संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १६७ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १६७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १६७ Translation - भाषांतर ॥ सूत उवाच ॥गाधेस्तु याऽथ पत्नी च प्राशनाच्चरु कस्य वै ॥सापि गर्भं दधे तत्र वासरे मन्त्रतः शुभा ॥१॥सा च गर्भसमोपेता यदा जाता द्विजोत्तमाः ॥तीर्थयात्रापरा साध्वी जाता व्रतपरायणा ॥२॥वेदध्वनिर्भवेद्यत्र तत्र हर्षसमन्विता ॥पुलकांचितसर्वांगी सा शुश्राव च सर्वदा ॥त्यक्त्वा राज्योचितान्सर्वानलंकारान्सुखानि च ॥३॥अथ सापि द्विजश्रेष्ठा दशमे मासि संस्थिते ॥सुषुवे सुप्रभं पुत्रं ब्राह्म्या लक्ष्म्या समावृतम् ॥४॥विश्वामित्रस्तथा ख्यातस्त्रैलोक्ये सचरा चरे ॥ववृधे स महाभागो नित्यमेवाधिकं नृणाम् ॥५॥शुक्लपक्षं समासाद्य तारापतिरिवांबरे ॥यदासौ यौवनोपेतः संजातो द्विजसत्तमाः ॥६॥ राज्यक्षमस्तदा राज्ये गाधिना स नियोजितः ॥अनिच्छमानः स्वं राज्यं पितृपैतामहं महत् ॥७॥वेदाध्ययनसंपन्नो नित्यं च पठते हि सः ॥ब्राह्मणोचितमार्गेण गच्छमानो दिवानिशम् ॥८॥संस्थाप्याथ सुतं राज्ये बभूव वनगोचरः ॥सकलत्रो महाभागो वानप्रस्थाश्रमे रतः ॥९॥विश्वामित्रोऽपि राज्यस्थो द्विजसंपूजने रतः ॥द्विजैः सर्वैश्चचाराथ स्नानजाप्यपरायणः ॥१०॥कस्यचित्त्वथ कालस्य पापर्द्धिं समुपागतः ॥प्रविवेश वनं रौद्रं नानामृगसमाकुलम् ॥११॥जघान स वने तत्र वराहान्संबरान्गजान् ॥तरक्षांश्च रुरून्खड्गानारण्यान्महिषांस्तथा ॥१२॥सिंहान्व्याघ्रान्महासर्पाञ्छरभांश्च द्विजोत्तमाः ॥मृगयासक्तचित्तः स भ्रममाणो महावने ॥१३॥मध्याह्नसमये प्राप्ते वृषस्थे च दिवाकरे ॥क्षुत्पिपासापरिश्रांतो विश्वामित्रो द्विजोत्तमाः ॥१४॥आससादाश्रमं पुण्यं वसिष्ठस्य महात्मनः ॥वसिष्ठोऽपि समालोक्य विश्वामित्रं नृपो त्तमम् ॥१५॥निजाश्रमे तु संप्राप्तं सानन्दं सम्मुखो ययौ ॥दत्त्वा तस्मै तदार्घ्यं च मधुपर्कं च भूभुजे ॥१६॥अब्रवीच्च ततो वाक्यं स्वागतं ते महीपते ॥वद कृत्यं करोम्येव गृहायातस्य यच्च ते ॥१७॥ ॥ विश्वामित्र उवाच ॥मृगयायां परिश्रांतः पिपासाव्याकुलेन्द्रियः ॥पानार्थमिह संप्राप्त आश्रमे ते मुनीश्वर ॥१८॥तत्पीतं शीतलं तोयं वितृष्णोऽहं व्यवस्थितः ॥अनुज्ञां देहि मे ब्रह्मन्येन गच्छामि मंदिरम् ॥१९॥ ॥ वसिष्ठ उवाच ॥मध्याह्न समयो रौद्रः सूर्योऽतीव सुतापदः ॥तत्कृत्वा भोजनं राजन्नपराह्णे व्यवस्थिते ॥गन्तासि निजमावासं भुक्त्वान्नं मम चाश्रमे ॥२०॥ ॥ राजोवाच ॥चतुरंगेण सैन्येन मृगयामहमागतः ॥२१॥तवाश्रमस्य द्वारस्थं मम सैन्यं व्यवस्थितम् ॥बुभुक्षितेषु भृत्येषु यः स्वामी कुरुतेऽशनम् ॥२२॥स याति नरकं घोरं त्यज्यते च गुणैर्द्रुतम् ॥तस्मादाज्ञापय क्षिप्रं मां मुने स्वगृहाय भोः ॥२३॥ ॥ वसिष्ठ उवाच ॥यदि ते सेवकाः संति द्वारदेशे बुभुक्षिताः ॥सर्वानिहानय क्षिप्रं तृप्तिं नेष्याम्यहं परम् ॥२४॥अस्ति मे नन्दिनीनाम कामधेनुः सुशोभना ॥वांछितं यच्छते सर्वं तपसा पार्थिवोत्तम ॥२५॥तृप्तिं नेष्यति ते सर्वं सैन्यं पार्थिवसत्तम ॥तस्मादानीयतां क्षिप्रं पश्य मे धेनुजं फलम् ॥२६॥तच्छ्रुत्वा चानयामास सर्वं सैन्यं महीपतिः ॥स्नातश्च कृतजप्यश्च सन्तर्प्य पितृदेवताः ॥२७॥ब्राह्मणान्वाचयित्वा च सिंहासनसमाश्रितः ॥एतस्मिन्नंतरे धेनुः समाहूता च नंदिनी ॥२८॥वसिष्ठेन समाहूता विश्वामित्रपुरःस्थिता ॥अब्रवीच्च तता वाक्यं वसिष्ठमृषि सत्तमम् ॥२९॥आदेशो दीयतां मह्यं किं करोमि प्रशाधि माम् ॥३०॥ ॥ वसिष्ठ उवाच ॥पादप्रक्षालनाद्यं तु कुरुष्व वचनान्मम ॥विश्वामित्रस्य राजर्षेर्यावद्भोजनसंस्थितिम् ॥३१॥खाद्यैः सर्वैस्तथा लेह्यैश्चोष्यैः पेयैः पृथविधैः ॥कुरुष्व तृप्तिपर्यन्तं ससैन्यस्य महीपतेः ॥अश्वानां च गजानां च घासादिभिर्यथाक्रमम् ॥३२॥ ॥ सूत उवाच ॥बाढमित्येव साप्युक्त्वा ततस्तत्ससृजे क्षणात् ॥यत्प्रोक्तं तेन मुनिना भृत्यानां चायुतं तथा ॥३३॥ततस्ते सर्वमादाय भृत्या भोज्यं ददुस्तथा ॥एकैकस्य पृथक्त्वेन प्रतिपत्तिपुरःसरम् ॥३४॥एवं तया क्षणेनैव तृप्तिं नीतो महीपतिः ॥ससैन्यः सपरीवारो गजोष्ट्राश्वैर्वृषैः सह ॥३५॥ततस्तु कौतुकं दृष्ट्वा विश्वामित्रो महीपतिः ॥सामात्यो विस्म याविष्टो मन्त्रयामास च द्विजाः ॥३६॥अहो चित्रमहो चित्रं ययाऽकस्माद्वरूथिनी ॥तृप्तिं नीतेयमस्माकं क्षुत्पिपासासमाकुला ॥३७॥तस्मात्संनीयतामेषा स्वगृहं धेनुरुत्तमा ॥किं करिष्यति विप्रोऽयं निर्भृत्यो वनसंस्थितः ॥३८॥ततो वसिष्ठमाहूय वाक्यमेतदुवाच सः ॥नंदिनी दीयतां मह्यं किं करिष्यसि चानया ॥३९॥त्वमेको वनसंस्थस्तु निर्द्वन्द्वो निष्परिग्रहः ॥अथवा तव दास्यामि व्ययार्थे मुनिसत्तम ॥वरान्ग्रामांश्च हस्त्यश्वानन्यांश्चापि यथेप्सितान् ॥४०॥ ॥ वसिष्ठ उवाच ॥होमधेनुरियं राजन्नस्माकं कामदोहिनी ॥अदेया गौर्महाराज सामान्यापि द्विजन्मनाम् ॥४१॥किं पुनर्नंदिनी यैषा सर्वकामप्रदायिनी ॥अपरं शृणु राजेंद्र स्मृतिवाक्यमनुत्तमम् ॥४२॥गवां हि विक्रयार्थे च यदुक्तं मनुना स्वयम् ॥गवां विक्रयजं वित्तं यो गृह्णाति द्विजोत्तमः ॥४३॥अन्त्यजः स परिज्ञेयो मातृविक्रयकारकः ॥तस्मान्नाहं प्रदास्यामि नन्दिनीं तां महीपते ॥४४॥न साम्ना नैव भेदेन न दानेन कथंचन ॥न दण्डेन महाराज तस्माद्गच्छ निजालयम् ॥४५॥ ॥ विश्वामित्र उवाच ॥यत्किंचिद्विद्यते रत्नं पार्थिवस्य क्षितौ द्विज ॥तत्सर्वं राजकीयं स्यादिति वित्तविदो विदुः ॥४६॥रत्नभूता ततो धेनुर्ममेयं नंदिनी स्थिता ॥दण्डेनापि ग्रहीष्यामि साम्ना यच्छसि नो यदि ॥४७॥एवमुक्त्वा वसिष्ठं स विश्वामित्रो महीपतिः ॥आदिदेश ततो भृत्यान्नदिनीयं प्रगृह्यताम् ॥४८॥अथ सा भृत्यवर्गेण नीयमाना च नंदिनी ॥हन्यमाना प्रहारैश्च पाषाणैर्लकुटैरपि ॥४९॥अश्रुपूर्णेक्षणा दीना प्रहारैर्जर्जरीकृता ॥कृच्छ्रादुपेत्य तं प्राह वसिष्ठं मुनिसत्तमम् ॥५०॥किं दत्तास्मि मुनिश्रेष्ठ त्वयाहं चास्य भूपतेः ॥येन मां कालयंत्यस्य पुरुषाः स्वामिनो यथा ॥५१॥ ॥ वसिष्ठ उवाच ॥न त्वां यच्छाम्यहं धेनो प्राणत्यागेऽपि संस्थिते ॥तद्रक्षस्व स्वयं धेनो आत्मानं मत्प्रभावतः ॥५२॥एवमुक्ता तदा धेनुर्वसिष्ठेन महात्मना ॥कोपाविष्टा ततश्चक्रे हुंकारान्दारुणांस्तथा ॥५३॥तस्या हुंकारशब्दैश्च निष्क्रांताः सायुधा नराः ॥शबराश्च पुलिंदाश्च म्लेच्छाः संख्याविवर्जिताः ॥५४॥तैश्च भृत्या हताः सर्वे विश्वामित्रस्यभूपतेः ॥ततः कोपाभिभूतोऽसौ विश्वामित्रो महीपतिः ॥५५॥सज्जं कृत्वा स्वसैन्यं तु चतुरंगं प्रकोपतः ॥युद्धं चक्रे च तैः सार्धं मरणे कृतनिश्चयः ॥५६॥अथ ते सैनिका स्तस्य ते गजास्ते च वाजिनः ॥पश्यतो निहताः सर्वे पुरुषैर्धेनुसंभवैः ॥५७॥विश्वामित्रं परित्यज्य शेषं सर्वं निपातितम् ॥तं दृष्ट्वा वेष्टितं म्लेच्छैर्यु ध्यमानं महीपतिम् ॥५८॥कृपां कृत्वा वसिष्ठस्तु नन्दिनीमिदमब्रवीत् ॥रक्ष नंदिनि भूपालं म्लेच्छैरेतैः समावृतम् ॥५९॥राजा हि यत्नतो रक्ष्यो यत्प्रसादादिदं जगत् ॥सन्मार्गे वर्तते सर्वं न चामार्गे प्रवर्तते ॥६०॥ततस्तु नंदिनीं यावन्निषेधयितुमागताम् ॥विश्वामित्रोऽसिमुद्यम्य प्रहर्तुमुपचक्रमे ॥६१॥वसिष्ठोऽपि समालोक्य वध्यमानां च तां तदा ॥बाहुं संस्तंभयामास खड्गं तस्य च भूपतेः ॥६२॥अथ वैलक्ष्यमापन्नो विश्वामित्रो महीपतिः ॥प्रोवाच व्रीडया युक्तो वसिष्ठं मुनिसत्तमम् ॥६३॥रक्ष मां त्वं मुनिश्रेष्ठ वध्यमानं सुदारुणैः ॥म्लेच्छैः कुरुष्व मे बाहुं स्तम्भेन तु विवर्जितम् ॥६४॥ममापराधात्संनष्टं सर्वं सैन्यमनन्तकम् ॥तस्माद्यास्याम्यहं हर्म्यं न युद्धेन प्रयोजनम् ॥६५॥दुर्विनीतः श्रियं प्राप्य विद्यामैश्वर्यमेव च ॥न तिष्ठति चिरं युद्धे यथाहं मदगर्वितः ॥६६॥ ॥ सूत उवाच ॥एवमुक्तो वसिष्ठस्तु विश्वामित्रेण भूभुजा ॥चकार तं भुजं तस्य स्तंभदोषविवर्जितम् ॥६७॥अब्रवीत्प्रहसन्वाक्यं विधाय स शुभं करम् ॥गच्छ राजन्विमुक्तोऽसि स्तंभदोषेण वै मया ॥६८॥माकार्शीर्ब्राह्मणैः सार्धं विरोधं भूय एव हि ॥अनुज्ञातः स तेनाथ विश्वामित्रो महीपतिः ॥६९॥सव्रीडं प्रययौ हर्म्यं पद्भ्यामेव द्विजोत्तमाः ॥स्वपुरद्वारमासाद्य सुगुप्ते रजनीमुखे ॥७॥प्रलापमकरोत्तत्र बाष्पपर्याकुलेक्षणः ॥.धिग्बलं क्षत्रियाणां च धिग्वीर्यं धिक्प्रजीवितम् ॥७१॥श्लाघ्यं ब्रह्मबलं चैकं ब्राह्म्यं तेजश्च केवलम् ॥७२॥एतत्कर्म मया कार्यं यथा स्याद्ब्रह्मजं बलम् ॥त्यक्त्वा चैव निजं राज्यं चरिष्यामि महत्तपः ॥एवं स निश्चयं कृत्वा राज्ये संस्थाप्य वै सुतम् ॥नाम्ना विश्वसहं ख्यातं प्रजगाम तपोवनम् ॥७४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रराज्यपरित्यागवर्णनं नाम सप्तषष्ट्युत्तरशततमोऽध्यायः ॥१६७॥ N/A References : N/A Last Updated : December 31, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP