संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय २६ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय २६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २६ Translation - भाषांतर युधिष्ठिर उवाच -जालेश्वरेऽपि यत्प्रोक्तं त्वया पूर्वं द्विजोत्तम ।तत्कथं तु भवेत्पुण्यमृषिसिद्धनिषेवितम् ॥१॥श्रीमार्कण्डेय उवाच -जालेश्वरात्परं तीर्थं न भूतं न भविष्यति ।तस्योत्पत्तिं कथयतः शृणु त्वं पाण्डुनन्दन ॥२॥पुरा ऋषिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः ।तापिता असुरैः सर्वैः क्षयं नीता ह्यनेकशः ॥३॥बाणासुरप्रभृतिभिर्जम्भशुम्भपुरोगमैः ।वध्यमाना ह्यनेकैश्च ब्रह्माणं शरणं गताः ॥४॥विमानैः पर्वताकारैर्हयैश्चैव गजोपमैः ।स्यन्दनैर्नगराकारैः सिंहशार्दूलयोजितैः ॥५॥कच्छपैर्मकरैश्चान्ये जग्मुरन्ये पदातयः ।प्राप्य ते परमं स्थानमशक्यं यदधार्मिकैः ॥६॥दृष्ट्वा पद्मोद्भवं देवं सर्वलोकस्य शङ्करम् ।ते सर्वे तत्र गत्वा तु स्तुतिं चक्रुः समाहिताः ॥७॥देवा ऊचुः ।जयामेय जयाभेद जय सम्भूतिकारक ।पद्मयोने सुरश्रेष्ठ त्वां वयं शरणं गताः ॥८॥तच्छ्रुत्वा तु वचो देवो देवानां भावितात्मनाम् ।मेघगम्भीरया वाचा प्रत्युवाच पितामहः ॥९॥किं वो ह्यागमनं देवाः सर्वेषां च विवर्णता ।केनावमानिताः सर्वे शीघ्रं कथयतामराः ॥१०॥देवा ऊचुः ।बाणो नाम महावीर्यो दानवो बलदर्पितः ।तेनास्माकं हृतं सर्वं धनरत्नैर्वियोजिताः ॥११॥देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।चिन्तयामास देवेशस्तस्य नाशाय या क्रिया ॥१२॥अवध्यो दानवः पापः सर्वेषां वै दिवौकसाम् ।मुक्त्वा तु शङ्करं देवं न मया न च विष्णुना ॥१३॥तत्रैव सर्वे गच्छामो यत्र देवो महेश्वरः ।स गतिश्चैव सर्वेषां विद्यतेऽन्यो न कश्चन ॥१४॥एवमुक्त्वा सुरैः सर्वैर्ब्रह्मा वेदविदांवरः ।ब्राह्मणैः सह विद्वद्भिरतो यत्र महेश्वरः ॥१५॥स्तुतिभिश्च सुपुष्टाभिस्तुष्टाव परमेश्वरम् ॥१६॥देवा ऊचुः ।जय त्वं देवदेवेश जयोमार्धशरीरधृक् ।वृषासन महाबाहो शशाङ्ककृतभूषण ॥१७॥नमः शूलाग्रहस्ताय नमः खट्वाङ्गधारिणे ।जय भूतपते देव दक्षयज्ञविनाशन ॥१८॥पञ्चाक्षर नमो देव पञ्चभूतात्मविग्रह ।पञ्चवक्त्रमयेशान वेदैस्त्वं तु प्रगीयसे ॥१९॥सृष्टिपालनसंहारांस्त्वं सदा कुरुषे नमः ।अष्टमूर्ते स्मरहर स्मर सत्यं यथा स्तुतः ॥२०॥पञ्चात्मिका तनुर्देव ब्राह्मणैस्ते प्रगीयते ।सद्यो वामे तथाघोरे ईशो तत्पुरुषे तथा ॥२१॥हेमजाले सुविस्तीर्णे हंसवत्कूजसे हर ।एवं स्तुतो मुनिगणैर्ब्रह्माद्यैश्च सुरासुरैः ॥२२॥प्रहृष्टः सुमना भूत्वा सुरसङ्घानुवाच ह ॥२३॥ईश्वर उवाच -स्वागतं देवविप्राणां सुप्रभाताद्य शर्वरी ।किं कुर्मो वदत क्षिप्रं कोऽन्यः सेव्यः सुरासुरैः ॥२४॥किं दुःखं को नु सन्तापः कुतो वो भयमागतम् ।कथयध्वं महाभागाः कारणं यन्मनोगतम् ॥२५॥एवमुक्तास्तु रुद्रेण प्रत्यवोचन्सुरर्षभाः ।स्वान्स्वान्देहान्दर्शयन्तो लज्जमाना अधोमुखाः ॥२६॥अस्ति घोरो महावीर्यो दानवो बलदर्पितः ।बाणो नामेति विख्यातो यस्य तत्त्रिपुरं महत् ॥२७॥तेन वै सुतपस्तप्तं दशवर्षशतानि हि ।तस्य तुष्टोऽभवद्ब्रह्मा नियमेन दमेन च ॥२८॥पुराणि तान्यभेद्यानि ददौ कामगमानि वै ।आयसं राजतं चैव सौवर्णं च तथापरम् ॥२९॥त्रिपुरं ब्रह्मणा सृष्टं भ्रमत्तत्कामगामि च ।तस्यैव तु बलोत्कृष्टास्त्रिपुरे दानवाः स्थिताः ॥३०॥त्रैलोक्यं सकलं देव पीडयन्ति महासुराः ।दण्डपाशासिशस्त्राणि अविकारे विकुर्वते ।त्रिपुरं दानवैर्जुष्टं भ्रमत्तच्चक्रसंनिभम् ॥३१॥क्वचिद्दृश्यमदृश्यं वा मृगतृष्णैव लक्ष्यते ॥३२॥यस्मिन्पतति तद्दिव्यं दृप्तस्य त्रिपुरं महत् ।न तत्र ब्राह्मणा देवा गावो नैव तु जन्तवः ॥३३॥न तत्र दृश्यते किंचित्पतेद्यत्र पुरत्रयम् ।नद्यो ग्रामाश्च देशाश्च बहवो भस्मसात्कृताः ॥३४॥सुवर्णं रजतं चैव मणिमौक्तिकमेव च ।स्त्रीरत्नं शोभनं यच्च तत्सर्वं कर्षते बलात् ॥३५॥न शस्त्रेण न चास्त्रेण न दिवा निशि वा हर ।शक्यते देवसङ्घैश्च निहन्तुं स कथंचन ॥३६॥तद्दहस्व महादेव त्वं हि नः परमा गतिः ।एवं प्रसादं देवेश सर्वेषां कर्तुमर्हसि ॥३७॥येन देवाश्च गन्धर्वा ऋषयश्च तपोधनाः ।परां धृतिं समायान्ति तत्प्रभो कर्तुमर्हसि ॥३८॥ईश्वर उवाच -एतत्सर्वं करिष्यामि मा विषादं गमिष्यथ ।अचिरेणैव कालेन कुर्यां युष्मत्सुखावहम् ॥३९॥आश्वासयित्वा तान्देवान्सर्वानिन्द्रपुरोगमान् ।चिन्तयामास देवेशस्त्रिपुरस्य वधं प्रति ॥४०॥कथं केन प्रकारेण हन्तव्यं त्रिपुरं मया ।तमेकं नारदं मुक्त्वा नान्योपायो विधीयते ॥४१॥एवं संस्तभ्य चात्मानं ततो ध्यातः स नारदः ।तत्क्षणादेव सम्प्राप्तो वायुभूतो महातपाः ॥४२॥कमण्डलुधरो देवस्त्रिदण्डी ज्ञानकोविदः ।योगपट्टाक्षसूत्रेण छत्रेणैव विराजितः ॥४३॥जटाजूटाबद्धशिरा ज्वलनार्कसमप्रभः ।त्रिधा प्रदक्षिणीकृत्य दण्डवत्पतितो भुवि ॥४४॥कृताञ्जलिपुटो भूत्वा नारदो भगवान्मुनिः ।स्तोत्रेण महता शर्वः स्तुतो भक्त्या महामनाः ॥४५॥नारद उवाच -जय शम्भो विरूपाक्ष जय देव त्रिलोचन ।जय शङ्कर ईशान रुद्रेश्वर नमोऽस्तु ते ॥४६॥त्वं पतिस्त्वं जगत्कर्ता त्वमेव लयकृद्विभो ।त्वमेव जगतां नाथो दुष्टातकनिषूदनः ॥४७॥त्वं नः पाहि सुरेशान त्रयीमूर्ते सनातन ।भवमूर्ते भवारे त्वं भजतामभयो भव ॥४८॥भवभावविनाशार्थं भव त्वां शरणं भजे ।किमर्थं चिन्तितो देव आज्ञा मे दीयतां प्रभो ॥४९॥कस्य संक्षोभये चित्तं को वाद्य पततु क्षितौ ।कमद्य कलहेनाहं योजये जयतांवर ॥५०॥नारदस्य वचः श्रुत्वा देवदेवो महेश्वरः ।उत्फुल्लनयनो भूत्वा इदं वचनमब्रवीत् ॥५१॥स्वागतं ते मुनिश्रेष्ठ सदैव कलहप्रिय ।वीणावादनतत्त्वज्ञ ब्रह्मपुत्र सनातन ॥५२॥गच्छ नारद शीघ्रं त्वं यत्र तत्त्रिपुरं महत् ।बाणस्य दानवेन्द्रस्य सर्वलोकभयावहम् ॥५३॥भर्तारो देवतातुल्याः स्त्रियस्तत्राप्सरःसमाः ।तासां वै तेजसा चैव भ्रमते त्रिपुरं महत् ॥५४॥न शक्यते कथं भेत्तुं सर्वोपायैर्द्विजोत्तम ।गत्वा त्वं मोहय क्षिप्रं पृथग्धर्मैरनेकधा ॥५५॥नारद उवाच -तव वाक्येन देवेश भेदयामि पुरोत्तमम् ।अभेद्यं बहुधोपायैर्यत्तु देवैः सवासवैः ॥५६॥एवमुक्त्वा गतो भूप शतयोजनमायतम् ।बाणस्य तत्पुरश्रेष्ठमृद्धिवृद्धिसमायुतम् ॥५७॥कृतकौतुकसम्बाधं नानाधातुविचित्रितम् ।अनेकहर्म्यसंछन्नमनेकायतनोज्ज्वलम् ॥५८॥द्वारतोरणसंयुक्तं कपाटार्गलभूषितम् ।बहुयन्त्रसमोपेतं प्राकारपरिखोज्ज्वलम् ॥५९॥वापीकृपतडागैश्च देवतायतनैर्युतम् ।हंसकारण्डवाकीर्णं पद्मिनीखण्डमण्डितम् ॥६०॥अनेकवनशोभाढ्यं नानाविहगमण्डितम् ।एवं गुणगणाकीर्णं बाणस्य पुरमुत्तमम् ॥६१॥तस्य मध्ये महाकायं सप्तकक्षं सुशोभितम् ।बाणस्य भवनं दिव्यं सर्वं काञ्चनभूषितम् ॥६२॥मौक्तिकादामशोभाढ्यं वज्रवैडूर्यभूषितम् ।रुक्मपट्टतलाकीर्णं रत्नभूम्या सुशोभितम् ॥६३॥मत्तमातङ्गनिःश्वासैः स्यन्दनैः संकुलीकृतम् ।हयहेषितशब्दैश्च नारीणां नूपुरस्वनैः ॥६४॥खड्गतोमरहस्तैश्च वज्राङ्कुशशरायुधैः ।रक्षितं घोररूपैश्च दानवैर्बलदर्पितैः ॥६५॥एवं गुणगणाकीर्णं बाणस्य भवनोत्तमम् ।कैलासशिखरप्रख्यं महेन्द्रभवनोपमम् ॥६६॥नारदो गगने शीघ्रमगमत्पुरसंमुखः ।द्वारदेशं समासाद्य क्षत्तारं वाक्यमब्रवीत् ॥६७॥भोभोः क्षत्तर्महाबुद्धे राजकार्यविशारद ।शीघ्रं बाणाय चाचक्ष्व नारदो द्वारि तिष्ठति ॥६८॥स वन्दयित्वा चरणौ नारदस्य त्वरान्वितः ।सभामध्यगतं बाणं विज्ञप्तुमुपचक्रमे ॥६९॥वेपमानाङ्गयष्टिस्तु करेणापिहिताननः ।शृण्वतां सर्वयोधानामिदं वचनमब्रवीत् ॥७०॥वन्दितो देवगन्धर्वैर्यक्षकिन्नरदानवैः ।कलिप्रियो दुराराध्यो नारदो द्वारि तिष्ठति ॥७१॥द्वारपालस्य तद्वाक्यं श्रुत्वा बाणस्त्वरान्वितः ।द्वाःस्थमाह महादैत्यः सविस्मयमिदं तदा ॥७२॥बाण उवाच -ब्रह्मपुत्रं सतेजस्कं दुःसहं दुरतिक्रमम् ।प्रवेशय महाभागं किमर्थं वारितो बहिः ॥७३॥श्रुत्वा प्रभोर्वचस्तस्य प्रावेशयदुदीरितम् ।गत्वा वेगेन महता नारदं गृहमागतम् ॥७४॥दृष्ट्वा देवर्षिमायान्तं नारदं सुरपूजितम् ।साहसोत्थाय संहृष्टो ववन्दे चरणौ मुनेः ॥७५॥ददौ चासनमर्घ्यं च पाद्यं पूजां यथाविधि ।न्यवेदयच्च तद्राज्यमात्मानं बान्धवैः सह ॥७६॥पप्रच्छ कुशलं चापि मुनिं बाणासुरः स्वयम् ॥७७॥नारद उवाच -साधु साधु महाबाहो दनोर्वंशविवर्द्धन ।कोऽन्यस्त्रिभुवने श्लाघ्यस्त्वां मुक्त्वा दनुपुंगव ॥७८॥पूजितोऽहं दनुश्रेष्ठ धनरत्नैः सुशोभनैः ।राज्येन चात्मना वापि ह्येवं कः पूजयेत्परः ॥७९॥न मे कार्यं हि भोगेन भुङ्क्ष्व राज्यमनामयम् ।त्वद्दर्शनोत्सुकः प्राप्तो दृष्ट्वा देवं महेश्वरम् ॥८०॥भ्रमते त्रिपुरं लोके स्त्रीसतीत्वान्मया श्रुतम् ।तान्द्रष्टुकामः सम्प्राप्तस्त्वद्दारान्दानवेश्वर ॥८१॥मन्यसे यदि मे शीघ्रं दर्शयस्व च माचिरम् ।नारदस्य वचः श्रुत्वा कञ्चुकिं समुदीक्ष्य वै ॥८२॥अन्तःपुरचरं वृद्धं दण्डपाणिं गुणान्वितम् ।उवाच राजा हृष्टात्मा शब्देनापूरयन्दिशः ॥८३॥नारदाय महादेवीं दर्शयस्वेह कञ्चुकिन् ।अन्तःपुरचरैः सर्वैः समेतामविशङ्कितः ॥८४॥नाथस्याज्ञां पुरस्कृत्य गृहीत्वा नारदं करे ।प्रविश्याकथयद्देव्यै नारदोऽयं समागतः ॥८५॥दृष्ट्वा देवी मुनिश्रेष्ठं कृत्वा पादाभिवन्दनम् ।आसनं काञ्चनं शुभ्रमर्घ्यपाद्यादिकं ददौ ॥८६॥तस्यै स भगवांस्तुष्टो ह्याशीर्वादमदात्परम् ।नान्या देवि त्रिलोकेऽपि त्वत्समा दृश्यतेऽङ्गना ॥८७॥पतिव्रता शुभाचारा सत्यशौचसमन्विता ।यस्याः प्रभावात्त्रिपुरं भ्रमते चक्रवत्सदा ॥८८॥तच्छ्रुत्वा वचनं देवी नारदस्य सुदान्वितम् ।पर्यपृच्छदृषिं भक्त्या धर्मं धर्मभृतांवरा ॥८९॥राज्ञ्युवाच -भगवन्मानुषे लोके देवास्तुष्यन्ति कैर्व्रतैः ।कानि दानानि दीयन्ते येषां च स्यान्महत्फलम् ॥९०॥उपवासाश्च ये केचित्स्त्रीधर्मे कथिता बुधैः ।यैः कृतैः स्वर्गमायान्ति सुकृतिन्यः स्त्रियो यथा ॥९१॥यत्तत्सर्वं महाभाग कथयस्व यथातथम् ।श्रोतुमिच्छाम्यहं सर्वं कथयस्वाविशङ्कितः ॥९२॥नारद उवाच -साधु साधु महाभागे प्रश्नोऽयं वेदितस्त्वया ।यं श्रुत्वा सर्वनारीणां धर्मवृद्धिस्तु जायते ॥९३॥उपवासैश्च दानैश्च पतिपुत्रौ वशानुगौ ।बान्धवैः पूज्यते नित्यं यैः कृतैः कथयामि ते ॥९४॥दुर्भगा सुभगा यैस्तु सुभगा दुर्भगा भवेत् ।पुत्रिणी पुत्ररहिता ह्यपुत्रा पुत्रिणी तथा ॥९५॥भर्तारं लभते कन्या तथान्या भर्तृवर्जिता ।कृताकृतैश्च जायन्ते तन्निबोधस्व सुन्दरि ॥९६॥तिलधेनुं सुवर्णं च रूप्यं गा वाससी तथा ।पानीयं भूमिदानं च गन्धधूपानुलेपनम् ॥९७॥पादुकोपानहौ छत्रं पुण्यानि व्यञ्जनानि च ।पादाभ्यङ्गं शिरोऽभ्यङ्गं स्नानं शय्यासनानि च ॥९८॥एतानि ये प्रयच्छन्ति नोपसर्पन्ति ते यमम् ।मधु माषं पयः सर्पिर्लवणं गुडमौषधम् ॥९९॥पानीयं भूमिदानं च शालीनिक्षुरसांस्तथा ।आरक्तवाससी श्लक्ष्णे दम्पत्योर्ललितादिने ॥१००॥सौभाग्यं जायते चैव इह लोके परत्र च ।ब्राह्मणे वृत्तसम्पन्ने सुरूपे च गुणान्विते ॥१०१॥तिथौ यस्यामिदं देयं तत्ते राज्ञि वदाम्यहम् ।प्रतिपत्सु च या नारी पूर्वाह्णे च शुचिव्रता ॥१०२॥इन्धनं ब्राह्मणे दद्यात्प्रीयतां मे हुताशनः ।तस्या जन्मानि षट्त्रिंशदङ्गप्रत्यङ्गसन्धिषु ॥१०३॥न रजो नैव सन्तापो जायते राजवल्लभे ।द्वितीयायां तु या नारी नवनीतमुदान्विता ॥१०४॥ददाति द्विजमुख्याय सुकुमारतनुर्भवेत् ।लवणं विप्रवर्याय तृतीयायां प्रयच्छति ॥१०५॥गौरी मे प्रीयतां देवी तस्याः पुण्यफलं शृणु ।कौमारिका पतिं प्राप्य तेन सार्द्धमुमा यथा ॥१०६॥क्रीडत्यविधवा चापि लभते सा महद्यशः ।नक्तं कृत्वा चतुर्थ्यां वै दद्याद्विप्राय मोदकान् ॥१०७॥प्रीयतां मम देवेशो गणनाथो विनायकः ।तस्यास्तेन फलेनाशु सर्वकर्मसु भामिनि ॥१०८॥विघ्नं न जायते क्वापि एवमाह पितामहः ।पञ्चमीं तु ततः प्राप्य ब्राह्मणे तिलदा तु या ॥१०९॥सा भवेद्रूपसम्पन्ना यथा चैव तिलोत्तमा ।षष्ठ्यां तु या मधूकस्य फलदा तु भवेत्सदा ॥११०॥उद्दिश्य चाग्निजं देवं ब्राह्मणे वेदपारगे ।तस्याः पुत्रो यथा स्कन्दो देवसङ्घेषु चोत्तमः ॥१११॥उत्पद्यते महाराजः सर्वलोकेषु पूजितः ।सप्तम्यां या द्विजश्रेष्ठं सुवर्णेन प्रपूजयेत् ॥११२॥उद्दिश्य जगतो नाथं देवदेवं दिवाकरम् ।तस्य पुण्यफलं यद्वै कथितं द्विजसत्तमैः ॥११३॥तत्ते राज्ञि प्रवक्ष्यामि शृणुष्वैकमनाः सति ।दद्रूचित्रककुष्ठानि मण्डलानि विचर्चिका ॥११४॥न भवन्तीह चाङ्गेषु पूर्वकर्मार्जितान्यपि ।कृष्णां धेनुं तथाष्टम्यां या प्रयच्छति भामिनी ॥११५॥ब्राह्मणे वृत्तसम्पन्ने प्रीयतां मे महेश्वरः ।तस्या जन्मार्जितं पापं नश्यते विभवान्विता ॥११६॥जायते नात्र सन्देहो यस्माद्दानमनुत्तमम् ।गन्धधूपं तु या नारी भक्त्या विप्राय दापयेत् ॥११७॥कात्यायनीं समुद्दिश्य नवम्यां शृणु यत्फलम् ।तस्या भ्राता पिता पुत्रः पतिर्वा रणमुत्तमम् ॥११८॥प्राप्यते नैव सीदन्ति तेन दानेन रक्षिताः ।इक्षुदण्डरसं देवि दशम्यां या प्रयच्छति ॥११९॥लोकपालान्समुद्दिश्य ब्राह्मणे व्यङ्गवर्जिते ।तेन दानेन सा नित्यं सर्वलोकस्य वल्लभा ॥१२०॥जायते नात्र सन्देह इत्येवं शङ्करोऽब्रवीत् ।एकादश्यामुपोष्याथ द्वादश्यामुदकप्रदा ॥१२१॥नारायणं समुद्दिश्य ब्राह्मणे विष्णुतत्परे ।सा सदा स्पर्शसम्भाषैर्द्रावयेद्भावयेज्जनम् ॥१२२॥यस्माद्दानं महर्लोके ह्यनन्तमुदके भवेत् ।पादाभ्यङ्गं शिरोऽभ्यङ्गं काममुद्दिश्य वै द्विजे ॥१२३॥ददाति च त्रयोदश्यां भक्त्या परमयाङ्गना ।यस्यां यस्यां मृता जायेद्भूयो योन्यां तु जन्मनि ॥१२४॥तस्यां तस्यां तु सा भर्तुर्न वियुज्येत कर्हिचित् ।तथाप्येवं चतुर्दश्यां दद्यात्पात्रमुपानहौ ॥१२५॥ब्रह्मणे धर्ममुद्दिश्य तस्या लोका ह्यनामयाः ।एवं च पक्षपक्षान्ते श्राद्धे तर्पेद्द्विजोत्तमान् ॥१२६॥अव्युच्छिन्ना सदा राज्ञि सन्ततिर्जायते भुवि ।एवं ते तिथिमाहात्म्यं दानयोगेन भाषितम् ॥१२७॥तथा वनस्पतीनां तु आराधनविधिं शृणु ।जम्बूं निम्बतरुं चैव तिन्दुकं मधुकं तथा ॥१२८॥आम्रं चामलकं चैव शाल्मलिं वटपिप्पलौ ।शमीबिल्वामलीवृक्षं कदलीं पाटलीं तथा ॥१२९॥अन्यान्पुण्यतमान्वृक्षानुपेत्य स्वर्गमाप्नुयात् ॥१३०॥नारद उवाच -चैत्रे मासे तु या नारी कुर्याद्व्रतमनुत्तमम् ।तस्य व्रतस्य चान्यानि कलां नार्हन्ति षोडशीम् ॥१३१॥श्रुतेन येन सुभगे दुर्भगत्वं न पश्यति ।यथा हिमं रविं प्राप्य विलयं याति भूतले ॥१३२॥तथा दुःखं च दौर्भाग्यं व्रतादस्माद्विलीयते ।मधुकाख्यां तु ललितामाराधयति येन वै ॥१३३॥विधिं तं शृणु सुभगे कथ्यमानं सुखावहम् ।चैत्रे शुक्लतृतीयायां सुस्नाता शुद्धमानसा ॥१३४॥प्रतिमां मधुवृक्षस्य शाङ्करीमुमया सह ।कारयित्वा द्विजवरैः प्रतिष्ठाप्य यथाविधि ॥१३५॥सुगन्धिकुसुमैर्धूपैस्तथा कर्पूरकुङ्कुमैः ।पूजयेद्विधिना देवं मन्त्रयुक्तेन भामिनी ॥१३६॥पादौ नमः शिवायेति मेढ्रे वै मन्मथाय च ।कालोदरायेत्युदरं नीलकंठाय कण्ठकम् ॥१३७॥शिरः सर्वात्मने पूज्य उमां पश्चात्प्रपूजयेत् ।क्षामोदरायैह्युदरं सुकण्ठायै च कण्ठकम् ॥१३८॥शिरः सौभाग्यदायिन्यै पश्चादर्घ्यं प्रदापयेत् ॥१३९॥नमस्ते देवदेवेश उमावर जगत्पते ।अर्घ्येणानेन मे सर्वं दौर्भाग्यं नाशय प्रभो ।इति अर्घ्यमन्त्रः ॥१४०॥अर्घ्यं दत्त्वा ततः पश्चात्करकं वारिपूरितम् ।मधूकपात्रोपभृतं सहिरण्यं तु शक्तितः ॥१४१॥करकं वारिसम्पूर्णं सौभाग्येन तु संयुतम् ।दत्तं तु ललिते तुभ्यं सौभाग्यादिविवर्धनम् ।इति करकदानमन्त्रः ॥१४२॥मन्त्रेणानेन विप्राय दद्यात्करकमुत्तमम् ।लवणं वर्जयेच्छुक्लां यावदन्यां तृतीयिकाम् ॥१४३॥क्षमाप्य देवीं देवेशां नक्तमद्यात्स्वयं हविः ।अनेन विधिना सार्धं मासि मासि ह्यपक्रमेत् ॥१४४॥फाल्गुनस्य तृतीयायां शुक्लायां तु समाप्यते ।वैशाखे लवणं देयं ज्येष्ठे चाज्यं प्रदीयते ॥१४५॥आषाढे मासि निष्पावाः पयो देयं तु श्रावणे ।मुद्गा देया नभस्ये तु शालिमाश्वयुजे तथा ॥१४६॥कार्त्तिके शर्करापात्रं करकं रससंभृतम् ।मार्गशीर्षे तु कार्पासं करकं घृतसंयुतम् ॥१४७॥पौषे तु कुङ्कुमं देयं माघे पात्रं तिलैर्भृतम् ।फाल्गुने मासि सम्प्राप्ते पात्रं मोदकसंभृतम् ॥१४८॥पश्चात्तृतीयादेयं यत्तत्पूर्वस्यां विवर्जयेत् ।विधानमासां सर्वासां सामान्यं मनसः प्रिये ॥१४९॥प्रतिमां मधुवृक्षस्य तामेव प्रतिपूजयेत् ।तस्मै सर्वं तु विप्राय आचार्याय प्रदीयते ॥१५०॥ततः संवत्सरस्यान्ते उद्यापनविधिं शृणु ।मधुवृक्षं ततो गत्वा बहुसम्भारसंवृतः ॥१५१॥निखनेत्प्रतिमां मध्ये माधूकीं मधुकस्य च ।तत्रस्थं पूजयेत्सर्वमुमादेहार्द्धधारिणम् ॥१५२॥पूजोपहारैर्विपुलैः कुङ्कुमेन पुनःपुनः ।श्लक्ष्णाभिः पुष्पमालाभिः कौसुम्भैः केसरेण च ॥१५३॥कौसुम्भे वाससी शुभ्रे अतसीपुष्पसन्निभे ।परिधाप्य तां प्रतिमां दम्पती रविसंख्यया ॥१५४॥उपानद्युगलैश्छत्रैः कण्ठसूत्रैः सकण्ठिकैः ।कटकैरङ्गुलीयैश्च शयनीयैः शुभास्तृतैः ॥१५५॥कुङ्कुमेन विलिप्ताङ्गौ बहुपुष्पैश्च पूजितौ ।भोजयेद्विविधै रत्नैर्मधूकावासके स्थितौ ॥१५६॥भुक्तोत्थितौ तु विश्राम्य शय्यासु च क्षमापयेत् ।गुरुमूलं यतः सर्वं गुरुर्ज्ञेयो महेश्वरः ॥१५७॥प्रीते गुरौ ततः सर्वं जगत्प्रीतं सुरासुरम् ।यद्यदिष्टतमं लोके यत्किंचिद्दयितं गृहे ॥१५८॥तत्सर्वं गुरवे देयमात्मनः श्रेय इच्छता ।इदं तु धनिभिर्देयमन्यैर्देयं यथोच्यते ॥१५९॥दाम्पत्यमेकं विधिवत्प्रतिपूज्य शुभव्रतैः ।द्वितीयं गुरुदाम्पत्यं वित्तशाठ्यं विवर्जयेत् ॥१६०॥ततः क्षमापयेद्देवीं देवं च ब्राह्मणं गुरुम् ।यथा त्वं देवि ललिते न वियुक्तासि शम्भुना ॥१६१॥तथा मे पतिपुत्राणामवियोगः प्रदीयताम् ।अनेन विधिना कृत्वा तृतीयां मधुसंज्ञिकाम् ॥१६२॥इन्द्राणी चेन्द्रपत्नीत्वमवाप सुतमुत्तमम् ।सौभाग्यं सर्वलोकेषु सर्वर्द्धिसुखमुत्तमम् ॥१६३॥अनेन विधिना या तु कुमारी व्रतमाचरेत् ।शोभनं पतिमाप्नोति यथेन्द्राण्या शतक्रतुः ॥१६४॥दुर्भगा सुभगत्वं च सुभगा पुत्रिणी भवेत् ।पुत्रिण्यक्षयमाप्नोति न शोकं पश्यति क्वचित् ॥१६५॥अनेकजन्मजनितं दौर्भाग्यं नश्यति ध्रुवम् ।मृता तु त्रिदिवं प्राप्य उमया सह मोदते ॥१६६॥कल्पकोटिशतं साग्रं भुक्त्वा भोगान् यथेप्सितान् ।पुनस्तु सम्भवे लोके पार्थिवं पतिमाप्नुयात् ॥१६७॥सुभगा रूपसम्पन्ना पार्थिवं जनयेत्सुतम् ॥१६८॥एतत्ते कथितं सर्वं व्रतानामुत्तमं व्रतम् ।अन्यत्पृच्छस्व सुभगे वाञ्छितं यद्धृदि स्थितम् ॥१६९॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये मधूकतृतीयाव्रतविधानमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥ N/A References : N/A Last Updated : December 08, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP