संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय १५५ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय १५५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १५५ Translation - भाषांतर श्रीमार्कण्डेय उवाच -अतः परं प्रवक्ष्यामि सर्वतीर्थादनुत्तमम् ।उत्तरे नर्मदाकूले शुक्लतीर्थं युधिष्ठिर ॥१॥तस्य तीर्थस्य चान्यानि पुण्यत्वाच्छुभदर्शनात् ।पृथिव्यां सर्वतीर्थानि कलां नार्हन्ति षोडशीम् ॥२॥युधिष्ठिर उवाच -तस्य तीर्थस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ।भ्रातृभिः सहितः सर्वैस्तथान्यैर्द्विजसत्तमैः ॥३॥श्रीमार्कण्डेय उवाच -शुक्लतीर्थस्य चोत्पत्तिमाकर्णय नरेश्वर ।यस्य संदर्शनादेव ब्रह्महत्या प्रलीयते ॥४॥नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।यच्च बाल्यं कृतं पापं दर्शनादेव नश्यति ॥५॥मोक्षदानि न सर्वत्र शुक्लतीर्थमृते नृप ।शुक्लतीर्थस्य माहात्म्यं पुराणे यच्छ्रुतं मया ॥६॥समागमे मुनीनां तु देवानां हि तथैव च ।कथितं देवदेवेन शितिकण्ठेन भारत ।कैलासे पर्वतश्रेष्ठे तत्ते संकथयाम्यहम् ॥७॥पुरा कृतयुगस्यादौ तोषितुं गिरिजापतिम् ।तपश्चचार विपुलं विष्णुर्वर्षसहस्रकम् ।वायुभक्षो निराहारः शुक्लतीर्थे व्यवस्थितः ॥८॥ततः प्रत्यक्षतामागाद्देवदेवो महेश्वरः ।प्रादुर्भूतस्तु सहसा तत्र तीर्थे नराधिप ॥९॥क्रोशद्वयमिदं चक्रे भुक्तिमुक्तिप्रदायकम् ।तस्मिंस्तीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ॥१०॥गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती ।ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥११॥सर्वौषधीनामशनं प्रधानं सर्वेषु पेयेषु जलं प्रधानम् ।निद्रा सुखानां प्रमदा रतीनां सर्वेषु गात्रेषु शिरः प्रधानम् ॥१२॥स्नातस्यापि यथा पुण्यं ललाटं नृपसत्तम ।शुक्लतीर्थं तथा पुण्यं नर्मदायां युधिष्ठिर ॥१३॥सरितां च यथा गङ्गा देवतानां जनार्दनः ।शुक्लतीर्थं तथा पुण्यं नर्मदायां व्यवस्थितम् ॥१४॥चतुष्पदानां सुरभिर्वर्णानां ब्राह्मणो यथा ।प्रधानं सर्वतीर्थानां शुक्लतीर्थं तथा नृप ॥१५॥ग्रहाणां तु यथादित्यो नक्षत्राणां यथा शशी ।शिरो वा सर्वगात्राणां धर्माणां सत्यमिष्यते ॥१६॥तथैव पार्थ तीर्थानां शुक्लतीर्थमनुत्तमम् ।दुर्विज्ञेयो यथा लोके परमात्मा सनातनः ॥१७॥सुसूक्ष्मत्वादनिर्देश्यः शुक्लतीर्थं तथा नृप ।मन्दप्रज्ञत्वमापन्ने महामोहसमन्वितः ॥१८॥शुक्लतीर्थं ना जानाति नर्मदातटसंस्थितम् ।बहुनात्र किमुक्तेन धर्मपुत्र पुनः पुनः ॥१९॥शुक्लतीर्थं महापुण्यं सम्प्राप्तं कल्मषक्षयात् ।योऽत्र दत्ते शुचिर्भूत्वा एकं रेवाजलाञ्जलिम् ॥२०॥कल्पकोटिसहस्राणि पितरस्तेन तर्पिताः ॥२१॥एकः पुत्रो धरापृष्ठे पित्ःणामार्तिनाशनः ।चाणक्यो नाम राजाभूच्छुक्लतीर्थं च वेद सः ॥२२॥युधिष्ठिर उवाच -कोऽसौ द्विजवरश्रेष्ठ चाणक्यो नाम नामतः ।शुक्लतीर्थस्य यो वेत्ता नान्यो वेत्ता हि कश्चन ॥२३॥केनोपायेन तत्तीर्थं तेन ज्ञातं धरातले ।तदहं श्रोतुमिच्छामि परं कौतूहलं हि मे ॥२४॥श्रीमार्कण्डेय उवाच -इक्ष्वाकुप्रभवो राजा नप्ता शुद्धोदनस्य च ।चाणक्यो नाम राजर्षिर्बुभुजे पृथिवीमिमाम् ॥२५॥विक्रान्तो मतिमाञ्छूरः सर्वलोकैरवञ्चितः ।वञ्चितः सहसा धूर्तवायसाभ्यां नृपोत्तमः ॥२६॥युधिष्ठिर उवाच -कथं स वञ्चितो राजा वायसाभ्यां कुतोऽथवा ।पुरा येन प्रतिज्ञातं धीगर्भेण महात्मना ॥२७॥न जीवे वञ्चितोऽन्येन प्राणांस्त्यक्ष्ये न संशयः ।एतन्मे वद विप्रेन्द्र परं कौतूहलं मम ॥२८॥श्रीमार्कण्डेय उवाच -आत्मानं वञ्चितं ज्ञात्वा तदा संगृह्य वायसौ ।प्रेषयामास तीव्रेण दण्डेन यमसादनम् ॥२९॥वायसावूचतुः ।सुन्दोपसुन्दयोः पुत्रावावां काकत्वमागतौ ।मा वधीस्त्वं महाभाग कस्मिंश्चित्कारणान्तरे ॥३०॥तावावां कृतसंकल्पौ त्वया कोपेन मानद ।निरस्तावनिरस्तौ वा यास्यावः परमां गतिम् ॥३१॥तदादेशय राजेन्द्र कृत्वा तव महत्प्रियम् ।मुक्तशापौ भविष्यावो ब्रह्मणो वचनं तथा ॥३२॥तच्छ्रुत्वा काकवचनं चाणक्यो नृपसत्तमः ।नाहं जीवे विदित्वैवं वञ्चितः केन कर्हिचित् ॥३३॥तस्मात्तीर्थं विजानीतं यमस्य सदने द्विजौ ।प्रेषयामि यथान्यायं श्रुत्वा तत्कथयिष्यथः ॥३४॥तेनैव मुक्तौ तौ काकौ स्रक्चन्दनविभूषितौ ।शीघ्रगौ प्रेषयामास यमस्य सदनं प्रति ॥३५॥राजोवाच -तत्र धर्मपुरं गत्वा विचरन्तावितस्ततः ।यदि पृच्छति धर्मात्मा यमः संयमनो महान् ॥३६॥कुतो वामागतं ब्रूतं केन वा भूषितावुभौ ।मदीया भारती तस्य कथनीया ह्यशङ्कितम् ॥३७॥इक्ष्वाकुसंभवो राजा चाणक्यो नाम धार्मिकः ।द्वादशाहे मृतस्यास्य तर्पितावशनादिना ॥३८॥तच्छ्रुत्वा वचनं राज्ञो गतौ तौ यमसादनम् ।क्रीडितौ प्राङ्गणे तस्य स्रक्चन्दनविभूषितौ ।धर्मराजेन तौ दृष्टौ पृष्टौ धृष्टौ च वायसौ ॥३९॥यम उवाच -कुतः स्थानात्समायातौ केन वा भूषितावुभौ ।वृत्तं वै कथ्यतामेतद्वायसावविशङ्कया ॥४०॥काकावूचतुः ।इक्ष्वाकुसम्भवो राजा चाणक्यो नाम धार्मिकः ।द्वादशाहे मृतस्यास्य तर्पितावशनादिभिः ॥४१॥तयोस्तद्वचनं श्रुत्वा सदा वैवस्वतो यमः ।चित्रगुप्तं कलिं कालं वीक्ष्यतामिदमब्रवीत् ॥४२॥अण्डजस्वेदजातीनां भूतानां सचराचरे ।विहितं लोककर्त्ःणां सान्निध्यं ब्रह्मणा मम ॥४३॥गतः कुत्र दुराचारश्चाणक्यो नामतस्त्विह ।अन्विष्यतां पुराणेषु त्वितिहासेषु या गतिः ॥४४॥ततस्तैर्धर्मपालैस्तु धर्मराजप्रचोदितैः ।निरीक्षिता पुराणोक्ता कर्मजा गतिरागतिः ॥४५॥ततः प्रोवाच वचनं धर्मो धर्मभृतां वरः ।शृण्वतां धर्मपालानां मेघगम्भीरया गिरा ॥४६॥शुक्लतीर्थे मृतानां तु नर्मदाविमले जले ।अण्डजस्वेदजातीनां न गतिर्मम सन्निधौ ॥४७॥तत्तीर्थं धार्मिकं लोके ब्रह्मविष्णुमहेश्वरैः ।निर्मितं परया भक्त्या लोकानां हितकाम्यया ॥४८॥पापोपपातकैर्युक्ता ये नरा नर्मदाजले ।शुक्लतीर्थे मृताः शुद्धा न ते मद्विषयाः क्वचित् ॥४९॥एतच्छ्रुत्वा तु वचनं तौ काकौ यमभाषितम् ।आगतौ शीघ्रगौ पार्थ दृष्ट्वा यमपुरं महत् ॥५०॥पृष्टौ तौ प्रणतौ राज्ञा यथावृत्तं यथाश्रुतम् ।कथयामासतुः पार्थ दानवौ काकतां गतौ ॥५१॥अस्मात्स्थानाद्गतावावां यमस्य पुरमुत्तमम् ।पृथिव्या दक्षिणे भागे ह्यतीत्य बहुयोनिजम् ॥५२॥तत्पुरं कामगं दिव्यं स्वर्णप्राकारतोरणम् ।अनेकगृहसम्बाधं मणिकाञ्चनभूषितम् ॥५३॥चतुष्पथैश्चत्वरैश्च घण्टामार्गोपशोभितम् ।उद्यानवनसंछन्नं पद्मिनीखण्डमन्दितम् ॥५४॥हंससारससंघुष्टं कोकिलाकुलसंकुलम् ।सिंहव्याघ्रगजाकीर्णमृक्षवानरसेवितम् ॥५५॥नरनारीसमाकीर्णं नित्योत्सवविभूषितम् ।शंखदुन्दुभिर्निर्घोषैर्वीणावेणुनिनादितम् ॥५६॥यममार्गेऽपि विहितं स्वर्गलोकमिवापरम् ।गतौ तत्र पुनश्चान्यैर्यमदूतैर्यमाज्ञया ॥५७॥विदितौ प्रेषितौ तत्र यत्र देवो जगत्प्रभुः ।प्राणस्य भीत्या दृष्टोऽसौ सिंहासनगतः प्रभुः ॥५८॥महाकायो महाजङ्घो महास्कन्धो महोदरः ।महावक्षा महाबाहुर्महावक्त्रेक्षणो महान् ॥५९॥महामहिषमारूढो महामुकुटभूषितः ।तत्रान्यश्च कलिः कालश्चित्रगुप्तो महामतिः ॥६०॥समागतौ तदा दृष्टौ मध्ये ज्वलितपावकौ ।पुण्यपापानि जन्तूनां श्रुतिस्मृत्यर्थपारगौ ॥६१॥विचारयन्तौ सततं तिष्ठाते तौ दिवानिशम् ।ततो ह्यावां प्रणामान्ते यमेन यममूर्तिना ॥६२॥पृष्टावागमने हेतुं तमब्रूव शृणुष्व तत् ।उज्जयिन्यां महीपालश्चाणक्योऽभूत्प्रतापवान् ॥६३॥द्वादशाहे मृतस्यास्य भुक्त्वा प्राप्तौ यमालयम् ।ततोऽस्माकं वचः श्रुत्वा कम्पयित्वा शिरो यमः ॥६४॥उवाच वचनं सत्यं सभामध्ये हसन्निव ।अस्ति तत्कारणं येन चाणक्यः पापपूरुषः ॥६५॥नायातो मम लोके तु सर्वपापभयंकरे ।शुक्लतीर्थे मृतानां तु नर्मदायां परं पदम् ॥६६॥जायते सर्वजन्तूनां नात्र काचिद्विचारणा ।अवशः स्ववशो वापि जन्तुस्तत्क्षेत्रमण्डले ॥६७॥मृतः स वै न सन्देहो रुद्रस्यानुचरो भवेत् ।तद्धर्मवचनं श्रुत्वा निर्गत्य नगराद्बहिः ॥६८॥पश्यन्तौ विविधां घोरां नरके लोकयातनाम् ।त्रिंशत्कोट्यो हि घोराणां नरकाणां नृपोत्तम ॥६९॥दृष्टा भीतौ परामार्तिगतौ तत्र महापथि ।नरको रौरवस्तत्र महारौरव एव च ॥७०॥पेषणः शोषणश्चैव कालसूत्रोऽस्थिभञ्जनः ।तामिस्रश्चान्धतामिस्रः कृमिपूतिवहस्तथा ॥७१॥दृष्टश्चान्यो महाज्वालस्तत्रैव विषभोजनः ।नरकौ दंशमशकौ तथा यमलपर्वतौ ॥७२॥नदी वैतरणी दृष्टा सर्वपापप्रणाशिनी ।शीतलं सलिलं यत्र पिबन्ति ह्यमृतोपमम् ॥७३॥तदेव नीरं पापानां शोणितं परिवर्तते ।असिपत्रवनं चान्यद्दृष्टान्या महती शिला ॥७४॥अग्निपुंजनिभाकारा विशाला शाल्मली परा ।इत्यादयस्तथैवान्ये शतसाहस्रसंज्ञिताः ॥७५॥घोरघोरतरा दृष्टाः क्लिश्यन्ते यत्र मानवाः ।वाचिकैर्मानसैः पापैः कर्मजैश्च पृथग्विधैः ॥७६॥अहंकारकृतैर्दोषैर्मायावचनपूर्वकैः ।पिता माता गुरुर्भ्राता अनाथा विकलेन्द्रियाः ॥७७॥भ्रमन्ति नोद्धृता येषां गतिस्तेषां हि रौरवे ।तत्र ते द्वादशाब्दानि क्षपित्वा रौरवेऽधमाः ॥७८॥इह मानुष्यके लोके दीनान्धाश्च भवन्ति ते ।देवब्रह्मस्वहर्त्ःणां नराणां पापकर्मणाम् ॥७९॥महारौरवमाश्रित्य ध्रुवं वासो यमालये ।ततः कालेन महता पापाः पापेन वेष्टिताः ॥८०॥जायन्ते कण्टकैर्भिन्नाः कोशे वा कोशकारकाः ।मृगपक्षिविहङ्गानां घातका मांसभक्षकाः ॥८१॥पेषणं नरकं यान्ति शोषणं जीवबन्धनात् ।तत्रत्यां यातनां घोरां सहित्वा शास्त्रचोदिताम् ॥८२॥इह मानुष्यतां प्राप्य पङ्ग्वन्धबधिरा नराः ।गवार्थे ब्राह्मणार्थे च ह्यनृतं वदतामिह ॥८३॥पतनं जायते पुंसां नरके कालसूत्रके ।तत्रत्या यातना घोरा विहिता शास्त्रकर्तृभिः ॥८४॥भुक्त्वा समागता ह्यत्र ते यास्यन्त्यन्त्यजां गतिम् ।बन्धयन्ति च ये जीवांस्त्यक्त्वात्मकुलसन्ततिम् ॥८५॥पतन्ति नात्र सन्देहो नरके तेऽस्थिभञ्जने ।तत्र वर्षशतस्यान्त इह मानुष्यतां गताः ॥८६॥कुब्जा वामनकाः पापा जायन्ते दुःखभागिनः ।ये त्यजन्ति स्वकां भार्यां मूढाः पण्डितमानिनः ॥८७॥ते यान्ति नरकं घोरं तामिस्रं नात्र संशयः ।तत्र वर्षशतस्यान्ते इह मानुष्यतां गताः ॥८८॥दुश्चर्माणो दुर्भगाश्च जायन्ते मानवा हि ते ।मानकूटं तुलाकूटं कूटकं तु वदन्ति ये ॥८९॥नरके तेऽन्धतामिस्रे प्रपच्यन्ते नराधमाः ।शतसाहस्रिकं कालमुषित्वा तत्र ते नराः ॥९०॥इह शत्रुगृहे त्वन्धा भ्रमन्ते दीनमूर्तयः ।पितृदेवद्विजेभ्योऽन्नमदत्त्वा येऽत्र भुञ्जते ॥९१॥नरके कृमिभक्ष्ये ते पतन्ति स्वात्मपोषकाः ।ततः प्रसूतिकाले हि कृमिभुक्तश्च सव्रणः ॥९२॥जायतेऽशुचिगन्धोऽत्र परभाग्योपजीवकः ।स्वकर्मविच्युताः पापा वर्णाश्रमविवर्जिताः ॥९३॥नरके पूयसम्पूर्णे क्लिश्यन्ते ह्ययुतं समाः ।पूर्णे तत्र ततः काले प्राप्य मानुष्यकं भवम् ॥९४॥उद्वेजनीया भूतानां जायन्ते व्याधिभिर्वृताः ।अग्निदो गरदश्चैव लोभमोहान्वितो नरः ॥९५॥नरके विषसम्पूर्णे निमज्जति दुरात्मवान् ।तत्र वर्षशतात्कालादुन्मज्जनमवस्थितः ॥९६॥भुवि मानुषतां प्राप्य कृपणो जायते पुनः ।पादुकोपानहौ छत्रं शय्यां प्रावरणानि च ॥९७॥अदत्त्वा दंशमशकैर्भक्ष्यन्ते जन्यसप्ततिम् ।पितुर्द्रव्यापहर्तारस्ताडनक्रोशने रताः ॥९८॥पीडनं क्रियते तेषां यत्र तौ युग्मपर्वतौ ।या सा वैतरणी घोरा नदी रक्तप्रवाहिनी ॥९९॥पिबन्ति रुधिरं तत्र येऽभियान्ति रजस्वलाम् ।असिपत्रवने घोरे पीड्यन्ते पापकारिणः ॥१००॥परपीडाकरा नित्यं ये नरोऽन्त्यजगामिनः ।गुरुदाररतानां तु महापातकिनामपि ॥१०१॥शिलावगूहनं तेषां जायते जन्मसप्ततिम् ।ज्वलन्तीमायसीं घोरां बहुकण्टकसंवृताम् ॥१०२॥शाल्मलीं तेऽवगूहन्ति परदाररता हि ये ।परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च ॥१०३॥अरण्ये निर्जले देशे स भवेत्क्रूरराक्षसः ।देवस्वं ब्राह्मणस्वं च लोभेनैवाहरेच्च यः ॥१०४॥स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ।एवमादीनि पापानि भुञ्जन्ते यमशासनात् ॥१०५॥येषां तु दर्शनादेव श्रवणाज्जायते भयम् ।तथा दानफलं चान्ये भुञ्जाना यममन्दिरे ॥१०६॥दृष्टाः श्रुतं कथयतां दूतानां च यमाज्ञया ।रथैरन्ये गजैरन्ये केचिद्वाजिभिरावृताः ॥१०७॥दृष्टास्तत्र महाभाग तपःसंचयसंस्थिताः ।गोदाता स्वर्णदाता च भूमिरत्नप्रदा नराः ॥१०८॥शय्याशनगृहादीनां स लोकः कामदो नृणाम् ।अन्नं पानीयसहितं ददते येऽत्र मानवाः ॥१०९॥तत्र तृप्ताः सुसंतुष्टाः क्रीडन्ते यमसादने ।अत्र यद्दीयते दानमपि वालाग्रमात्रकम् ॥११०॥तदक्षयफलं सर्वं शुक्लतीर्थे नृपोत्तम ।एतत्ते कथितं सर्वं यद्दृष्टं यच्च वै श्रुतम् ॥१११॥कुरुष्व यदभिप्रेतं यदि शक्नोषि मुच्यताम् ।तयोस्तद्वचनं श्रुत्वा चाणक्यो हृष्टमानसः ॥११२॥विसर्जयामास खगावभिनन्द्य पुनःपुनः ।ताभ्यां गताभ्यां सर्वस्वं दत्त्वा विप्रेषु भारत ॥११३॥कामक्रोधौ परित्यज्य जगामामरपर्वतम् ।तत्र बद्ध्वोडुपं गाढं कृष्णरज्ज्वावलम्बितम् ॥११४॥प्लवमानो जगामाऽशु ध्यायन्देवं जनार्दनम् ।आरोग्यं भास्करादिच्छेद्धनं वै जातवेदसः ॥११५॥प्राप्नोति ज्ञानमीशानान्मोक्षं प्राप्नोति केशवात् ।नीलं रक्तं तदभवन्मेचकं यद्धि सूत्रकम् ॥११६॥शुद्धस्फटिकसङ्काशं दृष्ट्वा रज्जुं महामतिः ।आप्लुत्य विमले तोये गतोऽसौ वैष्णवं पदम् ॥११७॥गायन्ति यद्वेदविदः पुराणं नारायणं शाश्वतमच्युताह्वयम् ।प्राप्तः स तं राजसुतो महात्मा निक्षिप्य देहं शुभशुक्लतीर्थे ॥११८॥एषा ते कथिता राजन्सिद्धिश्चाणक्यभूभृतः ।तथान्यत्तव वक्ष्यामि शृणुष्वैकाग्रमानसः ॥११९॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चाणक्यसिद्धिप्राप्तिवर्णनं नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 15, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP