संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १७८ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १७८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १७८ Translation - भाषांतर ॥ लक्ष्मीरुवाच ॥एवं राज्यं मया प्राप्तं गौरीपूजा कृते विभो ॥सौभाग्यं परमं चैव दुर्लभं सर्वयोषिताम् ॥१॥न चापत्यं मया लब्धं तथापि परमेश्वर ॥तादृशेऽपि च सौभाग्ये तारुण्ये तादृशे स्थिते ॥२॥दह्यामि तेन दुःखेन दिवानक्तं सुखं न मे ॥कस्यचित्त्वथ कालस्य दुर्वासा मुनिसत्तमः ॥३॥आनर्ताधिपतेर्हर्म्यं संप्राप्तो गौरवाय सः ॥चातुर्मास्यकृते चैव मृत्तिकाग्रहणाय च ॥ ४॥ततः संपूजितो राज्ञा आनर्तेन यथाक्रमम् ॥दत्त्वार्घ्यं मधुपर्कं च ततः प्रोक्तं प्रणम्य च ॥५॥स्वागतं ते मुनिश्रेष्ठ भूयः सुस्वागतं च ते ॥नान्यो धन्यतमो लोके भूयोऽस्ति सदृशो मया ॥६॥यौ ते पादौ रजोध्वस्तौ केशैर्मे निर्मलीकृतौ ॥तद्ब्रूहि किंकरोम्यद्य गृहायातस्य ते मुने ॥७॥अपि राज्यं प्रयच्छामि का वार्तान्येषु वस्तुषु ॥८॥ ॥ दुर्वासा उवाच ॥चातुर्मासीविधानं ते करिष्ये नृप मंदिरे ॥मृत्तिकाग्रहणं तावच्छुश्रूषा क्रियतां मम ॥स तथेति प्रतिज्ञाय मामूचे पार्थिवोत्तमः ॥९॥शुश्रूषा चास्य कर्तव्या सर्व दैव वरानने ॥चातुर्मासीव्रतं यावद्देवतार्चनपूर्वकम् ॥१०॥बाढमित्येवमुक्त्वाथ मया सर्वमनुष्ठितम् ॥शुश्रूषार्हं च यत्कर्म दुहितेव पितुर्यथा ॥११॥चातुर्मास्यां व्यतीतायां यदा संप्रस्थितो मुनिः ॥तदा प्रोवाच मां तुष्टः पुत्रि किं करवाणि ते ॥१२॥ततः स भगवान्प्रोक्तः प्रणिपत्य मया मुहुः ॥अपत्यं नास्ति मे ब्रह्मंस्तेन दह्याम्यहर्निशम् ॥१३॥ईदृशे सति राज्ञोऽपि यौवने च महत्तरे ॥तत्त्वं वद मुनिश्रेष्ठ येन स्यान्मम संततिः ॥१४॥व्रतेन नियमेनाथ दानेन च हुतेन च ॥ततः स सुचिरं ध्यात्वा मामुवाच स्मयन्निव ॥१५॥अन्यदेहांतरे पुत्रि त्वया गौरी प्रपूजिता ॥तप्ताभिर्वालुकाभिः सा मृत्युकाल उपस्थिते ॥१६॥तद्भक्त्या लब्धराज्यापि दाहेन परियुज्यसे ॥गौरी यत्तापसंयुक्ता बालुकाभिः कृता त्वया ॥१७॥न देवो विद्यते काष्ठे पाषाणे मृत्तिकासु च ॥भावेषु विद्यते देवो मन्त्रसंयोगसंयुतः ॥१८॥भावभक्तिसमा युक्ता मंत्रसंयोजनेन च ॥देवी मन्त्रसमायाता त्वया वालुकयाऽर्चिता ॥१९॥त्वत्काये तेन संतापः सर्वदाऽयं व्यवस्थितः ॥तस्माद्रत्नमयीं गौरीं कृत्वा त्वं पंचपिंडिकाम् ॥हाटकेश्वरजे क्षेत्रे संस्थापय शुभानने ॥..२ ॥वृषस्थे भास्करे पश्चात्तस्या उपरि स्रावि यत् ॥जलयन्त्रं दिवारात्रं धारयस्व प्रयत्नतः ॥२१॥ततो यथायथा तस्याः शीतभावो भविष्यति ॥तथातथा च ते दाहः शांतिं यास्यत्यहर्निशम् ॥२२॥दाहांते भविता गर्भस्ततः पुत्रमवाप्स्यसि ॥राज्यभारक्षमं शूरं त्रिषु लोकेषु विश्रुतम् ॥२३॥अन्यापि कामिनी यात्र एवं तां पूजयिष्यति ॥ज्येष्ठे मासे तथा सापि यथा त्वं प्रभविष्यति ॥२४॥ ॥ लक्ष्मीरुवाच ॥ततो मया पुनः प्रोक्तो भगवान्स मुनीश्वरः ॥मानुषत्वे न मे रागो विरक्तिर्महती स्थिता ॥२५॥नदीवेगोपमं दृष्ट्वा जीवितंसर्वदेहिनाम् ॥तन्मे वद महाभाग यत्किंचिद् व्रतमुत्तमम् ॥२६॥मानुषत्वं न येन स्यात्सम्यक्चीर्णेन सद्द्विज ॥ततः स सुचिरं ध्यात्वा मामाह परमेश्वर ॥२७॥अस्ति पुत्रि व्रतं पुण्यं गौरी तुष्टिकरं परम् ॥येन चीर्णेन वै सम्यग्योषिद्देवत्वमाप्नुयात् ॥२८॥गोमयाख्या महादेवी कृता वै गोमयेन सा ॥ततो गोलोकमापन्नाः सर्वास्ता वरवर्णिनि ॥२९॥तां त्वं कुरुष्व कल्याणि येन देवत्वमाप्स्यसि ॥ततो मया पुनः प्रोक्तः स मुनिः सुरसत्तम ॥३०॥कस्मिन्काले प्रकर्तव्या विधिना केन सन्मुने ॥सर्वं विस्तरतो ब्रूहि येन तां प्रकरोम्यहम् ॥३१॥ ॥ दुर्वासा उवाच ॥नभस्ये चासिते पक्षे तृतीयादिवसे स्थिते ॥प्रातरुत्थाय पश्चाच्च भक्षयेद्दंतधावनम् ॥३२॥ततश्च नियमं कृत्वा उपवाससमुद्भवम् ॥गौरीनामसमुच्चार्य श्रद्धापूतेन चेतसा ॥३३॥ततो निशागमे प्राप्ते कृत्वा गौरीचतुष्टयम् ॥मृन्मयं यादृशं चैव तदिहैकमनाः शृणु ॥३४॥एका गौरी प्रकर्तव्या पंचपिंडा यथोदिता ॥प्रहरेप्रहरे प्राप्ते तासु पूजां समाचरेत् ॥यैर्मंत्रैस्तान्निबोध त्वमेकैकस्याः पृथक्पृथक् ॥३५॥हिमाचलगृहे जाता देवि त्वं शंकरप्रिये ॥मेनागर्भसमुद्भूता पूजां गृह्ण नमोस्तु ते ॥३६॥धूपं दद्यात्ततश्चैव कर्पूरं श्रद्धया सह ॥रक्तसूत्रेण दीपं च घृतेन परिकल्पयेत् ॥३७॥जातिपुष्पैः समभ्यर्च्य नैवेद्ये मोदकान्न्यसेत् ॥रक्तवस्त्रेण संछाद्य अर्घ्यं दत्त्वा ततः परम् ॥३८॥यस्य वृक्षस्य पुष्पं च तस्य स्याद्दन्तधावनम् ॥मातुलिंगेन तस्यास्तु मन्त्रेणानेन भक्तितः ॥३९॥अर्घ्यं दद्यात्प्रयत्नेन गन्धपुष्पाक्षतान्वितम् ॥शंकरस्य प्रिये देवि हिमाचलसुते शुभे ॥अर्घ्यमेनं मया दत्तं प्रतिगृह्ण नमोऽस्तु ते ॥४०॥तदेव प्राशनं कुर्यात्ततः कायविशुद्धये ॥प्रहरांते च संपूज्य अर्धनारीश्वरं ततः ॥४१॥सुरभ्या पूजयेद्भक्त्या मन्त्रेणानेन पार्वति ॥वाममर्धं शरीरस्य या हरस्य व्यवस्थिता ॥सा मे पूजां प्रगृह्णातु तस्यै देव्यै नमोऽस्तु ते ॥४२॥अगरुं च ततो भक्त्या धूपं दद्यात्तथा शुभे ॥नैवेद्ये गुणकांश्चैव नालिकेरेण चार्घकम् ॥४३॥मन्त्रेणानेन दातव्यं तदेव प्राशनं स्मृतम् ॥अर्धनारीश्वरौ यौ च संस्थितौ परमेश्वरौ ॥४४॥अर्घ्यो मे गृह्यतां देवौ स्यातं सर्वसुखप्रदौ ॥तृतीये प्रहरे प्राप्ते शतपत्र्या प्रपूजयेत् ॥४५॥उमामहेश्वरौ देवौ मंत्रेणानेन पूजयेत् ॥४६॥उमामहेश्वरौ देवौ यौ तौ सृष्टिलयान्वितौ ॥तौ गृह्णीतामिमां पूजां मया दत्तां प्रभक्तितः ॥४७॥गुग्गुलोत्थं ततो धूपं नैवेद्यं घारिकात्मकम् ॥जातीफलेन चार्घ्यं च तदेव प्राशनं स्मृतम् ॥४८॥ततश्चार्घ्यः प्रदातव्यो मंत्रेणानेन भक्तितः ॥ग्रंथिचूर्णेन धूपं च अर्घ्यं मदनजं फलम् ॥४९॥तदेव प्राशनं कार्यं ततः कायविशुद्धये ॥५०॥उमामहेश्वरौ देवौ सर्वकामसुखप्रदौ ॥गृह्णीतामर्घ्यमेतं मे दयां कृत्वा महत्तमाम् ॥९१॥चतुर्थे प्रहरे प्राप्ते तां गौरीं पंचपिंडिकाम् ॥भृंगराजेन संपूज्य मंत्रेणानेन भक्तितः ॥५२॥पृथिव्यादीनि भूतानि यानि प्रोक्तानि पंच च ॥पंचरूपाणि देवेशि पूजां गृह्ण नमोऽस्तु ते ॥५३॥नैवेद्ये घृतपूपांश्च दद्याद्देव्याः प्रभक्तितः ॥ग्रंथिचूर्णेन धूपं च ह्यर्घ्यं मदनजं फलम् ॥तदेव प्राशनं कार्यमर्घ्यमंत्रमिदं स्मृतम् ॥५४॥पंचभूतमयी देवी पंचधा या व्यवस्थिता ॥अर्घ्यमेनं मया दत्तं सा गृह्णातु सुरे श्वरी ॥५५॥एवं सर्वा निशा सा च गीतवाद्यादिनिःस्वनैः ॥तासां चैवाग्रतो नेया नैव निद्रां समाचरेत् ॥ ५६॥ततः प्रभाते विमले प्रोद्गते रविमण्डले ॥स्नात्वा संपूजयेद्विप्रं सह पत्न्या प्रभक्तितः ॥५७॥वस्त्रैराभरणैश्चैव स्वशक्त्या नृपनंदिनि ॥गौर्यै भक्ष्यं च दातव्यं मिष्टान्नेन शुचिस्मिते ॥५८॥ततः करेणुमानीय वडवां वा सुमध्यमे ॥गौरीचतुष्टयं तच्च समारोप्य तथोपरि ॥५९॥गीतवादित्रशब्देन वेदध्वनियुतेन च ॥नद्यां वाऽथ तडागे वा वाप्यां वाथ परिक्षिपेत् ॥६०॥मंत्रेणानेन सद्भक्त्या तवेदं वच्मि सुन्दरि ॥६१॥आहूतासि मया देवि पूजितासि मया शुभे ॥मम सौभाग्यदानाय यथेष्टं गम्यतामिति ॥६२॥ ॥ लक्ष्मीरुवाच ॥एवं मया कृता देव सा तृतीया यथोदिता ॥नभस्ये मासि संप्राप्ते भक्त्या परमया विभो ॥६३॥द्वितीये च तथा प्राप्ते तृतीये च विशेषतः ॥यावत्पश्यामि प्रत्यूषे तावद्गौरीचतुष्टयम् ॥जातं रत्नमयं तच्च मया यत्परिपूजितम् ॥६४॥प्रस्थितां मां नदीतीरमुद्दिश्य च विसर्जनम् ॥करिष्यामीति सा प्राह व्यक्तीभूता सुरेश्वरी ॥६५॥मा पुत्रि जलमध्येऽत्र मम मूर्तिचतुष्टयम् ॥परिभावय मद्वाक्यं श्रुत्वा चैव विधीयताम् ॥६६॥हाटकेश्वरजे क्षेत्रे स्थापय त्वं च मा क्षिप ॥अक्षयं जायते येन सर्वस्त्रीणां हिताय च ॥६७॥त्वं प्रार्थय वरं सर्वं ददाम्यहमिहार्चिता ॥अभ्यर्चिता गिरिसुता मया प्रोक्ता सुरेश्वरी ॥६८॥यदि यच्छसि मे देवि वरं तुष्टा सुरेश्वरि ॥तदहं मानुषे गर्भे मा भूयासं कथंचन ॥६९॥भर्त्ता भवतु मे विष्णुः शाश्वताभीष्टदः सदा ॥नान्यत्किंचिदभीष्टं मे राज्यं त्रिदिवशोभनम् [ ॥७०॥अन्यापि कुरुते या च व्रतमेतत्समाहिता ॥सर्वैर्त्रतैर्यथातुष्टिस्तथा देवि प्रजायते ॥७१॥तथा तस्याः प्रकर्तव्यमकेनानेन पार्वति ॥तथेति गौरी मामुक्त्वा ततश्चादर्शनं गता ॥७२॥सा देवी च मया तत्र तच्च गौरीचतुष्टयम् ॥हाटकेश्वरजे क्षेत्रे शुभे संस्थापितं विभो ॥७३॥तत्प्रभावान्मया लब्धो भर्त्ता त्वं परमेश्वर ॥शाश्वतश्चाक्षयश्चैव मुखप्रेक्षश्च सर्वदा ॥७४॥एतत्त सर्वमाख्यातं यत्पृष्टास्मि सुरेश्वर ॥सत्येनानेन देवेश तव पादौ स्पृशाम्यहम् ॥७५॥ ॥ सूत उवाच ॥तच्छ्रुत्वा वचनं तस्याः शंखचक्रगदाधरः ॥विहस्याथ महालक्ष्मीं तामुवाच प्रहर्षितः ॥मुहुर्मुहुः समालिंग्य वक्षसश्चोपरि स्थिताम् ॥७६॥साधुमाधु महाभागे सत्यमेतत्त्वयोदितम् ॥जानतापि मया पृष्टा भवतीं वरवर्णिनि ॥७७॥ ॥ सूत उवाच ॥एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥चतुर्भुजा यथा गौरी संजाता पंचपिंडिका ॥७८॥यश्चैतत्पठते भक्त्या प्रातरुत्थाय मानवः ॥न स लक्ष्म्या विमुच्येत न च दौर्भाग्यमाप्नुयात् ॥७९॥तस्मात्सर्वप्रयत्नेन पठनीयमिदं शुभम् ॥आख्यानं गौरिकं विप्रा यन्मया परिकीर्तितम् ॥८०॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पंचपिंडिकागौर्युत्पत्तिमाहात्म्य वर्णनंनामाष्टसप्तत्युत्तरशततमोऽध्यायः ॥१७८॥९॥ N/A References : N/A Last Updated : December 31, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP