संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय ४५ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय ४५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ४५ Translation - भाषांतर ॥ सूत उवाच ॥तत्रैवास्ति द्विजश्रेष्ठाः सुपुण्यं पुष्करत्रयम् ॥यत्र पूर्वं तपस्तप्तमानर्ताधिपभूभुजा ॥१॥यस्तत्र कार्तिके मासि कृत्तिकास्थे निशाकरे ॥मध्याह्ने कुरुते स्नानं स गच्छति परां गतिम् ॥२॥ ॥ ऋषय ऊचुः ॥कथं तत्र समायातं सुपुण्यं पुष्करत्रयम् ॥कस्मिन्स्थाने च विज्ञेयं कैश्चिह्नैर्वद सूतज ॥३॥ ॥ सूत उवाच ॥अहं वः कीर्तयिष्यामि यैश्चिह्नैः पुष्करत्रयम् ॥प्राग्दृष्टं मुनिना तत्र विश्वामित्रेण धीमता ॥४॥पुरा निवसतस्तस्य विश्वामित्रस्य सन्मुनेः ॥संप्राप्ता कार्तिकी पुण्या कृत्तिकायोगसंयुता ॥५॥सर्वतीर्थमयं क्षेत्रं तद्विज्ञाय तपोनिधिः ॥ततश्च चिन्तयामास स्वचित्ते गाधिनन्दनः ॥६॥अद्येयं कार्तिकी पुण्या कृत्तिकायोगसंयुता ॥यस्यां स्नाने नरैः श्रेयः प्राप्यते पुष्करोदके ॥आद्यं तु पुष्करं दूरे न गन्तुं शक्यतेऽधुना ॥७॥तस्मादत्र स्थितं यच्च तस्मिन्स्नानं करोम्यहम् ॥स एवं निश्चयं कृत्वा श्रद्धापूतेन चेतसा ॥८॥ततश्चान्वेषयामास पुष्कराणि समंततः ॥बहुत्वात्तत्र तीर्थानां निश्चयं नान्वपद्यत ॥९॥दृष्ट्वादृष्ट्वा जलस्थानं स्नानं चक्रे ततः परम् ॥स तदा श्रममापन्नो भ्रममाण इतस्ततः ॥१०॥वृक्षमूलं समाश्रित्य निविष्टश्च क्षितौ ततः ॥तुष्टावाथ शुचिर्भूत्वा श्रद्धया च त्रिपुष्करम् ॥११॥मध्यमाद्योजनं स्वर्गः कनिष्ठादर्ध योजनम् ॥ज्येष्ठकुण्डात्पुनः ख्यातो हस्तप्रायः शुभात्मभिः ॥१२॥पावयंति हि तीर्थानि स्नानदानादसंशयम् ॥पुष्करालोकनादेव नरः पापात्प्रमु च्यते ॥१३॥पुष्करारण्यमाश्रित्य शाकमूलफलैरपि ॥एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥१४॥पुष्करे दुष्करं स्नानं पुष्करे दुष्करं तपः ॥पुष्करे दुष्करो वासः सर्वं पुष्करदुष्करम् ॥१५॥कार्तिक्यां कृत्तिकायोगे पुष्करे स्नाति यो नरः ॥स क्षणान्मुच्यते पापादाजन्ममरणोद्भवात् ॥१६॥ज्येष्ठे प्रातश्च मध्याह्ने मध्यमे स्नाति यो नरः ॥कनिष्ठेऽस्तमिते भानौ सकृत्स्वर्गमवाप्नुयात् ॥१७॥तावत्तिष्ठति देहेषु पातकं सर्वदेहिनाम् ॥यावन्न पौष्करैस्तोयैः स्नानं वै कुर्वते नराः ॥१८॥दिवाकरकरैः स्पृष्टं तमो यद्वत्प्रणश्यति ॥पुष्करोदकसंस्पर्शाच्छीघ्रं गच्छति पातकम् ॥१९॥ब्रह्महत्यादिकं पापं कृत्वापि पुरुषो भुवि ॥कार्तिक्यां पुष्करे स्नात्वा निर्दोषत्वं प्रपद्यते ॥२०॥किं दानैः किं व्रतैर्होमैः किं यज्ञैर्वहुविस्तरैः ॥कार्तिक्यां पुष्करे स्नानैः सर्वेषां लभ्यते फलम् ॥२१॥यद्येषा भारती सत्या मया सम्यमुदीरिता ॥तन्मे स्याद्दर्शनं शीघ्रं सद्यः पुष्करसंभवम् ॥२२॥एवं तस्य ब्रुवाणस्य विश्वामित्रस्य धीमतः ॥अशरीराऽभवद्वाणी गगनाद्द्विजसत्तमाः ॥२३॥विश्वामित्र मुनिश्रेष्ठ सदा मे गगने स्थितिः ॥मुक्त्वैकां कार्तिकीं चैव कृत्तिकायोगसंयुताम् ॥२४॥तदत्र दिवसे वासो मम भूमितले ध्रुवम् ॥अस्मिन्नेव वने पुण्ये तत्त्वं स्नानं समाचर ॥२५॥ ॥ विश्वामित्र उवाच ॥सर्वेषामेव तीर्थानां श्रूयते च समाश्रयः ॥तत्कथं वेद्मि तीर्थेश त्वामत्रैव व्यवस्थितम् ॥२६॥तदोत्थिता पुनर्वाणी तारा गगनगोचरा ॥विश्वामित्रं मुनिश्रेष्ठं हर्षयंती द्विजोत्तमाः ॥२७॥नातिदूरे वनादस्मादत्र संति जलाशयाः ॥तेषामेकतमे पद्मं विद्यतेऽधोमुखं स्थितम् ॥२८॥ऊर्ध्ववक्त्रं द्वितीये च तिर्यग्वक्त्रं तृतीयके ॥तत्रोर्ध्वास्यैः सरोजैश्च विज्ञेयं ज्येष्ठपुष्करम् ॥२९॥पार्श्ववक्त्रैर्द्विजश्रेष्ठ मध्यमं परिकीर्तितम् ॥अधोवक्त्रैस्तथा ज्ञेयं कनिष्ठं पुष्करं क्षितौ ॥३०॥एतैश्चिह्नैर्मुनिश्रेष्ठ ज्ञात्वा स्नानं समाचर ॥तच्छ्रुत्वा स मुनिस्तूर्णं समुत्थाय ययौ ततः ॥३१॥तादृशैः कमलैस्तत्र संस्थितास्ते जलाशयाः ॥तान्दृष्ट्वा श्रद्धयोपेतः कृत्वा स्नानं यथाक्रमम् ॥३२॥ततश्च विधिना सम्यक्चकारपितृतर्पणम् ॥३३॥ततः शाकैश्च मूलैश्च नीवारैः फलसंयुतैः ॥चकार विधिना श्राद्धं तत्रैव द्विजसत्तमाः ॥३४॥तत्र तस्यैव तीरस्थो वीक्षांचक्रे समाहितः ॥कार्तिक्यां कृत्तिकायोगे चिह्नदर्शनलालसः ॥३५॥ ॥ ब्राह्मणा ऊचुः ॥कीदृशं जायते चिह्नं कार्तिक्यां ज्येष्ठपुष्करे ॥संप्राप्ते कृत्तिकायोगे सर्वं तत्र वदाशु नः ॥३६॥ ॥ सूत उवाच ॥कार्तिक्यां कृत्तिकायोगे यदा गच्छति चंद्रमाः ॥तदा निष्क्रामति श्रेष्ठं कमलं जलमध्यतः ॥३७॥तन्मध्येंऽगुष्ठमात्रस्तु पुरुषो दृश्यते जनैः ॥सुस्नातैः श्रद्धयोपेतैस्ततस्तीर्थफलं लभेत् ॥३८॥एतस्मात्कारणात्स्नात्वा विश्वामित्रो महामुनिः ॥तच्चिह्नं वीक्षयामास महद्यत्नं समाश्रितः ॥३९॥तस्यैवं वीक्षमाणस्य विश्वामित्रस्य धीमतः ॥आनर्ताधिपतिस्तत्र प्राप्तो राजा बृहद्बलः ॥४०॥अत्यंतं मृगयाश्रांतो हत्वा मृगगणान्बहून् ॥ऋक्षांश्चैव वराहांश्च सारंगानथ संबरान् ॥४१॥सिंहान्व्याघ्रान्वृकांश्चैव हिंसानारण्यचारिणः ॥तथान्यानपि मध्याह्ने तेन मार्गेण संगतः ॥४२॥अथापश्यद्द्रुमोपांते विश्वामित्रं मुनीश्वरम् ॥उपविष्टं कृतस्नानं वीक्षमाणं जलाशयम् ॥४३॥ततस्तं प्रणिपत्योच्चैरवतीर्य तुरंगमात् ॥श्रमार्त्तः सलिले तस्मिन्प्रविवेश नृपोत्तमः ॥४४॥एतस्मिन्नंतरे तोयात्कमलं तद्विनिर्गतम् ॥सहस्रपत्रसंजुष्टं द्वादशार्कसमप्रभम् ॥४५॥तद्दृष्ट्वा स महीपालः पद्ममत्यद्भुतं महत् ॥जग्राह कौतुकाविष्टः स्वयं सव्येन पाणिना ॥४६॥स्पृष्टमात्रे ततस्तस्मिन्कमले द्विजसत्तमाः ॥उत्थितः सुमहाञ्छब्दो विश्वं येन प्रपूरितम् ॥४७॥तं शब्दं स महीपालः श्रुत्वा मूर्छामुपाविशत् ॥पतितश्च जले तस्मिन्पद्मं चादर्शनं गतम् ॥४८॥ततः कृच्छ्रेण महता कर्षितः सलिलाद्बहिः ॥सेवकैर्दुःखशोकार्त्तैर्हाहेति प्रतिजल्पकैः ॥४९॥ततस्तीरं समासाद्य कृच्छ्रात्प्राप्याथ चेतनाम् ॥यावद्वीक्षयति स्वांगं तावत्कुष्ठं समागतम् ॥५०॥ततो विषादमापन्नो दृष्ट्वा तादृङ्निजं वपुः ॥शीर्णघ्राणांघ्रिहस्तं च घर्घरस्वरसंयुतम् ॥५१॥अथ गत्वा मुनेः पार्श्वे विश्वामित्रस्य भूमिपः ॥उवाच वचनं दीनं बाष्पगद्गदया गिरा ॥५२॥भगवन्पश्य मे जातं यादृशं वपुरेव हि ॥अकस्मादेव मग्नस्य सलिलेऽत्र विगर्हितम् ॥५३॥तत्किं पानीयदोषो वा किं वा भूमेर्मुनी श्वर ॥येनेदृक्सहसा यातं विकृतिं मे शरीरकम् ॥५४॥ ॥ विश्वामित्र उवाच ॥सावित्रं पद्ममेवैतद्यत्स्पृष्टं भूपते त्वया ॥उच्छिष्टेन रविर्मध्ये स्वयं यस्य व्यवस्थितः ॥५५॥यदा स्यात्कृत्तिकायोगः कार्तिके मासि पार्थिव ॥शशांकस्य तदा चैतज्जायते पौष्करे जले ॥५६॥तदिदं पुष्करं ज्येष्ठं भवान्यत्र श्रमातुरः ॥प्रविष्टः कार्तिकी चाद्य कृत्तिकायोगसंयुता ॥५७॥एतद्वीक्ष्य नरो ह्यत्र स्नानं कुर्याज्जलाशये ॥श्रद्धया परया युक्तः स गच्छति परां गतिम् ॥५८॥उच्छिष्टेन त्वया राजन्हरणाय हि केवलम् ॥एतत्सरोरुहं स्पृष्टं तेनेदृक्संस्थितं फलम् ॥५९॥ ॥ बृहद्बल उवाच ॥कथं मे स्यान्मुनिश्रेष्ठ कुष्ठव्याधिपरिक्षयः ॥तपसा नियमेनापि व्रतेनापि कृतेन वै ॥६०॥ ॥ विश्वामित्र उवाच ॥आराधय सहस्रांशुमस्मिन्क्षेत्रे महीपते ॥ततः प्राप्स्यसि संसिद्धिं कुष्ठनाशसमुद्भवाम् ॥६१॥तच्छ्रुत्वा स मुनेर्वाक्यं भूमिपालो बृहद्बलः ॥तत्क्षणात्स्थापयामास सूर्यस्य प्रतिमां तदा ॥६२॥अर्चयामास विधिवत्पुष्पधूपानुलेपनैः ॥श्रद्धया परया युक्तो रविवारे विशेषतः ॥६३॥उपवासपरो भूत्वा रक्तचन्दनसंयुतैः ॥पूजयन्रक्तपुष्पैश्च श्रद्धया परया युतः ॥६४॥ततः संवत्सरस्यांते स बभूव महीपतिः ॥कुष्ठ व्याधि विनिर्मुक्तो द्वादशार्कसमप्रभः ॥६५॥ततः स्वं राज्यमासाद्य भुक्त्वा भोगाननेकशः ॥देहांते दिननाथस्य संप्राप्तो मंदिरं तथा ॥६६॥ ॥ सूत उवाच ॥एवं तत्र द्विजश्रेष्ठा विश्वामित्रेण धीमता ॥प्रकटं सर्वलोकस्य विहितं पुष्करत्रयम् ॥६७॥यस्तत्र कार्तिके मासे कार्त्तिक्यां कृत्तिकासु च ॥प्रकरोति नरः स्नानं ब्रह्मलोकं स गच्छति ॥६८॥तथा यो भास्करं पश्येद्बृहद्वलप्रतिष्ठितम् ॥वत्सरं रविवारेण यावत्कृत्वा क्षणं नरः ॥स मुच्यते नरो रोगैर्यदि स्याद्रोगसंयुतः ॥६९॥नीरोगो वा नरः सद्यो लभते मनसेप्सितम् ॥निष्कामो मोक्षमाप्नोति प्रसादात्तीक्ष्णदीधितेः ॥७०॥कार्त्तिक्यां कृत्तिकायोगे वृषोत्सर्गं करोति यः ॥पुष्करेषु सुपुण्येषु सोऽश्वमेधफलं लभेत् ॥७१॥एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ॥यजेत वाऽश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥७२॥एकतः सर्वतीर्थानि सर्वदानानि चैकतः ॥एकतस्तु वृषोत्सर्गः कार्तिक्यां पुष्करेषु च ॥७३॥यश्चैतच्छुणुयान्नित्यं पठेद्वा श्रद्धयान्वितः ॥संप्राप्य सर्वकामान्वै ब्रह्मलोके महीयते ॥७४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये त्रिपुष्करमाहात्म्यवर्णनंनाम पंचचत्वारिंशोऽध्यायः ॥४५॥ N/A References : N/A Last Updated : December 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP