संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय १७२ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय १७२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १७२ Translation - भाषांतर श्रीमार्कण्डेय उवाच -अथ ते ऋषयः सर्वे देवाश्चेन्द्रपुरोगमाः ।माण्डव्यस्याश्रमे पुण्ये समीयुर्नर्मदातटे ॥१॥शङ्खदुन्दुभिनादेन दीपिकाज्वलनेन च ।अप्सरोगीतनादेन नृत्यन्त्यो वारयोषितः ॥२॥कथानकैः स्तुवत्यन्ये तस्य शूलाग्रधारिणः ।अष्टाशीतिसहस्राणि स्नातकानां तपस्विनाम् ॥३॥समाजे त्रिदशैः सार्द्धं तत्र ते च दिदृक्षया ।ब्रह्मविष्णुमहेशानास्तत्र हर्षात्समागताः ॥४॥मातरो मल्लिकाद्याश्च क्षेत्रपाला विनायकाः ।दिक्पाला लोकपालाश्च गङ्गाद्याश्च सरिद्वराः ॥५॥ऋषिदेवसमाजे तु नित्यं हर्षप्रमोदने ।तत्र राजा समायातः पौरजानपदैः सह ॥६॥दृष्ट्वा कौतूहलं तत्र व्याकुलीकृतमानसम् ।वित्रस्तमनसो भूत्वा भयात्सर्वे समास्थिताः ॥७॥तस्मिन्समागमे दिव्ये ब्रह्मविष्ण्वीशमब्रुवन् ।भो माण्डव्य महासत्त्व वरदास्तेऽमरैः सह ॥८॥अनेककष्टतपसा तव सिद्धिर्भविष्यति ।प्रार्थयस्व यथाकामं यस्ते मनसि रोचते ॥९॥अनादित्यमयं लोकं निर्वषट्कारमाकुलम् ।नष्टधर्मं विजानीहि प्रकृतिस्थं कुरुष्व च ।अनुग्रहं तु शाण्डिल्याः प्रार्थयाम द्विजोत्तम ॥१०॥एष ते कष्टदो राजा समायातस्तवाग्रतः ।संभूषयस्व विप्रर्षे जनं देवासुरं गणम् ॥११॥माण्डव्य उवाच -यदि प्रसन्ना मे देवाः समायाताः सुरैः सह ।त्रिकालमत्र तीर्थे च स्थातव्यमृषिभिः सह ॥१२॥भवतां तु प्रसादेन रुजा मे शाम्यतां सदा ।एवमस्त्विति देवेशा यावज्जल्पन्ति पाण्डव ॥१३॥तावद्रक्षो गृहीत्वाऽग्रे कन्यां कामप्रमोदिनीम् ।उवाच भगवञ्छापं पुरा दत्त्वोर्वशी मम ॥१४॥यदा कन्यां हरे रक्षःशापान्तस्ते भविष्यति ।तेन मे गर्हितं कर्म शापेनाकृतबुद्धिना ॥१५॥क्षन्तव्यमिति चोक्त्वा च गतश्चादर्शनं पुनः ।गते चैव तु सा कन्या दृष्ट्वा पद्मदलेक्षणा ॥१६॥मन्त्रयित्वा सुरैः सर्वैर्दत्ता माण्डव्यधीमते ।तां वज्रशूलिकां प्लाव्य पवित्रैर्नर्मदोदकैः ॥१७॥माण्डव्यमृषिमुत्तार्य जयशब्दादिमङ्गलैः ।विवाहयित्वा तां कन्यां माण्डव्यर्षिपुंगवः ॥१८॥अभिवाद्य च तान् सर्वान् दानसन्मानगौरवैः ।अथ राजा समीपस्थो रत्नैश्च विविधैरपि ॥१९॥धिग्वादैर्निन्दितः सर्वैस्तैर्जनैर्भूषितः पुनः ।राज्ञा च ब्राह्मणाः सर्वे भूषणाच्छादनाशनैः ॥२०॥सुवर्णकोटिदानेन तुष्टान्कृत्वा क्षमापिताः ।वृत्ते विवाह आहूय शाण्डिलीं तामथाब्रवीत् ॥२१॥मानयस्व इमान् विप्रान्मोचयस्व दिवाकरम् ।अपहृत्य तमो येन कृपा सद्यः प्रवर्तते ॥२२॥ऋषीणां वचनं श्रुत्वा शाण्डिली दुःखिताब्रवीत् ।उदितेऽर्के तु मे भर्ता मृत्युं यास्यति भो द्विजाः ॥२३॥तं कथं मोचयामीह ह्यात्मनोऽनिष्टसिद्धये ।क्रियाप्रवर्तनाच्चाद्य किं कार्यं मे महर्षयः ॥२४॥निःपुंसी स्त्री ह्यनाथाहं भवामि भवतो मतम् ।तिष्ठ त्वमन्धकारे तु नेच्छामि रविणोदयम् ॥२५॥तेन वाक्येन ते सर्वे देवासुरमहर्षयः ।शिरःसंचालनाः सर्वे साधु साध्विति चाब्रुवन् ॥२६॥पतिव्रते महाभागे शृणु वाक्यं तपोधने ।मन्यसे यदि नः सर्वान्कुरुष्व वचनं च यत् ॥२७॥शाण्डिल्युवाच -येन मे न मरेद्भर्ता येन सत्यं मुनेर्वचः ।तत्कुरुध्वं विचार्याशु येन संवर्धते सुखम् ॥२८॥तस्यास्तद्वचनं श्रुत्वा स्वप्नावस्थाकृतो हृषिः ।अन्तर्हितो मुहूर्तं च शाण्डिल्याश्च प्रपश्य ताम् ॥२९॥पुनरादाय ते सर्वे कृत्वा निर्व्रणसत्तनुं स्नापितो नर्मदातोये शाण्डिल्यायै समर्पितः ॥३०॥ततः सा हृष्टमनसा पतिं दृष्ट्वा तु तैजसम् ।प्रणम्य तानृषीन् देवान् विमलार्कं जगत्कृतम् ॥३१॥क्रियाप्रवर्तिताः सर्वे देवगन्धर्वमानुषाः ।हृष्टतुष्टा गताः सर्वे स्वमाश्रमपदं महत् ॥३२॥पतिव्रता स्वभर्त्रा सा मासमेवाश्रमे स्थिता ।माण्डव्येनाप्यनुज्ञाता ययौ नत्वा स्वमाश्रमम् ॥३३॥गतेषु तेषु सर्वेषु स्थापयामास चाच्युतम् ।माण्डव्येश्वरनामानं नारायण इति स्मृतम् ॥३४॥दिव्यं वर्षसहस्रं तु पूजयामास भारत ।गतोऽसावृषिसङ्घैश्च सहितोऽमरपर्वतम् ॥३५॥तपस्तपन्तौ तौ तत्र ह्यद्यापि किल भारत ।भ्रातरौ संयतात्मानौ ध्यायतः परमं पदम् ॥३६॥तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।पितरस्तस्य तृप्यन्ति पिण्डदानाद्दशाब्दिकम् ॥३७॥देवगृहे तु पक्षादौ यः करोति विलेपनम् ।गोदानशतसाहस्रे दत्ते भवति यत्फलम् ॥३८॥उपलेपनेन द्विगुणमर्चने तु चतुर्गुणम् ।दीपप्रज्वलने पुण्यमष्टधा परिकीर्तितम् ॥३९॥दिव्यनेत्रधरो भूत्वा त्रैलोक्ये सचराचरे ।दध्ना मधुघृतैर्देवं पयसा नर्मदोदकैः ॥४०॥स्नपनं ये प्रकुर्वन्ति पुष्पमालाविलेपनैः ।येऽर्चयन्ति विरूपाक्षं देवं नारायणं हरिम् ॥४१॥तेऽपि दिव्यविमानेन क्रीडन्ते कल्पसंख्यया ।दीपाष्टकं तु यः कुर्यादष्टमीं च चतुर्दशीम् ॥४२॥एकादश्यां तु कृष्णस्य न पश्यन्ति यमं तु ते ।फलैर्नानाविधैः शुभ्रैर्यः कुर्याल्लिङ्गपूरणम् ॥४३॥तेऽपि यान्ति विमानेन सिद्धचारणसेविताः ।घण्टा चैव पताका च विमाने पुष्पमालिका ॥४४॥वादित्राणि यथार्हाणि प्रान्ते च गच्छते शिवम् ।देवालयं तु यः कुर्याद्वैष्णवं माण्डवेश्वरम् ॥४५॥स्वर्गे वसति धर्मात्मा यावदाभूतसम्प्लवम् ।माण्डव्यनारायणाख्ये विप्रान् भोजयतेऽग्रतः ॥४६॥एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ।आश्विने मासि सम्प्राप्ते शुक्लपक्षे चतुर्दशीम् ॥४७॥कृतोपवासनियमो रात्रौ जागरणेन च ।दीपमालां चतुर्दिक्षु पूजां कृत्वा तु शक्तितः ॥४८॥नारी वा पुरुषो वापि नृत्यगीतप्रवादनैः ।प्रभाते विमले सूर्ये स्नानादिकविधिं नृप ॥४९॥अभिनिर्वर्त्य मौनेन पश्यते देवमीदृशम् ।सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ॥५०॥अथवा मार्गशीर्षे च चैत्रवैशाखयोरपि ।श्रावणे वा महाराज सर्वकालेऽथवापि च ॥५१॥शिवरात्रिसमं पुण्यमित्येवं शिवभाषितम् ।वाजपेयाश्वमेधाभ्यां फलं भवति नान्यथा ॥५२॥दुर्भगा दुःखिता वन्ध्या दरिद्रा च मृतप्रजा ।स्नाति रुद्रघटैर्या स्त्री सर्वान्कामानवाप्नुयात् ॥५३॥कृमिकीटपतङ्गाश्च तस्मिंस्तीर्थे तु ये मृताः ।स्वर्गं प्रयान्ति ते सर्वे दिव्यरूपधरा नृप ॥५४॥अनाशके जलेऽग्नौ तु ये मृता व्याधिपीडिताः ।अनिवर्तिका गतिस्तेषां रुद्रलोके ह्यसंशयम् ॥५५॥नित्यं नमति यो राज शिवनारायणावुभौ ।गोदानफलमाप्नोति तस्य तीर्थप्रभावतः ॥५६॥देवालये तु राजेन्द्र यश्च कुर्यात्प्रदक्षिणाम् ।प्रदक्षिणीकृता तेन ससागरधरा धरा ॥५७॥सार्द्धं शतं च तीर्थानि मल्लिकाभवनाद्बहिः ।तस्य तीर्थप्रमाणं तु विस्तरं राजसत्तम ॥५८॥सूत्रेण वेष्टयेत्क्षेत्रमथवा शिवमन्दिरम् ।अथवा शिवलिङ्गं च तस्य पुण्यफलं शृणु ॥५९॥जम्बूद्वीपश्च कृतस्नश्च शाल्मली कुशक्रौञ्चकौ ।शाकपुष्करगोमेदैः सप्तद्वीपा वसुंधरा ॥६०॥भूषिता तेन राजेन्द्र सशैलवनकानना ।रेवायां दक्षिणे भागे शिवक्षेत्रात्समीपतः ॥६१॥देवखातं महापुण्यं निर्मितं त्रिदशैरपि ।तस्मिन् यः कुरुते स्नानं मुच्यते सर्वपातकैः ॥६२॥पूर्णिमायाममावस्यां व्यतीपातेऽर्कसंक्रमे ।श्राद्धं च संग्रहे कुर्यात्स गच्छेत्परमां गतिम् ॥६३॥देवखाते त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।तिष्ठन्ति ऋषिभिः सार्द्धं पितृदेवगणैः सह ॥६४॥तत्र तीर्थेऽश्विने मासि चतुर्दश्यां विशेषतः ।वायुमार्गे स्थितः शक्रस्तिष्ठते दैवतैः सह ॥६५॥पृथिव्यां यानि तीर्थानि सरितः सागरास्तथा ।विंशति तानि सर्वाणि देवखाते दिनद्वयम् ॥६६॥गयाशिरे च यत्पुण्यं प्रयागे मकरकण्टके ।प्रयागे सोमतीर्थे च तत्पुण्यं माण्डवेश्वरे ॥६७॥पट्टबन्धेन यत्पुण्यं मात्रायां लकुलेश्वरे ।आश्विन्यामश्विनीयोगे तत्पुण्यं माण्डवेश्वरे ॥६८॥उज्जयिन्यां महाकाले वाराणस्यां त्रिपुष्करे ।संनिहत्यां रविग्रस्ते माण्डव्याख्ये सनातनम् ॥६९॥इति ज्ञात्वा महाराज सर्वतीर्थेषु चोत्तमम् ।पित्ःन्देवान् समभ्यर्च्य स्नानदानादिपूजनैः ॥७०॥चतुर्दश्यां निराहारः स्थितो भूत्वा शुचिव्रतः ।पूजयेत्परया भक्त्या रात्रौ जागरणे शिवम् ॥७१॥स्नानैश्च विविधैर्देवं पुष्पागरुविलेपनैः ।प्रभाते पौर्णमास्यां तु स्नानादिविधितर्पणैः ॥७२॥श्राद्धेन हव्यकव्येन शिवपूजार्चनेन च ।अग्निष्टोमादियज्ञैश्च विधिवच्चाप्तदक्षिणैः ॥७३॥धौतपापो विशुद्धात्मा फलते फलमुत्तमम् ।गोसहस्रप्रदानेन दत्तं भवति भारत ॥७४॥स्नानाद्यैर्विधिवत्तत्र तद्दिने शिवसन्निधौ ।हिरण्यं वृषभं धेनुं भूमिं गोमिथुनं हयम् ॥७५॥शिवमुद्दिश्य वै वस्त्रयुग्मे दद्यात्सुरूपिणे ।पादुकोपानहौ छत्रं भाजनं रक्तवाससी ॥७६॥होमं जाप्यं तथा दानमक्षयं सर्वमेव तत् ।ऋचमेकां तु ऋग्वेदे यजुर्वेदे यजुस्तथा ॥७७॥सामैकं सामवेदे तु जपेद्देवाग्रसंस्थितः ।सम्यग्वेदफलं तस्य भवेद्वै नात्र संशयः ॥७८॥गायत्रीजाप्यमात्रस्तु वेदत्रयफलं लभेत् ।कुलकोटिशतं साग्रं लभते तु शिवार्चनात् ॥७९॥स्नाने दाने तथा श्राद्धे जागरे गीतवादिते ।अनिवर्तिका गतिस्तस्य शिवलोकात्कदाचन ॥८०॥कालेन महताविष्टो मर्त्यलोके समाविशेत् ।राजा भवति मेधावी सर्वव्याधिविवर्जितः ॥८१॥जीवेद्वर्षशतं साग्रं पुत्रपौत्रधनान्वितः ।तच्च तीर्थं पुनः स्मृत्वा लीयमानो महेश्वरे ॥८२॥उपास्ते यस्तु वै सन्ध्यां तस्मिंस्तीर्थे च पर्वणि ।साङ्गोपाङ्गैश्चतुर्वेदैर्लभते फलमुत्तमम् ॥८३॥तत्र सर्वं शिवक्षेत्राच्छरपातं समन्ततः ।न संचरेद्भयोद्विग्ना ब्रह्महत्या नराधिप ॥८४॥यत्र तत्र स्थितो वृक्षान् पश्यते तीर्थतत्परः ।विविधैः पातकैर्मुक्तो मुच्यते नात्र संशयः ॥८५॥श्वभ्री तत्र महाराज जलमध्ये प्रदृश्यते ।कथानिका पुराणोक्ता वानरी तीर्थसेवनात् ॥८६॥तत्र कूपो महाराज तिष्ठते देवनिर्मितः ।शिवस्य पश्चिमे भागे शिवक्षेत्रमनुत्तमम् ॥८७॥वृषोत्सर्गं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।क्रीडन्ति पितरस्तस्य स्वर्गलोके यदृच्छया ॥८८॥अगम्यागमने पापमयाज्ययाजने कृते ।स्तेयाच्च ब्रह्मगोहत्यागुरुघाताच्च पातकम् ।तत्सर्वं नश्यते पापं वृषोत्सर्गे कृते तु वै ॥८९॥माण्डव्यतीर्थमाहात्म्यं यः शृणोति समाधिना ।मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥९०॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये माण्डव्यतीर्थमाहात्म्यवर्णनं नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥ N/A References : N/A Last Updated : December 17, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP