संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १८१ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १८१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १८१ Translation - भाषांतर ॥ सूत उवाच ॥एतस्मिन्नंतरे सर्वेर्नागरैर्ब्राह्मणोत्तमैः ॥प्रेषितो मध्यगस्तत्र गर्तातीर्थसमुद्भवः ॥१॥रेरे मध्यग गत्वा त्वं ब्रूहि तं कुपितामहम् ॥विप्रवृत्ति प्रहंतारं नीतिमार्गविवर्जितम् ॥२॥एतत्क्षेत्रं प्रदत्तं नः पूर्वेषां च द्विजन्मनाम् ॥महेश्वरेण तुष्टेन पूरिते सर्पजे बिले ॥३॥तस्य दत्तस्य चाद्यैव पितामहशतं गतम् ॥पंचोत्तरमसन्दिग्धं यावत्त्वं कुपितामह ॥४॥न केनापि कृतोऽस्माकं तिरस्कारो यथाऽधुना ॥त्वां मुक्त्वा पापकर्माणं न्यायमार्गविवर्जितम् ॥५॥नागरैर्ब्राह्मणैर्बाह्यं योऽत्र यज्ञं समाचरेत् ॥श्राद्धं वा स हि वध्यः स्यात्सर्वेषां च द्विजन्मनाम् ॥६॥न तस्य जायते श्रेयस्तत्समुत्थं कथंचन ॥एतत्प्रोक्तं तदा तेन यदा स्थानं ददौ हि नः ॥७॥तस्माद्यत्कुरुषे यज्ञं ब्राह्मणैर्नागरैः कुरु ॥नान्यथा लप्स्यसे कर्तुं जीवद्भिर्नागरैर्द्विजैः ॥८॥एवमुक्तस्ततो गत्वा मध्यगो यत्र पद्मजः ॥यज्ञमण्डपदूरस्थो ब्राह्मणैः परिवारितः ॥९॥यत्प्रोक्तं नागरैः सर्वैः सविशेषं तदा हि सः ॥तच्छ्रुत्वा पद्मजः प्राह सांत्वपूर्वमिदं वचः ॥१०॥मानुषं भावमापन्न ऋत्विग्भिः परिवारितः ॥त्वया सत्यमिदं प्रोक्तं सर्वं मध्यगसत्तम ॥११॥किं करोमि वृताः सर्वे मया ते यज्ञकर्मणि ॥ऋत्विजोऽध्वर्यु पूर्वा ये प्रमादेन न काम्यया ॥१२॥तस्मादानय तान्सर्वानत्र स्थाने द्विजोत्तमान् ॥अनुज्ञातस्तु तैर्येन गच्छामि मखमण्डपे ॥१३॥ ॥ मध्यग उवाच ॥त्वं देवत्वं परित्यज्य मानुषं भावमाश्रितः ॥तत्कथं ते द्विजश्रेष्ठाः समागच्छंति तेंऽतिकम् ॥१४॥श्रेष्ठा गावः पशूनां च यथा पद्मसमुद्भव ॥विप्राणामिह सर्वेषां तथा श्रेष्ठा हि नागराः ॥१५॥तत्माच्चेद्वांछसि प्राप्तिं त्वमेतां यज्ञसंभवाम् ॥तद्भक्त्यानागरान्सर्वान्प्रसादय पितामह ॥१६॥ ॥ सूत उवाच ॥तच्छ्रुत्वा पद्मजो भीत ऋत्विग्भिः परिवारितः ॥जगाम तत्र यत्रस्था नागराः कुपिता द्विजाः ॥१७॥प्रणिपत्य ततः सर्वान्विनयेन समन्वितः ॥प्रोवाच वचनं श्रुत्वा कृतांजलिपुटः स्थितः ॥१८॥जानाम्यहं द्विजश्रेष्ठाः क्षेत्रेऽस्मिन्हाट केश्वरे ॥युष्मद्बाह्यं वृथा श्राद्धं यज्ञकर्म तथैव च ॥१९॥कलिभीत्या मयाऽऽनीतं स्थानेऽस्मिन्पुष्करं निजम् ॥तीर्थं च युष्मदीयं च निक्षेपोऽ यंसमर्पितः ॥२०॥ऋत्विजोऽमी समानीता गुरुणा यज्ञसिद्धये ॥अजानता द्विजश्रेष्ठा आधिक्यं नागरात्मकम् ॥२१॥तस्माच्च क्षम्यतां मह्यं यतश्च वरणं कृतम् ॥एतेषामेव विप्राणामग्निष्टोमकृते मया ॥२२॥एतच्च मामकं तीर्थं युष्माकं पापनाशनम् ॥भविष्यति न सन्देहः कलिकालेऽपि संस्थिते ॥२३॥ ॥ ब्राह्मणा ऊचुः ॥यदि त्वं नागरैर्बाह्यं यज्ञं चात्र करिष्यसि ॥तदन्येऽपि सुराः सर्वे तव मार्गानुयायि नः ॥भविष्यन्ति तथा भूपास्तत्कार्यो न मखस्त्वया ॥२४॥यद्येवमपि देवेश यज्ञकर्म करिष्यसि ॥अवमन्य द्विजान्सर्वाक्षिप्रं गच्छास्मदंतिकात् ॥२५॥ ॥ ब्रह्मोवाच ॥अद्यप्रभृति यः कश्चिद्यज्ञमत्र करिष्यति ॥श्राद्धं वा नागरैर्बाह्यं वृथा तत्संभविष्यति ॥२६॥नागरोऽपि च यो न्यत्र कश्चिद्यज्ञं करिष्यति ॥एतत्क्षेत्रं परित्यज्य वृथा तत्संभविष्यति ॥२७॥मर्यादेयं कृता विप्रा नागराणां मयाऽधुना ॥कृत्वा प्रसादमस्माकं यज्ञार्थं दातुमर्हथ ॥अनुज्ञां विधिवद्विप्रा येन यज्ञं करोम्यहम् ॥२८॥ ॥ सूत उवाच ॥ततस्तैर्ब्राह्मणैस्तुष्टैरनुज्ञातः पितामहः ॥चकार विधिवद्यज्ञं ये वृता ब्राह्मणाश्च तैः ॥२९॥विश्वकर्मा समागत्य ततो मस्तकमण्डनम् ॥चकार ब्राह्मणश्रेष्ठा नागराणां मते स्थितः ॥३०॥ब्रह्मापि परमं तोषं गत्वा नारदमब्रवीत् ॥सावित्रीमानय क्षिप्रं येन गच्छामि मण्डपे ॥३१॥वाद्यमानेषु वाद्येषु सिद्धकिन्नरगुह्यकैः ॥गन्धर्वैर्गीतसंसक्तैर्वेदोच्चारपरैर्द्विजैः ॥अरणिं समुपादाय पुलस्त्यो वाक्यमब्रवीत् ॥३२॥पत्नी ३ पत्नीति विप्रेन्द्राः प्रोच्चैस्तत्र व्यवस्थिताः ॥३३॥एतस्मिन्नंतरे ब्रह्मा नारदं मुनिसत्तमम् ॥संज्ञया प्रेषयामास पत्नी चानीयतामिति ॥३४॥सोऽपि मंदं समागत्य सावित्रीं प्राह लीलया ॥युद्धप्रियोंऽतरं वांछन्सावित्र्या सह वेधसः [ ॥ ३५॥अहं संप्रेषितः पित्रा तव पार्श्वे सुरेश्वरि ॥आगच्छ प्रस्थितः स्नातः सांप्रतं यज्ञमण्डपे ॥३६॥परमेकाकिनी तत्र गच्छमाना सुरेश्वरि ॥कीदृग्रूपा सदसि वै दृश्यसे त्वमनाथवत् ॥३७॥तस्मादानीयतां सर्वा याः काश्चिद्देवयोषितः ॥याभिः परिवृता देवि यास्यसि त्वं महामखे ॥३८॥एवमुक्त्वा मुनिश्रेष्ठो नारदो मुनिसत्तमः ॥अब्रवीत्पितरं गत्वा तातांबाऽऽकारिता मया ॥३९॥परं तस्याः स्थिरो भावः किंचित्संलक्षितो मया ॥तस्य तद्वचनं श्रुत्वा ततो मन्युसमन्वितः ॥४॥पुलस्त्यं प्रेषयामास सावित्र्या सन्निधौ ततः ॥गच्छ वत्स त्वमानीहि स्थानं सा शिथिलात्मिका ॥सोमभारपरिश्रांतं पश्य मामूर्ध्वसंस्थितम् ॥४१॥एष कालात्ययो भावि यज्ञकर्मणि सांप्रतम् ॥यज्ञयानमुहूर्तोऽयं सावशेषो व्यवस्थितः ॥४२॥तस्य तद्वचनं श्रुत्वा पुलस्त्यः सत्वरं ययौ ॥सावित्री तिष्ठते यत्र गीतनृत्यसमाकुला ॥४३॥ततः प्रोवाच किं देवि त्वं तिष्ठसि निराकुला ॥यज्ञयानोचितः कालः सोऽयं शेषस्तु तिष्ठति ॥४४॥तस्मादागच्छ गच्छामस्तातः कृच्छ्रेण तिष्ठति ॥सोमभारार्द्दितश्चोर्ध्वं सर्वैर्देवैः समावृतः ॥४५॥ ॥ सावित्र्युवाच ॥सर्वदेववृतस्तात तव तातो व्यवस्थितः ॥एकाकिनी कथं तत्र गच्छाम्यहमनाथवत् ॥४६॥तद्ब्रूहि पितरं गत्वा मुहूर्तं परिपाल्यताम् ॥४७॥यावदभ्येति शक्राणी गौरी लक्ष्मीस्तथा पराः ॥देवकन्याः समाजेऽत्र ताभिरेष्याम्यह८द्रुतम् ॥४८॥सर्वासां प्रेषितो वायुर्निमत्रणकृते मया ॥आगमिष्यन्ति ताः शीघ्रमेवं वाच्यः पिता त्वया ॥४९॥ ॥ सूत उवाच ॥सोऽपि गत्वा द्रुतं प्राह सोमभारार्दितं विधिम् ॥नैषाभ्येति जगन्नाथ प्रसक्ता गृहकर्मणि ॥५०॥सा मां प्राह च देवानां पत्नीभिः सहिता मखे ॥अहं यास्यामि तासां च नैकाद्यापि प्रदृश्यते ॥५१॥एवं ज्ञात्वा सुरश्रेष्ठ कुरु यत्ते सुरोचते ॥अतिक्रामति कालोऽयं यज्ञयानसमुद्रवः ॥तिष्ठते च गृहव्यग्रा सापि स्त्री शिथिलात्मिका ॥५२॥तच्छ्रुत्वा वचनं तस्य पुलस्त्यस्य पितामहः ॥समीपस्थं तदा शक्रं प्रोवाच वचनं द्विजाः ॥५३॥ ॥ ब्रह्मोवाच ॥शक्र नायाति सावित्री सापि स्त्री शिथिलात्मिका ॥अनया भार्यया यज्ञो मया कार्योऽयमेव तु ॥५४॥गच्छ शक्र समानीहि कन्यां कांचित्त्वरान्वितः ॥यावन्न क्रमते कालो यज्ञयानसमुद्भवः ॥५५॥पितामहवचः श्रुत्वा तदर्थं कन्यका द्विजाः ॥शक्रेणासादिता शीघ्रं भ्रममाणा समीपतः ॥५६॥अथ तक्रघटव्यग्रमस्तका तेन वीक्षिता ॥कन्यका गोपजा तन्वी चंद्रास्या पद्मलोचना ॥५७॥सर्वलक्षणसंपूर्णा यौवनारंभमाश्रिता ॥सा शक्रेणाथ संपृष्टा का त्वं कमललोचने ॥५८॥कुमारी वा सनाथा वा सुता कस्य ब्रवीहि नः ॥५९॥ ॥ कन्यो वाच ॥गोपकन्यास्मि भद्रं ते तक्रं विक्रेतुमागता ॥यदि गृह्णासि मे मूल्यं तच्छीघ्रं देहि मा चिरम् ॥६०॥तच्छ्रुत्वा त्रिदिवेन्द्रोऽपि मत्वा तां गोपकन्यकाम् ॥जगृहे त्वरया युक्तस्तक्रं चोत्सृज्य भूतले ॥६१॥अथ तां रुदतीं शक्रः समादाय त्वरान्वितः ॥गोवक्त्रेण प्रवेश्याथ गुह्येनाकर्षयत्ततः ॥६२॥एवं मेध्यतमां कृत्वा संस्नाप्य सलिलैः शुभैः ॥ज्येष्ठकुण्डस्य विप्रेन्द्राः परिधाय्य सुवाससी ॥६३॥ततश्च हर्षसंयुक्तः प्रोवाच चतुराननम् ॥द्रुतं गत्वा पुरो धृत्वा सर्वदेवसमागमे ॥६४॥कन्यकेयं सुरश्रेष्ठ समानीता मयाऽधुना ॥तवार्थाय सुरूपांगी सर्वलक्षणलक्षिता ॥६५॥गोपकन्या विदित्वेमां गोवक्त्रेण प्रवेश्य च ॥आकर्षिता च गुह्येन पावनार्थं चतुर्मुख ॥६६॥ ॥ श्रीवासुदेव उवाच ॥गवां च ब्राह्मणानां च कुलमेकं द्विधा कृतम् ॥एकत्र मंत्रास्तिष्ठंति हविरन्यत्र तिष्ठति ॥६७॥धेनूदराद्विनिष्क्रांता तज्जातेयं द्विजन्मनाम् ॥अस्याः पाणिग्रहं देव त्वं कुरुष्व मखाप्तये ॥६८॥यावन्न चलते कालो यज्ञयानसमुद्भवः ॥६९॥ ॥ रुद्र उवाच ॥प्रविष्टा गोमुखे यस्मादपानेन विनिर्गता ॥गायत्रीनाम ते पत्नी तस्मादेषा भविष्यति ॥७०॥ ॥ ब्रह्मोवाच ॥वदन्तु ब्राह्मणाः सर्वे गोपकन्याप्यसौ यदि ॥संभूय ब्राह्मणीश्रेष्ठा यथा पत्नी भवेन्मम ॥७१॥ ॥ ब्राह्मणा ऊचुः ॥एषा स्याद्ब्राह्मणश्रेष्ठा गोपजातिविवर्जिता ॥अस्मद्वाक्याच्चतुर्वक्त्र कुरु पाणिग्रहं द्रुतम् ॥७२॥ ॥ सूत उवाच ॥ततः पाणिग्रहं चक्रे तस्या देवः पितामहः ॥कृत्वा सोमं ततो मूर्ध्नि गृह्योक्तविधिना द्विजाः ॥७३॥संतिष्ठति च तत्रस्था महादेवी सुपावनी ॥अद्यापि लोके विख्याता धनसौभाग्यदायिनी ॥७४॥यस्तस्यां कुरुते मर्त्यः कन्यादानं समाहितः ॥समस्तं फलमाप्नोति राजसूयाश्वमेधयोः ॥७९॥कन्या हस्तग्रहं तत्र याऽऽप्नोति पतिना सह ॥सा स्यात्पुत्रवती साध्वी सुखसौभाग्यसंयुता ॥७६॥पिंडदानं नरस्तस्यां यः करोति द्विजोत्तमाः ॥पितरस्तस्य संतुष्टास्तर्पिताः पितृतीर्थवत् ॥७७॥इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गायत्रीविवाहे गायत्रीतीर्थमाहात्म्यवर्णनंनामैकाशीत्युत्तरशततमोअध्यायः ॥१८१॥ N/A References : N/A Last Updated : December 31, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP