संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय ११७ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय ११७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ११७ Translation - भाषांतर ॥ ऋषय ऊचुः ॥भट्टिकाख्या पुरा प्रोक्ता या त्वया सूतनन्दन ॥कस्मात्तस्याः शरीरान्ताद्दंष्ट्रा नागसमुद्भवाः ॥१॥विशीर्णाः किं प्रभावश्च तपसः सूतनन्दन ॥किं वा मंत्रप्रभावश्च एतन्नः कौतुकं परम् ॥२॥यन्मानुषशरीरेऽपि विशीर्णास्ता विषोल्बणाः ॥नागानां तु विशेषेण तस्मात्सर्वं प्रकीर्तय ॥३॥ ॥ सूत उवाच ॥सा पुरा ब्राह्मणी बाल्ये वर्तमाना पितुर्गृहे ॥वैधव्येन समायुक्ता जाता कर्मविपाकतः ॥४॥ततो बाल्येऽपि शुश्राव शास्त्राणि विविधानि च ॥देवयात्रां प्रचक्रेऽथ तीर्थे स्नाति समाहिता ॥५॥तत्र केदारदेवं च गत्वा नित्यं समाहिता ॥प्रातरुत्थाय गीतं च भक्त्या चक्रे तदग्रतः ॥६॥ततस्तद्गीतलौल्येन पातालात्समुपेत्य च ॥तक्षको वासुकिश्चैव द्विज रूपधरावुभौ ॥७॥साऽपि तत्र महद्गीतं तानैः सर्वैरलंकृतम् ॥मूर्च्छनाभिः समोपेतं सप्तस्वरविराजितम् ॥८॥यतिभिश्च तथा ग्रामैर्वर्णग्रामैः पृथ ग्विधैः ॥ततं च विततं चैव घनं सुषिरमेव च ॥९॥तालकालक्रियामानवर्धमानादिकं च यत् ॥अविदग्धापि सा तेषां गीतांगानां द्विजांगना ॥केवलं कंठसंशुद्ध्या ताभ्यां तोषं समादधे ॥१०॥ततस्तद्गीतलोभेन सर्वे तत्पुरवासिनः ॥प्रातरुत्थाय केदारं समागच्छंति कौतुकात् ॥कस्य चित्त्वथ कालस्य नागौ तौ स्वपुरं प्रति ॥निन्युर्बलात्समुद्यम्य सर्वलोकस्य पश्यतः ॥१२॥नागरूपं समाधाय रौद्रं जनविभीषणम् ॥भोगाग्र्येण च संवेष्ट्य पातालतलमभ्ययुः ॥१३॥अथ तां स्वगृहं नीत्वा प्रोचतुः कामपीडितौ ॥भवावाभ्यां विशालाक्षि भार्या धर्मपरायणा ॥एतदर्थं समानीता त्वं पाताले महीतलात् ॥१४॥ ॥ भट्टिकोवाच ॥यत्त्वं तक्षक मां शांतामनपेक्षां रतोत्सवे ॥आनैषीरपहृत्याशु ब्राह्मणान्वय संभवाम् ॥१५॥मानुषं रूपमास्थाय पुरा मां त्वं समाश्रितः ॥कामोपहृतचित्तात्मा तस्मान्मर्त्यो भविष्यसि ॥१६॥यदि मां त्वं दुराचार धर्षयिष्यसि वीर्यतः ॥शतधा तव मूर्धाऽयं सद्य एव भविष्यति ॥१७॥तं श्रुत्वा सुमहाशापं तस्याः स भयविह्वलः ॥ततः प्रसादयामास कृतांजलिपुटः स्थितः ॥१८॥मया त्वं कामसक्तेन समानीता सुमोहतः ॥तस्मात्कुरु प्रसादं मे शापस्यांतो यथा भवेत् ॥१९॥ ॥ सूत उवाच ॥एवं प्रसादिता तेन तक्षकेण द्विजात्मजा ॥ततः प्रोवाच तं नागं बाष्पव्याकुललोचना ॥२०॥यदि मां मर्त्यलोके त्वं भूयो न यसि तक्षक ॥तत्र शापस्य पर्यंतं करिष्यामि न संशयः ॥२१॥एतस्मिन्नंतरे ज्ञात्वा मानुषीं स्वगृहागताम् ॥तक्षकेण समानीतां कामोपहतचे तसा ॥२२॥ततस्तस्य कलत्राणि महेर्ष्यासंश्रितानि च ॥तस्या नाशार्थमाजग्मुः कोपरक्तेक्षणानि च ॥२३॥अथ तासां परिज्ञाय तक्षकः स विचेष्टितम् ॥वाञ्छञ्छापस्य पर्यंतं तत्पार्श्वाद्भयसंयुतः ॥२४॥वज्रां नामास्मरद्विद्यां तस्या गात्रं ततस्तया ॥योजयामास रक्षार्थं प्राप्ता चाथ भुजंगमी ॥२५॥अदशत्तां ततः क्रुद्धा ब्राह्मणस्य सुतां सतीम् ॥सपत्नीं मन्यमानोच्चैः शीर्णदंष्ट्रा व्यजायत ॥२६॥अथ तामपि सा क्रुद्धा शशाप द्विजसंभवा ॥दृष्ट्वा सापत्न्यजैर्भावैर्वर्तमानां सहेर्ष्यया ॥२७॥यस्मात्त्वं दोषहीनां मां सदोषामिव मन्यसे ॥तस्माद्भव द्रुतं पापे मानुषी दुःखभागिनी ॥२८॥अथ तां संगृहीत्वा स तक्षको नागसत्तमः ॥केदारायतने तस्मिन्नर्धरात्रे मुमोच ह ॥२९॥ततः प्रोवाच तां देवीं कृतां जलिपुटः स्थितः ॥शापांतं कुरु मे साध्वि स्वगृहं येन याम्यहम् ॥३०॥ ॥ भट्टिकोवाच ॥सौराष्ट्रविषये राजा त्वं भविष्यसि पन्नग ॥भूमौ रैवतको नाम भोगानां भाजनं सदा ॥३१॥ततश्चैव तनुं त्यक्त्वा क्षेत्रेष्वाश्रममध्यतः ॥संप्राप्स्यसि निजं स्थानं तत्क्षेत्रस्य प्रभावतः ॥३२॥ ॥ तक्षक उवाच ॥एषा मम प्रिया कांता त्वया शापेन योजिता ॥या सा भवतु मे भार्या मानुषत्वेऽपि वर्तिते ॥३३॥एत त्कुरु प्रसादं मे दीनस्य परियाचतः ॥माऽस्या भवतु चान्येन पुरुषेण समागमः ॥३४॥ ॥ भट्टिकोवाच ॥आनर्ताधिपतेरेषा भवित्री दुहिता शुभा ॥ततः पाणिग्रहं प्राप्य भार्या तव भविष्यति ॥३५॥क्षेमंकरीति विख्याता रूपयौवनशालिनी ॥त्वया सार्धं बहून्भोगान्भुक्त्वाऽथ पृथिवीतले ॥परलोके पुनस्त्वां वै चानुयास्यति शोभना ॥३६॥ ॥ सूत उवाच ॥एवं च स तया प्रोक्तः क्षम्यतामिति सादरम् ॥प्रणिपत्य जगामाऽथ निजं स्थानं प्रहर्षितः ॥३७॥साऽपि प्राप्ते निशाशेषे केदारस्य पुरः स्थिता ॥पुनश्चक्रे च तद्गीतं श्रुतिसौख्यकरं परम् ॥३८॥अथ तस्य समायाताः केदारस्य दिदृक्षवः ॥पुनः केदारभक्त्याढ्या ब्राह्मणाः शतशः परम् ॥३९॥ते तां दृष्ट्वा समायातां भट्टिंकां तां द्विजोद्भवाम् ॥विस्मयेन समायुक्ताः पप्रच्छुस्तदनंत रम् ॥४०॥कोऽसौ ब्राह्मणरूपेण नागः प्राप्तः सुशोभने ॥तेन त्वं कुत्र नीतासि किमर्थं च वदस्व नः ॥४१॥कस्मात्पुनः प्रमुक्ताऽसि सर्वं वद यथातथम् ॥अत्र नः कौतुकं जातं सुमहत्तव कारणात् ॥४२॥ ॥ सूत उवाच ॥ततः सा कथयामास सर्वं तक्षकसंभवम् ॥वृत्तांतं नागसंभूतं शापानुग्रहजं तथा ॥४३॥एतस्मिन्नंतरे प्राप्तं सर्वं तस्याः कुटुम्बकम् ॥रोरूयमाणं दुःखार्तं श्रुत्वा तां तत्र चागताम् ॥४४॥अथ सा जननी तस्या वाष्प पर्याकुलेक्षणा ॥सस्वजे तां तथा चान्याः सख्यः स्निग्धेन चेतसा ॥४५॥ततो निन्युर्गृहं स्वं च शृण्वंतश्च मुहुर्मुहुः ॥नागलोकोद्भवां वार्तां विस्य याविष्टचेतसः ॥४६॥अथ तत्र पुरे पौराः सर्वे प्रोचुः परस्परम् ॥अयुक्तं कृतमेतेन ब्राह्मणेन दुरात्मना ॥४७॥यदानीता सुतरुणी परहर्म्योषिता तया? ॥अन्येषामपि विप्राणां संति नार्यो ह्यनेकशः ॥४८॥तरुण्यो रूपवत्यश्च वैधव्येन समन्विताः ॥तासामपि च सर्वासामेष न्यायो भविष्यति ॥योनिसंकरजो नूनं तस्मान्निर्वास्यतामिति ॥४९॥एकीभूय ततः सर्वे ब्राह्मणं तं द्विजोत्तमाः ॥सामपूर्वमिदं वाक्यं प्रोचुः शास्त्र समुद्भवम् ॥५०॥एषा तव सुता विप्र तरुणी रूपसंयुता ॥सानुरागेण नागेण पाताले च समाहृता ॥५१॥तद्वक्ष्यति प्रमुक्ताहं निर्दोषा तेन रागिणा ॥न श्रद्धां याति लोकोऽयं शुद्धैषा समुदाहृता ॥५२॥तस्माच्छुद्धिं द्विजेद्राणां प्रयच्छतु द्विजोत्तम ॥येनान्येषामपि प्राज्ञ विनश्यंति न योषितः ॥५३॥बाढमित्येव स प्रोक्त्वा ततस्तां विजने सुताम् ॥पप्रच्छ यदि ते दोषः कश्चिदस्ति प्रकीर्तय ॥५४॥नो चेत्प्रयच्छ संशुद्धिं ब्राह्मणानां प्रतुष्टये ॥५५॥ ॥ भट्टिकोवाच ॥युक्तमुक्तं त्वया तात तथान्यैरपि च द्विजैः ॥युक्ता स्याद्योषितः शुद्धिर्द्वारातिक्रमणादपि ॥५६॥किं पुनः परदेशं च गताया रागिणा सह ॥तस्मादहं न संदेहः प्रातः स्नाता हुताशनम् ॥५७॥प्रविश्य सर्वविप्राणां शुद्धिं दास्याम्य संशयम् ॥अहमत्र च पानं च यच्चान्यदपि किंचन ॥प्राशयिष्यामि संप्राप्य शुद्धिं चैव हुताशनात् ॥५८॥एवमुक्तस्तया सोऽथ हर्षेण महतान्वितः ॥प्रातरुत्थाय दारूणि पुरबाह्ये न्ययोजयत् ॥५९॥भट्टिकाऽपि ततः स्नात्वा शुक्लांबरधरा शुचिः ॥सर्वैः परिजनैः सार्धं तथा निज कुटुंबकैः ॥६०॥प्रसन्नवदना हृष्टा विष्णुध्यानपरायणा ॥जगाम तत्र यत्रास्ते सुमहान्दारुपर्वतः ॥६१॥ततो वह्निं समाधाय स्वयं तत्र द्विजोत्तमाः ॥प्रदक्षिणात्रयं कृत्वा प्राह चैव कृतांजलिः ॥६२॥यदि मेऽस्ति क्वचिद्दोषः कामजोऽल्पोऽपि गात्रके ॥कृतो वाऽपि बलात्तेन तक्षकेण दुरात्मना ॥६३॥अन्येनापि च केनापि भविष्यत्यथवा परः ॥तस्मात्प्रदहतु क्षिप्रं समिद्धोऽयं हुताशनः ॥६४॥एवमुक्त्वाऽथ सा साध्वी प्रविष्टा निजहर्म्यवत् ॥सुसमिद्धो हुतो वह्निर्जातो जलमयः क्षणात् ॥६५॥सा च पश्यति चात्मानं जलमध्यगतां शुभा ॥पपाताऽथ महावृष्टिः कुसुमानां नभस्तलात् ॥६६॥देवदूतो विमानस्थ इदं वाक्यमुवाच ह ॥शुद्धासि त्वं महाभागे चारित्रै र्निजगात्रजैः ॥६७॥न त्वया सदृशी चान्या काचिन्नारी भविष्यति ॥तिस्रः कोट्योर्धकोटी च यानि लोमानि मानुषे ॥प्रभवंति महाभागे सर्वगात्रेषु सर्वदा ॥६८॥तेषां मध्ये न ते साध्वि पापमेकमपि क्वचित् ॥तस्माच्छीघ्रं ग्रहं गच्छ निजं बांधवसंयुता ॥६९॥कुरु कृत्यानि पुण्यानि समाराधय केशवम् ॥एतच्चैव चितेः स्थानं त्वदीयं जलपूरितम् ॥७०॥तव नाम्ना सुविख्यातं तीर्थं लोके भविष्यति ॥येऽत्र स्नानं करिष्यंति शयने बोधने हरेः ॥७१॥ते यास्यंति परां सिद्धिं दुष्प्राप्या याऽमरैरपि ॥उक्त्वैवं विरता वाणी देवदूतसमुद्भवा ॥७२॥भट्टिका तु ततो हृष्टा प्रणम्य जनकं निजम् ॥नाहं गृहं गमिष्यामि किं करिष्याम्यहं गृहे ॥७३॥अत्रैवाराधयिष्यामि निजतीर्थे सदाऽच्यु तम् ॥तथा तपः करिष्यामि भिक्षान्नकृतभोजना ॥७४॥तस्मात्तात गृहं गच्छ स्थिताऽहं चाग्र संश्रये ॥७५॥ततः स जनकस्तस्यास्ते वाऽपि पुरवासिनः ॥संप्रहृष्टा गृहं जग्मुः शंसतस्तां पृथक्पृथक् ॥७६॥तया त्रैविक्रमी तत्र प्रतिमा प्राग्विनिर्मिता ॥पश्चान्माहेश्वरं लिंगं कृत्वा प्रासादमुत्तमम् ॥७७॥ततः परं तपश्चक्रे भिक्षान्नकृतभोजना ॥शस्यमाना जनैः सर्वैश्चमत्कारपुरोद्भवैः ॥७८॥ ॥ सूत उवाच ॥एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥यथा तस्या दृढं कायमभेद्यं संस्थितं सदा ॥७९॥सर्पाणां च तथाऽन्येषां शस्त्रादीनामपि द्विजाः ॥यश्चैतत्पठते नित्यं भट्टिकाख्यानमुत्तमम् ॥नापवादो भवेत्तस्य कुकृतो द्विजसत्तमाः ॥८०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये भट्टिकातीर्थोत्पत्तिमाहात्म्यकथनंनाम सप्तदशोत्तरशततमोऽध्यायः ॥११७॥ छ ॥ N/A References : N/A Last Updated : December 29, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP