संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ८५ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ८५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ८५ Translation - भाषांतर श्रीमार्कण्डेय उवाच -ततो गच्छेत्तु राजेन्द्र नर्मदायाः पुरातनम् ।ब्रह्महत्याहरं तीर्थं वाराणस्या समं हि तत् ॥१॥युधिष्ठिर उवाच -आश्चर्यं कथ्यतां ब्रह्मन्यद्वृत्तं नर्मदातटे ।वाराणस्या समं कस्मादेतत्कथय मे प्रभो ॥२॥निमग्नो दुःखसंसारे हृतराज्यो द्विजोत्तम ।युष्मद्वाणीजलस्नातो निर्दुःखः सह बान्धवैः ॥३॥श्रीमार्कण्डेय उवाच -साधु साधु महाबाहो सोमवंशविभूषण ।पृष्टोऽस्मि दुर्लभं तीर्थं गुह्याद्गुह्यतरं परम् ॥४॥आदौ पितामहस्तावत्समस्तजगतः प्रभुः ।मनसा तस्य संजाता दशैव ऋषिपुंगवाः ॥५॥मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥६॥जज्ञे प्राचेतसं दक्षं महातेजाः प्रजापतिः ।दक्षस्यापि तथा जाताः पञ्चाशद्दुहिताः किल ॥७॥ददौ स दश धर्माय कश्यपाय त्रयोदश ।तथैव स महाभागः सप्तविंशतिमिन्दवे ॥८॥रोहिणी नाम या तासामभीष्टा साभवद्विधोः ।शेषासु करुणां कृत्वा शप्तो दक्षेण चन्द्रमाः ॥९॥क्षयरोग्यभवच्चन्द्रो दक्षस्यायं प्रजापतेः ।स च शापप्रभावेण निस्तेजाः शर्वरीपतिः ॥१०॥गतः पितामहं सोमो वेपमानोऽमृतांशुमान् ।पद्मयोने नमस्तुभ्यं वेदगर्भ नमोऽस्तु ते ।शरणं त्वां प्रसन्नोऽस्मि पाहि मां कमलासन ॥११॥ब्रह्मोवाच -निस्तेजाः शर्वरीनाथ कलाहीनश्च दृश्यसे ।उद्विग्नमानसस्तात संजातः केन हेतुना ॥१२॥सोम उवाच -दक्षशापेन मे ब्रह्मन्निस्तेजस्त्वं जगत्पते ।निर्हारश्चास्य शापस्य कथ्यतां मे पितामह ॥१३॥ब्रह्मोवाच -सर्वत्र सुलभा रेवा त्रिषु स्थानेषु दुर्लभा ।ओङ्कारेऽथ भृगुक्षेत्रे तथा चैवौर्वसंगमे ॥१४॥तत्र गच्छ क्षपानाथ यत्र रेवान्तरं तटम् ।त्वरितोऽसौ गतस्तत्र यत्र रेवौर्विसंगमः ॥१५॥काष्ठावस्थः स्थितः सोमो दध्यौ त्रिपुरवैरिणम् ।यावद्वर्षशतं पूर्णं तावत्तुष्टो महेश्वरः ॥१६॥प्रत्यक्षः सोमराजस्य वृषासन उमापतिः ।साष्टाङ्गं प्रणिपत्योच्चैर्जय शम्भो नमोऽस्तु ते ॥१७॥जय शङ्कर पापहराय नमो जय ईश्वर ते जगदीश नमः ।जय वासुकिभूषणधार नमो जय शूलकपालधराय नमः ॥१८॥जय अन्धकदेहविनाश नमो जय दानववृन्दवधाय नमः ।जय निष्कलरूप सकलाय नमो जय काल कामदहाय नमः ॥१९॥जय मेचककण्ठधराय नमो जय सूक्ष्मनिरञ्जनशब्द नमः ।जय आदिरनादिरनन्त नमो जय शङ्कर किंकरमीश भज ॥२०॥एवं स्तुतो महादेवः सोमराजेन पाण्डव ।तुष्टस्तस्य नृपश्रेष्ठ शिवया शङ्करोऽब्रवीत् ॥२१॥ईश्वर उवाच -वरं प्रार्थय मे भद्र यत्ते मनसि वर्तते ।साधु साधु महासत्त्व तुष्टोऽहं तपसा तव ॥२२॥सोम उवाच -दक्षशापेन दग्धोऽहं क्षीणसत्त्वो महेश्वर ।शापस्योपशमं देव कुरु शर्म मम प्रभो ॥२३॥ईश्वर उवाच -तव भक्तिगृहीतोऽहमुमया सह तोषितः ।निष्पापः सोमनाथस्त्वं संजातस्तीर्थसेवनात् ॥२४॥इत्यूचे देवदेवेशः क्षणं ध्यात्वेन्दुना ततः ।स्थापितं परमं लिङ्गं कामदं प्राणिनां भुवि ।सर्वदुःखहरं तत्तु ब्रह्महत्याविनाशनम् ॥२५॥युधिष्ठिर उवाच -सोमनाथप्रभावं मे संक्षेपात्कथय प्रभो ।दुःखार्णवनिमग्नानां त्राता प्राप्तो द्विजोत्तम ॥२६॥श्रीमार्कण्डेय उवाच -शृणु तीर्थप्रभावं ते संक्षेपात्कथयाम्यहम् ।यद्वृत्तमुत्तरे कूले रेवाया उरिसंगमे ॥२७॥शम्बरो नाम राजाभूत्तस्य पुत्रस्त्रिलोचनः ।त्रिलोचनसुतः कण्वः स पापर्द्धिपरोऽभवत् ॥२८॥वने नित्यं भ्रमन्सोऽथ मृगयूथं ददर्श ह ।मृगयूथं हतं तत्तु त्रिलोचनसुतेन च ॥२९॥मृगरूपी द्विजो मध्ये चरते निर्जने वने ।स हतस्तेन सङ्गेन कण्वेन मुनिसत्तम ॥३०॥ब्रह्महत्यान्वितः कण्वो निस्तेजा व्यचरन्महीम् ।व्यचरंश्चैव सम्प्राप्तो नर्मदामुरिसंगमे ॥३१॥किंशुकाशोकबहले जम्बीरपनसाकुले ।कदम्बपाटलाकीर्णे बिल्वनारङ्गशोभिते ॥३२॥चिञ्चिणीचम्पकोपेते ह्यगस्तितरुछादिते ।प्रभूतभूतसंयुक्तं वनं सर्वत्र शोभितम् ॥३३॥चित्रकैर्मृगमार्जारैर्हिंस्रैः शम्बरशूकरैः ।शशैर्गवयसंयुक्तैः शिखण्डिखरमण्डितम् ॥३४॥प्रविष्टस्तु वने कण्वस्तृषार्तः श्रमपीडितः ।स्नातो रेवाजले पुण्ये सङ्गमे पापनाशने ॥३५॥अर्चितः परया भक्त्या सोमनाथो युधिष्ठिर ।पपौ सुविमलं तोयं सर्वपापक्षयंकरम् ॥३६॥फलानि च विचित्राणि चखाद सह किंकरैः ।सुप्तः पादपच्छायायां श्रान्तो मृगवधेन च ॥३७॥तावत्तीर्थवरं विप्रः स्नानार्थं सङ्गमं गतः ।मार्गगो ब्राह्मणो हर्षोद्युक्तस्तद्गतमानसः ॥३८॥अबला तमुवाचेदं तिष्ठ तिष्ठ द्विजोत्तम ।त्रस्तो निरीक्षते यावद्दिशः सर्वा नरेश्वर ॥३९॥तावद्वृक्षसमारूढां स्त्रियं रक्ताम्बरावृताम् ।रक्तमाल्यां तदा बालां रक्तचन्दनचर्चिताम् ।रक्ताभरणशोभाढ्यां पाशहस्तां ददर्श ह ॥४०॥स्त्र्युवाच -संदेशं श्रूयतां विप्र यदि गच्छसि सङ्गमे ।मद्भर्ता तिष्ठते तत्र शीघ्रमेव विसर्जय ॥४१॥एकाकिनी च ते भार्या तिष्ठते वनमध्यगा ।इत्याकर्ण्य गतो विप्रः सङ्गमं सुरदुर्लभे ॥४२॥वृक्षच्छायान्वितः कण्वो ब्राह्मणेनावलोकितः ।उवाच तं प्रति तदा वचनं ब्राह्मणोत्तमः ॥४३॥ब्राह्मण उवाच -वनान्तरे मया दृष्टा बाला कमललोचना ।रक्ताम्बरधरा तन्वी रक्तचन्दनचर्चिता ॥४४॥रक्तमाल्या सुशोभाढ्या पाशहस्ता मृगेक्षणा ।वृक्षारूढावदद्वाक्यं मद्भर्ता प्रेष्यतामिति ॥४५॥कण्व उवाच -कस्मिन्स्थाने तु विप्रेन्द्र विद्यते मृगलोचना ।कस्य सा केन कार्येण सर्वमेतद्वदाशु मे ॥४६॥ब्राह्मण उवाच -सङ्गमादर्धक्रोशे सा उद्यानान्ते हि विद्यते ।वचनाद्ब्रह्मणस्यैषा न ज्ञाता पार्थिवेन तु ॥४७॥तदा स कण्वभूपालः स्वकं दूतं समादिशत् ।कण्व उवाच -गच्छ त्वं पृच्छतां तां क्वागता क्वच गमिष्यसि ।प्रेषितस्त्वरितो दूतो गतो नारीसमीपतः ॥४८॥वृक्षस्थां ददृशो बालामुवाच नृपसत्तम ।मन्नाथः पृच्छति त्वां तु कासि त्वं क्व गमिष्यसि ॥४९॥कन्योवाच -गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् ।इह प्रच्छन्न पापानां शास्ता वैवस्वतो यमः ॥५०॥ब्रह्महत्या च संजाता मृगरूपधरद्विजात् ।मया युक्तोऽपि ते राजा मुक्तस्तीर्थप्रभावतः ॥५१॥अर्धक्रोशान्तरान्मध्ये ब्रह्महत्या न संविशेत् ।सोमनाथप्रभावोऽयं वाराणस्याः समः स्मृतः ॥५२॥गच्छ त्वं प्रेष्यतां राजा शीघ्रमत्र न संशयः ।गतो भृत्यस्ततः शीघ्रं वेपमानः सुविह्वलः ॥५३॥समस्तं कथयामास यद्वृत्तं हि पुरातनम् ।तस्य वाक्यादसौ राजा पतितो धरणीतले ॥५४॥भृत्य उवाच -कस्मात्त्वं शोचसे नाथ पूर्वोपात्तं शुभाशुभम् ।इत्याकर्ण्य वचस्तस्य राजा वचनमब्रवीत् ॥५५॥प्राणत्यागं करिष्यामि सोमनाथसमीपतः ।शीघ्रमानीयतां वह्निरिन्धनानि बहूनि च ॥५६॥आनीतं तत्क्षणात्सर्वं भृत्यैस्तद्वशवर्तिभिः ।स्नानं कृत्वा शुभे तोये सङ्गमे पापनाशने ॥५७॥अर्चितः परया भक्त्या सोमनाथो महीभृता ।त्रिःप्रदक्षिणतः कृत्वा ज्वलन्तं जातवेदसम् ॥५८॥प्रविष्टः कण्वराजासौ हृदि ध्यात्वा जनार्दनम् ।पीताम्बरधरं देवं जटामुकुटधारिणम् ॥५९॥श्रिया युक्तं सुपर्णस्थं शङ्खचक्रगदाधरम् ।सुरारिसूदनं दध्यौ सुगतिर्मे भवत्विति ॥६०॥पपात पुष्पवृष्टिस्तु साधु साधु नृपात्मज ।आश्चर्यमतुलं दृष्ट्वा निरीक्ष्य च परस्परम् ॥६१॥मृतं तैः पावके भृत्यैर्हृदि ध्यात्वा गदाधरम् ।विमानस्थास्ततः सर्वे संजाताः पाण्डुनन्दन ॥६२॥निष्पापास्ते दिवं याताः सोमनाथप्रभावतः ।ब्राह्मणे सङ्गमे तत्र ध्यायमाने वृषध्वजम् ॥६३॥श्रीमार्कण्डेय उवाच -सोमनाथप्रभावोऽयं शृणुष्वैकमना विधिम् ।अष्टम्यां वा चतुर्दश्यां सर्वकालं रवेर्दिने ॥६४॥विशेषाच्छुक्लपक्षे चेत्सूर्यवारेण सप्तमी ।उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम् ॥६५॥पञ्चामृतेन गव्येन स्नापयेत्परमेश्वरम् ।श्रीखण्डेन ततो गुण्ठ्य पुष्पधूपादिकं ददेत् ॥६६॥घृतेन बोधयेद्दीपं नृत्यं गीतं च कारयेत् ।सोमवारे तथाष्टम्यां प्रभाते पूजयेद्द्विजान् ॥६७॥जितक्रोधानात्मवतः परनिन्दाविवर्जितान् ।सर्वाङ्गरुचिराञ्छस्तान् स्वदारपरिपालकान् ॥६८॥गायत्रीपाठमात्रांश्च विकर्मविरतान् सदा ।पुनर्भूवृषलीशूद्री चरेयुर्यस्य मन्दिरे ॥६९॥दूरतोऽसौ द्विजस्त्याज्य आत्मनः श्रेय इच्छता ।हीनाङ्गानतिरिक्ताङ्गान् येषां पूर्वापरं न हि ॥७०॥व्रते श्राद्धे तथा दाने दूरतस्तान् विवर्जयेत् ।आयसी तरुणी तुल्या द्विजाः स्वाध्यायवर्जिताः ॥७१॥आत्मानं सह याज्येन पातयन्ति न संशयः ।शाल्मलीनावतुल्याः स्युः षट्कर्मनिरता द्विजाः ॥७२॥दातारं च तथात्मानं तारयन्ति तरन्ति च ।श्राद्धं सोमेश्वरे पार्थ यः कुर्याद्गतमत्सरः ॥७३॥प्रेतास्तस्य हि सुप्रीता यावदाभूतसम्प्लवम् ।अन्नं वस्त्रं हिरण्यं च यो दद्यादग्रजन्मने ॥७४॥स याति शाङ्करे लोक इति मे सत्यभाषितम् ।हयं यो यच्छते तत्र सम्पूर्णं तरुणं सितम् ॥७५॥रक्तं वा पीतवर्णं वा सर्वलक्षणसंयुतम् ।कुङ्कुमेन विलिप्ताङ्गावग्रजन्महयावपि ॥७६॥स्रग्दामभूषितौ कार्यौ सितवस्त्रावगुण्ठितौ ।अङ्घ्रिः प्रदीयतां स्कन्धे मदीये हयमारुह ॥७७॥आरूढे ब्राह्मणे ब्रूयाद्भास्करः प्रीयतामिति ।स याति शांकरं लोकं सर्वपापविवर्जितः ॥७८॥उपरागे तु सोमस्य तीर्थं गत्वा जितेन्द्रियः ।सत्यलोकाच्च्युतश्चापि राजा भवति धार्मिकः ॥७९॥तस्य वासः सदा राजन्न नश्यति कदाचन ।दीर्घायुर्जायते पुत्रो भार्या च वशवर्तिनी ॥८०॥जीवेद्वर्षशतं साग्रं सर्वदुःखविवर्जितः ।सोपवासो जितक्रोधो धेनुं दद्याद्द्विजन्मने ॥८१॥सवत्सां क्षीरसंयुक्तां श्वेतवस्त्रावलोकिताम् ।शबलां पीतवर्णां च धूम्रां वा नीलकर्बुराम् ॥८२॥कपिलां वा सवत्सां च घण्टाभरणभूषिताम् ।रूप्यखुरां कांस्यदोहां स्वर्णशृङ्गीं नरेश्वर ॥८३॥श्वेतया वर्धते वंशो रक्ता सौभाग्यवर्धिनी ।शबला पीतवर्णा च दुःखघ्न्यौ संप्रकीर्तिते ॥८४॥कपिला नाशयेत्पापं सप्तजन्मसमुद्भवम् ।सत्यलोकमवाप्नोति गोप्रदायी नरेश्वर ॥८५॥पक्षान्तेऽथ व्यतीपाते वै धृतौ रविसंक्रमे ।दिनक्षये गजच्छायां ग्रहणे भास्करस्य च ॥८६॥ये व्रजन्ति महात्मानः सङ्गमे सुरदुर्लभे ।मृदावगुण्ठयित्वा तु चात्मानं सङ्गमे विशेत् ॥८७॥हृदयान्तर्जले जाप्या प्राणायामोऽथवा नृप ।गायत्री वैष्णवी चैव सौरी शैवी यदृच्छया ।तेऽपि पापैः प्रमुच्यन्त इत्येवं शङ्करोऽब्रवीत् ॥८८॥जगतीं सोमनाथस्य यस्तु कुर्यात्प्रदक्षिणाम् ।प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ॥८९॥ब्रह्महत्या सुरापानं गुरुदारनिषेवणम् ।भ्रूणहा स्वर्णहर्ता च मुच्यन्ते नात्र संशयः ॥९०॥तीर्थाख्यानमिदं पुण्यं यः शृणोति जितेन्द्रियः ।व्याधितो मुच्यते रोगी चारोगी सुखमाप्नुयात् ॥९१॥यत्ते संदह्यते चेतः शृणु तन्मे युधिष्ठिर ।नैकापि नृप लोकेऽस्मिन् भ्रूणहत्या सुदुस्त्यजा ॥९२॥किमु षड्विंशतिं पार्थ प्राप याः क्षणदाकरः ।सोऽपि तीर्थमिदं प्राप्य तपस्तप्त्वा सुदुश्चरम् ॥९३॥विमुक्तः सर्वपापेभ्यः शीतरश्मिरभूत्सुखी ।श्रूयते नृप पौराणी गाथा गीता महर्षिभिः ॥९४॥लिङ्गं प्रतिष्ठितं ह्येकं दशभ्रूणहनं भवेत् ।अतो लिङ्गत्रयं सोमः स्थापयामास भारत ॥९५॥रेवौरिसंगमे ह्याद्यं द्वितीयं भृगुकच्छके ।ततः सिद्धिं परां प्राप्य प्रभासे तु तृतीयकम् ॥९६॥इति ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् ।धर्म्यं यशस्यमायुष्यं स्वर्ग्यं संशुद्धिकृन्नृणाम् ॥९७॥पुत्रार्थी लभते पुत्रान्निष्कामः स्वर्गमाप्नुयात् ।मुच्यते सर्वपापेभ्यस्तीर्थं कृत्वा परं नृप ॥९८॥एतत्ते सर्वमाख्यातं सोमनाथस्य यत्फलम् ।श्रुत्वा पुत्रमवाप्नोति स्नात्वा चाष्टौ न संशयः ॥९९॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमनाथतीर्थमाहात्म्यवर्णनं नाम पञ्चाशीतितमोऽध्यायः ॥ N/A References : N/A Last Updated : December 12, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP