संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १८ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १८ Translation - भाषांतर सूत उवाच ॥ततः सोऽपि महीपालः क्षुत्पिपासासमाकुलः ॥पपात धरणीपृष्ठे पद्भ्यां गत्वा वनांतरम् ॥१॥अथाऽपश्यद्वियत्स्थानात्स त्रीन्प्रेतान्सु दारुणान् ॥ऊर्ध्वकेशान्सुरक्ताक्षान्कृष्णदन्तान्कृशोदरान् ॥२॥तान्दृष्ट्वा भयसंत्रस्तो विशेषेण स भूपतिः ॥निराशो जीविते कृच्छ्रादिदं वचनमब्रवीत् ॥३॥के यूयं विकृताकारा मया दृष्टा न कर्हिचित् ॥एवंविधा नृलोकेऽत्र भ्रमता प्राग्विभीषणाः ॥४॥विदूरथो नरेन्द्रोऽहं क्षुत्पिपासातिपीडितः ॥मृगलिप्सुरिह प्राप्तो वने जन्तुविवर्जिते ॥५॥ततस्तेषां तु यो ज्येष्ठो मांसादः प्रत्युवाच तम् ॥कृतांजलिपुटो भूत्वा विनयावनतः स्थितः ॥६॥वयं प्रेता महाराज निवसामोऽत्र कानने ॥स्वकर्मजनिताद्दोषाद्दुःखेन महता वृताः ॥७॥अहं मांसादकोनाम द्वितीयोऽयं विदैवतः ॥कृतघ्नश्च तृतीयस्तु त्रयाणामेष पापकृत् ॥८ ॥ ॥राजोवाच ॥सर्वेषां देहि नां नाम जायते पितृमातृजम् ॥किमेतत्कारणं येन सर्वे यूयं स्वनामकाः ॥९॥तच्छ्रुत्वा प्राह मांसादः कर्मनामानि पार्थिव ॥मिथः कृतानि संज्ञार्थमस्माभिः स्वयमेव हि ॥१०॥शृणुष्वाऽवहितो भूत्वा सर्वेषां नः पृथक्पृथक् ॥कर्मणा येन संजातं प्रेतत्वमिह भूमिप ॥११॥वयं हि ब्राह्मणा जात्या वैदिशाख्ये पुरे नृप ॥देवरातस्य विप्रस्य गृहे जाता महात्मनः ॥१२॥नास्तिका भिन्नमर्यादाः परदाररताः सदा ॥पाप कर्मरतास्तत्र शुभकर्मविवर्जिताः ॥१३॥जिह्वालौल्यप्रसंगेन मया भुक्तं सदाऽऽमिषम् ॥तेन मे कर्मजं नाम मांसादाख्यं व्यवस्थितम् ॥१४॥द्वितीयोऽयं महाराज यस्तिष्ठति तवाऽग्रतः ॥अनेनाऽन्नं सदा भुक्तमकृत्वा देवतार्चनम् ॥१५॥तेन कर्मविपाकेन प्रेतयोनिं समाश्रितः ॥विदैवत इति ख्यातो द्वितीयोऽयं सुपापकृत् ॥१६॥सदैवाऽनुष्ठिताऽनेन सुपापेन कृतघ्नता ॥कृतघ्नः प्रोच्यते तेन कर्मणा नृपसत्तम ॥१७॥ ॥राजोवाच ॥आहारेण नृलोकेऽस्मिन्सर्वे जीवन्ति जन्तवः ॥युष्माकं कतमो योऽत्र प्रोच्यतां मे सविस्तरम् ॥१८॥ ॥मांसाद उवाच ॥भोज्यकाले गृहे यत्र स्त्रीणां युद्धं प्रवर्तते ॥अपि मन्त्रौषधीप्रायं प्रेता भुंजति तत्र हि ॥१९॥भुज्यते यत्र भूपाल वेंश्वदेवं विना नरैः ॥पाकस्याग्रमदत्त्वा च प्रेता भुंजति तत्र च ॥२०॥रात्रौ यत्क्रियते श्राद्धं दानं वा पर्ववर्जितम् ॥तत्सर्वं नृपशार्दूल प्रेतानां भोजनं भवेत् ॥२१॥यस्मिन्नो मार्जनं हर्म्ये क्रियते नोपलेपनम् ॥न मांगल्यं च सत्कारः प्रेता भुंजति तत्र हि ॥२२॥भिन्नभाण्डपरित्यागो यत्र न क्रियते गृहे ॥न च वेदध्वनिर्यत्र प्रेता भुञ्जंति तत्र हि ॥२३॥यच्छ्राद्धं दक्षिणाहीनं क्रियाहीनं च वा नृप ॥तथा रजस्वलादृष्टं तदस्माकं प्रजायते ॥२४॥हीनांगा ह्यधिकांगा वा यस्मिञ्च्छ्राद्धे द्विजातयः ॥भुंजते वृषलीनाथास्तदस्माकं प्रजायते ॥२५॥अतिथिर्यत्र संप्राप्तः श्राद्धकाल उपस्थिते ॥अपूजितो गृहाद्याति तच्छ्राद्धं प्रेततृप्तिदम् ॥२६॥किं वा ते बहुनोक्तेन शृणु संक्षेपतो नृप ॥अस्माकं भोजनं नित्यं यत्त्वं श्रुत्वा विगर्हसि ॥२७॥यदन्नं केशसूत्रास्थिश्लेष्मादिभिरुपप्लुतम् ॥हीनजात्यैश्च संस्पृष्टं तदस्माकं प्रजायते ॥२८॥ ॥राजोवाच ॥केन कर्मविपाकेन प्रेतत्वं जायते नृणाम् ॥एतन्मे सर्वमाचक्ष्व मांसाद मम पृच्छतः ॥२९॥ ॥मांसाद उवाच ॥यो भवेन्मानवः क्षुद्रस्तथा पैशुन्यसूचकः ॥मृष्टमांसाशने सक्तः स प्रेतो जायते नरः ॥३०॥अकृत्वा देवकार्यं च तथा च पितृतर्पणम् ॥योऽश्नात्यदत्त्वा भृत्येभ्यः स प्रेतो जायते नरः ॥३१॥परदाररतश्चैव परवित्तापहारकः ॥परापवादसंतुष्टः स प्रेतो जायते नरः ॥३२॥कन्यां यच्छति वृद्धाय नीचाय धनलिप्सया ॥कुरूपाय कुशीलाय स प्रेतो जायते नरः ॥३३॥कुले जातां विनीतां च धर्मपत्नीं सुखोच्छ्रिताम् ॥यस्त्यजेद्दोषनिर्मुक्तां स प्रेतो जायते नरः ॥३४॥देवस्त्रीगुरुवित्तानि यो गृहीत्वा न यच्छति ॥विशेषाद्ब्राह्मणस्वं च स प्रेतो जायते नरः ॥३५॥परव्यसनसंतुष्टः कृतघ्नो गुरुतल्पगः ॥दूषको देवविप्राणां स प्रेतो जायते नरः ॥३६॥दीयमानस्य वित्तस्य ब्राह्मणेभ्यः सुपापकृत् ॥विघ्नमारभते यस्तु स प्रेतो जायते नरः ॥३७॥शूद्रान्नेनोदरस्थेन ब्राह्मणो म्रियते यदि ॥स प्रेतो जायते राजन्यद्यपि स्यात्षडंगवित् ॥३८॥कुलदेशोचितं धर्मं यस्त्यक्त्वाऽन्यत्समाचरेत् ॥कामाद्वा यदि वा लोभात्स प्रेतो जायते नरः ॥३९॥एतत्ते सर्वमाख्यातं मया पार्थिवसत्तम ॥येन कर्मविपाकेन प्रेतः संजायते नरः ॥४०॥ ॥राजोवाच ॥कृतेन कर्मणा येन न प्रेतो जायते नरः ॥तन्मे कीर्तय मांसाद विस्तरेण विशेषतः ॥४१॥ ॥मांसाद उवाच ॥मातृवत्परदारान्यः परद्रव्याणि लोष्टवत् ॥यः पश्यत्यात्मवज्जंतून्न प्रेतो जायते नरः ॥४२॥अन्नदानपरो नित्यं विशेषेणातिथिप्रियः ॥स्वाध्यायव्रतशीलो यो न प्रेतो जायते नरः ॥४३॥समः शत्रौ च मित्रे च समलोष्टाश्मकांचनः ॥समो मानापमानेषु न प्रेतो जायते नरः ॥४४॥दानधर्मप्रवृत्तानां धर्ममार्गा नुयायिनाम् ॥प्रोत्साहं वर्धयेद्यस्तु न प्रेतो जायते नरः ॥४९॥यूकामत्कुणदंशादीन्सर्वसत्त्वानि यो नरः ॥पुत्रवत्पालयेन्नित्यं न प्रेतो जायते नरः ॥४६॥सदा यज्ञक्रियोपेतः सदा तीर्थपरायणः ॥शास्त्रश्रवणसंयुक्तो न प्रेतो जायते नरः ॥४७॥वापीकूपतडागानामारामाणां विशे षतः ॥आरोपकः प्रपाणां च न प्रेतो जायते नरः ॥४८॥एतद्वः सर्वमाख्यातं स्वगुह्यं वसुधाधिप ॥निर्विण्णाः प्रेतभावेन तस्मात्त्वं नो गतिर्भव ॥४९॥गत्वा गयाशिरः पुण्यमेकैकस्य पृथक्पृथक् ॥श्राद्धं देहि महीपाल त्रयाणामपि सादरम् ॥५०॥प्रेतत्वं याति येनेदं त्वत्प्र सादात्सुदारुणम् ॥नाऽन्यथा मुक्तिरस्माकं भविष्यति कथंचन ॥५१॥ ॥राजोवाच ॥ईदृग्जातिस्मृतिर्यस्यां प्रेतयोनौ च खे गतिः ॥धर्माधर्मपरिज्ञानं तच्च कस्मात्प्रनिंदसि ॥५२॥ ॥मांसाद उवाच ॥प्रेतयोनिरियं राजन्नवमी देवसंज्ञिता ॥गुणत्रयसमायुक्ता शेषैर्दोषैः समंततः ॥५३॥एका जातिस्मृतिः सम्यगस्यामेवप्रजायते ॥खेचरत्वं तथैवान्यद्धर्माधर्मविनिश्चयः ॥५४॥एतद्गुणत्रयं प्रोक्तं प्रेतयोनौ नृपोत्तम ॥दोषानपि च ते वच्मि ताञ्च्छृणुष्व समाहितः ॥५५॥यदि तावद्वनादस्माद्यामोन्यत्र वयं नृप ॥अदृष्टमुद्गराघातैर्नूनं हन्यामहे ततः ॥५६॥तथा धर्मक्रियाः सर्वा मानुषाणामुदाहृताः ॥न प्रेतानां न देवानां नान्येषां मानुषं विना ॥५७॥पश्यामो दूरतो राजञ्जलपूर्णाञ्जला शयान् ॥पिपासाकुलिताः श्रांता भास्करे वृषसंस्थिते ॥५८॥गच्छामः संनिधौ तेषां यदि पार्थिवसतम ॥अदृष्टमुद्गराघातैर्वयं हन्यामहे ततः ॥५९॥तथा रसवती सिद्धाः पश्यामो दूरसंस्थिताः ॥क्षुधाविष्टा गृहस्थानां गृहेषु विविधा नृप ॥६०॥तथा सुफलिनो वृक्षान्कलपक्षिभिरावृतान् ॥स्निग्धान्सच्छाययोपेतान्सेवितुं न लभामहे ॥६१॥किंवा ते बहुनोक्तेन यद्यत्कर्म विगर्हितम् ॥क्लेशदं च तदस्माकं स्वयमेवोपतिष्ठते ॥६२॥न च्छिद्रेण विनाऽस्माकं प्राणयात्रा प्रजायते ॥न जलानि न च च्छाया न यानं न च वाहनम् ॥६३॥एतस्मात्कारणान्नित्यं भ्रमामश्छिद्रहेतवे ॥प्राप्ते रात्रिमुखे राजन्न प्रातर्न च वासरे ॥६४॥यत्त्वं शंससि चाऽस्माकं खेचरत्वं महीपते ॥व्यर्थं तदपि न श्रेयः शृणु तत्रापि कारणम् ॥६५॥क्रियते खेचरत्वेन किंकिं धर्मं विनिश्चयैः ॥यतो न सिध्यते मोक्षो जाति स्मृत्यादिकं तथा ॥६६॥तस्माद्दोषादिमे राजन्गुणा यद्यपि कीर्तिताः ॥प्रेतानां यान्समाश्रित्य काचित्सिद्धिर्न जायते ॥६७॥विषादो जायते भूयो गुणैरेतैर्नराधिप ॥अशक्ताः प्रेतयोगाद्वै सर्वस्य शुभकर्मणः ॥६८॥ ॥राजोवाच ॥यदि यास्यामि भूयोऽहं गृहमस्मान्महावनात् ॥तत्करिष्यामि सर्वेषां गयाश्राद्धमसंशयम् ॥६९॥तारयिष्यामि सर्वांश्च सर्वपापैः प्रयत्नतः ॥अप्यात्मदेहदानेन सत्येनात्मानमालभे ॥७०॥यस्माद्धृद्गतशंका मे हृता युष्माभिरद्य वै ॥येन तत्प्राप्य युष्माकमुपकारं करोम्यहम् ॥७१॥ ॥मांसाद उवाच ॥इतः स्थानान्महाराज नातिदूरे जलाशयः ॥अस्ति नानाद्रुमोपेतश्चित्ताह्लादकरः परः ॥७२॥तस्मादुदङ्मुखो गच्छ यत्र ते जलपक्षिणः ॥दृश्यंते व्योममार्गेण प्रगच्छतः समंततः ॥७३॥ ॥सूत उवाच ॥अथासौ नृपशार्दूलः समुत्थाय शनैःशनैः ॥सौम्यां दिशं समुद्दिश्य प्रतस्थे स तु दुःखितः ॥७४॥एवं प्रगच्छता तेन क्षुत्पिपासाकुलेन च ॥अदूरादेव संदृष्टं नीलं द्रुमकदंबकम् ॥भ्रममाणैर्बकैर्हंसैः सारसैर्मद्गुभिस्तथा ॥७५॥स गत्वा सलिलं तत्र तद्वातेन महीपतिः ॥आहूत इव शीतेन प्रययौ त्वरयान्वितः ॥७६॥अथाऽपश्यन्मनोहारि सौम्यसत्त्वनिषेवितम् ॥आश्रमं ह्रदतीरस्थं तापसैः सर्वतो वृतम् ॥७७॥पुष्पितैः फलितैर्वृक्षैः समंतात्परिवेष्टितम् ॥विचित्रैर्मधुरारावैर्नादितं विहगोत्तमैः ॥७८॥तत्रापश्यन्नगाधस्तात्तपस्विगणसेवितम् ॥शिवधर्मपरं शांतं जैमिनिं मुनिसत्तमम् ॥७९॥अथ गत्वा स राजेंद्रः प्रणिपत्य मुनीश्वरम् ॥तथान्यानपि तच्छिष्यान्निपपात धरातले ॥८०॥ते दृष्ट्वाऽदृष्टपूर्वं तं राजलक्षणलक्षितम् ॥धूलिधूसरितांगं च भस्मावृतमिवाचलम् ॥८१॥मन्यमाना महीपालं विस्मयोत्फुल्ललोचनाः ॥प्रोचुश्च मधुरैर्वाक्यैराशीर्वादपुरःसरैः ॥८२॥कुतस्त्वमनुसंप्राप्तो वनेऽस्मिञ्जनवर्जिते ॥एकाकी सुकुमारांगः पदातिः श्रमविह्वलः ॥८३॥पार्थिवस्येव लिंगानि दृश्यंते तव भूरिशः ॥न विद्मो निश्चयं तस्माद्वदागमनकारणम् ॥८४॥अथोवाच नृपः कृच्छ्रात्पिपासा मां प्रबाधते ॥तस्माद्वदत पानीयं यत्पीत्वा कीर्तयाम्यहम् ॥८५॥ततस्तैर्दर्शितं तोयं समीपे यन्महीपतेः ॥सोऽपि पीत्वाऽवगाह्याथ वितृष्णः समपद्यत ॥८६॥ततः फलानि पक्वानि तरूणां पतितान्यधः ॥सुमृष्टानि समादाय भक्षयामास वांछया ॥८७॥ततस्तृप्तिं परां प्राप्य गत्वा जैमिनिसंनिधौ ॥उपविष्टः प्रणम्योच्चैस्तथान्यांश्च मुनीन्क्रमात् ॥८८॥उवाच च निजां वार्तां कृतांजलिपुटः स्थितः ॥स पृष्टस्तापसैः सर्वैः सुविस्मयसमन्वितैः ॥८९॥विदूरथो महीपोऽहं माहिष्मत्यां कृतास्पदः ॥मृगलिप्सुर्वने घोरे प्रविष्टः सैनिकैः सह ॥९०॥ततो मे भ्रममाणस्य प्रणष्टाः सर्वसैनिकाः ॥गुल्मैरंतरिताश्चाऽन्ये न जानेऽहं कथं स्थिताः ॥९१॥आसीद्धयो ममाऽधस्ताज्जात्यः सर्वगुणान्वितः ॥सोऽपि कर्मविपाकेन पञ्चत्वं समुपस्थितः ॥९२॥भ्रममाणस्त्वहं प्राप्त आयुःशेषतयात्र च ॥तद्ब्रूत कः प्रदेशोऽयं कियद्दूरे च मे पुरी ॥९३॥ततस्ते तापसाः प्रोचुर्विद्महे न वयं पुरीम् ॥त्वां च देशं च ते राजन्कोऽयं देशश्च कीर्त्यते ॥९४॥नरेन्द्रैर्नैव नः कार्यं न दिशैर्न पुरैर्नृप ॥वनेचरा वयं नित्यं शिवाराधनतत्पराः ॥९५॥सर्वे शीर्णानि वृक्षाणां पुष्पाणि च फलानि च ॥भक्षयामोऽथ पत्राणि शरी रस्थितिहेतुना ॥९६॥मानुषैः सह संसर्गं संभाषं च नराधिप ॥न कुर्मो न च पश्यामो गच्छामोऽन्यत्र दूरतः ॥९७॥एकैकस्य तरोर्मूले दिवसं वा दिनद्वयम् ॥तिष्ठामो न भवेद्येन ममत्वं तत्समुद्भवम् ॥९८॥कारणात्तव राजेंद्र निशामेतां वनस्पतौ ॥नेष्यामोऽन्यत्र यास्यामः प्रभा तेऽन्यत्र कानने ॥९९॥एकाकिनं पदातिं च विशस्त्रं श्रमविह्वलम् ॥त्वां दृष्ट्वा भूपतेऽस्माकं दया जाता ततोऽधिका ॥१००॥एकाकी पार्थिवेन्द्रोऽयं नेष्यति च कथं निशाम् ॥वनेऽस्मिन्मंत्रयित्वैवं ततोऽत्रैव व्यवस्थिताः ॥१०१॥तस्मादत्रैव नेष्यामः समेताः शर्वरीमिमाम् ॥गंतव्यं प्रातरुत्थाय ततः सर्वैर्यदृच्छया ॥१०२॥एवं संवदतां तेषां भगवांस्तीक्ष्णदीधितिः ॥अस्ताचलमनुप्राप्तः कुंकुमक्षोदसंनिभः ॥१०३॥अथ तास्तापसान्राजा प्रोवाच प्रणतः स्थितः ॥संध्याकालः समायातः सांप्रतं मुनिसत्तमाः ॥तस्मात्संध्याविधिः कार्यः सर्वैरेव यथोचितः ॥१०४॥अथ ते मुनयः सर्वे स च राजा तथा द्विजाः ॥चक्रुः सायंतनं कर्म यथोद्दिष्टं पुरातनैः ॥कामिभिः कामिनीलोकैः प्रियोक्तैरभिवां छिता ॥असत्स्त्रीभिर्विशेषेण संप्राप्ता रजनी ततः ॥१०६॥पीयूषार्णववेलेव विषवृक्षलतेव च ॥उलूकैश्चक्रवाकैश्च युगपद्या विलोक्यते ॥१०७॥उलूका राक्षसाश्चौराः कामिनः कुलटांऽगनाः ॥यां वांछंति सदा सोत्काः सुवृष्टिमिव कर्षुकाः ॥१०८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मांसादवचनादृष्याश्रमपदं प्राप्तस्य विदूरथस्य मुनिभिः सह संवादपूर्वकसांयतनकर्मादिविधानवर्णनंनामाष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : December 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP