संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १३३

रेवा खण्डम् - अध्याय १३३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल परं तीर्थचतुष्टयम् ।
येषां दर्शनमात्रेण सर्वपापक्षयो भवेत् ॥१॥
कौबेरं वारुणं याम्यं वायव्यं तु ततः परम् ।
यत्र सिद्धा महाप्राज्ञा लोकपाला महाबलाः ॥२॥

युधिष्ठिर उवाच -
किमर्थं लोकपालैश्च तपश्चीर्णं पुरानघ ।
नर्मदातटमाश्रित्य ह्येतन्मे वक्तुमर्हसि ॥३॥

श्रीमार्कण्डेय उवाच -
अधिष्ठानं समिच्छन्ति ह्यचलं निर्बले सति ।
संसारे सर्वभूतानां तृणबिन्दुवदस्थिरे ॥४॥
कदलीसारनिःसारे मृगतृष्णेव चञ्चले ।
स्थावरे जङ्गमे सर्वे भूतग्रामे चतुर्विधे ॥५॥
धर्मो माता पिता धर्मो धर्मो बन्धुः सुहृत्तथा ।
आधारः सर्वभूतानां त्रैलोक्ये सचराचरे ॥६॥
एवं ज्ञात्वा तु ते सर्वे लोकपालाः कृतक्षणाः ।
तपस्ते चक्रुरतुलं मारुताहारतत्पराः ॥७॥
ततस्तुष्टो महादेवः कृतस्यार्द्धे गते तदा ।
अनुरूपेण राजेन्द्र युगस्य परमेश्वरः ॥८॥
वरेण छन्दयामास लोकपालान्महाबलान् ।
यो यमिच्छति कामं वै तं तं तस्य ददाम्यहम् ॥९॥
एतच्छ्रुत्वा वचस्तस्य लोकपाला जगद्धिताः ।
वरदं प्रार्थयामासुर्देवं वरमनुत्तमम् ॥१०॥

कुबेर उवाच -
यदि तुष्टो महादेव यदि देयो वरो मम ।
यक्षाणामीश्वरश्चाहं भवामि धनदस्त्विति ॥११॥
ततः प्रोवाच देवेशं यमः संयमने रतः ।
तत्र प्रधानो भगवान् भवेयं सर्वजन्तुषु ॥१२॥
वरुणोऽनन्तरं प्राह प्रणम्य तु महेश्वरम् ।
क्रीडेयं वारुणे लोके यादोगणसमन्वितः ॥१३॥
जगादाशु ततो वायुः प्रणम्य तु महेश्वरम् ।
व्यापकत्वं त्रिलोकेषु प्रार्थयामास भारत ॥१४॥
तेषां यदीप्सितं काममुमया सह शङ्करः ।
सर्वेषां लोकपालानः दत्त्वा चादर्शनं गतः ॥१५॥
गते महेश्वरे देवे यथास्थानं तु ते स्थिताः ।
स्थापना च कृता सर्वैः स्वनाम्नैव पृथक्पृथक् ॥१६॥
कुबेरश्च कुबेरेशं यमश्चैव यमेश्वरम् ।
वरुणो वरुणेशं तु वातो वातेश्वरं नृप ॥१७॥
तर्पणं विदधुः सर्वे मन्त्रैश्च विविधैः शुभैः ।
सर्वे सर्वेश्वरं देव पूजयित्वा यथाविधि ॥१८॥
आह्वयामासुस्तान् विप्रान्सर्वे सर्वेश्वरा इव ।
क्षान्तदान्तजितक्रोधान्सर्वभूताभयप्रदान् ॥१९॥
वेदविद्याव्रतस्नातान् सर्वशास्त्रविशारदान् ।
ऋग्यजुःसामसंयुक्तांस्तथाथर्वविभूषितान् ॥२०॥
चातुर्विध्यं तु सर्वेषां दानं दास्याम गृह्णत ।
एवमुक्त्वा तु सर्वेषां विप्राणां दानमुत्तमम् ॥२१॥
तत्र स्थाने ददुस्तेषां भूमिदानमनुत्तमम् ।
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥२२॥
तावद्दानं तु युष्माकं परिपन्थी न कश्चन ।
राजा वा राजतुल्यो वा लोकपालैरनुत्तमम् ॥२३॥
दत्तं लोपयते मूढः श्रूयतां तस्य यो विधिः ।
शोषयेद्धनदो वित्तं तस्य पापस्य भारत ॥२४॥
शरीरं वरुणो देवः संततीं श्वसनस्तथा ।
आयुर्नयति तस्याशु यमः संयमनो महान् ॥२५॥
निःशेषं भस्मसात्कृत्वा हुतभुग्याति भारत ।
तस्मात्सर्वप्रयत्नेन ब्राह्मणेभ्यो युधिष्ठिर ।
भक्तिः कार्या नृपैः सर्वैरिच्छद्भिः श्रेय आत्मनः ॥२६॥
राजा वृक्षो ब्राह्मणास्तस्य मूलं भृत्याः पर्णा मन्त्रिणस्तस्य शाखाः ।
तस्मान्मूलं यत्नतो रक्षणीयं मूले गुप्ते नास्ति वृक्षस्य नाशः ॥२७॥
षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः ।
आच्छेत्ता चावमन्ता च तान्येव नरके वसेत् ॥२८॥
स्वदत्ता परदत्ता वा पालनीया वसुंधरा ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥२९॥
देवताज्ञामनुस्मृत्य राजानो येऽपि तां नृप ।
पालयिष्यन्ति सततं तेषां वासस्त्रिविष्टपे ॥३०॥
स्वदत्ता परदत्ता वा यत्नाद्रक्ष्या युधिष्ठिर ।
मही महीक्षिता नित्यं दानाच्छ्रेयोऽनुपालनम् ॥३१॥
आयुर्यशो बलं वित्तं संततिश्चाक्षया नृप ।
तेषां भविष्यते नूनं ये प्रजापालने रताः ॥३२॥
एवमुक्त्वा तु तान् सर्वांल्लोकपालान् द्विजोत्तमान् ।
पूजयित्वा विधानेन प्रणिपत्य व्यसर्जयन् ॥३३॥
गतेषु विप्रमुख्येषु स्नात्वा हुतहुताशनाः ।
लोकपालाः क्षुधाविष्टाः पर्यटन्भैक्षमात्मनः ॥३४॥
अस्थिचर्मावशेषाङ्गाः कपालोद्धृतपाणयः ।
अलब्धग्रासमर्द्धार्धं निर्ययुर्नगराद्बहिः ॥३५॥
शापं दत्त्वा तदा क्रोधाद्ब्राह्मणाय युधिष्ठिर ।
दरिद्राः सततं मूर्खा भवेयुश्च ययुर्गृहान् ॥३६॥
तदाप्रभृति ते सर्वे ब्राह्मणा धनवर्जिताः ।
शापदोषेण कौबेर्यां संजाता दुःखभाजनाः ॥३७॥
न धनं पैतृकं पुत्रैर्न पिता पुत्रपौत्रिकम् ।
भुञ्जते सकलं कालमित्येवं शङ्करोऽब्रवीत् ॥३८॥
कुबेरेशे नरः स्नात्वा यस्तु पूजयते शिवम् ।
गन्धधूपनमस्कारैः सोऽश्वमेधफलं लभेत् ॥३९॥
यमतीर्थे तु यः स्नात्वा सम्पश्यति यमेश्वरम् ।
सर्वपापैः प्रमुच्येत सप्तजन्मान्तरार्जितैः ॥४०॥
पूर्णमास्याममावास्यां स्नात्वा तु पितृतर्पणम् ।
यः करोति तिलैः स्नानं तस्य पुण्यफलं शृणु ॥४१॥
सुतृप्तास्तेन तोयेन पितरश्च पितामहाः ।
स्वर्गस्था द्वादशाब्दानि क्रीडन्ति प्रपितामहाः ॥४२॥
वरुणेशे नरः स्नात्वा ह्यर्चयित्वा महेश्वरम् ।
वाजपेयस्य यज्ञस्य फलं प्राप्नोति पुष्कलम् ॥४३॥
मृतां कालेन महता लोके यत्र जलेश्वरः ।
स गच्छेत्तत्र यानेन गीयमानोऽप्सरोगणैः ॥४४॥
वातेश्वरे नरः स्नात्वा सम्पूज्य च महेश्वरम् ।
जायते कृतकृत्योऽसौ लोकपालानवेक्षयन् ॥४५॥
किं तस्य बहुभिर्यज्ञैर्दानैर्वा बहुदक्षिणैः ।
स्नात्वा चतुष्टये लोके अवाप्तं जन्मनः फलम् ॥४६॥
ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
नित्यं वसन्ति कौरिल्यां लोकपालान्निमन्त्र्य ये ॥४७॥
एतत्पुण्यं पापहरं धन्यमायुर्विवर्धनम् ।
पठतां शृण्वतां चैव सर्वपापक्षयो भवेत् ॥४८॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुबेरादितीर्थचतुष्टयमाहात्म्यवर्णनं नाम त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 15, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP