संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्| अध्याय ७२ रेवा खण्डम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ विषयानुक्रमणिका विषयानुक्रमणिका रेवा खण्डम् - अध्याय ७२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ७२ Translation - भाषांतर श्रीमार्कण्डेय उवाच -ततो गच्छेत्तु राजेन्द्र मणिनागेश्वरं शुभम् ।उत्तरे नर्मदाकूले सर्वपापक्षयंकरम् ।स्थापितं मणिनागेन लोकानां हितकाम्यया ॥१॥युधिष्ठिर उवाच -आशीविषेण सर्पेण ईश्वरस्तोषितः कथम् ।क्षुद्राः सर्वस्य लोकस्य भयदा विषशालिनः ॥२॥कथ्यतां तात मे सर्वं पातकस्योपशान्तिदम् ।मम सन्तापजं दुःखं दुर्योधनसमुद्भवम् ॥३॥कर्णभीष्मोद्भवं रौद्रं दुःखं पाञ्चालिसम्भवम् ।तव वक्त्राम्बुजौघेन प्लावितं निर्वृतिं गतः ॥४॥श्रुत्वा तव मुखोद्गीतां कथां वै पापनाशिनीम् ।अयुक्तमिदमस्माकं द्विज क्लेशो न शाम्यति ॥५॥अथवा प्राप्स्यते तात विद्यादानस्य यत्फलम् ।तत्फलं प्राप्यते नित्यं कथाश्रवणतो हरेः ॥६॥श्रीमार्कण्डेय उवाच -यथायथा त्वं नृप भाषसे च तथातथा मे सुखमेति भारती ।शैथिल्यता वा जरयान्वितस्य त्वत्सौहृदं नश्यति नैव तात ।शृणुष्व तस्मात्सह बान्धवैश्च कथामिमां पापहरां प्रशस्ताम् ॥७॥कथयामि यथावृत्तमितिहासं पुरातनम् ॥८॥कथितं पूर्वतो वृत्तैः पारम्पर्येण भारत ॥९॥द्वे भार्ये कश्यपस्यास्तां सर्वलोकेष्वनुत्तमे ।गरुत्मन्तं च विनतासूत कद्रूरहीनथ ॥१०॥संतोषेण च ते तात तिष्ठतः काश्यपे गृहे ।कद्रूश्च विनता नाम हृष्टे च वनिते सदा ॥११॥ताभ्यां सार्द्धं क्रीडते च कश्यपोऽपि प्रजापतिः ।ततस्त्वेकदिने प्राप्ते आश्रमस्था शुभानना ॥१२॥उच्चैःश्रवं हयं दृष्ट्वा मनोवेगसमन्वितम् ।पश्य पश्य हि तन्वङ्गी हयं सर्वत्र पाण्डुरम् ॥१३॥धावमानमविश्रान्तं जवेन मनसोपमम् ।तं दृष्ट्वा सहसा चाश्वमीर्ष्याभावेन चाब्रवीत् ॥१४॥कद्रूरुवाच -ब्रूहि भद्रे सहस्रांशोरश्वः किंवर्णको भवेत् ।अहं ब्रवीमि कृष्णोऽयं त्वं किं वदसि तद्वद ॥१५॥विनतोवाच -पश्यसे ननु नेत्रैश्च कृष्णं श्वेतं न पश्यसि ।असत्यभाषणाद्भद्रे यमलोकं गमिष्यसि ॥१६॥सत्यानृते तु वचने पणस्तव ममैव तु ।सहस्रं चैव वर्षाणां दास्यहं तव मन्दिरे ॥१७॥असत्या यदि मे वाणी कृष्ण उच्चैःश्रवा यदि ।तदाहं त्वद्गृहे दासी भवामि सर्पमातृके ॥१८॥यदि उच्चैःश्रवाः श्वेतोऽहं दासी च तवैव तु ।एवं परस्परं द्वाभ्यां संवादोऽयं व्यवर्धत ॥१९॥आश्रमेषु गता बाला रात्रौ चिन्तापरा स्थिता ।बन्धुवर्गस्य कथितं समस्तं तद्विचेष्टितम् ॥२०॥पुत्राणां कथितं पार्थ पणं चैव मया कृतम् ।हाहाकारः कृतः सर्पैः श्रुत्वा मात्रा पणं कृतम् ॥२१॥जाता दासी न सन्देहः श्वेतो भास्करवाहनः ।उच्चैःश्रवा हयः श्वेतो न कृष्णो विद्यते क्वचित् ॥२२॥कद्रूरुवाच -यथाहं न भवे दासी तत्कार्यं च विचिन्त्यताम् ।विशध्वं रोमकूपेषु ह्युच्चैःश्रवहयस्य तु ॥२३॥एकं मुहूर्तमात्रं तु यावत्कृष्णः स दृश्यते ।क्षणमात्रेण चैकेन दासी सा भवते मम ॥२४॥दासीं कृत्वा तु तां तन्वीं विनतां सत्यगर्विताम् ।ततः स्वस्थानगाः सर्वे भविष्यथ यथासुखम् ॥२५॥सर्पा ऊचुः ।यथा त्वं जननी चाम्ब सर्वेषां भुवि पूजिता ।तथा सापि विशेषेण वञ्चितव्या न मातरः ॥२६॥माता च पितृभार्या च मातृमाता पितामही ।कर्मणा मनसा वाचा हितं तासां समाचरेत् ॥२७॥सा ततस्तेन वाक्येन क्रुद्धा कालानलोपमा ।मम वाक्यमकुर्वाणा ये केचिद्भुवि पन्नगाः ॥२८॥हव्यवाहमुखे सर्वे ते यास्यन्त्यविचारितम् ।मातुस्तद्वचनं श्रुत्वा सर्वे चैव भुजङ्गमाः ॥२९॥केचित्प्रविष्टा रोमेषु उच्चैःश्रवहयस्य च ।नष्टाः केचिद्दशदिशं कद्रूशापभयात्ततः ॥३०॥केचिद्गङ्गाजले नष्टाः केचिन्नष्टाः सरस्वतीम् ।केचिन्महोदधौ लीनाः प्रविष्टा विन्ध्यकन्दरे ॥३१॥आश्रित्य नर्मदातोये मणिनागोत्तमो नृप ।तपश्चचार विपुलमुत्तरे नर्मदातटे ॥३२॥मातृशापभयात्पार्थ ध्यायते कामनाशनम् ।अच्छेद्यमप्रतर्क्यं च विनाशोत्पत्तिवर्जितम् ॥३३॥वायुभक्षः शतं साग्रं तदर्धं रविवीक्षकः ।एवं ध्यानरतस्यैव प्रत्यक्षस्त्रिपुरान्तकः ॥३४॥साधु साधु महाभाग सत्त्ववांस्तु भुजंगम ।त्वया भक्त्या गृहीतोऽहं प्रीतस्ते ह्युरगेश्वर ।वरं याचय मे क्षिप्रं यस्ते मनसि वर्तते ॥३५॥मणिनाग उवाच -मातृशापभयान्नाथ क्लिष्टोऽहं नर्मदातटे ।त्वत्प्रसादेन मे नाथ मातृशापो भवेद्वृथा ॥३६॥ईश्वर उवाच -हव्यवाहमुखं वत्स न प्राप्स्यसि ममाज्ञया ।मम लोके निवासश्च तव पुत्र भविष्यति ॥३७॥मणिनाग उवाच -अत्र स्थाने महादेव स्थीयतामंशभागतः ।सहस्रांशेन भागेन स्थीयतां नर्मदाजले ।उपकाराय लोकानां मम नाम्नैव शङ्कर ॥३८॥ईश्वर उवाच -स्थापयस्व परं लिङ्गमाज्ञया मम पन्नग ।इत्युक्त्वान्तर्हितो देवो जगाम ह्युमया सह ॥३९॥मार्कण्डेय उवाच -तत्र तीर्थे तु ये गत्वा शुचिप्रयतमानसाः ।पञ्चम्यां वा चतुर्दश्यामष्टम्यां शुक्लकृष्णयोः ॥४०॥अर्चयन्ति सदा पार्थ नोपसर्पन्ति ते यमम् ।दध्ना च मधुना चैव घृतेन क्षीरयोगतः ॥४१॥स्नापयन्ति विरूपाक्षमुमादेहार्धधारिणम् ।कामाङ्गदहनं देवमघासुरनिषूदनम् ॥४२॥स्नाप्यमानं च ये भक्त्वा पश्यन्ति परमेश्वरम् ।ते यान्ति च परे लोके सर्वपापविवर्जितैः ॥४३॥श्राद्धं प्रेतेषु ये पार्थ चाष्टम्यां पञ्चमीषु च ।ब्राह्मणैश्च सदा योग्यैर्वेदपाठकचिन्तकैः ॥४४॥स्वदारनिरतैः श्लक्ष्णैः परदारविवर्जितैः ।षट्कर्मनिरतैस्तात शूद्रप्रेषणवर्जितैः ॥४५॥खञ्जाश्च दर्दुराः षण्ढा वार्द्धुष्याश्च कृषीवलाः ।भिन्नवृत्तिकराः पुत्र नियोज्या न कदाचन ॥४६॥वृषलीमन्दिरे यस्य महिषीं यस्तु पालयेत् ।स विप्रो दूरतस्त्याज्यो व्रते श्राद्धे नराधिप ॥४७॥काणाष्टुंटाश्च मण्टाश्च वेदपाठविवर्जिताः ।न ते पूज्या द्विजाः पार्थ मणिनागेश्वरे शुभे ॥४८॥यदीच्छेदूर्ध्वगमनमात्मनः पितृभिः सह ।सर्वाङ्गरुचिरां धेनुं यो दद्यादग्रजन्मने ॥४९॥स याति परमं लोकं यावदाभूतसम्प्लवम् ।ततः स्वर्गाच्च्युतः सोऽपि जायते विमले कुले ॥५०॥ये पश्यन्ति परं भक्त्या मणिनागेश्वरं नृप ।न तेषां जायते वंशे पन्नगानां भयं नृप ॥५१॥पन्नगः शङ्कते तेषां मणिनागप्रदर्शनात् ।सौपर्णरूपिणस्ते वै दृश्यन्ते नागमण्डले ॥५२॥फलानि चैव दानानां शृणुष्वाथ नृपोत्तम ।अन्नं संस्कारसंयुक्तं ये ददन्ते नरोत्तमाः ॥५३॥तोयं शय्यां तथा छत्रं कन्यां दासीं सुभाषिणीम् ।पात्रे देयं यतो राजन् यदीच्छेच्छ्रेय आत्मनः ॥५४॥सुरभीणि च पुष्पाणि गन्धवस्त्राणि दापयेत् ।दीपं धान्यं गृहं शुभ्रं सर्वोपस्करसंयुतम् ॥५५॥ये ददन्ते परं भक्त्या ते व्रजन्ति त्रिविष्टपम् ।मणिनागे नृपश्रेष्ठ यच्च दानं प्रदीयते ॥५६॥तस्य दानस्य भावेन स्वर्गे वासो भवेद्ध्रुवम् ।पातकानि प्रलीयन्ते आमपात्रे यथा जलम् ॥५७॥नर्मदातोयसंसिद्धं भोज्यं विप्रे ददाति यः ।सोऽपि पापैर्विनिर्मुक्तः क्रीडते दैवतैः सह ॥५८॥ततः स्वर्गच्युतानां हि लक्षणं प्रवदाम्यहम् ।दीर्घायुषो जीवपुत्रा धनवन्तः सुशोभनाः ॥५९॥सर्वव्याधिविनिर्मुक्ताः सुतभृत्यैः समन्विताः ।त्यागिनो भोगसंयुक्ता धर्माख्यानरताः सदा ॥६०॥देवद्विजगुरोर्भक्तास्तीर्थसेवापरायणाः ।मातापितृवशा नित्यं द्रोहक्रोधविवर्जिताः ॥६१॥एभिरेव गुणैर्युक्ता ये नराः पाण्डुनन्दन ।सत्यं ते स्वर्गादायाताः स्वर्गे वासं व्रजन्ति ते ॥६२॥सर्वतीर्थवरं तीर्थं मणिनागं नृपोत्तम ।तीर्थाख्यानमिदं पुण्यं यः पठेच्छृणुयादपि ॥६३॥सोऽपि पापैर्विनिर्मुक्तः शिवलोके महीयते ।न विषं क्रमते तेषां विचरन्ति यथेच्छया ॥६४॥भाद्रपद्यां च यत्षष्ठ्यां पुण्यं सूर्यस्य दर्शने ।तत्फलं समवाप्नोति आख्यानश्रवणेन तु ॥६५॥॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मणिनागेश्वरतीर्थमाहात्म्यवर्णनं नाम द्विसप्ततितमोऽध्यायः ॥ N/A References : N/A Last Updated : December 11, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP