संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ९७ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ९७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ९७ Translation - भाषांतर श्रीमार्कण्डेय उवाच -ततो गच्छेन्महीपाल व्यासतीर्थमनुत्तमम् ।दुर्लभं मनुजैः पुण्यमन्तरिक्षे व्यवस्थितम् ॥१॥युधिष्ठिर उवाच -कस्माद्वै व्यासतीर्थं तदन्तरिक्षे व्यवस्थितम् ।एतदाख्याहि संक्षेपात्त्यज ग्रन्थस्य विस्तरम् ॥२॥श्रीमार्कण्डेय उवाच -साधु साधु महाबाहो धर्मवान्साधुवत्सल ।स्वकर्मनिरतः पार्थ तीर्थयात्राकृतादरः ॥३॥दुर्लभं सर्वजन्तूनां व्यासतीर्थं नरेश्वर ।पीडितो वृद्धभावेन अकल्पोऽहं नृपात्मज ॥४॥विसंज्ञो गतवित्तस्तु संजातः स्मृतिवर्जितः ।गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया ॥५॥कलिस्तत्रैव राजेन्द्र न विशेद्व्याससंश्रयात् ।अन्तरिक्षे तु संजातं रेवायाश्चेष्टितेन तु ॥६॥विरिञ्चिर्नैव शक्नोति रेवाया गुणकीर्तनम् ।कथं ज्ञास्याम्यहं तात रेवामाहात्म्यमुत्तमम् ॥७॥व्यासतीर्थं विशेषेण लवमात्रं ब्रवीम्यतः ।प्रत्यक्षः प्रत्ययो यत्र दृश्यतेऽद्य कलौ युगे ॥८॥विहङ्गो गच्छते नैव भित्त्वा शूलं सुदारुणम् ।तस्योत्पत्तिं समासेन कथयामि नृपात्मज ॥९॥आसीत्पूर्वं महीपाल मुनिर्मान्यः पराशरः ।तेनात्युग्रं तपश्चीर्णं गङ्गाम्भसि महाफलम् ॥१०॥प्राणायामेन संतस्थौ प्रविष्टो जाह्नवीजले ।पूर्णे द्वादशमे वर्षे निष्क्रान्तो जलमध्यतः ॥११॥भिक्षार्थी संचरेद्ग्रामं नावा यत्रैव तिष्ठति ।तत्र तेन परा दृष्टा बाला चैव मनोहरा ॥१२॥तां दृष्ट्वा स च कामार्त उवाच मधुरं तदा ।मां नयस्व परं पारं कासि त्वं मृगलोचने ॥१३॥नावारूढे नदीतीरे मम चित्तप्रमाथिनि ।एवमुक्ता तु सा तेन प्रणम्य ऋषिपुंगवम् ॥१४॥कथयामास चात्मानं दृष्ट्वा तं काममोहितम् ।कैवर्तानां गृहे दासी कन्याहं द्विजसत्तम ॥१५॥नावासंरक्षणार्थाय आदिष्टा स्वामिना विभो ।मया विज्ञापितं वृत्तमशेषं ज्ञातुमर्हसि ॥१६॥एवमुक्तस्तया सोऽथ क्षणं ध्यात्वाब्रवीदिदम् ॥१७॥पराशर उवाच -अहं ज्ञानबलाद्भद्रे तव जानामि सम्भवम् ।कैवर्तपुत्रिका न त्वं राजकन्यासि सुन्दरि ॥१८॥कन्योवाच -कः पिता कथ्यतां ब्रह्मन्कस्या वा ह्युदरोद्भवा ।कस्मिन्वंशे प्रसूताहं कैवर्ततनया कथम् ॥१९॥पराशर उवाच -कथयामि समस्तं यत्त्वया पृष्टमशेषतः ।वसुर्नामेति भूपालः सोमवंशविभूषणः ॥२०॥जम्बूद्वीपाधिपो भद्रे शत्रूणां भयवर्धनः ।शतानि सप्त भार्याणां पुत्राणां च दशैव तु ॥२१॥धर्मेण पालयेल्लोकानीशवत्पूज्यते सदा ।म्लेच्छास्तस्याविधेयाश्च क्षीरद्वीपनिवासिनः ॥२२॥तेषामुत्सादनार्थाय ययावुल्लङ्घ्य सागरम् ।संयुक्तः पुत्रभृत्यैश्च पौरुषे महति स्थितैः ॥२३॥समरं तैः समारब्धं म्लेच्छैश्च वसुना सह ।जिता म्लेच्छाः समस्तास्ते वसुना मृगलोचने ॥२४॥करदास्ते कृतास्तेन सपुत्रबलवाहनाः ।प्रधाना तस्य सा राज्ञी तव माता मृगेक्षणे ॥२५॥प्रवासस्थे महीपाले संजाता सा रजस्वला ।नारीणां तु सदाकालं मन्मथो ह्यधिको भवेत् ॥२६॥विशेषेण ऋतोः काले भिद्यन्ते कामसायकैः ।मन्मथेन तु संतप्ताचिन्तयत्सा शुभेक्षणा ॥२७॥दूतं वै प्रेषयाम्यद्य वसुराज्ञः समीपतः ।आहूतः सत्वरं दूत गच्छ त्वं नृपसन्निधौ ॥२८॥दूत उवाच -परतीरं गतो देवि वसुराजारिशासनः ।तत्र गन्तुमशक्येत जलयानैर्विना शुभे ॥२९॥तानि यानानि सर्वाणि गृहीतानि परे तटे ।दूतवाक्येन सा राज्ञी विषण्णा कामपीडिता ॥३०॥तत्सखी तामुवाचाथ कस्मात्त्वं परितप्यसे ।स्वलेखः प्रेष्यतां देवि शुकहस्ते यथार्थतः ॥३१॥समुद्रं लङ्घयित्वा तु शकुन्ता यान्ति सुन्दरि ।सखिवाक्येन सा राज्ञी स्वस्था जाता नराधिप ॥३२॥व्याहृतो लेखकस्तत्र लिख लेखं ममाज्ञया ।त्वद्धीना सत्यभामाद्य वसो राजन्न जीवति ॥३३॥ऋतुकालोऽद्य संजातो लिख लेखं तु लेखकं ।लिखिते भूर्जपत्रे तु लेखे वै लेखकेन तु ॥३४॥शुकः पञ्जरमध्यस्थ आनीतोद्धैव सन्निधौ ॥३५॥सत्यभामोवाच -नीत्वा लेखं गच्छ शीघ्रं वसुराज्ञः समीपतः ।शकुनिः प्रणतो भूत्वा गृहीत्वा लेखमुत्तमम् ॥३६॥उत्पत्य सहसा राजञ्जगामाकाशमण्डलम् ।ततः पक्षी गतः शीघ्रं वसुराजसमीपतः ॥३७॥क्षिप्ते लेखे शुकेनैव सत्यभामाविसर्जिते ।वसुराज्ञा ततो लेखो गृह्य हस्तेऽवधारितः ॥३८॥लेखार्थं चिन्तयित्वा तु गृह्य वीर्यं नरेश्वरः ।अमोघं पुटिकां कृत्वा प्रतिलेखेन मिश्रितम् ॥३९॥शुकस्य सोऽपयामास गच्छ राज्ञीसमीपतः ।प्रणम्य वसुराजानं बीजं गृह्योत्पपात ह ॥४०॥समुद्रोपरि सम्प्राप्तः शुकः श्येनेन वीक्षितः ।सामिषं तं शुकं ज्ञात्वा श्येनस्तमभ्यधावत ॥४१॥हतश्चञ्चुप्रहारेण शुकः श्येनेन भारत ।मूर्च्छया तस्य तद्बीजं पतितं सागराम्भसि ॥४२॥मत्स्येन गिलितं तच्च बीजं वसुमहीपतेः ।कन्या मत्स्योदरे जाता तेन बीजेन सुन्दरि ॥४३॥प्राप्तोऽसौ लुब्धकैर्मत्स्य आनीतः स्वगृहं ततः ।यावद्विदारितो मत्स्यस्तावद्दृष्टा त्वमुत्तमे ॥४४॥शशिमण्डलसङ्काशा सूर्यतेजःसमप्रभा ।दृष्ट्वा त्वां हर्षिताः सर्वे कैवर्ता जाह्नवीतटे ॥४५॥हर्षितास्ते गताः सर्वे प्रधानस्य च मन्दिरम् ।स्त्रीरत्नं कथयामासुर्गृहाण त्वं महाप्रभम् ॥४६॥गृहीता तेन तन्वङ्गी ह्यपुत्रेण मृगेक्षणा ।भार्यां स्वामाह तन्वङ्गि पालयस्व मृगेक्षणे ॥४७॥ततः सा चिन्तयामास पराशरवचस्तदा ।एवमुक्त्वा तु सा तेन दत्तात्मानं नरेश्वर ॥४८॥उवाच साधु मे ब्रह्मन्मत्स्यगन्धोऽनु वर्तते ।ततस्तेन तु सा बाला दिव्यगन्धाधिवासिता ॥४९॥कृता योगबलेनैव ज्वालयित्वा विभावसुम् ।कृत्वा प्रदक्षिणं वह्निमूढा तेन रसात्तदा ॥५०॥जलयानस्य मध्ये तु कामस्थानान्यसंस्पृशत् ।ज्ञात्वा कामोत्सुकं विप्रं भीता सा धर्मनन्दन ॥५१॥हसन्ती तमुवाचाथ देव त्वं लोकसन्निधौ ।न लज्जसे कथं धीमन्कुर्वाणः पामरोचितम् ॥५२॥ततस्तेन क्षणं ध्यात्वा संस्मृता हृदि तामसी ।आगता तामसी माया यया व्याप्तं चराचरम् ॥५३॥ततः सा विस्मिता तेन कर्मणैव तु रञ्जिता ।ब्रह्मचर्याभितप्तेन स्त्रीसौख्यं क्रीडितं तदा ॥५४॥ततः सा तत्क्षणादेव गर्भभारेण पीडिता ।प्रसूता बालकं तत्र जटिलं दण्डधारिणम् ॥५५॥कमण्डलुधरं शान्तं मेखलाकटिभूषितम् ।उत्तरीयकृतस्कन्धं विष्णुमायाविवर्जितम् ॥५६॥ततोऽपि शङ्किता पार्थ दृष्ट्वा तं कलबालकम् ।वेपमाना ततो बाला जगाम शरणं मुनेः ॥५७॥रक्ष रक्ष मुनिश्रेष्ठ पराशर महामते ।जातं मेऽत्यद्भुतं पुत्रं कौपीनवरमेखलम् ।दण्डहस्तं जटायुक्तमुत्तरीयविभूषितम् ॥५८॥पराशर उवाच -मा भैषीः स्वसुते जाते कुमारी त्वं भविष्यसि ।नाम्ना योजनगन्धेति द्वितीयं सत्यवत्यपि ॥५९॥शंतनुर्नाम राजा यः स ते भर्ता भविष्यति ।प्रथमा महिषी तस्य सोमवंशविभूषणा ॥६०॥गच्छ त्वं स्वाश्रयं शुभ्रे पूर्वरूपेण संस्थिता ।मा विषादं कुरुष्वात्र दृष्टं ज्ञानस्य मे बलम् ॥६१॥इत्युक्त्वा प्रययौ विप्रः सा बाला पुत्रमाश्रिता ।नत्वोचे मातरं भक्त्या साष्टाङ्गं विनयानतः ॥६२॥क्षम्यतां मातरुक्तं मे प्रसादः क्रियतामपि ।ईश्वराराधने यत्नं करिष्याम्यहमम्बिके ॥६३॥ततः सा पुत्रवाक्येन विषण्णा वाक्यमब्रवीत् ॥६४॥योजनगन्धोवाच -मा त्यक्त्वा गच्छ वत्साद्य मातरं मामनागसम् ।त्वद्वियोगेन मे पुत्र पञ्चत्वं भाव्यसंशयम् ॥६५॥नास्ति पुत्रसमः स्नेहो नास्ति भ्रातृसमं कुलम् ।नास्ति सत्यपरो धर्मो नानृतात्पातकं परम् ॥६६॥बालभावे मया जात आधारः किल जायसे ।न मे भर्ता न मे पुत्रः पश्य कर्मविडम्बनम् ॥६७॥व्यास उवाच -मा विषादं कुरुष्वान्तः सत्यमेतन्मयोरितम् ।आपत्कालेऽस्मि ते देवि स्मर्तव्यः कार्यसिद्धये ॥६८॥आपदस्तारयिष्यामि क्षम्यतां मे दुरुत्तरम् ।इत्युक्त्वा प्रययौ व्यासः कन्या सापि गता गृहम् ॥६९॥पराशरसुतस्तत्र विषष्णो वनमध्यतः ।त्रेतायुगावसाने तु द्वापरादौ नरेश्वर ॥७०॥व्यासार्थं चिन्तयामासुर्देवाः शक्रपुरोगमाः ।आख्यातो नारदेनैव पुत्रः पराशरस्य सः ॥७१॥कैवर्तपुत्रिकाजातो ज्ञानी जह्नुसुतातटे ।ततो नारदवाक्येन आगताः सुरसत्तमाः ॥७२॥रामः पितामहः शक्रो मुनिसङ्घैः समावृताः ।आस्यादिकं पृथग्दत्त्वा साधु साध्वित्युदीरयन् ॥७३॥पितामहेन वै बालो गर्भाधानादिसंस्कृतः ।द्वीपायनो द्वीपजन्मा पाराशर्यः पराशरात् ॥७४॥कृष्णांशात्कृष्णनामायं व्यासो वेदान्व्यसिष्यति ।विरञ्चिनाभिषिक्तोऽसौ मुनिसङ्घैः पुनःपुनः ॥७५॥व्यासस्त्वं सर्वलोकेषु इत्युक्त्वा प्रययुः सुराः ।तीर्थयात्रा समारब्धा कृष्णद्वैपायनेन तु ॥७६॥गङ्गावगाहिता तेन केदारश्च सपुष्करः ।गया च नैमिषं तीर्थं कुरुक्षेत्रं सरस्वती ॥७७॥उज्जयिन्यां महाकालं सोमनाथं प्रभासके ।पृथिव्यां सागरान्तायां स्नात्वा यातो महामुनिः ॥७८॥अमृतां नर्मदां प्राप्तो रुद्रदेहोद्भवां शुभाम् ।साह्लादो नर्मदां दृष्ट्वा चित्तविश्रान्तिमाप च ॥७९॥तपश्चचार विपुलं नर्मदातटमाश्रितः ।ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ॥८०॥सार्द्रवासाश्च हेमन्ते तिष्ठन्दध्यौ महेश्वरम् ।स्वान्तर्हृत्कमले स्थाप्य ध्यायते परमेश्वरम् ॥८१॥सृष्टिसंहारकर्तारमछेद्यं वरदं शुभम् ।नित्यं सिद्धेश्वरं लिङ्गं पूजयेद्ध्यानतत्परः ॥८२॥अर्चनात्सिद्धलिङ्गस्य ध्यानयोगप्रभावतः ।प्रत्यक्षः शङ्करो जातः कृष्णद्वैपायनस्य सः ॥८३॥ईश्वर उवाच -तोषितोऽहं त्वया वत्स वरं वरय शोभनम् ॥८४॥व्यास उवाच -यदि तुष्टोऽसि मे देव यदि देयो वरो मम ।प्रत्यक्षो नर्मदातीरे स्वयमेव भविष्यसि ।अतीतानागतज्ञोऽहं त्वत्प्रसादादुमापते ॥८५॥ईश्वर उवाच -एवं भवतु ते पुत्र मत्प्रसादादसंशयम् ।त्वयि भक्तिगृहीतोऽहं प्रत्यक्षो नर्मदातटे ॥८६॥सहस्रांशार्धभावेन प्रत्यक्षोऽहं त्वदाश्रमे ।इत्युक्त्वा प्रययौ देवः कैलासं नगमुत्तमम् ॥८७॥पत्नीसंग्रहणं जातं कृष्णद्वैपायनस्य तु ।शास्त्रोक्तेन विधानेन पत्नी पालयतस्तथा ॥८८॥पुत्रो जातो ह्यपुत्रस्य पराशरसुतस्य च ।देवैर्वर्धापितः सर्वैरिञ्चेन्द्रपुरोगमैः ॥८९॥पुत्रजन्मन्यथाजग्मुर्वशिष्ठाद्या मुनीश्वराः ।तीर्थयात्राप्रसङ्गेन पराशरपुरोगमाः ॥९०॥मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः ।यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥९१॥एवमादिसहस्राणि लक्षकोटिशतानि च ।सशिष्याश्च महाभागा नर्मदातटमाश्रिताः ॥९२॥व्यासाश्रमे शुभे रम्ये संतुष्टा आययुर्नृप ।दृष्ट्वा तान्सोऽपि विप्रेन्द्रानभ्युत्थानकृतोद्यमः ॥९३॥पितुः पूर्वं प्रणम्यादौ सर्वेषां च यथाविधि ।आसनानि ददौ भक्त्या पाद्यमर्घं न्यवेदयत् ॥९४॥कृताञ्जलिपुटो भूत्वा वाक्यमेतदुवाच ह ।उद्धृतोऽहं न सन्देहो युष्मत्सम्भाषणार्चनात् ॥९५॥आरण्यानि च शाकानि फलान्यारण्यजानि च ।तानि दास्यामि युष्माकं सर्वेषां प्रीतिपूर्वकम् ॥९६॥न्यमन्त्रयत तान्सर्वान्प्रत्येकं प्रणिपत्य च ।ततस्ते प्रणतं दृष्ट्वा कृष्णद्वैपायनं मुनिम् ॥९७॥वर्धयित्वा जयाशीर्भिरवलोक्य परस्परम् ।पराशरः समस्तैश्च वीक्षितो मुनिपुंगवैः ॥९८॥उत्तरं दीयतां तात कृष्णद्वैपायनस्य च ।एवमुक्तस्तु तैः सर्वैर्भगवान्स पराशरः ।प्रोवाच स्वात्मजं व्यासमृषीणां यच्चिकीर्षितम् ॥९९॥श्रीपराशर उवाच -नेच्छन्ति दक्षिणे कूले व्रतभङ्गभयादथ ।भोजनं भोक्तुकामास्ते श्राद्धे चैव विशेषतः ॥१००॥व्यास उवाच -करोमि भवतामुक्तमत्रैव स्थीयतां क्षणम् ।यावत्प्रसाद्य सरितं करोमि विधिमुत्तमम् ॥१०१॥एवमुक्त्वा शुचिर्भूत्वा नर्मदातटमास्थितः ।स्तोत्रं जगाद सहसा तन्निबोध नरेश्वर ॥१०२॥जय भगवति देवि नमो वरदे जय पापविनाशिनी बहुफलदे ।जय शुम्भनिशुम्भकपालधरे प्रणमामि तु देवनरार्तिहरे ॥१०३॥जय चन्द्रदिवाकरनेत्रधरे जय पावकभूषितवक्त्रवरे ।जय भैरवदेहनिलीनपरे जय अन्धकरक्तविशोषकरे ॥१०४॥जय महिषविमर्दिनि शूलकरे जय लोकसमस्तकपापहरे ।जय देवि पितामहरामनते जय भास्करशक्रशिरोऽवनते ॥१०५॥जय षण्मुखसायुध ईशनुते जय सागरगामिनि शम्भुनुते ।जय दुःखदरिद्रविनाशकरे जय पुत्रकलत्रविवृद्धिकरे ॥१०६॥जय देवि समस्तशरीरधरे जय नाकविदर्शिनि दुःखहरे ।जय व्याधिविनाशिनि मोक्षकरे जय वाञ्छितदायिनि सिद्धवरे ॥१०७॥एतद्व्यासकृतं स्तोत्रं यः पठेच्छिवसन्निधौ ।गृहे वा शुद्धभावेन कामक्रोधविवर्जितः ॥१०८॥तस्य व्यासो भवेत्प्रीतः प्रीतश्च वृषवाहनः ।प्रीता स्यान्नर्मदा देवी सर्वपापक्षयंकरी ॥१०९॥न ते यान्ति यमालोकं यैः स्तुता भुवि नर्मदा ।पितामहोऽपि मुह्येत देवि त्वद्गुणकीर्तनात् ॥११०॥वाक्पतिर्नैव ते वक्तुं स्वरूपं वेद नर्मदे ।कथं गुणानहं देवि त्वदीयाञ्ज्ञातुमुत्सहे ॥१११॥इति ज्ञात्वा शुचिं भावं वाङ्मनःकायकर्मभिः ।प्रसन्ना नर्मदादेवी ततो वचनमब्रवीत् ॥११२॥सत्यवादेन तुष्टाहं भोभो व्यास महामुने ।यदीच्छसि वरं किंचित्तं ते सर्वं ददाम्यहम् ॥११३॥व्यास उवाच -यदि तुष्टासि मे देवि यदि देयो वरो मम ।आतिथ्यमुत्तरे कूले ऋषीणां दातुमर्हसि ॥११४॥नर्मदोवाच -अयुक्तं याचितं व्यास विमार्गे यत्प्रवर्तनम् ।इन्द्रचन्द्रयमैः शक्यमुन्मार्गे न प्रवर्तितुम् ॥११५॥याचस्वान्यं वरं पुत्र यत्किंचिद्भुवि दुर्लभम् ।एतच्छ्रुत्वा वचो देव्या व्यासो मूर्च्छां यतस्तदा ॥११६॥वृथा क्लेशोऽद्य मे जात इति मत्वा पपात ह ।धरणी चलिता सर्वा सशैलवनकानना ॥११७॥मूर्च्छापन्नं ततो व्यासं दृष्ट्वा देवाः सवासवाः ।हाहाकारमुखाः सर्वे तत्राजग्मुः सहस्रशः ॥११८॥व्यासमुत्थापयामासुर्वेदव्यसनतत्परम् ।ब्राह्मणार्थे च संक्लिष्टो नात्महेतोः सरिद्वरे ॥११९॥गवार्थे ब्राह्मणार्थे च सद्यः प्राणान्परित्यजेत् ।एवं सा नर्मदा प्रोक्ता ब्रह्माद्यैः सुरसत्तमैः ॥१२०॥सुशीतलैस्तं बहुभिश्च वातैर्रेवाभ्यषिञ्चत्स्वजलेन भीता ।सचेतनः सत्यवतीसुतोऽपि प्रणम्य देवान्सरितं जगाद ॥१२१॥व्यास उवाच -तीर्थैः समस्तैः किल सेवनाय फलं प्रदिष्टं मम मन्दभाग्यात् ।यद्देवि पुण्या विफला ममाशा आरण्यपुष्पाणि यथा जनानाम् ॥१२२॥नर्मदोवाच -यतो यतो मां हि महानुभाव निनीषते चित्तमिलातलेऽत्र ।विन्ध्येन सार्द्धं तव मार्गमद्य यास्याम्यहं दण्डधरस्य पृष्ठे ॥१२३॥एवमुक्तो महातेजा व्यासः सत्यवतीसुतः ।दक्षिणे चालयामास स्वाश्रमस्य सरिद्वराम् ॥१२४॥दण्डहस्तो महातेजा हुङ्कारमकरोन्मुनिः ।व्यासहुङ्कारभीता सा चलिता रुद्रनन्दिनी ॥१२५॥दण्डेन दर्शयन्मार्गं देवी तत्र प्रवर्तिता ।व्यासमार्गं गता देवी दृष्टा शक्रपुरोगमैः ॥१२६॥पुष्पवृष्टिं ततो देवा व्यमुञ्चन् सह किंकरैः ।किं कुर्मो ब्रूहि मे पुत्र कर्मणा ते स्म रञ्जिताः ॥१२७॥व्यास उवाच -तपश्च विपुलं कृत्वा दानं दत्त्वा महाफलम् ।एतदेव नरैः कार्यं साधूनां यत्सुखावहम् ॥१२८॥यदि तुष्टा महाभागा अनुग्राह्यो ह्यहं यदि ।तस्मान्ममाश्रमे सर्वैः स्थीयतां नात्र संशयः ॥१२९॥आतिथ्यं शाकपर्णेन रेवामृतविमिश्रितम् ।प्रतिपन्नं समस्तैर्वः पराशरमुखैर्मम ।स्थातव्यं स्वाश्रमे सर्वैर्रेवाया उत्तरे तटे ॥१३०॥मार्कण्डेय उवाच -स्नानतर्पणनित्यानि कृतानि द्विजसत्तमैः ।व्यासकुण्डे ततो गत्वा होमः सर्वैः प्रकल्पितः ॥१३१॥श्रीफलैर्बिल्वपत्रैश्च जुहुवुर्जातवेदसम् ।गौतमो भृगुर्माण्डव्यो नारदो लोमशस्तथा ॥१३२॥पराशरस्तथा शङ्खः कौशिकश्च्यवनो मुनिः ।पिप्पलादो वसिष्ठश्च नाचिकेतो महातपाः ॥१३३॥विश्वामित्रोऽप्यगस्त्यश्च उद्दालकयमौ तथा ।शाण्डिल्यो जैमिनिः कण्वो याज्ञवल्क्योशनोऽङ्गिराः ॥१३४॥शातातपो दधीचिश्च कपिलो गालवस्तथा ।जैगीषव्यस्तथा दक्षो भरतो मुद्गलस्तथा ॥१३५॥वात्स्यायनो महातेजाः संवर्तः शक्तिरेव च ।जातूकर्ण्यो भरद्वाजो वालखिल्यारुणिस्तथा ॥१३६॥एवमादिसहस्राणि जुह्वते जातवेदसम् ।अक्षमालाकरोत्कीर्णा ध्यानयोगपरायणाः ॥१३७॥एकचित्ता द्विजाः सर्वे चक्रुर्होमक्रियां तदा ।ततः समुत्थितं लिङ्गं मोक्षदं व्याधिनाशनम् ॥१३८॥अच्छेद्यं परमं देवं दृष्ट्वा व्यासस्तुतोष च ।पुष्पवृष्टिं ददुर्देवा आशीर्वादान्द्विजोत्तमाः ॥१३९॥साष्टाङ्गं प्रणतो व्यासो देवं दृष्ट्वा त्रिलोचनम् ।ब्राह्मणान्पूजयामास शाकमूलफलेन च ॥१४०॥पितृपूर्वं द्विजाः सर्वे भोजिताः पाण्डुनन्दन ।आशीर्वादांस्ततः पुण्यान् दत्त्वा विप्रा ययुः पुनः ॥१४१॥तदा प्रभृति तत्तीर्थं व्यासाख्यं प्रोच्यते बुधैः ॥१४२॥युधिष्ठिर उवाच -व्यासतीर्थस्य यत्पुण्यं तत्सर्वं कथयस्व मे ।स्नानदानविधानं च यस्मिन्काले महाफलम् ॥१४३॥श्रीमार्कण्डेय उवाच -कथयामि समस्तं ते भ्रातृभिः सह पाण्डव ।कार्त्तिकस्य सिते पक्षे चतुर्दश्यां जितेन्द्रियः ॥१४४॥उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम् ।स्नापयेदीश्वरं भक्त्या क्षौद्रक्षीरेण सर्पिषा ॥१४५॥दध्ना च खण्डयुक्तेन कुशतोयेन वै पुनः ।श्रीखण्डेन सुगन्धेन गुण्ठयेत्परमेश्वरम् ॥१४६॥ततः सुगन्धकुसुमैर्बिल्वपत्रैश्च पूजयेत् ।मुचुकुन्देन कुन्देन कुशजातीप्रसूनकैः ॥१४७॥उन्मत्तमुनिपुष्पैश्च तथान्यैः कालसम्भवैः ।अर्चयेत्परया भक्त्या द्वीपेश्वरमनुत्तमम् ॥१४८॥इक्षुगडुकदानेन तुष्यते परमेश्वरः ।गडुकाष्टकदानेन पातकं यात्यहोर्जितम् ॥१४९॥मासर्जितं च नश्येत गडुकाष्टशतेन च ।षाण्मासिकं सहस्रेण द्विगुणैरब्दिकं तथा ॥१५०॥आजन्मजनितं पापमयुतेन प्रणश्यति ।द्विगुणैर्नश्यते व्याधिस्त्रिगुणैः स्याद्धनागमः ॥१५१॥षड्गुणैर्जायते वाग्मी सिद्धस्तद्द्विगुणैस्तथा ।रुद्रत्वं दशलक्षैश्च जायते नात्र संशयः ॥१५२॥पौर्णमास्यां नृपश्रेष्ठ स्नानं कुर्वीत भक्तितः ।मन्त्रोक्तेन विधानेन सर्वपापक्षयंकरम् ॥१५३॥वारुणं च तथाग्नेयं ब्राह्मयं चैवाक्षयंकरम् ।देवान्पित्ःन्मनुष्यांश्च विधिवत्तर्पयेद्बुधः ॥१५४॥ऋचा ऋग्वेदजं पुण्यं साम्ना सामफलं लभेत् ।यजुर्वेदस्य यजुषा गायत्र्या सर्वमाप्नुयात् ॥१५५॥अक्षरं च जपेन्मन्त्रं सौरं वा शिवदैवतम् ।अथवा वैष्णवं मन्त्रं द्वादशाक्षरसंज्ञितम् ॥१५६॥पूजयेद्ब्राह्मणान्भक्त्या सर्वलक्षणलक्षितान् ।स्वदारनिरतान्विप्रान्दम्भलोभविवर्जितान् ॥१५७॥भिन्नवृत्तिकरान् पापान् पतिताञ्छूद्रसेवनान् ।शूद्रीग्रहणसंयुक्तान्वृषली यस्य मन्दिरे ॥१५८॥परोक्षवादिनो दुष्टान्गुरुनिन्दापरायणान् ।वेदद्वेषणशीलांश्च हैतुकान् बकवृत्तिकान् ॥१५९॥ईदृशान्वर्जयेच्छ्राद्धे दाने सर्वव्रतेषु च ।गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः ॥१६०॥नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ।ईदृशान्पूजयेद्विप्रानन्नदानहिरण्यतः ॥१६१॥उपानहौ च वस्त्राणि शय्यां छत्रमथासनम् ।यो दद्याद्ब्राह्मणे भक्त्या सोऽपि स्वर्गे महीयते ॥१६२॥प्रत्यक्षा सुरभी तत्र जलधेनुस्तथाघृता ।तिलधेनुः प्रदातव्या महिष्यश्च तथैव च ॥१६३॥कृष्णाजिनप्रदाता यो दाता यस्तिलसर्पिषोः ।कन्यापुस्तकयोर्दाता सोऽक्षयं लोकमाप्नुयात् ॥१६४॥धूर्वाहौ खुरसंयुक्तौ धान्योपस्करसंयुतौ ।दापयेत्स्वर्गकामस्तु इति मे सत्यभाषितम् ॥१६५॥सूत्रेण वेष्टयेद्द्वीपमथवा जगतीं शुभम् ।मन्दिरं परया भक्त्या परमेशमथापि वा ॥१६६॥प्रदक्षिणां विधानेन यः करोत्यत्र मानवः ।जम्बूप्लाक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो नृप ॥१६७॥कुशः क्रौञ्चस्तथा काशः पुष्करश्चैव सप्तमः ।सप्तसागरपर्यन्ता वेष्टिता तेन भारत ॥१६८॥द्वीपेश्वरे महाराज वृषोत्सर्गं च कारयेत् ।वृषेणारुणवर्णेन माहेशं लोकमाप्नुयात् ॥१६९॥यस्तु वै पाण्डुरो वक्त्रे ललाटे पादयोस्तथा ।लाङ्गूले यस्तु वै शुभ्रः स वै नाकस्य दर्शकः ॥१७०॥नीलोऽयमीदृशः प्रोक्तो यस्तु द्वीपेश्वरे त्यजेत् ।स समाः रोमसंख्याता नाके वसति भारत ॥१७१॥सौरं च शांकरं लोकं वैरञ्चं वैष्णवं क्रमात् ।भुनक्ति स्वेच्छया राजन्व्यासतीर्थप्रभावतः ॥१७२॥सपत्नीकं ततो विप्रं पूजयेत्तत्र भक्तितः ।सितरक्तानि वस्त्राणि यो दद्यादग्रजन्मने ॥१७३॥कृत्वा प्रदक्षिणं युग्मं प्रीयतां मे जगद्गुरुः ।नास्ति विप्रसमो बन्धुरिह लोके परत्र च ॥१७४॥यमलोके महाघोरे पतन्तं योऽभिरक्षति ।इतिहासपुराणज्ञं विष्णुभक्तं जितेन्द्रियम् ॥१७५॥पूजयेत्परया भक्त्या सामगं वा विशेषतः ।द्वीपेश्वरं च ये भक्त्या संस्मरन्ति गृहे स्थिताः ॥१७६॥न तेषां जायते शोको न हानिर्न च दुष्कृतम् ।प्रथमं पूजयेत्तत्र लिङ्गं सिद्धेश्वरं ततः ॥१७७॥यत्र सिद्धो महाभागो व्यासः सत्यवतीसुतः ।अस्यैव पूजनात्सिद्धो धारासर्पो महामतिः ॥१७८॥तत्र तीर्थे तु यो राजन्प्राणत्यागं करोति च ।सूर्यलोकमसौ भित्त्वा प्रयाति शिवसन्निधौ ॥१७९॥समाः सहस्राणि च सप्त वै जले दशैकमग्नौ पतने च षोडश ।महाहवे षष्टिरशीति गोग्रहे ह्यनाशके भारत चाक्षया गतिः ॥१८०॥पिता पितामहश्चैव तथैव प्रपितामहः ।वायुभूतं निरीक्षन्ते ह्यागच्छन्तं स्वगोत्रजम् ॥१८१॥अस्मद्गोत्रेऽस्ति कः पुत्रो यो नो दद्यात्तिलोदकम् ।कार्त्तिक्यां च विशेषेण वेशाख्यां वा तथैव च ॥१८२॥स्वर्गतिं च प्रयास्यामस्तत्र तीर्थोपसेवनात् ।एतत्ते कथितं सर्वं द्वीपेश्वरमनुत्तमम् ॥१८३॥यः पठेत्परया भक्त्या शृणुयात्तद्गतो नृप ।सोऽपि पापविनिर्मुक्तो मोदते शिवमन्दिरे ॥१८४॥ऊषरं सर्वतीर्थानां निर्मितं मुनिपुंगवैः ।कामप्रदं नृपश्रेष्ठ व्यासतीर्थं न संशयः ॥१८५॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे व्यासतीर्थमाहात्म्यवर्णनं नाम सप्तनवतितमोऽध्यायः ॥ N/A References : N/A Last Updated : December 12, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP