संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय १ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय १ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १ Translation - भाषांतर श्रीगणेशाय नमः ॥१॥ओं नमः श्रीपुरुषोत्तमाय ।ओं नमः श्रीनर्मदायै ।ओं नमो हरिहरहिरण्यगर्भेभ्यो नमो व्यासवाल्मीकिशुकपराशरेभ्यो नमो गुरुगोब्राह्मणेभ्यः ।ओं मज्जन्मातङ्गगण्डच्युतमदमदिरामोदमत्तालिमालं स्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम् ।सायं प्रातर्मुनीनां कुसुमचयसमाच्छन्नतीरस्थवृक्षं पायाद्वो नर्मदाम्भः करिमकरकराक्रान्तरहंस्तरंगम् ॥२॥उभयतटपुण्यतीर्था प्रक्षालितसकलललोकदुरितौघा ।देवमुनिमनुजवन्द्या हरतु सदा नर्मदा दुरितम् ॥३॥नाशयतु दुरितमखिलं भूतं भव्यं भवच्च भुवि भविनाम् ।सकलपवित्रि तव सुधा पुण्यजला नर्मदा भवति ॥४॥तटपुलिनं शिवदेवा यस्या यतयोऽपि कामयन्ते वा ।मुनिनिवहविहितसेवा शिवाय मम जायतां रेवा ॥५॥नारायणं नमस्कृत्वा नरं चैव नरोत्तमम् ।देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥६॥नैमिषे पुण्यनिलये नानाऋषिनिषेविते ।शौनकः सत्रमासीनः सूत पप्रच्छ विस्तरात् ॥७॥मन्येऽहं धर्मनैपुण्यं त्वयि सूत सदार्चितम् ।पुण्यामृतकथावक्ता व्याससशिष्यस्त्वमेव हि ॥८॥अतस्त्वां परिपृच्छामि धर्मतीर्थाश्रयं कवे ।बहूनि सन्ति तीर्थानि बहुशो मे श्रुतानि च ॥९॥श्रुता दिव्यनदी ब्राह्मी तथा विष्णुनदी मया ।तृतीया न मया क्वापि श्रुता रौद्री सरिद्वरा ॥१०॥तां वेदगर्भां विख्यातां विबुधौघाभिवन्दिताम् ।वद मे त्वं महाप्राज्ञ तीर्थपूगपरिष्कृताम् ॥११॥कं देशमाश्रिता रेवा कथं श्रीरुद्रसंभवा ।तत्संश्रितानि तीर्थानि यानि तानि वदस्व मे ॥१२॥सूत उवाच -साधु पृष्टं कुलपते चरित्रं नर्मदाश्रितम् ।चित्रं पवित्रं दोषघ्नं श्रुतमुक्तं च सत्तम ॥१३॥वेदोपवेदवेदाङ्गादीन्यभिव्यस्य पूरितः ।अष्टादशपुराणानां वक्ता सत्यवतीसुतः ॥१४॥तं नमस्कृत्य वक्ष्यामि पुराणानि यथाक्रमम् ।येषामभिव्याहरणादभिवृद्धिर्वृषायुषोः ॥१५॥श्रुतिः स्मृतिश्च विप्राणां चक्षुषी परिकीर्तिते ।काणस्तत्रैकया हीनो द्वाभ्यामन्धः प्रकीर्तितः ॥१६॥श्रुतिस्मृतिपुराणानि विदुषां लोचनत्रयम् ।यस्त्रिभिर्नयनैः पश्येत्सोऽंशो माहेश्वरो मतः ॥१७॥आत्मनो वेदविद्या च ईश्वरेण विनिर्मिता ।शौनकीया च पौराणी धर्मशास्त्रात्मिका च या ॥१८॥तिस्रो विद्या इमा मुख्याः सर्वशास्त्रविनिर्णये ।पुराणं पञ्चमो वेद इति ब्रह्मानुशासनम् ॥१९॥यो न वेद पुराणं हि न स वेदात्र किंचन ।कतमः स हि धर्मोऽस्ति किं वा ज्ञानं तथाविधम् ॥२०॥अन्यद्वा तत्किमत्राह पुराणे यन्न दृश्यते ।वेदाः प्रतिष्ठिताः पूर्वं पुराणे नात्र संशयः ॥२१॥बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ।इतिहासपुराणैश्च कृतोऽयं निश्चयः पुरा ॥२२॥आत्मा पुराणं वेदानां पृथगंगानि तानि षट् ।यच्च दृष्टं हि वेदेषु तद्दृष्टं स्मृतिभिः किल ॥२३॥उभाभ्यां यत्तु दृष्टं हि तत्पुराणेषु गीयते ।पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणः स्मृतम् ॥२४॥अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ।पुराणमेकमेवासीदस्मिन् कल्पान्तरे मुने ॥२५॥त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम् ।स्मृत्वा जगाद च मुनीन्प्रति देवश्चतुर्मुखः ॥२६॥प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः ।कालेनाग्रहणं दृष्ट्वा पुराणस्य ततो मुनिः ॥२७॥व्यासरूपं विभुः कृत्वा संहरेत्स युगे युगे ।अष्टलक्षप्रमाणे तु द्वापरे द्वापरे सदा ॥२८॥तदष्टादशधा कृत्वा भूलोकेऽस्मिन् प्रभाष्यते ।अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् ॥२९॥तथात्र चतुर्लक्षं संक्षेपेण निवेशितम् ।पुराणानि दशाष्टौ च साम्प्रतं तदिहोच्यते ।नामतस्तानि वक्ष्यामि शृणु त्वमृषिसत्तम ॥३०॥सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥३१॥ब्राह्मं पुराणं तत्राद्यं संहितायां विभूषितम् ।श्लोकानां दशसाहस्रं नानापुण्यकथायुतम् ॥३२॥पाद्मं च पञ्चपञ्चाशत्सहस्राणि निगद्यते ।तृतीयं वैष्णवंनाम त्रयोविंशतिसंख्यया ॥३३॥चतुर्थं वायुना प्रोक्तं वायवीयमिति स्मृतम् ।शिवभक्तिसमायोगाच्छैवं तच्चापराख्यया ॥३४॥चतुर्विंशतिसंख्यातं सहस्राणि तु शौनक ।चतुर्भिः पर्वभिः प्रोक्तं भविष्यं पञ्चमं तथा ॥३५॥चतुर्दशसहस्राणि तथा पञ्च शतानि तत् ।मार्कण्डं नवसाहस्रं षष्ठं तत्परिकीर्तितम् ॥३६॥आग्नेयं सप्तमं प्रोक्तं सहस्राणि तु षोडश ।अष्टमं नारदीयं तु प्रोक्तं वै पञ्चविंशतिः ॥३७॥नवमं भगवन्नाम भागद्वयविभूषितम् ।तदष्टादशसाहस्रं प्रोच्यते ग्रन्थसंख्यया ॥३८॥दशमं ब्रह्मवैवर्तं तावत्संख्यमिहोच्यते ।लैङ्गमेकादशं ज्ञेयं तथैकादशसंख्यया ॥३९॥भागद्वयं विरचितं तल्लिङ्गमृषिपुंगव ।चतुर्विंशतिसाहस्रं वाराहं द्वादशं विदुः ॥४०॥विभक्तं सप्तभिः खण्डैः स्कान्दं भाग्यवतां वर ।तदेकाशीतिसाहस्रं संख्यया वै निरूपितम् ॥४१॥ततस्तु वामनं नाम चतुर्दशतमं स्मृतम् ।संख्यया दशसाहस्रं प्रोक्तं कुलपते पुरा ॥४२॥कौर्मं पञ्चदशं प्राहुर्भागद्वयविभूषितम् ।दशसप्तसहस्राणि पुरा सांख्यपते कलौ ॥४३॥मात्स्यं मत्स्येन यत्प्रोक्तं मनवे षोडशं क्रमात् ।तच्चतुर्दशसाहस्रं संख्यया वदतां वर ॥४४॥गारुडं सप्तदशमं स्मृतं चैकोनविंशतिः ।अष्टादशं तु ब्रह्माण्डं भागद्वयविभूषितम् ॥४५॥तच्च द्वादशसाहस्रं शतमष्टसमन्वितम् ।तथैवोपपुराणानि यानि चोक्तानि वेधसा ॥४६॥इदं ब्रह्मपुराणस्य सुलभं सौरमुत्तमम् ।संहिताद्वयसंयुक्तं पुण्यं शिवकथाश्रयम् ॥४७॥आद्या सनत्कुमारोक्ता द्वितीया सूर्यभाषिता ।सनत्कुमारनाम्ना हि तद्विख्यातं महामुने ॥४८॥द्वितीयं नारसिंहं च पुराणे पाद्मसंज्ञिते ।शौकेयं हि तृतीयं तु पुराणे वैष्णवे मतम् ॥४९॥बार्हस्पत्यं चतुर्थं च वायव्यं संमतं सदा ।दौर्वाससं पञ्चमं च स्मृतं भागवते सदा ॥५०॥भविष्ये नारदोक्तं च सूरिभिः कथितं पुरा ।कापिलं मानवं चैव तथैवोशनसेरितम् ॥५१॥ब्रह्माण्डं वारुणं चाथ कालिकाद्वयमेव च ।माहेश्वरं तथा साम्बं सौरं सर्वार्थसंचयम् ॥५२॥पाराशरं भागवतं कौर्मं चाष्टादशं क्रमात् ।एतान्युपपुराणानि मयोक्तानि यथाक्रमम् ॥५३॥पुराणसंहितामेतां यः पठेद्वा शृणोति च ।सोऽनन्तपुण्यभागी स्यान्मृतो ब्रह्मपुरं व्रजेत् ॥५४॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पुराणसंहितावर्णनां प्रथमोऽध्यायः ॥ N/A References : N/A Last Updated : December 06, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP