रेवा खण्डम् - अध्याय ११३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र कोटितीर्थमनुत्तमम् ।
ऋषिकोटिर्गता तत्र परां सिद्धिमुपागता ॥१॥
तत्र तीर्थे तु यः स्नात्वा भोजयेद्ब्राह्मणाञ्छुचिः ।
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥२॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ।
पूजिते तु महादेवे वाजपेयफलं लभेत् ॥३॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नाम त्रयोदशाधिकशाततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : December 15, 2024
TOP