले नराधमाः ॥शिरसा हस्तपादाभ्यां मोहात्संनष्टचेतनाः ॥८३॥वेदविक्रयकर्तारो ब्राह्मणाः शौचवर्जिताः ॥८४॥स्वाध्यायरहिताश्चैव शूद्रान्ननिरताः सदा ॥असत्प्रतिग्रहाः प्रायो जिह्वालौल्यसमुत्सुकाः ॥८५॥पाखंडिनो विकर्मस्थाः परदारोपजीविनः ॥कार्यकारणमाश्रित्य यत्र स्नेहः प्रजायते ॥८६॥न स्वभावात्सहस्राक्ष कथंचिदपि देहिनाम् ॥यास्यंति म्लेच्छभावं च सर्वे वर्णा द्विजातयः ॥८७॥नष्टोत्सवाविधर्माणो नित्यं संकरकारकाः ॥सार्धहस्तत्रयाः पूर्वं भविष्यंति युगादितः ॥८८॥ततो ह्रासं प्रयास्यंति वृद्धिं याति कलौ युगे ॥भविष्यन्ति ततश्चांते मनुष्या बिलशायिनः ॥८९॥अल्पत्वाद्दुर्लभत्वाच्च अशक्ता गृहकर्मणि ॥भविष्यंत्यफला यज्ञास्तथा वेदव्रतानि च ॥९०॥नियमाः संयमाः सर्वे मंत्रवादास्तथैव च ॥तीर्थानि म्लेच्छसंस्पर्शाद्दूषितानि शतक्रतो ॥९१॥स्वस्वभावविहीनानि हीनानि च तथा जलैः ॥कुत्सिता मंत्रवादा ये कुत्सिताश्च तपस्विनः ॥९२॥तत्र ते संभविष्यंति कुत्सिता ये च मानवाः ॥कुलीनमपि संत्यज्य वरं रूपवयोन्वितम् ॥९३॥वित्तलोभात्प्रदास्यंति कुत्सिताय नराः सुताम् ॥कन्यकाः प्रसविष्यंति कन्यकाः सुरतोत्सुकाः ॥९४॥कन्यकाः प्रकरिष्यंति पुरुषैः सह संगतिम् ॥भर्तारं वंचयिष्यंति कुलीना अपि योषितः ॥९५॥सर्वकृत्येषु दुःशीलाः ॥ सुयत्नेनापि रक्षिताः ॥निर्दयाश्चापि भूपालाः पीडयिष्यंति कर्षुकान् ॥९६॥पीडयिष्यंति निर्दोषान्वित्तलोभादसंशयम् ॥वधार्हमपि संप्राप्य वित्तलोभान्मलिम्लुचम् ॥९७॥संत्यक्ष्यंति युगे तस्मिन्प्राणिद्रोहेऽपि वर्तिनम् ॥क्षात्रधर्मं परित्यज्य करिष्यंति तथा रणम् ॥९८॥ ॥बृहस्पतिरुवाच ॥एतद्वः सर्वमाख्यातं युगानां लक्षणं मया ॥प्रमाणं च सुरश्रेष्ठ चतुर्णामप्यसंशयम् ॥९९॥यश्चैतत्कीर्तयेन्मर्त्यः सदैव सुसा माहितः ॥स नूनं मुच्यते पापादाजन्ममरणांतिकात् ॥१००॥शृणुयाद्वा नरो यश्च श्रद्धापूतेन चेतसा ॥सोऽपि मुच्येन्न सन्देहः पापाच्च दिवसोद्भवात् ॥१०१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये चतुर्युगस्वरूपवर्णनंनाम सप्तविंशोऽध्यायः ॥२७॥ N/A References : N/A Last Updated : December 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP