रेवा खण्डम् - अध्याय १७८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र गङ्गावाहकमुत्तमम् ।
नर्मदायां महापुण्यं भृगुतीर्थसमीपतः ॥१॥
तत्र गङ्गा महापुण्या चचार विपुलं तपः ।
पुरा वर्षशतं साग्रं परमं व्रतमास्थिता ॥२॥
ध्यात्वा देवं जगद्योनिं नारायणमकल्मषम् ।
आत्मानं परमं धाम सरित्सा जगतीपते ॥३॥
ततो जनार्दनो देव आगत्येदमुवाच ह ॥४॥
विष्णुरुवाच -
तपसा तव तुष्टोऽहं मत्पादाम्बुजसम्भवे ।
मत्तः किमिच्छसे देवि ब्रूहि किं करवाणि ते ॥५॥
गङ्गोवाच -
त्वत्पादकमलाद्भ्रष्टा गङ्गा सहचरा विभो ।
यदृच्छया त्रिलोकेश वन्द्यमाना दिवौकसैः ॥६॥
नृपो भगीरथस्तस्मात्तपः कृत्वा सुदुष्करम् ।
समाराध्य जगन्नाथं शङ्करं लोकशङ्करम् ॥७॥
अवतारयामास हि मां पृथिव्यां धरणीधर ।
मया वै युवयोर्वाक्यादवतारः कृतो भुवि ॥८॥
वैष्णवीमिति मां मत्वा जनः सर्वाप्लुतो मयि ।
ये वै ब्रह्मणो लोके ये च वै गुरुतल्पगाः ॥९॥
त्यागिनः पितृमातृभ्यां ये च स्वर्णहरा नराः ।
गोघ्ना ये मनुजा लोके तथा ये प्राणिहिंसकाः ॥१०॥
अगम्यागामिनो ये च ह्यभक्ष्यस्य च भक्षकाः ।
ये चानृतप्रवक्तारो ये च विश्वासघातकाः ॥११॥
देवब्राह्मणवित्तानां हर्तारो ये नराधमाः ।
देवब्रह्मगुरुस्त्रीणां ये च निन्दाकरा नराः ॥१२॥
ब्रह्मशापप्रदग्धा ये ये चैवात्महनो द्विजाः ।
भ्रष्टानशनसंन्यासनियतव्रतचारिणः ॥१३॥
तथैवापेयपेयाश्च ये च स्वगुरुनिन्दकाः ।
निषेधका ये दानानां पात्रदानपराङ्मुखाः ॥१४॥
ऋतुघ्ना ये स्वपत्नीनां पित्रोः सेहपरा न हि ।
बान्धवेषु च दीनेषु करुणा यस्य नास्ति वै ॥१५॥
क्षेत्रसेतुविभेदी च पूर्वमार्गप्रलोपकः ।
नास्तिकः शास्त्रहीनस्तु विप्रः सन्ध्याविवर्जितः ॥१६॥
अहुताशी ह्यसंतुष्टः सर्वाशी सर्वविक्रयी ।
कदर्या नास्तिकाः क्रूराः कृतघ्ना ये द्विजायः ॥१७॥
पैशुन्या रसविक्रेयाः सर्वकालविनाकृताः ।
स्वगोत्रां परगोत्रां वा ये भुञ्जन्ति द्विजाधमाः ॥१८॥
ते मां प्राप्य विमुच्यन्ते पापसङ्घैः सुसंचितैः ।
तत्पापक्षारतप्ताया न शर्म मम विद्यते ॥१९॥
तथा कुरु जगन्नाथ यथाहं शर्म चाप्नुयाम् ।
एवमुक्तस्तु देवेशस्तुष्टः प्रोवाच जाह्नवीम् ॥२०॥
विष्णुरुवाच -
अहमत्र वसिष्यामि गङ्गाधरसहायवान् ।
प्रविशस्व सदा रेवां त्वमत्रैव च मूर्तिना ॥२१॥
मम पादतलं प्राप्य वह त्रिपथगामिनि ।
यदा बहूदककाले नर्मदाजलसंभृता ॥२२॥
प्रावृट्कालं समासाद्य भविष्यति जलाकुला ।
प्लाव्योभयतटं देवी प्राप्य मामुत्तरस्थितम् ॥२३॥
प्लावयिष्यति तोयेन यदा शङ्खं करे स्थितम् ।
तदा पर्वशतोद्युक्तं वैष्णवं पर्वसंज्ञितम् ॥२४॥
न तेन सदृशं किंचिद्व्यतीपातादिसंक्रमम् ।
अयने द्वे च न तथा पुण्यात्पुण्यतरं यथा ॥२५॥
तस्मिन्पर्वणि देवेशि शङ्खं संस्पृश्य मानवः ।
स्नानमाचरते तोये मिश्रे गाङ्गेयनार्मदे ॥२६॥
पुण्यं त्वशेषपुण्यानां मङ्गलानां च मङ्गलम् ।
विष्णुना विधृतो येन तस्माच्छान्तिः प्रचक्रमे ॥२७॥
तत्रान्तं पापसङ्घस्य ध्रुवमाप्नोति मानवः ।
शङ्खोद्धारे नरः स्नात्वा तर्पयेत्पितृदेवताः ॥२८॥
तृप्तास्ते द्वादशाब्दानि सिद्धिं च सार्वकामिकीम् ।
गङ्गावहे तु यः श्राद्धं शङ्खोद्धारे प्रदास्यति ॥२९॥
तेन पिण्डप्रदानेन नृत्यन्ति पितरस्तथा ।
शङ्खोद्धारे नरः स्नात्वा पूजयेद्बलकेशवौ ॥३०॥
रात्रौ जागरणं कृत्वा शुद्धो भवति जाह्नवि ।
यत्त्वं लोककृतं कर्म मन्यसे भुवि दुःसहम् ॥३१॥
तस्मिन्पर्वणि तत्सर्वं तत्र स्नात्वा व्यपोहय ।
एवमुक्त्वा नरश्रेष्ठ विष्णुश्चान्तरधीयत ॥३२॥
तदाप्रभृति तत्तीर्थं गङ्गावाहकमुत्तमम् ।
ब्रह्माद्यैरृषिभिस्तात पारम्पर्यक्रमागतैः ॥३३॥
तत्र तीर्थे तु यः स्नात्वा भक्तिभावेन भारत ।
गङ्गातीर्थे तु स स्नातः समस्तेषु न संशयः ॥३४॥
तत्र तीर्थे मृतानां तु नराणां भावितात्मनाम् ।
अनिवर्तिका गतिस्तेषां विष्णुलोकात्कदाचन ॥३५॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गङ्गावहकतीर्थमाहात्म्यवर्णनं नामाष्टसप्तत्युत्तरशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 17, 2024
TOP