रेवा खण्डम् - अध्याय १६४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज सांवौरं तीर्थमुत्तमम् ।
यत्र संनिहितो भानुः पूज्यमानः सुरासुरैः ॥१॥
तत्र ये पङ्गुतां प्राप्ताः शीर्णघ्राणनखा नराः ।
दद्रुमण्डलभिन्नाङ्गा मक्षिकाकृमिसंकुलाः ॥२॥
मातापितृभ्यां रहिता भ्रातृभार्याविवर्जिताः ।
अनाथा विकला व्यङ्गा मग्ना ये दुःखसागरे ॥३॥
तेषां नाथो जगद्योनिर्नर्मदातटमाश्रितः ।
सांवौरनाथो लोकानामार्तिहा दुःखनाशनः ॥४॥
तत्र तीर्थे तु यः स्नात्वा मासमेकं निरन्तरम् ।
पूजयेद्भास्करं देवं तस्य पुण्यफलं शृणु ॥५॥
यत्फलं चोत्तरे पार्थ तथा वै पूर्वसागरे ।
दक्षिणे पश्चिमे स्नात्वा तत्र तीर्थे तु तत्फलम् ॥६॥
कौमारे यौवने पापं वार्द्धके यच्च संचितम् ।
तत्प्रणश्यति सांवौरे स्नानमात्रान्न संशयः ॥७॥
न व्याधिर्नैव दारिद्र्यं न चैवेष्टवियोजनम् ।
सप्तजन्मानि राजेन्द्र सांवौरपरिसेवनात् ॥८॥
सप्तम्यामुपवासेन तद्दिने चाप्युपोषिते ।
स तत्फलमवाप्नोति तत्र स्नात्वा न संशयः ॥९॥
रक्तचन्दनमिश्रेण यदर्घ्येण फलं स्मृतम् ।
तत्र तीर्थे नृपश्रेष्ठ स्नात्वा तत्फलमाप्नुयात् ॥१०॥
नर्मदासलिलं रम्यं सर्वपातकनाशनम् ।
निरीक्षितं विशेषेण सांवौरेण महात्मना ॥११॥
ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
स्नात्वा पश्यन्ति देवेशं सांवौरेश्वरमुत्तमम् ॥१२॥
सूर्यलोके वसेत्तावद्यावदाभूतसम्प्लवम् ॥१३॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सांवौरेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःषष्ट्युत्तरशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 17, 2024
TOP