रेवा खण्डम् - अध्याय २२३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
मार्कण्डेय उवाच -
ततः क्रोशान्तरे पार्थ वासवं तीर्थमुत्तमम् ।
वसुभिः स्थापितं तत्र स्थित्वा वै द्वादशाब्दकम् ॥१॥
धरो ध्रुवश्च सोमश्च आपश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविमे पुरा ॥२॥
पितृशापपरिक्लिष्टा गर्भवासाय भारत ।
नार्मदं तीर्थमासाद्य तपश्चक्रुर्यतेन्द्रियाः ॥३॥
आराधयन्तः परमं भवानीपतिमव्यम् ।
द्वादशाब्दानि राजेन्द्र ततस्तुष्टो महेश्वरः ॥४॥
प्रत्यक्षः प्रददौ तेभ्यस्त्वभीष्टं वरमुत्तमम् ।
ततः स्वनाम्ना संस्थाप्य वसवस्तं महेश्वरम् ।
जग्मुराकाशमाविश्य प्रसन्ने सति शङ्करे ॥५॥
ततः प्रभृति विख्यातं तीर्थं तद्वासवाह्वयम् ।
तस्मिंस्तीर्थे महाराज यो भक्त्या पूजयेच्छिवम् ।
यथालब्धोपहारैश्च दीपं दद्यात्प्रयत्नतः ॥६॥
शुक्लपक्षे तदाष्टम्यां प्रत्यहं वापि शक्तितः ।
अष्टौ वर्षसहस्राणि स वसेच्छिवसंनिधौ ॥७॥
ततः शिवालयं याति गर्भवासं न पश्यति ।
पुष्पैर्वा पल्लवैर्वापि फलैर्धान्यैस्तथापि वा ॥८॥
पूजयेद्देवमीशानं स दैन्यं नाप्नुयात्क्वचित् ।
सर्वशोकविनिर्मुक्तः स्वर्गलोके महीयते ॥९॥
एकाहमपि कौन्तेय यो वसेद्वासवेश्वरे ।
पापराशिं विनिर्धूय भानुवद्दिवि मोदते ॥१०॥
विप्रांश्च भोजयेद्भक्त्या दद्याद्वासांसि दक्षिणाम् ॥११॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे वासवेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 17, 2024
TOP