संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय २०२

रेवा खण्डम् - अध्याय २०२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


मार्कण्डेय उवाच -
तस्यैवानन्तरं चान्यच्छिखितीर्थमनुत्तमम् ।
प्रधानं सर्वतीर्थानां पञ्चायतनमुत्तमम् ॥१॥
तत्र तीर्थे तपस्तप्त्वा शिखार्थं हव्यवाहनः ।
शिखां प्राप्य शिखी भूत्वा शिखाख्यं स्थापयञ्छिवम् ॥२॥
प्रतिपच्छुक्लपक्षे या भवेदाश्वयुजे नृप ।
तदा तीर्थवरे गत्वा स्नात्वा वै नर्मदाजले ॥३॥
देवानृषीन् पित्ःंश्चान्यांस्तर्पयेत्तिलवारिणा ।
हिरण्यं ब्राह्मणे दद्यात्संतर्प्य च हुताशनम् ॥४॥
गन्धमाल्यैस्तथा धूपैस्ततः सम्पूजयेच्छिवम् ।
अनेन विधिनाभ्यर्च्य शिखितीर्थे महेश्वरम् ॥५॥
विमानेनार्कवर्णेन ह्यप्सरोगणसंवृतः ।
गीयमानस्तु गन्धर्वैर्रुद्रलोकं स गच्छति ॥६॥
शत्रुक्षयमवाप्नोति तेजस्वी जायते भुवि ॥७॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शिखितीर्थमाहात्म्यवर्णनं नाम द्व्यधिकद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 17, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP