संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय ११५ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय ११५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ११५ Translation - भाषांतर त्रिजातो ब्राह्मणस्तत्र किन्नामा कस्य सम्भवः ॥किंगोत्रश्चैव किंसंज्ञः कीर्तयस्व महामते ॥१॥किं कुलीनैर्गुणाढ्यैर्वा तेजोविद्याविचक्षणैः ॥त्रिजातोऽपि वरं सोऽपि स्वं स्थानं येन चोद्धृतम् ॥२॥सूत उवाच ॥ सांकृत्यस्य मुनेर्वंशे स संभूतो द्विजोत्तमः ॥प्रभाव इति विख्यातो दत्तसंज्ञो निमेः सुतः ॥३॥स एवं स्थानमुद्धृत्य चकारायतनं शुभम् ॥त्रिजातेश्वरनाम्ना च देवदेवस्य शूलिनः ॥४॥तमाराध्य दिवा नक्तं सम्यक्छ्रद्धासमन्वितः ॥सशरीरो गतः स्वर्गं ततः कालेन केनचित् ॥५॥यस्तं पश्यति सद्भक्त्या स्नापयेद्विषुवे सदा ॥न त्रिजातः कुले तस्य कथञ्चिदपि जायते ॥६॥ ॥ ऋषय ऊचुः ॥यानि गोत्राणि नष्टानि यानि संस्थापितानि च ॥नामतस्तानि नो ब्रूहि तत्पुरं सूत नन्दन ॥७॥ ॥ सूत उवाच ॥तत्रोपमन्युगोत्रा ये क्रौंचगोत्रसमुद्भवाः ॥कैशोर्यं गोत्रसंभूतास्त्रैवणेया द्विजोत्तमः ॥८॥ते भूयोऽपि न संप्राप्ता यथा गोत्रचतुष्टयम् ॥तत्पूर्वकं शुकादीनां यन्नष्टं नागजाद्भयात् ॥९॥शेषान्वः संप्रवक्ष्यामि ब्राह्मणान्गोत्रसंभवान् ॥कौशिकान्वयसं भूताः षड्विंशतिश्च ते स्मृताः ॥१०॥कश्यपान्वयसंभूताः सप्ताशीतिर्द्विजोत्तमाः ॥लक्ष्मणान्वयसंभूता एकविंशतिरागताः ॥११॥तत्र नष्टाः पुनः प्राप्तास्तस्मिन्स्थाने सुदुःखिताः ॥भारद्वाजास्त्रयः प्राप्ताः कौंडनीयाश्चतुर्दश ॥१२॥रैतिकानां तथा विंशत्पाराशर्याष्टकं तथा ॥गर्गाणां च द्विविंशं च हारीतानां विविंशतिः ॥१३॥और्वभार्गवगोत्राणां पञ्चविंशदुदाहृताः ॥गौतमानां च षड्विंशमालूभायनविंशतिः ॥१४॥मांडव्यानां त्रिविंशच्च बह्वृचानां त्रिविंशतिः ॥सांकृत्यानां विशिष्टानां पृथक्त्वेन दशैव तु ॥१५॥तथैवांगिरसानां च पंच चैव प्रकीर्तिताः ॥आत्रेया दश संख्याताः शुक्लात्रेयास्तथैव च ॥१६॥वात्स्याः पञ्च समाख्याताः कौत्साश्च नव सप्त वै ॥शांडिल्या भार्गवाः पञ्च मौद्गल्या विंशतिः स्मृताः ॥१७॥बौधायनाः कौशलाश्च त्रिंशन्मात्राः प्रकीर्तिताः ॥अथर्वाः पंचपंचाशन्मौनसाः सप्तसप्ततिः ॥१८॥याजुषास्त्रिंशतिः ख्याताश्च्यावनाः सप्त विंशतिः ॥आगस्त्याश्च त्रयस्त्रिंशज्जैमिनेया दशैव तु ॥१९॥नैवृताः पंचपंचाशत्पाठीनाः सप्ततिर्द्विजाः ॥गोभिलाश्चापि काक्वाश्च पंचपंच द्विजाः स्मृताः ॥२०॥औशनसाश्च दाशार्हास्त्रयस्त्रय उदाहृताः ॥लोकाख्यानां तथा षष्टिरैणिशानां द्विसप्ततिः ॥२१॥कापिष्ठलाः शार्कराख्या दत्ताख्याः सप्तसप्ततिः ॥शार्कवानां शतं प्रोक्तं दार्ज्यानां सप्तसप्ततिः ॥२२॥कात्यायन्यास्त्रयोऽधिष्ठा वैदिशाश्च त्रयः स्मृताः ॥कृष्णात्रेयास्तथा पंच दत्तात्रेया स्तथैव च ॥२३॥नारायणाः शौनकेया जाबालाः शतसंख्यया ॥गोपाला जामदन्याश्च शालिहोत्राश्च कर्णिकाः ॥२४॥भागुरायणकाश्चैव मातृकास्त्रैणवास्तथा ॥सर्वे ते ब्राह्मणश्रेष्ठाः क्रमेण द्विजसत्तमाः ॥२५॥एतेषामेव सर्वेषां सत्काराय द्विजोतमाः ॥चत्वारिंशत्तथाष्टौ च पुरा प्रोक्ताः स्वयंभुवा ॥२६॥ते सर्वे च पृथक्त्वेन निर्दिष्टाः पद्मयोनिना ॥संध्यातर्पणकृत्यानि वैश्वदेवोद्भवानि च ॥२७॥श्राद्धानि पक्षकृत्यानि पितृपिंडांस्तथैव च ॥यज्ञोपवीतसंयुक्ताः प्रवराश्चैव कृत्स्नशः ॥तथा मौंजीविशेषाश्च शिखाभेदाः प्रकीर्तिताः ॥२८॥त्रिजातेन समाराध्य देवदेवं पितामहम् ॥तेषां कृत्वा द्विजेद्राणामात्मकीर्तिकृते तदा ॥२९॥ ॥ ऋषय ऊचुः ॥कथं सन्तोषितो ब्रह्मा त्रिजातेन महात्मना ॥कर्मकांडं कथं भिन्नं कृतं तेन महात्मना ॥सर्वं विस्तरतो ब्रूहि परं कौतूहलं हि नः ॥३०॥ ॥ सूत उवाच ॥तस्यार्थे ब्राह्मणैः सर्वैस्तोषितः प्रपितामहः ॥अनेनैवोद्धृतं स्थानमस्माकं सकलं विभो ॥३१॥तस्मादस्य विभो यच्छ वेदज्ञानमनुतमम् ॥येन कर्मविशेषाश्च जायतेऽत्र पुरोत्तमे ॥३२॥एतस्य च गुरुत्वं च प्रसादात्तव पद्मज ॥यथा भवति देवेश तया नीतिर्विधीयताम् ॥३३॥ब्रह्मा ददौ ततस्तस्य मंत्रग्राममनुत्तमम् ॥येन विज्ञायते सर्वं वेदार्थो यज्ञकर्म च ॥३४॥ततः प्रोवाच तान्सर्वान्प्रहष्टेनातरात्मना ॥एष वेदार्थसंपन्नो भविष्यति महायशाः ॥३५॥भर्तृयज्ञ इति ख्यातो यज्ञकर्मविचक्षणः ॥यदेव वक्ति युष्माकं क्रियाकांडमशंकितैः ॥३६॥तत्कार्यं स्वर्गमोक्षाय मम वाक्यात्प्रबोधितैः ॥वेदार्थानेष सर्वेषां युष्माकं योजयिष्यति ॥३७॥ये चान्येषु च देशेषु स्थानेषु च गताः क्वचित् ॥एतत्स्थानं परित्यज्य सत्यमेतद्विजोत्तमाः ॥३८॥वेदस्थाने च बुद्ध्यैष यत्कर्म प्रचरिष्यति ॥नानृते वाथ पापे च वाणी चास्य चरिष्यति ॥३९॥एवमुक्त्वा स देवेशो विरराम पितामहः ॥भर्तृयज्ञोऽपि ताः सर्वाश्चक्रे यज्ञक्रियाः शुभाः ॥४०॥ब्राह्मणानां हितार्थाय श्रुत्यर्थं तस्य केवलम् ॥दशप्रमाणाः संप्रोक्ताः सर्वे ते ब्राह्मणोत्तमाः ॥४१॥चतुःषष्टिषु गोत्रेषु ह्येवं ते ब्राह्मणोत्तमाः ॥तेन तत्र समानीतास्त्रिजातेन महात्मना ॥४२॥तेषामेकत्र जातानि दशपंचशतानि च ॥सामान्य भोगमोक्षाणि तानि तेन कृतानि च ॥४३॥अष्टषष्टिविभागेन पूर्वमायुव्ययोद्भवम् ॥तत्रासीदथ गोत्रे च पुरुषाणां प्रसंख्यया ॥४४॥ततः प्रभृति सर्वेषां सामान्येन व्यवस्थितम् ॥त्रिजातस्य च वाक्येन येन दूरादपि द्रुतम् ॥४५॥समागच्छंति विप्रेन्द्राः पुरवृद्धिः प्रजायते ॥न कश्चिद्याति संत्यक्त्वा दौस्थ्यादन्यत्र च द्विजाः ॥४६॥ततस्तेषां सुतैः पौत्रैर्नप्तृभिश्च सहस्रशः ॥दौहित्रैर्भागिनेयैश्च भूयो भूरि प्रपूरितम् ॥४७॥तत्पुरं वृद्धिमायाति दूर्वांकुरैरिव द्विजाः ॥कांडात्कांडात्प्ररोहद्भिः संख्याहीनैरनेकधा ॥४८॥ ॥ सूत उवाच ॥एतद्वः सर्वमाख्यातं गोत्रसंख्यानकं शुभम् ॥ऋषीणां कीर्तनं चापि सर्वपातकनाशनम् ॥४९॥यश्चैतत्पठते नित्यं शृणुयाद्वा प्रभक्तितः ॥न स्यात्तस्य कुलच्छेदः कदाचिदपि भूतले ॥५०॥तथा विमुच्यते पापैराजन्ममरणोद्भवैः ॥न पश्यति वियोगं च कदाचित्प्रियसंभवम् ॥५१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽष्टषष्टितीर्थोपाख्याने भर्तृयज्ञकृतयज्ञविधानमुनिगोत्रवर्णनंनाम पंचदशोत्तरशततमोऽध्यायः ॥११५॥ N/A References : N/A Last Updated : December 29, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP