संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १४९ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १४९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १४९ Translation - भाषांतर ॥ ऋषय ऊचुः ॥केलीश्वरी च या देवी श्रूयते सूतनंदन ॥माहात्म्यं वद नस्तस्या उत्पत्तिं च सुविस्तरात् ॥१॥कस्मिन्काले समुत्पन्ना किमर्थं च सुरेश्वरी ॥किं तस्या जायते श्रेयः पूजया नमनेन च ॥२॥त्वया कात्यायनी प्रोक्ता चामुण्डा च सुरेश्वरी ॥श्रीमाता च समुत्पन्ना किमर्थं च सुरेश्वरी ॥३॥श्रीमाता च तथा तारा देवी शत्रुविनाशिनी ॥केलीश्वरी न संप्रोक्ता तस्मात्तां वद सांप्रतम् ॥४॥कौतुकं नः समुत्पन्नमत्रार्थे सूतनंदन ॥५॥ ॥ सूत उवाच ॥आद्यैका देवता लोके बहुरूपा व्यवस्थिता ॥देवतानां हितार्थाय दैत्यपक्षक्षयाय च ॥६॥यदायदात्र देवानां व्यसनं जायते क्वचित् ॥तदातदा परा शक्तिर्या सा व्याप्य व्यवस्थिता ॥७॥सर्वमेतज्जगद्धात्री जन्म चक्रे धरातले ॥महिषासुरनाशाय सा च कात्यायनी भुवि ॥८॥अवतीर्णा परा मूर्तिर्गतास्मिन्भुवनत्रये ॥यदा शुंभनिक्षंभौ च दानवौ बलदर्पितौ ॥९॥अवतीर्णा तदा सैव चामुंडा रूपमाश्रिता ॥प्रोद्गते कालयवने सर्वदेवभयावहे ॥१०॥श्रीमातारूपिणी देवी सैव जाता महीतले ॥अंधासुरवधार्थाय शंभुनाऽऽक्रांतचेतसा ॥सृष्टा केलीवरी देवी यया व्याप्तमिदं जगत् ॥११॥ततस्तस्याः प्रभावेन हत्वा दैत्यानशेषतः ॥अन्धको निहतः पश्चात्त्रैलोक्यव्यसनप्रदः ॥१२॥ ॥ ऋषय ऊचुः ॥अन्धकः कस्य पुत्रोऽयं किंप्रभावः कथं हतः ॥कस्माद्धतस्तु संग्रामे सर्वं विस्तरतो वद ॥१३॥ ॥ सूत उवाच ॥दक्षस्य दुहिता नाम्ना दितिः सर्वगुणालया ॥हिरण्यकशिपुर्नाम तस्याः पुत्रो बभूव ह ॥१४॥येन शक्रादयो देवा जिताः सर्वे रणाजिरे ॥स्वर्गे राज्यं कृतं भूरि स्वयमेव महात्मना ॥१५॥ यद्भयात्सकलैर्देवैर्नानाशस्त्राण्यनेकशः ॥निर्मितान्यतिमुख्यानि वर्मचर्मयुतानि च ॥१६॥स्वयं विदारितो यश्च विष्णुना प्रभविष्णुना ॥करजैर्जानुनि पृष्ठे विनिधाय प्रकोपतः ॥१०७॥तस्य पुत्रद्वयं जज्ञ वीर्यौदार्यगुणान्वितम् ॥ज्येष्ठः प्रह्लाद इत्युक्तो द्वितीयश्चांधकस्तथा ॥१८॥हिरण्यकशिपौ प्राप्ते मृत्युलोकं सुहृद्गणैः ॥अमात्यैश्च ततः प्रोक्तः प्रह्लादो विनयान्वितैः ॥१९॥पितृपैतामहं राज्यमेतदाचर सांप्रतम् ॥धुरं वहस्व राज्योत्थां देवान्युद्धे निपातय ॥२०॥ ॥ प्रह्राद उवाच ॥नाहं राज्यं करिष्यामि कथंचिदपि भूतले ॥यतस्ततो निबोधध्वं वचनं मम सांप्रतम् ॥२१॥दैत्यराज्यं न वांछंति देवाः शक्रपुरोगमाः ॥तेषां रक्षाकरो नित्यं विष्णुः स भगवान्स्वयम् ॥२२॥अप्यहं सन्त्यजे प्राणान्सर्वस्वं वा न संशयः ॥हरिणा सह संग्रामं नाहं कर्तुमहो क्षमः ॥२३॥यो मयाऽभ्यर्चितो नित्यं प्रणतश्च सुरेश्वरः ॥न तेन सहितो युद्धं करिष्यामि कथञ्चन ॥२४॥ ॥ सूत उवाच ॥प्रह्लादेन च संत्यक्ते राज्ये पितृसमुद्भवे ॥अन्धकः स्थापितस्तत्र संमंत्र्य सचिवैर्मिथः ॥२५॥हिरण्यकशिपोः पुत्रो देवदानवदर्पहा ॥सोऽपि राज्यममात्येभ्यो निधाय तदनन्तरम् ॥२६॥तपश्चक्रे चिरं कालं ध्यायमानः पितामहम् ॥त्यक्त्वा कामं तथा क्रोधं दंभं मत्सरमेव च ॥२७॥जितेंद्रियः सुशांतात्मा समः सर्वेषु जन्तुषु ॥वृक्षमूलाश्रयः शांतः संतुष्टेनांतरात्मना ॥२८॥यावद्वर्षसहस्रांतं फलाहारो बभूव ह ॥शीर्णपर्णाशनाहारो यावद्वर्षसहस्रकम् ॥२९॥ध्यायमानो दिवानक्तं देवदेवं पितामहम् ॥वायुभक्षस्ततो जज्ञे तावत्कालं द्विजोत्तमाः ॥३०॥ततो वर्षसहस्रांते चतुर्थे समुपस्थिते ॥तमुवाच स्वयं ब्रह्मा स्वयमभ्येत्य हर्षितः ॥३१॥ ॥ ब्रह्मोवाच ॥परितुष्टोऽस्मि ते वत्स वरं वरय सुव्रत ॥तुष्टोऽहं ते प्रदास्यामि यद्यपि स्यात्सुदुर्लभम् ॥ ॥ अन्धक उवाच ॥यदि यच्छसि मे ब्रह्मन्वरं मनसि वांछितम् ॥जरामरणनाशाय दीयतां सुरसत्तम ॥३३॥ ॥ श्रीब्रह्मोवाच ॥न कश्चिच्च जराहीनो विद्यतेऽत्र धरातले ॥मरणेन विना नैव यस्य जन्म भवेत्क्षितौ ॥३४॥तथापि तव दास्यामि बहुधर्मरतस्य च ॥तस्मात्कुरु महाभाग राज्यं गत्वा निजं गृहम् ॥३५॥भवेद्बहुफलं राज्यं श्मशानं भवनं यथा ॥बहुकण्टकसंकीर्णं क्रूरकर्मभिरावृतम् ॥३६॥ ॥ सूत उवाच ॥एवमुक्त्वा चतुर्वक्त्रस्ततश्चादर्शनं गतः ॥कस्यचित्त्वथ कालस्य प्रेरितः कालधर्मणा ॥प्रोवाच सचिवान्सोऽथ पितुर्वैरमनुस्मरन् ॥३७॥ ॥ अन्धक उवाच ॥पितास्माकं हतो देवैः पितृव्यश्च महाबलः ॥कपटेन न शौर्येण तस्मात्तान्सूदयाम्यहम् ॥३८॥कोऽर्थः पुत्रेण जातेन यो न कृत्यैः सुशंसितैः ॥प्राकट्यं याति सर्वत्र वंशस्याग्रे ध्वजो यथा ॥३९॥ ॥ मंत्रिण ऊचुः ॥युक्तमेतन्महाभाग यत्त्वया व्याहृतं वचः ॥वध्याःस्युर्विबुधाः सर्वे येऽस्माकं परिपंथिनः ॥४॥अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ॥यज्ञभागान्हरिष्यामो हत्वा शक्रमुखान्सुरान् ॥४१॥एवं ते समयं कृत्वा सैन्येन महतान्विताः ॥प्रजग्मुस्त्वरितास्तत्र यत्र शक्रो व्यवस्थितः ॥४२॥शक्रोऽपि दानवानीकं दृष्ट्वा तान्सहसागतान् ॥आरुह्यैरावणं नागं युद्धार्थं निर्ययौ तदा ॥४३॥सह देवगणैः सर्वैर्वसुरुद्रार्कपूर्वकैः ॥एतस्मिन्नंतरे शक्रो वज्रं रौद्रतमं च यत् ॥४४॥समुद्दिश्यांधकं तस्मै मुमोच परवीरहा ॥स हतस्तेन वज्रेण विहस्य दनुजोत्तमः ॥४५॥शक्रं प्रोवाच संहृष्टस्तारनादेन संयुगे ॥दृष्टं बाहुबलं शक्र तवाद्य सुचिरान्मया ॥४६॥अधुना पश्य चास्माकं त्वमेव बलसूदन ॥४७॥ ॥ सूत उवाच ॥एवमुक्त्वाथ चाविध्य गदां गुर्वीं मुमोच ह ॥शतघंटामहारावां निर्मितां विश्वकर्मणा ॥४८॥सर्वायसमयीं गुर्वीं यमजिह्वाभिवापराम् ॥शतहस्तां प्रमाणेन प्राणिनां भयवर्द्धिनीम् ॥४९॥तया विनिहतः शक्रो मूर्छाव्याकुलितेंद्रियः ॥ध्वजयष्टिं समाश्रित्य निविष्टो गजमूर्द्धनि ॥५०॥अथ संमूर्छितं दृष्ट्वा शक्रं स्कन्दः प्रकोपितः ॥मुमोचाथ निजां शक्तिममोघां वज्रसंनिभाम् ॥५१॥तामायांतीं समालोक्य दानवो निशितैः शरैः ॥प्रतिलोमां ततश्चक्रे लीलयैव महाबलः ॥५२॥ततः स्कन्दोऽपि संगृह्य चापं तं प्रति सायकान् ॥मुमोचाशीविषाकाराल्लँघ्वस्त्रं तस्य दर्शयन् ॥५३॥एतस्मिन्नन्तरे देवाः सर्वे शस्त्रप्रवृष्टिभिः ॥समंताच्छादयामासुर्दानवानामनीकिनीम् ॥५४॥ततस्तु दानवाः सर्वे देवतानामनीकिनीम् ॥प्रहारैः पीडयामासुर्दुद्रुवुस्ते दिवौकसः ॥५५॥ततो भग्नान्सुरान्दृष्ट्वा सगणो वृषवाहनः ॥दर्शयामास चात्मानं देवानाश्वासयन्निव ॥५९॥मा भैष्ट देवताः सर्वाः पश्यध्वं मद्विचेष्टितम् ॥इत्युक्त्वा भगवाञ्छम्भुर्मंत्रैराथर्वणैस्तदा ॥५७॥आह्वयामास विश्वेशां परां शक्तिमनुत्तमाम् ॥आहूता परमा शक्तिर्जगाम हरसंनिधिम् ॥५८॥दृष्ट्वा तामग्रतः प्राप्तां सर्वैदेवैः समन्वितः ॥अस्तावीत्प्रणतो भूत्वा स्तोत्रेणानेन भक्तितः ॥५९॥ ॥ श्रीभगवानुवाच ॥नमस्ते देवदेवेशि नमस्ते भक्तिवल्लभे ॥सर्वगे सर्वदे देवि नमस्ते विश्वधारिणि ॥६०॥नमस्ते शक्तिरूपेण सृष्टिप्रलयकारिणि ॥नमस्ते प्रभया युक्ते विद्युज्ज्वलितकुण्डले ॥६१॥त्वं स्वाहा त्वं स्वधा देवि त्वं सृष्टिस्त्वं शुचिर्धृतिः ॥अरुंधती तथेंद्राणी त्वं लक्ष्मीस्त्वं च पार्वती ॥६२॥यत्किंचित्स्त्रीस्वरूपं च समस्तं भुवनत्रये ॥तत्सर्वं त्वत्स्वरूपं स्यादिति शास्त्रेषु निश्चयः ॥६३॥ ॥ श्रीदेव्युवाच ॥किमर्थं च समाहूता त्वयाहं वृषवाहन ॥मंत्रैराथर्वणै रौद्रैस्तत्सर्वं मे प्रकीर्तय ॥६४॥येन ते कृत्स्नशः कृत्यं प्रकरोमि यथोदितम् ॥६५॥ ॥ श्रीभगवानुवाच ॥एते शक्रादयो देवाः सर्वे स्वर्गाद्विवासिताः ॥अंधकेन महाभागे दैत्यानामधिपेन च ॥६६॥तस्मात्तस्य वधार्थाय गच्छमानस्य मे शृणु ॥साहाय्यं कुरु मे चाशु सूदयामि रणाजिरे ॥६७॥एते मातृगणाः सर्वे मया दत्तास्तवाधुना ॥क्षुत्क्षामाः सूदयिष्यंति दानवान्ये पुरः स्थिताः ॥६८॥यस्मात्केलीमयं रूपं विधाय त्वं सहस्रधा ॥अनेकैर्विकृतै रूपैः समाहूताग्निमध्यतः ॥६९॥तस्मात्केलीश्वरीनाम त्रैलोक्ये त्वं भविष्यसि ॥अनेनैव तु रूपेण यस्त्वां भक्त्याऽर्चयिष्यति ॥७०॥अष्टम्यां च चतुर्दश्यां तस्याभीष्टं भविष्यति ॥युद्धकालेऽथ संप्राप्ते स्तोत्रेणानेन ते स्तुतिम् ॥७१॥यः करिष्यति भूपालो जयस्तस्य भविष्यति ॥अपि स्वल्पस्वसैन्यस्य स्वल्पाश्वस्य च संगरे ॥७२॥भविष्यति जयो नूनं त्वत्प्रसादादसंशयम् ॥एवं सा देवदेवेन प्रोक्ता केलीश्वरी तदा ॥७३॥प्रस्थिता पुरतस्तस्य भवसैन्यस्य हर्षिता ॥सर्वैर्मातृगणैः सार्धं रौद्रारावैःसुभीषणैः ॥७४॥युद्धोत्साहपरै रौद्रैर्नानाशस्त्रप्रहारिभिः ॥अथ ते दानवा दृष्ट्वा स्त्रीसैन्यं तत्समागतम् ॥७५॥विकृतं विकृताकारं विकृताकाररावणम् ॥शस्त्रोद्यतकरं सर्वयुद्धवांछापरायणम् ॥७६॥जहसुः सुस्वरं केचित्केचिन्निर्भर्त्सयंति च ॥अन्ये स्त्रीति परिज्ञाय प्रहरंति न दानवाः ॥७७॥वध्यमानापि लज्जंतः पौरुषे स्वे व्यवस्थिताः ॥एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तमः ॥७८॥अन्धकाय स वृत्तांतं कथयामास कृत्स्नशः ॥नैताः स्त्रियो दनुश्रेष्ठ युद्धार्थं समुपस्थिताः ॥७९॥एषा कृत्या वधार्थाय तव रुद्रेण निर्मिता ॥यैषा सिंहसमारूढा चक्रांकितकरा स्थिता ॥८०॥एषा केलीश्वरीनाम वह्निकुण्डाद्विनिर्गता ॥एताभिः सह रौद्राभिः स्त्रीभिर्मंत्रबलाश्रयात् ॥८१॥स्वरक्तेन कृते होमे देवदेवेन शम्भुना ॥स एष भगवान्क्रुद्धः स्वयमभ्येति तेंऽतिकम् ॥८२॥युद्धाय निजहर्म्ये तान्स्थापयित्वा सुरोत्तमान् ॥प्रतिज्ञाय वधं तुभ्यं पुरतः परमेष्ठिनः ॥८३॥एतज्ज्ञात्वा महाभाग यद्युक्तं तत्समाचर ॥८४॥ ॥ अन्धक उवाच ॥नाहं बिभेमि रुद्रस्य तथान्यस्यापि कस्यचित् ॥न स्त्रीणां प्रहरिष्यामि पालयन्पुरुषव्रतम् ॥८५॥ ॥ सूत उवाच ॥एवं प्रवदतस्तस्य दानवस्य महात्मनः ॥आक्रंदः सुमहाञ्जज्ञे तस्मिन्देशे समंततः ॥८६॥भक्ष्यन्ते दानवाः केचिद्वध्यन्ते त्वथ चापरे ॥अर्धभक्षित गात्राश्च प्रणश्यंति तथा परे ॥८७॥युध्यमानास्तथैवान्ये शक्तिमंतोऽपि दानवाः ॥भक्ष्यंते मातृभिस्तत्र सायुधाश्च सवाहनाः ॥८८॥तच्छ्रुत्वा स महाक्रंदमंधकः क्रोधमूर्छितः ॥आदाय खड्गमुत्तस्थौ किमिदं किमिदं ब्रुवन् ॥८९॥अथ पश्यति विध्वस्तान्दानवान्बलदर्पितान् ॥भक्ष्यमाणास्तथैवान्यान्पलायनपरायणान् ॥९०॥अन्येषां निहतानां च रुदंत्यो निकटस्थिताः ॥स पश्यति प्रिया भार्याः प्रलपंत्योऽतिदुःखिताः ॥९१॥अथ तत्कदनं दृष्ट्वा अंधकः क्रोधमूर्छितः ॥भर्त्सयामास ताः सर्वा योगिनीः समरोद्यताः ॥९२॥न च तास्तस्य दैत्यस्य भयं चक्रुः कथंचन ॥केवलं सूदयंति स्म भक्षयंति च दानवान् ॥९३॥ततः स दानवस्तासां दृष्ट्वा तच्चेष्टितं रुषा ॥स्वस्य गात्रस्य रक्षां स चकार भयसंकुलः ॥९४॥तमोऽस्त्रं मुमुचे रौद्रं कृत्वा रावं स तत्क्षणात् ॥एतस्मिन्नंतरे कृत्स्नं त्रैलोक्यं तमसा वृतम् ॥९५॥न किंचिज्ज्ञायते तत्र समं विषममेव च ॥केवलं दानवेन्द्रश्च सर्वं पश्यति नेतरः ॥९६॥ततः स सूदयामास योगिनीस्ताः शितैः शरैः ॥यथायथा परा नार्यस्तादृग्रूपा भवन्ति च ॥९७॥अथ दृष्ट्वा परां वृद्धिं योगिनीनां स दानवः ॥संहारं तस्य चास्त्रस्य चकार भयसंकुलः ॥९८॥ततः शुक्रं समासाद्य दीनः प्राह कृतांजलिः ॥पश्य मे भार्गवश्रेष्ठ स्त्रीभिर्यत्कदनं कृतम् ॥९९॥अवध्याभिर्ममास्त्राणां मंत्रशक्त्या सुरद्विषः ॥उत्पन्नाभिः प्रभूताभिर्हतं मे सर्वतो बलम् ॥१००॥तस्मात्त्वमपि तां विद्यां प्रसाधय महामते ॥यदि मे वांछसि श्रेयो नान्यथास्ति जयो रणे ॥१०१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽन्धकासुरवधवृत्तान्ते शंकरकृतकेलीश्वरीप्रादुर्भाववर्णनंनामैकोनपंचाशदुत्तरशततमोऽध्यायः ॥१४९॥ N/A References : N/A Last Updated : December 29, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP