संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १०३ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १०३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १०३ Translation - भाषांतर ॥ ऋषय ऊचुः ॥आश्चर्यं सूतपुत्रैतद्यत्त्वया परिकीर्तितम् ॥यत्स्थापितानि लिंगानि राक्षसैरपि वानरैः ॥१॥तस्माद्विस्तरतो ब्रूहि यत्रयत्र यथायथा ॥तैः स्थापितानि लिंगानि येषु स्थानेषु सूतज ॥२॥ ॥ सूत उवाच ॥'सुग्रीवः संभ्रमित्वाथ क्षेत्रं सर्वमशेषतः ॥बालमंडनकं प्राप्य तत्र स्नात्वा समाहितः ॥३॥मुखलिंगं ततस्तत्र स्थापयामास शूलिनः ॥तथान्यैर्वानरैः सर्वैमुखलिंगानि शूलिनः ॥स्वसंज्ञार्थं द्विजश्रेष्ठाः स्थापितानि यथेच्छया ॥४॥यस्तेषां मुखलिंगानां करोति घृतकंबलम् ॥मकरस्थेन सूर्येण शिवलोकं स गच्छति ॥५॥ततः पश्चिमदिग्भागे तस्य क्षेत्रस्य राक्षसैः ॥संस्थापितानि लिङ्गानि चतुर्वक्त्राणि च द्विजाः ॥६॥रामेण पूर्वदिग्भागे प्रासादानां च पंचकम् ॥स्थापितं भक्तियुक्तेन सर्वपातकनाशनम् ॥७॥तथादक्षिणदिग्भागे कूपिका तेन निर्मिता ॥आनर्त्तीयतडागस्य समीपे पापनाशनी ॥८॥यस्तस्यां कुरुते श्राद्धं संप्राप्ते दक्षिणायने ॥सोऽश्वमेधफलं प्राप्य पितृलोके महीयते ॥९॥यस्तत्र दीपकं दद्यात्कार्तिके मासि च द्विजाः ॥न स पश्यति रौद्रांस्तान्नरकानेकविंशतिम् ॥न चांधो जायते क्वापि यत्रयत्र प्रजायते ॥१०॥ ॥ ऋषय ऊचुः ॥आनर्त्तीयतडागं तत्केन तत्र विनिर्मितम् ॥किंप्रभावं च कार्त्स्न्येन सूतपुत्र प्रकीर्तय ॥११॥ ॥ सूत उवाच ॥आनर्त्तीयतडागस्य महिमा द्विजसत्तमाः ॥एकवक्त्रेण नो शक्यो वक्तुं वर्षशतैरपि ॥१२॥आश्विनस्य सिते पक्षे चतुर्दश्यां समाहितः ॥स्नात्वा देवान्पितॄंश्चैव तर्पयेद्विधिपूर्वकम् ॥१३॥ततो दीपोत्सवदिने श्राद्धं कृत्वा समाहितः ॥दामोदरं यमं पूज्य दीपं दद्यात्स्वभक्तितः ॥१४॥संपूज्यो धर्मराजस्तु गन्धपुष्पानुलेपनैः ॥माषास्तिलाश्च दातव्या गोविंदः प्रीयतामिति ॥१५॥तिलमाषप्रदानेन द्विजानां तर्पणेन च ॥यमेन सहितो देवः प्रीयते पुरुषोत्तमः ॥१६॥य एवं कुरुते विप्रास्तीर्थ आनर्त संज्ञिते ॥सोऽश्वमेधफलं प्राप्यब्रह्मलोके महीयते ॥१७॥यस्मिन्दिने समायातो रामस्तत्र प्रहर्षितः ॥तस्मिन्द्विजोत्तमैः सर्वैः प्रोक्तः सोऽभ्येत्य सादरम् ॥१८॥अत्रागस्त्यो मुनिश्रेष्ठस्तिष्ठते रघुनंदन ॥तं गत्वा पश्य विप्रेन्द्र मित्रावरुणसंभवम् ॥१९॥अथ तेषां वचः श्रुत्वा रामो राजीवलोचनः ॥वानरै राक्षसैः सार्धं प्रहृष्टः सत्वरं ययौ ॥२०॥अष्टांगप्रणिपातेन तं प्रणम्य रघूत्तमः ॥परिष्यक्तो दृढं तेन सानन्देन महात्मना ॥२१॥नातिदूरे ततस्तस्य विनयेन समन्वितः ॥उपविष्टो धरापृष्ठे कृतांजलिपुटः स्थितः ॥२२॥ततः पृष्टस्तु मुनिना कथयामास विस्तरात् ॥वृत्तांतं सर्वमात्मीयं स्वर्गस्य गमनं प्रति ॥२३॥यथा सीता परित्यक्ता यथा सौमित्रिणा कृतः ॥परित्यागः स्वकीयस्य संत्यक्तेन महात्मना ॥२४॥तथा सुग्रीवमासाद्य तथैव च विभीषणम् ॥संभाष्य चागमस्त्वत्र ततः पुष्पकसंस्थितिः ॥२५॥ततोऽगस्त्यः कथाश्चित्राश्चक्रे तस्य पुरस्तदा ॥राजर्षीणां पुराणानां दृष्टांतैर्बहुभिर्मुनिः ॥२६॥ततः कथावसाने च चलचित्तं रघूत्तमम् ॥विलोक्य प्रददौ तस्मै रत्नाभरणमुत्तमम् ॥२७॥यन्न देवेषु यक्षेषु सिद्धविद्याधरेषु च ॥नागेषु राक्षसेन्द्रेषु मानुषेषु च का कथा ॥२८॥यस्येन्द्रायुधसंघाश्च निष्क्रामंति सहस्रशः ॥रात्रौ तमिस्रपक्षेऽपि लक्ष्यतेऽर्कोपमत्विषः ॥२९॥तद्रामस्तु गृहीत्वाऽथ विस्मयोत्फुल्ललोचनः ॥पप्रच्छ कौतुकाविष्टः कुतस्त्वेतन्मुने तव ॥३०॥अत्यद्भुतकरं रत्नैर्निर्मितं तिमिरापहम् ॥कण्ठाभरणमाख्याहि नेदमस्ति जगत्त्रये ॥३१॥ ॥ अगस्तिरुवाच ॥यत्पश्यसि रघुश्रेष्ठ तडागमिदमुत्तमम् ॥ममाश्रमसमीपस्थं तद्देवदेवनिर्मितम् ॥३२॥तस्य तीरे मया दृष्टं यदाश्चर्यमनुत्तमम् ॥तत्तेऽहं संप्रवक्ष्यामि शृणुष्व रघु नन्दन ॥३३॥कदाचिद्राघवश्रेष्ठ निशीथेऽहं समुत्थितः ॥पश्यामि व्योममार्गेण प्रद्योतं भास्करोपमम् ॥३४॥यावत्तावद्विमानं तदप्सरोगणराजितम् ॥तस्य मध्यगतश्चैकः पुरुषस्तरुणस्तथा ॥अन्धस्तत्र समारूढः स्तूयते किन्नरैर्नृपः ॥३५॥रत्नाभरणमेतच्च बिभ्रत्कण्ठे सुनिर्मलम् ॥द्वादशार्कप्रतीकाशं कामदेव इवापरः ॥३६॥अथोत्तीर्य विमानाग्र्यात्स्कंधलग्नो रघूद्वह ॥एकस्य देवदूतस्य सलिलांतमुपागतः ॥३७॥ततश्च सलिलात्तस्मादाकृष्य च कलेवरम् ॥मृतकस्य ततो दंतैर्भक्षयामास सत्वरम् ॥३८॥यथायथा महामांसं स भक्षयति राघव ॥तथातथा पुनः कायं तद्रूपं तत्प्रजायते ॥३९॥ततस्तृप्तिं चिरात्प्राप्य शुचिर्भूत्वा प्रहर्षितः ॥निष्कम्य सलिलाद्यावद्विमानमधिरोहति ॥४०॥तावन्मया द्रुतं गत्वा स पृष्टः कौतुकान्नृपः ॥सेव्यमानोऽपि गन्धर्वैः समंताद्बुद्धितत्परैः ॥४१॥भोभो वैमानिकश्रेष्ठ मुहूर्तं प्रतिपालय ॥अगस्तिर्नाम विप्रोऽहं मित्रावरुणसंभवः ॥४२ ॥तच्छ्रुत्वा सम्मुखो भूत्वा प्रणाममकरोत्ततः ॥तैश्च वैमानिकैः सार्धं सर्वैस्तैः किन्नरादिभिः ॥४३॥सोऽयं राजा मया पृष्टः कृतानतिः पुरः स्थितः ॥कस्त्वमीदृग्वपुः श्रीमान्विमानवरमाश्रितः ॥सेव्यमानोऽप्सरोभिश्च गन्धर्वैः किन्नरैस्तथा ॥४४॥अत्राऽऽगत्य तडागांते महामांसप्रभक्षणम् ॥कृतवानसि वैकल्यं कस्मात्ते दृष्टिसंभवम् ॥४५॥ ॥ वैमानिक उवाच ॥साधु साधु मुनिश्रेष्ठ यत्त्वं प्राप्तो ममान्तिकम् ॥अवश्यं सानुकूलो मे विधिर्यत्त्वं समागतः ॥४६॥साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ॥कालेन फलते तीर्थं सद्यः साधुसमागमः ॥४७॥तस्मात्सर्वं तवाख्यानं कथयामि महामुने ॥येन मे गर्हितं भोज्यं विभवश्च तथेदृशः ॥४८॥अहमासं पुरा राजा श्वेतोनाम महामुने ॥आनर्ताधिपतिः पापः सर्वलोकनिपीडकः ॥४९॥न किंचित्प्राङ्मया दत्तं न हुतं जातवेदसि ॥न च रक्षा कृता लोके न त्राताः शरणागताः ॥५०॥दृष्ट्वादृष्ट्वा मया रत्नं यत्किंचिद्धरणीतले ॥ ॥तद्वै बलाद्धृतं सर्वं सर्वेषामिह देहिनाम् ॥५१॥ततः कालेन दीर्घेण जराग्रस्तस्य मे बलात् ॥हृतं राज्यं स्वपुत्रेण मां निर्वास्य विगर्हितम् ॥५२॥ततोऽहं जरया ग्रस्तो वैराग्यं परमं गतः ॥समायातोऽत्र विप्रेंद्र भ्रममाण इतस्ततः ॥५३॥ततः क्षुत्क्षामकण्ठोऽहं स्नात्वाऽत्र सलिले शुभे ॥मृतश्च संनिविष्टोहं क्षुधया परिपीडितः ॥५४॥प्राविश्याऽत्र जले पुण्ये पंचत्वं समुपागतः ॥ततश्च तत्क्षणादेव विमानं समुपस्थितम् ॥५५॥मामन्येन शरीरेण समादाय च किंकराः ॥तत्रारोप्य ततः प्राप्ता ब्रह्मणः सदनं प्रति ॥५६॥दिव्यमाल्यावरधरंदिव्यगन्धानुलेपनम् ॥दिव्याभरणसंजुष्टं स्तूयमानं च किन्नरैः ॥५७॥ततो ब्रह्मसभामध्ये ह्यहं तैर्देवकिंकरैः ॥तादृग्रूपो विचक्षुश्च धारितो ब्रह्मणः पुरः ॥५८॥सर्वैः सभागतैर्दृष्टा विस्मितास्यैः परस्परम् ॥अन्यैश्च निन्दमानैश्च धिक्छब्दस्य प्रजल्पकैः ॥५९॥ ॥ किंकरा ऊचुः ॥एष देवश्चतुर्वक्त्रः सभेयं तस्य सम्भवा ॥सर्वैर्देवगणैर्जुष्टा प्रणामः क्रियतामिति ॥६०॥ततोऽहं प्रणिपत्योच्चैस्तं देवं देवसंयुतम् ॥उपविष्टः सभामध्ये व्रीडयाऽवनतः स्थितः ॥६१॥यथायथा कथास्तत्र प्रजायन्ते सभातले ॥देवद्विजनरेन्द्राणां धर्माख्यानानि कुंभज ॥६२॥तथातथा ममातीव क्षुद्वृद्धिं संप्रगच्छति ॥जाने किं भक्षयाम्याशु दृषदः काष्ठमेव वा ॥६३॥ततो मया प्रणम्योच्चैर्विज्ञप्तः प्रपितामहः ॥प्राणिपत्य मुनिश्रेष्ठ लज्जां त्यक्त्वा सुदूरतः ॥६४॥क्षुधा मां बाधते अतीव सांप्रतं प्रपितामह ॥तथा पश्यामि नो किंचित्तादृग्भोज्यं प्रयच्छ मे ॥६५॥क्षुत्पिपासादयो दोषा न विद्यंतेऽत्र ते किल ॥स्वर्गे स्थितस्य यच्चैतत्तत्किमेवंविधं मम ॥६६॥ ॥ पितामह उवाच ॥त्वया नान्नं क्वचिद्दत्तं कस्यचित्पृथिवीतले ॥तेनात्रापि बुभुक्षा ते वृद्धिं गच्छति दुर्मते ॥६७॥तथा हृतानि रत्नानि यानि दृष्टिगतानि ते ॥चक्षुर्हीनस्ततो जातो मम लोके गतोऽपि च ॥६८॥यस्त्वं पातकयुक्तोऽपि संप्राप्तो मम मंदिरम् ॥तद्वक्ष्याम्यखिलं तेऽहं शृणुष्वैकमनाः स्थितः ॥६९॥यस्मिञ्जले त्वया मुक्ताः प्राणाः पापा त्मनापिच ॥श्वेतद्वीपपतिस्तत्र कलिकालभयातुरः ॥७०॥ततोऽस्य स्पर्शनात्सद्यो विमुक्तः सर्वपातकैः ॥अन्नादानात्परा पीडा जायते क्षुत्समु द्भवा ॥७१॥तथा रत्नापहारेण सञ्जाता चांधता तव ॥नैवान्यत्कारणं किंचित्सत्यमेतन्मयोदितम् ॥७२॥ततो मया विधिः प्रोक्तः पुनरेव द्विजोत्तम ॥एषोऽपि ब्रह्मलोकस्ते नरकादतिरिच्यते ॥तस्मात्तत्रैव मां देव प्रेषयस्व किमत्र वै ॥७३॥ ॥ ब्रह्मोवाच ॥तस्मात्तत्रैव गच्छ त्वं प्रेषि तोऽसि किमत्र वै ॥नरके तव वासो न श्वेतद्वीपसमुद्भवम् ॥७४॥माहात्म्यं नाशमायाति शास्त्रं स्यात्सत्यवर्जितम् ॥तस्मात्त्वं नित्यमारूढो विमा ने त्रैवसुन्दरे ॥७५॥गत्वा जलाशये तस्मिन्यत्र प्राणाः समुज्झिताः ॥तमेव निजदेहं च भक्षयस्व यथेच्छया ॥७६॥तद्भविष्यति मद्वाक्या दक्षयं जलमध्यगम् ॥तावत्कालं च दृष्टिस्ते भोज्यकाले भविष्यति ॥७७॥ततोऽहं तस्य वाक्येन दीपोत्सवदिने सदा ॥निशीथेऽत्र समा गत्य भक्षयामि निजां तनुम् ॥७८॥ततस्तृप्तिं प्रगच्छामि यावद्दैवं दिनं स्थितम् ॥मानुषं च तथा वर्षमीदृग्रूपो व्यवस्थितः ॥७९॥नास्त्यसाध्यं मुनिश्रेष्ठ तव किंचिज्जगत्त्रये ॥येनैकं चुलुकं कृत्वा निपीतः पयसांनिधिः ॥८०॥तस्मान्मुने दयां कृत्वा ममोपरि महत्तराम् ॥अकृत्या द्रक्ष मामस्मात्सर्वलोकविगर्हितात् ॥८१॥तथा दृष्टिप्रदानं मे कुरुष्व मुनिसत्तम ॥निर्विण्णोऽस्म्यंधभावेन नान्या त्वत्तोऽस्ति मे गतिः ॥८२॥तस्य तद्वचनं श्रुत्वा कृपया मम मानसम् ॥द्रवीभूतं तदा वाक्यमवोचं तं रघूत्तम ॥८३॥त्वमन्ननिष्क्रयं देहि कण्ठस्थमिह भूषणम् ॥येन नाशं प्रयात्येषा बुभुक्षा जठरोद्भवा ॥८४॥तथाऽद्यप्रभृति प्राज्ञ रत्नदीपान्सुनिर्मलान् ॥अत्रैव सरसस्तीरे देहि दामोदराय च ॥८५॥द्ध?स येन संजायते दृष्टिः शाश्वती तव निर्मला ॥मम वाक्यादसंदिग्धं सत्येनात्मानमालभे ॥८६॥ ॥ राजोवाच ॥ममोपरि दयां कृत्वा त्वमेव मुनिसत्तम ॥गृहाण रत्नसंभूतं कण्ठाभरणमुत्तमम् ॥८७॥ततो दयाभिभूतेन मया तस्य प्रतिग्रहः ॥निःस्पृहेणापि संचीर्णो मुनिना रण्यवासिना ॥८८॥ततः प्रक्षाल्य मे पादौ यावत्तेनान्ननिष्क्रये ॥विभूषणमिदं दत्तं सद्भक्त्या भावितात्मने ॥८९॥ततस्तस्य प्रणष्टा सा बुभुक्षा तत्क्षणान्नृप ॥संजाता परमा तृप्तिर्देवपीयूषसंभवा ॥९०॥तस्य नष्टं मृतं कायं तच्च जीर्णं पुरोद्भवम् ॥यदासीदक्षयं नित्यं तस्मिंस्तोये व्यवस्थितम् ॥९१॥ततः संस्थापितस्तेन तस्मिन्स्थाने सुभक्तितः ॥दामोदरो रघुश्रेष्ठ कृत्वा प्रासादमुत्तमम् ॥९२॥तस्याग्रे श्रद्धया युक्तो दीपं दयाद्यथायथा ॥तथातथा भवेद्दृष्टिस्तस्य नित्यं सुनिर्मलाम् ॥९३॥ततो मासात्समासाद्य दिव्यचक्षुर्महीपतिः ॥स बभूव नृपश्रेष्ठः स्पृहणीयतमः सताम् ॥ ९४॥ततः प्रोवाच मां हृष्टः प्रणिपत्य कृतांजलिः ॥हर्षगद्गदया वाचा प्रस्थितस्त्रिदिवं प्रति ॥९५॥त्वत्प्रसादात्प्रणष्टा मे बुभुक्षाऽतिसुदारुणा ॥तथा दृष्टिश्च संजाता दिव्या ब्राह्मणसत्तम ॥९६॥अनुज्ञां देहि मे तस्माद्येन गच्छामि सांप्रतम् ॥ब्रह्मलोकं मुनिश्रेष्ठ तीर्थस्यास्य प्रभावतः ॥९७॥ततो मया विनिर्मुक्तः प्रणिपत्य मुहुर्मुहुः ॥स जगाम प्रहृष्टात्मा ब्रह्मलोकं सनातनम् ॥९८॥एवं मे भूषणमिदं जातं हस्तगतं पुरा ॥तव योग्यमिदं ज्ञात्वा तुभ्यं तेन निवेदितम् ॥९९॥ततः प्रभृति राजेंद्र समागत्यात्र मानवाः ॥रत्नदीपान्प्रदायोच्चैः स्नात्वाऽत्र सलिले शुभे ॥कार्तिके मासि निर्यांति देहांते त्रिदिवालयम् ॥१००॥ये पुनः प्राणसंत्यागं प्रकुर्वंति समाहिताः ॥पापात्मानोऽपि ते यांति ब्रह्मलोकं रघूत्तम ॥१०१॥ततो दृष्ट्वा सहस्राक्षः प्रभावं तज्जलोद्भवम् ॥पांसुभिः पूरयामास समंताद्भयसंकुलम् ॥१०२॥तदद्य दिवसः प्राप्तो दीपोत्सवसमुद्भवः ॥सुपुण्योऽत्र ममादेशात्त्वं कुरुष्व सुकूपिकाम् ॥१०३॥तस्यां स्नानं विधायाथ पितॄंस्तर्पय राघव ॥देवस्यास्य पुरो देहि रत्नदीपमनुत्तमम् ॥१०४॥येन संजायते सिद्धिर्ब्रह्मलोकसमुद्भवा ॥अनेनैव शरीरेण सत्यमेतन्मयोदितम् ॥१०५॥ततस्ते राघवादेशा त्सर्वे राक्षसवानराः ॥तस्मिन्देशे विनिदधुः कूपिकां विमलोदकाम् ॥१०६॥तत्र स्नात्वा पितॄंस्तर्प्य रत्नदीपं प्रदाय च ॥समस्तं कार्तिकं यावदयोध्यां प्रस्थितास्ततः ॥१०७॥ततो विभीषणं मुक्त्वा हनूमंतं च वानरम् ॥ब्रह्मलोकं गताः सर्वे तत्तीर्थस्य प्रभावतः ॥१०८॥ ॥ सूत उवाच ॥अद्यापि दीपदानं यः कुरुते तत्र सादरम् ॥संप्राप्ते कार्तिके मासि स्नात्वा तत्र जले शुभे ॥स सर्वपातकैर्मुक्तो ब्रह्मलोके महीयते ॥१०९॥एवं तत्र समुत्पन्नं तत्तडागं शुभावहम् ॥आनर्त्तीयं तथा विष्णुकूपिका सा च शोभना ॥११०॥इति श्रीस्कांदे महापुराण एकाशीति साहरुयां संहि तायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये आनर्तकतीर्थकूपिकामाहात्म्यवर्णनंनाम त्र्यधिकशततमोऽध्यायः ॥१०३॥ छ ॥ N/A References : N/A Last Updated : December 29, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP